________________
४१५
अथ पञ्चममध्ययनं पञ्चस्थानकम् ।
[प्रथम उद्देशकः ।] [सू० ३८९] पंच महव्वता पन्नत्ता, तंजहा-सव्वातो पाणातिवातातो वेरमणं जाव सव्वातो परिग्गहातो वेरमणं । पंचाणुव्वता पन्नत्ता, तंजहाथूलातो पाणातिवातातो वेरमणं, थूलातो मुसावायातो वेरमणं, थूलातो अदिनादाणातो वेरमणं, सदारसंतोसे, इच्छापरिमाणे ।
[टी०] व्याख्यातं चतुर्थमध्ययनम्, साम्प्रतं सङ्ख्याक्रमसम्बद्धमेव पञ्चस्थानकाख्यं पञ्चममध्ययनं व्याख्यायते, अस्य चायं विशेषाभिसम्बन्ध:-इहानन्तराध्ययने जीवाजीवतद्धख्यिा : पदार्थाश्चतु:स्थानकावतारणेनाभिहिता:, इह तु त एव पञ्चस्थानकावतारणेनाभिधीयन्ते इत्यनेनाभिसम्बन्धेनायातस्यास्योद्देशकत्रयवतश्चतुरनुयोगद्वारवतोऽध्ययनस्य प्रथमोद्देशको व्याख्यायते, अस्य च पूर्वोद्देशकेन सह सम्बन्धोऽधिकृताध्ययनवद् द्रष्टव्यः, तस्य चेदमादिसूत्रम्- पंच महव्वयेत्यादि । ___ अस्य च पूर्वसूत्रेण सहायं सम्बन्ध:- पूर्वसूत्रे अजीवानां परिणामविशेष उक्तः, इह तु स एव जीवानामुच्यत इत्येवंसम्बन्धस्यास्य व्याख्या संहितादिक्रमेण, स च क्षुण्ण एव, नवरं पञ्चेति सङ्ख्यान्तरव्यवच्छेदः, तेन न चत्वारि, प्रथम-पश्चिमतीर्थयो: पञ्चानामेव भावात्, महान्ति बृहन्ति तानि च तानि व्रतानि च नियमा महाव्रतानि, प्रज्ञप्तानि तथाविधशिष्यापेक्षया प्ररूपितानि महावीरेणाऽऽद्यतीर्थकरेण च न शेषैरिति, एतत् किल सुधर्मस्वामी जम्बूस्वामिनं प्रति प्रतिपादयामास । तद्यथा- सर्वस्मात् निरवशेषात् त्रस-स्थावर-सूक्ष्म-बादरभेदभिन्नात् कृत-कारिताऽनुमतिभेदाच्चेत्यर्थः । प्राणानाम् इन्द्रियोच्छ्वासायुरादीनामतिपात: प्राणिनः सकाशाद्विभ्रंश: प्राणातिपात:, प्राणिप्राणवियोजनमित्यर्थः, तस्माद् विरमणं सम्यग्ज्ञान-श्रद्धानपूर्वकं निवर्त्तनमिति । तथा सर्वस्मात् सद्भावप्रतिषेधा १-ऽसद्भावोद्भावन २-अर्थान्तरोक्ति ३-गर्हा४भेदात् कृतादिभेदाच्च, मृषा अलीकं वदनं वादो मृषावादः, तस्माद् विरमणं विरतिरिति। तथा सर्वस्मात् कृतादिभेदात् अथवा द्रव्यत: सचेतना-ऽचेतनद्रव्यविषयात् क्षेत्रतो ग्राम-नगरा-ऽरण्यादिसम्भवात् कालतोऽतीतादे रात्र्यादिप्रभवाद्वा भावतो राग-द्वेष