________________
दशममध्ययनं दशस्थानकम् ।
७३३
[सू० ७५३] नेरइया णं दसविधं वेयणं पच्चणुभवमाणा विहरंति, तंजासीतं, उसिणं, खुधं, पिवासं, कंडु, परज्झं, भयं, सोगं, जरं, वाहिं ।
अनन्तरसूत्रे वैमानिका उक्ताः, ते च सुखवेदना अनुभवन्ति, तद्विपर्यस्तास्तु नारका या वेदना अनुभवन्ति ता दर्शयति-- नेरइया इत्यादि कण्ठ्यम्, नवरं वेदनां पीडाम्, तत्र शीतस्पर्शजनिता शीता, ताम्, सा च चतुर्थ्यादिनरकपृथ्वीष्विति, एवमुष्णां प्रथमादिषु, क्षुधं बुभुक्षां पिपासां तृषं कण्डूं खर्जू परज्झं ति परतन्त्रतां भयं भीतिं शोकं दैन्यं जरां वृद्धत्वं व्याधिं ज्वरर-कुष्ठादिकमिति ।
[सू० ७५४] दस ठाणाइं छउमत्थे णं सव्वभावेणं न जाणति ण पासति, तंजहा-धम्मत्थिगातं जाव वातं, अयं जिणे भविस्सति वा ण वा भविस्सति, अयं सव्वदुक्खाणमंतं करेस्सति वा ण वा कस्स ।
एताणि चेव उप्पन्ननाणदंसणधरे अरहा जाव अयं सव्वदुक्खाणमंतं करेस्सति वा ण वा करेस्सति ।
[टी०] अमुं वेदनादिकममूर्त्तमर्थं जिन एव जानाति न छद्मस्थो यत आह- दसेत्यादि गतार्थम्, नवरं छद्मस्थ इह निरतिशय एव द्रष्टव्योऽन्यथाऽवधिज्ञानी परमाण्वादि जानात्येव, सव्वभावेणं ति सर्वप्रकारेण स्पर्श-रस- गन्ध - रूपज्ञानेन घटमिवेत्यर्थः, धर्म्मास्तिकायं यावत्करणादधर्म्मास्तिकायम् आकाशास्तिकायं जीवमशरीरप्रतिबद्धं परमाणुपुद्गलं शब्दं गन्धमिति, अयमित्यादि द्वयमधिकमिह, तत्रायमिति प्रत्यक्षज्ञानसाक्षात्कृतो जिनः केवली भविष्यति वा न वा भविष्यतीति नवमम्, तथाऽयं सव्वेत्यादि प्रकटं दशममिति ।
एतान्येव छद्मस्थानवबोध्यानि सातिशयज्ञानादित्वाज्जिनो जानातीति, आह चएयाइं इत्यादि, यावत्करणात् 'जिणे अरहा केवली सव्वण्णू सव्वभावेण जाणइ पासइ, तंजहा– धम्मत्थिकाय ' मित्यादि यावद्दशमं स्थानम्, तच्चोक्तमेवेति ।
[सू० ७५५] दस दसाओ पन्नत्ताओ, तंजहा- कम्मविवागदसाओ, उवासगदसाओ, अंतगडदसाओ, अणुत्तरोववातियदसाओ, आयारदसाओ, पण्हावागरणदसाओ, बंधदसाओ, दोगिद्धिदसाओ, दीहदसाओ,