________________
५२८
[टी०] अनन्तरं चन्द्रव्यतिकर उक्त इति किञ्चिच्छब्दसाम्यात्तद्वर्णसाम्यावा अभिचन्द्रकुलकरसूत्रम्, तद्वंशजन्मसम्बन्धाद् भरतसूत्रं पार्श्वनाथसूत्रं च, जिनसाधाद् वासुपूज्यसूत्रं चन्द्रप्रभसूत्रं चाह– अभिचंदेत्यादि, सुगमानि चैतानि, नवरम् अभिचन्द्रोऽमुष्यामवसर्पिण्यां चतुर्थ: कुलकरः । चाउरंत त्ति चत्वारोऽन्ता: समुद्रत्रयहिमवल्लक्षणा यस्यां सा चतुरन्ता पृथ्वी, तस्या अयं स्वामीति चातुरन्त:, स चासौ चक्रवर्ती चेति चातुरन्तचक्रवर्ती । षट् पूर्वशतसहस्राणि तल्लक्षाणि, पूर्वं तु चतुरशीतिवर्षलक्षाणां तद्गुणेति। आदाणीयस्स त्ति आदीयते उपादीयते इत्यादानीयः उपादेय इत्यर्थः, पुरुषाणां मध्ये आदानीयः पुरुषश्चासावादानीयश्चेति वा पुरुषादानीयस्तस्य । चन्द्रप्रभस्य षण्मासानिह छद्मस्थपर्यायो दृश्यते, आवश्यके तु पद्मप्रभस्यासौ पठ्यते, चन्द्रप्रभस्य तु त्रीनिति मतान्तरमिदमिति । __ [सू० ५२१] तेइंदिया णं जीवा असमारभमाणस्स छव्विधे संजमे कजति, तंजहा-घाणामातो सोक्खातो अववरोवेत्ता भवति, घाणामतेणं दुक्खेणं असंजोगेत्ता भवति, जिब्भामातो सोक्खातो अववरोवेत्ता भवति एवं चेव, एवं फासामातो वि ।
तेइंदिया णं जीवा समारभमाणस्स छव्विहे असंजमे कजति, तंजहाघाणामातो सोक्खातो ववरोवेत्ता भवति, घाणामएणं दुक्खेणं संजोगेत्ता भवति, जाव फासामतेणं दक्खेणं संजोगेत्ता भवति ।
[टी०] छद्मस्थश्चेन्द्रियोपयोगवान् भवतीतीन्द्रियप्रत्यासत्या त्रीन्द्रियाश्रितं संयममसंयम च प्रतिपादयन् सूत्रद्वयमाह- तेइंदियेत्यादि कण्ठ्यम्, नवरम् असमारभमाणस्स त्ति अव्यापादयत:, घाणामाउ त्ति घ्राणमयात् सौख्यात् गन्धोपादानरूपात् अव्यपरोपयिता अभ्रंशकः, घ्राणमयेन गन्धोपलम्भाभावरूपेण दुःखेनासंयोजयिता भवति, इह चाव्यपरोपणमसंयोजनं च संयमोऽनाश्रवरूपत्वादितरदसंयम इति ।
[सू० ५२२] जंबूदीवे दीवे छ अकम्मभूमीओ पन्नत्ताओ, तंजहा-हेमवते, हेरण्णवते, हरिवस्से, रम्मगवस्से, देवकुरा, उत्तरकुरा १ ।
जंबूदीवे दीवे छव्वासा पन्नत्ता, तंजहा-भरहे, एरवते, हेमवते, हेरन्नवए,