________________
सप्तममध्ययनं सप्तस्थानकम् ।
५८५
स एव कुत्सितोऽनुल्लापः, संलापः परस्परभाषणं, प्रलापो निरर्थकं वचनं, स एव विविधो विप्रलाप इति ।
[सू० ५८५-१] सत्तविधे विणए पन्नत्ते, तंजहा-णाणविणए, दंसणविणए, चरित्तविणए, मणविणए, वतिविणए, कायविणए, लोगोवयारविणए । __[टी०] एतेषां वचनविकल्पानां मध्ये केचिद्विकल्पा विनयार्था अपि स्युरिति विनयभेदप्रतिपादनायाह- सत्तविहेत्यादि, सप्तविधो विनीयतेऽष्टप्रकारं कर्माऽनेनेति विनय: प्रज्ञप्तस्तद्यथा-ज्ञानम् आभिनिबोधिकादि पञ्चधा, तदेव विनयो ज्ञानविनयः, ज्ञानस्य वा विनयो भक्त्यादिकरणं ज्ञानविनय:, उक्तं च
भत्ती १ तह बहुमाणो २ तद्दिट्टत्थाण सम्म भावणया ३ । विहिगहण ४ ब्भासो वि य ५ एसो विणओ जिणाभिहिओ ॥ [ ]
दर्शनं सम्यक्त्वं तदेव विनयो दर्शनविनयो दर्शनस्य वा तदव्यतिरेकादर्शनगुणाधिकानां शुश्रूषणा-ऽनाशातनारूपो विनयो दर्शनविनयः, उक्तं च
सुस्सूसणा अणासायणा य विणओ उ दंसणे दुविहो । दसणगुणाहिएसुं कजइ सुस्सूसणाविणओ ॥ सक्कार १ ब्भुट्ठाणे २ सम्माणा ३ सणअभिग्गहो तह य ४ । आसणमणुप्पयाणं ५ कीकम्मं ६ अंजलिगहो य ७ ॥ इंतस्सऽणुगच्छणया ८ ठियस्स तह पजुवासणा भणिया ९।। गच्छंताणुव्वयणं १० एसो सुस्सूसणाविणओ ॥ [ ] इति, इह च सत्कारः स्तवन-वन्दनादिः, अभ्युत्थानं विनयार्हस्य दर्शनादेवाऽऽसनत्यजनम्, सन्मानो वस्त्र-पात्रादिपूजनम्, आसनाभिग्रहः पुनस्तिष्ठत आदरेण आसनानयनपूर्वकमुपविशताऽत्रेति भणनम्, आसनानुप्रदानं तु आसनस्य स्थानात् स्थानान्तरसञ्चारणम्, कृतिकर्म द्वादशावर्त्तवन्दनकम्, शेषं प्रकटमिति, उचितक्रियाकरणरूपोऽयं दर्शने शुश्रूषणाविनयः । अनाशातनाविनयस्तु अनुचितक्रियाविनिवृत्तिरूपः, अयं पञ्चदशविध:, आह चतित्थगर १ धम्म २ आयरिय ३ वायगे ४ थेर ५ कुल ६ गणे ७ संघे ८ । संभोगिय ९ किरियाए १० मइनाणाईण १५ य तहेव ॥ [ ]