________________
६०८
सम्यगनालोचयन्तं सर्वं यथा सम्यगालोचयति तथा करोतीत्यपव्रीडकः। पकुव्वए त्ति आलोचिते सति य: शुद्धिं प्रकर्षण कारयति स प्रकारीति, भणितं च- आलोइयम्मि सोहिं जो कारावेइ सो पकुव्वीओ ॥ [ ] इति । अपरिस्साइ त्ति न परिश्रवति नालोचकदोषानुपश्रुत्यान्यस्मै प्रतिपादयति य एवंशील: सोऽपरिश्रावीति । निजवए त्ति निर्यापयति तथा करोति यथा गुर्व्वपि प्रायश्चित्तं शिष्यो निर्वाहयतीति निर्यापक इति । अवायदंसि त्ति अपायान् अनर्थान् शिष्यचित्तभङ्गाऽनिर्वाहादीन् दुर्भिक्ष-दौर्बल्यादिकृतान् पश्यतीत्येवंशील:, सम्यगनालोचनायां वा दुर्लभबोधिकत्वादीन् अपायान् शिष्यस्य दर्शयतीति अपायदर्शीति।
अत्तदोसं ति आत्मापराधमिति, जाति-कुले माता-पितृपक्षौ, तत्सम्पन्नः प्रायोऽकृत्यं न करोति, कृत्वापि पश्चात्तापादालोचयतीति तद्ग्रहणम् । विनयसम्पन्न: सुखेनैवालोचयति, तथा ज्ञानसम्पन्नो दोषविपाकं प्रायश्चित्तं चाऽवगच्छति। दर्शनसम्पन्नः शुद्धोऽहमित्येवं श्रद्धत्ते। चारित्रसम्पन्नो भूयस्तमपराधं न करोति सम्यगालोचयति प्रायश्चित्तं च निर्वाहयतीति। क्षान्त: परुषं भणितोऽप्याचार्यैर्न रुष्यतीति। दान्तः प्रायश्चित्तं दत्तं वोढुं समर्थो भवतीति । आलोयणेत्यादि व्याख्यातं प्राय: ।
[सू० ६०६] अट्ट मतट्ठाणा पन्नत्ता, तंजहा-जातिमते, कुलमते, बलमते, रूवमते, तवमते, सुतमते, लाभमते, इस्सरितमते ।।
[टी०] जात्यादिमदेषु सत्स्वालोचनायां न प्रवर्त्तत इति मदस्थानसूत्रं गतार्थम्, नवरं मदस्थानानि मदभेदाः, इह च दोषा:
जात्यादिमदोन्मत्त: पिशाचवद्भवति दुःखितश्चेह । जात्यादिहीनतां परभवे च नि:संशयं लभते ॥ [प्रशम० ९८] इति ।
सू० ६०७] अट्ठ अकिरियावाती पन्नत्ता, तंजहा-एगावाती, अणेगावाती, मितवाती, निम्मितवाती, सायवाती, समुच्छे दवाती, णितावाती, णसंतिपरलोगवाती । [टी०] वादिनां हि प्राय: श्रुतमदो भवतीति वादिविशेषान् दर्शयन्नाह- अट्ठ