________________
५२७
षष्ठमध्ययनं षट्स्थानकम् ।
चंदस्सेत्यादि व्यक्तम्, नवरं पुव्वंभाग त्ति पूर्वमिति पूर्वभागेनाग्रेणेत्यर्थः, भज्यन्ते अप्राप्तेनैव चन्द्रेण सेव्यन्ते युज्यन्ते इति यावदिति पूर्वभागानि, अनुस्वारश्च प्राकृतत्वादिति, चन्द्रस्याग्रयोगीनि, चन्द्र एतान्यप्राप्तो भुङ्क्त इति लोकश्रीप्रोक्ता भावनेति, उक्तं च
पुव्वा तिन्निय मूलो मह कित्तिय अग्गिमा जोगा [ ] इति ।
समं स्थूलन्यायमाश्रित्य त्रिंशन्मुहूर्त्तभोग्यं क्षेत्रम् आकाशदेशलक्षणं येषां तानि समक्षेत्राणि, अत एवाह—- त्रिंशन्मुहूर्त्तानि त्रिंशतं मुहूर्तांश्चन्द्रभोगो येषां तानि तथा। णत्तंभाग त्ति नक्तंभागानि चन्द्रस्य समयोगीनीत्यर्थः, उक्तं च- अद्दाऽसेसा साई सभमभिई जेट्ठ समजोगा [ 1 केवलं भरणीस्थाने लोकश्रीसूत्रे अभिजिदुक्तेति मतविशेषो दृश्यत इति, अपार्द्धं समक्षेत्रापेक्षया अर्द्धमेव क्षेत्रं येषां तानि तथा । अर्द्धक्षेत्रत्वमेवाह- पञ्चदशमुहूर्त्तानीति । उभयंभाग त्ति चन्द्रेणोभयतः उभयभागाभ्यां पूर्वतः पश्चाच्चेत्यर्थः, भज्यन्ते भुज्यन्ते यानि तान्युभयभागानि, चन्द्रस्य पूर्वतः पृष्ठतश्च भोगमुपगच्छन्तीत्यर्थः इति भावना लोकश्रीभणितेति, उक्तं च- उत्तर तिन्निविसाह पुणव्वसू रोहिणी उभयजोगा ।। [ 1 | इति । द्वितीयमपार्द्धं यत्र तत् द्व्यपाईं सार्द्धमित्यर्थः, क्षेत्रं येषां तानि तथा, यतः पञ्चचत्वारिंशन्मुहूर्त्तानीति । अन्यानि दश पश्चिमयोगानि । पूर्वभागादिनक्षत्राणां गुणोऽयम्
उक्तक्रमेण नक्षत्रैर्युज्यमानस्तु चन्द्रमाः ।
सुभिक्षकृद्विपरीतं युज्यमानोऽन्यथा भवेत् ।। [ ] इति ।
[सू० ५१८ ] अभिचंदे णं कुलकरे छ धणुसयाई उड्डउच्चत्तेणं होत्था । [सू० ५१९] भरहे णं राया चाउरंतचक्कवट्टी छ पुव्वसतसहस्साइं महाराया
था ।
[सू० ५२०] पासस्स णं अरहतो पुरिसादाणीयस्स छस्सता वादीणं सदेवमणुयासुराते परिसाते अपराजिताणं संपया होत्था ।
वासुपुज्जेणं अरहा छहिं पुरिससतेहिं सद्धिं मुंडे जाव पव्वते । चंदप्पभे णं अरहा छम्मासा छउमत्थे होत्था ।