________________
४५०
जातिवन्ध्या, तथा ग्लान्येन ग्लानत्वेन स्पृष्टा ग्लान्यस्पृष्टा रोगार्दिता, तथा दौर्मनस्यं शोकाद्यस्ति यस्या सा दौर्मनस्यिका तद्वा सञ्जातमस्या इति दौर्मनस्यितेति। इच्चेएहीत्यादि निगमनम् । नित्यं सदा न त्र्यहमेव ऋतू रक्तप्रवृत्तिलक्षणो यस्या: सा नित्यर्तुका, तथा न विद्यते ऋतुरुक्तरूप: शास्त्रप्रसिद्धो वा यस्याः सा अनृतुका, तथाहिऋतुस्तु द्वादश निशाः, पूर्वास्तिस्रोऽत्र निन्दिताः । एकादशी च युग्मासु स्यात् पुत्रोऽन्यासु कन्यका ॥ पद्मं सङ्कोचमायाति, दिनेऽतीते यथा तथा । ऋतावतीते योनि: सा, शुक्रं नैव प्रतीच्छति ॥ मासेनोपचितं रक्तं धमनीभ्यामृतौ पुन: । ईषत्कृष्णं विगन्धं च, वायुर्योनिमुखान्नुदेद् ॥ [ ] इति । तथा व्यापन्नं विनष्टं रोगत: श्रोतो गर्भाशयच्छिद्रलक्षणं यस्या: सा व्यापन्नश्रोता:, तथा व्यादिग्धं व्याविद्धं वा वातादिव्याप्तं विद्यमानमप्युपहतशक्तिकं श्रोतः उक्तरूपं यस्या: सा व्यादिग्धश्रोता व्याविद्धश्रोता वा, तथा मैथुने प्रधानमङ्गं मेहनं भगश्च, तत्प्रतिषेधोऽनङ्गम्, तेनानङ्गेनाहार्यलिङ्गादिना अनङ्गे वा मुखादौ प्रतिषेवाऽस्ति यस्या अनङ्ग वा काममपरापरपुरुषसम्पर्कतोऽतिशयेन प्रतिषेवत इत्येवंशीलाऽनङ्गप्रतिषेविणी, तथाविधवेश्यावदिति, ऋतौ ऋतुकाले नो नैव निकामम् अत्यर्थं बीजपातं यावत् पुरुषं प्रतिषेवत इत्येवंशीला निकामप्रतिषेविणी, वाऽपीति उत्तरविकल्पापेक्षया समुच्चये, समागता वा से तस्यास्ते प्रतिविध्वंसन्ते योनिदोषादुपहतशक्तयो भवन्ति, मेहनविश्रोतसा वा योनेर्बहि: पतन्तो विध्वंसन्ते इति, उदीर्णं च उत्कटं तस्याः पित्तप्रधानं शोणितं स्यात् तच्चाबीजमिति, पुरा वा पूर्व वा गर्भावसरात् देवकर्मणा देवक्रियया देवतानुभावेन शक्त्युपघात: स्यादिति शेष:, अथवा देवश्च कार्मणं च तथाविधद्रव्यसंयोगो देवकार्मणं तस्मादिति, पुत्रलक्षणं फलं पुत्रफलं पुत्रो वा फलं यस्य कर्मणस्तत् पुत्रफलं तद्वा नो निर्विष्टं भवति, अलब्धम् अनुपात्तं स्यादित्यर्थः, थेवं बहुनिव्वेसं [ओघनि० ५३०] इत्यादौ निर्वेशशब्दस्य लाभार्थस्य दर्शनात्, अथवा पुत्र: फलं यस्य तत् पुत्रफलं दानं तज्जन्मान्तरेऽनिर्विष्टम् अदत्तं भवति, निर्विष्टस्य