________________
दशममध्ययनं दशस्थानकम् ।
केति तहारूवं समणं वा माहणं वा अच्चासातेमाणे तेतं निसिरेजा, से त तत्थ णो कमति णो पक्कमति, अंचिंअंचिं(अंचिअंचि ?) करेति, करेत्ता आताहिणपयाहिणं करेति, करेत्ता उ8 वेहासं उप्पतति, उप्पतेत्ता से णं ततो पडिहते पडिणियत्तति, पडिणियत्तेत्ता तमेव सरीरगमणुदहमाणे अणुदहमाणे सह तेतसा भासं कुज्जा जहा वा गोसालस्स मंखलिपुत्तस्स तवे तेते १०॥
[टी०] प्राग्देवानामावासा उक्ताः, देवाश्च महर्द्धिका भवन्त्यतो देवानां मुनीनां च महर्द्धिकतोपवर्णनाय तेजोनिसर्गप्रकारप्रतिपादनायाह- दसहीत्यादि, दशभिः स्थानैः प्रकारैः सह सार्द्ध तेजसा तेजोलेश्यया वर्तमानमनार्यं भासं ति भस्मेव भस्मवत् कुर्यात् विनाशयेदित्यर्थः, श्रमण इति गम्यते, तद्यथा- केइ त्ति कश्चिदनार्यकर्मकारी पापात्मा तथारूपं तेजोलब्धिप्राप्तं श्रमणं तपोयुक्तं माहनं ‘मा हन, मा विनाशय' इत्येवंप्ररूपणाकारिणम्, वाशब्दौ विशेषणसमुच्चयार्थी, अत्याशातयेद् आत्यन्तिकीमाशातनां तस्य कुर्यात्, से य त्ति स च श्रमणोऽत्याशातित: उपसर्गितः परिकुपित: सर्वथा क्रुद्धः सन् तस्स त्ति उपसर्गकर्तुरुपरि तेजः तेजोलेश्यारूपं निसृजेत् क्षिपेत्, से त्ति स श्रमण: तमित्युपसर्गकारिणं परितापयति पीडयति, तं परिताप्य तामेव त्ति तमेव तेजसा परितापितम्, दीर्घत्वं प्राकृतत्वात्, सह अपेर्गम्यमानत्वात् तेजसापि, तेजोलेश्यायुक्तमपीत्यर्थः बलवत्त्वात् साधुतेजस इति, भासं कुज त्ति प्रसिद्धमित्येकम् । शेषाणि नवापि सुगमानि, नवरं से य अच्चासाइयत्ति स च मुनिरत्याशातितस्तदनन्तरमेव च तत्पक्षपाती देवः परिकुपितः सन् तं भस्म कुर्यादिति द्वितीयम्, उभावपि परिकुपितौ ते दुहओ त्ति तौ द्वौ मुनि-देवौ पडिन्न त्ति उपसर्गकारिणो भस्मकरणं प्रति प्रतिज्ञायोगात् प्रतिज्ञौ कृतप्रतिज्ञौ हन्तव्योऽयमित्यभ्युपगताविति यावदिति तृतीयम्, चतुर्थे श्रमणस्तेजोनिसर्गं कुर्यात्, पञ्चमे देवः, षष्ठे उभाविति, केवलमयं विशेष:- तत्रेति उपसर्गकारिणि स्फोटा: स्फोटकाः समुत्पद्येरन् अग्निदग्धे इव, ते च स्फोटकाः भिद्यन्ते स्फुटन्ति, ततस्ते भिन्नाः सन्तस्तमेवोपसर्गकारिणं सह तेजसा तेजोलेश्यावन्तमपि श्रमण-देवतेजसोर्बलवत्त्वात् तत्तेजसोपहननीयत्वाद् भस्म कुर्युः निपातयेयुरिति । सप्तमाष्टमनवमेष्वपि तथैव, नवरं तत्र स्फोटाः सम्मूर्च्छन्ति भिद्यन्ते च, ततस्तत्र