________________
५६०
तथा ये ते कास्यपास्ते सप्तविधा:, एके कास्यपशब्दव्यपदेश्यत्वेन कास्यपा एवान्ये तु कास्यपगोत्रविशेषभूतशण्डिलादिपुरुषापत्यरूपा: शाण्डिल्यादयोऽवगन्तव्या: । __ [सू० ५५२] सत्त मूलनया पन्नत्ता, तंजहा-नेगमे, संगहे, ववहारे, उज्जुसुते, सद्दे, समभिरूढे, एवंभूते ।
[टी०] अयं च मूलगोत्र-प्रतिगोत्रविभागो नयविशेषमताद्भवतीति नयविभागमाह[सत्त मूलेत्यादि], मूलभूता नया मूलनया:, ते च सप्त, उत्तरनया हि सप्त शतानि, यदाहएक्कक्को य सयविहो सत्त नयसया हवंति एवं तु ।
अन्नो वि य आएसो पंचेव सया नयाणं तु ॥ [आव० नि० ५४२, विशेषाव० २२६४] तथा
जावइया वयणपहा तावइया चेव हुंति नयवाया । जावइया नयवाया तावइया चेव परसमय ॥ [सम्मति० ३।४७] त्ति ।
तत्रानन्तधर्माध्यासिते वस्तुन्येकधर्मसमर्थनप्रवणो बोधविशेषो नय इति, तत्र णेगमे त्ति नैकैर्मानैर्महासत्ता-सामान्यविशेष-विशेषज्ञानैर्मिमीते मिनोति वा नैकम: १। तथा सङ्ग्रहणं भेदानां सङ्गृह्णाति वा भेदान् सङ्गृह्यन्ते वा भेदा येन स सङ्ग्रह: २। तथा व्यवहरणं व्यवहरतीति वा व्यवहियते वा अपलप्यते सामान्यमनेन विशेषान् वाऽऽश्रित्य व्यवहारपरो व्यवहार: ३ । तथा ऋजु वक्रविपर्ययादभिमुखं श्रुतं ज्ञानं यस्यासौ ऋजुश्रुतः, ऋजु वा वर्तमानमतीतानागतवक्रपरित्यागाद्वस्तु सूत्रयति गमयतीति ऋजुसूत्रः ४ । तथा शपनं शपति वा असौ शप्यते वा तेन वस्त्विति शब्दः, तस्यार्थपरिग्रहादभेदोपचारान्नयोऽपि शब्द एव, यथा कृतकत्वादिलक्षणहेत्वर्थप्रतिपादकं पदं हेतुरेवोच्यत इति। अतो घट: कुटः कुम्भ इति स्वपर्यायध्वनिवाच्यमेकमेवेत्यादि ५। तथा नानार्थेषु नानासंज्ञासमभिरोहणात् समभिरूढ: ६ । तथा यथा शब्दार्थ एवं पदार्थो भूत: सन्नित्यर्थोऽन्यथाभूतोऽसन्नितिप्रतिपत्तिपर एवंभूतो नयः इति ७। शेषविस्तरार्थो वृत्तितो ज्ञेय इति। [सू० ५५३] सत्त सरा पन्नत्ता, तंजहा