________________
धरणस्स एवं चेव, णवरमट्ठावीसं देवसहस्सा, सेसं तं चेव। जधा धरणस्स एवं जाव महाघोसस्स, नवरं पत्ताणिताधिपती अन्ने, ते पुव्वभणिता । ___ सक्कस्स णं देविंदस्स देवरन्नो हरिणेगमेसिस्स सत्त कच्छाओ पन्नत्ताओ, तंजहा-पढमा कच्छा एवं जहा चमरस्स तहा जावऽच्चुतस्स, णाणत्तं पत्ताणिताधिपतीणं, ते पुव्वभणिता । देवपरिमाणमिमं-सक्कस्स चउरासीति देवसहस्सा, ईसाणस्स असीतिं देवसहस्सा, देवा इमाते गाथाते अणुगंतव्वा
चउरासीति असीति बावत्तरि सत्तरी य सट्ठी य । पन्ना चत्तालीसा तीसा वीसा दस सहस्सा ॥८५॥
जावऽच्चुतस्स लहुपरक्कमस्स दस देवसहस्सा जाव जावतिता छट्ठा कच्छा तब्बिगुणा सत्तमा कच्छा ।
[टी०] कच्छ त्ति समूहः, यथा धरणस्य तथा सर्वेषां भवनपतीन्द्राणां महाघोषान्तानाम्, केवलं पादातानीकाधिपतयोऽन्ये ज्ञेया:, ते च पूर्वमनन्तरसूत्रे भणिताः, नाणत्तं ति शक्रादीनामानतप्राणतेन्द्रान्तानामेकान्तरितानां हरिनेगमेषी पादातानीकाधिपतिरीशानादीनामारणाच्युतेन्द्रान्तानामेकान्तरितानां लघुपराक्रम इति । देवेत्यादि, देवाः प्रथमकच्छासम्बन्धिनोऽनया गाथयाऽवगन्तव्या:, चतुरासी गाहा, चतुरशीत्यादीनि पदानि सौधर्मादिषु क्रमेण योजनीयानि, नवरं विंशतिपदमानतप्राणतयोर्योजनीयम्, तयोर्हि प्राणताभिधानस्येन्द्रस्यैकत्वात्, दशेति पदं त्वारणाऽच्युतयोर्योजनीयम्, अच्युताभिधानस्येन्द्रस्यैकत्वादिति ।
[सू० ५८४] सत्तविधे वयणविकप्पे पन्नत्ते, तंजहा-आलावे, अणालावे, उल्लावे, अणुल्लावे, संलावे, पलावे, विप्पलावे ।
[टी०] सकलमिदमनन्तरोदितं वचनप्रत्याय्यमिति वचनभेदानाह- [सत्तविहेत्यादि], सप्तविधो वचनस्य भाषणस्य विकल्पो भेदो वचनविकल्प: प्रज्ञप्तस्तद्यथा- आङ ईषदर्थत्वादीषल्लपनमालाप:, [नञः कुत्सार्थत्वादशीलेत्यादिवत् कुत्सित आलाप:] अनालाप इति, उल्लाप: काक्वा वर्णनं काक्वा वर्णनमुल्लापः [अमरको० ? 1 इति वचनात,