________________
दशममध्ययन दशस्थानकम् ।
७५३
जीवे त्ति जीविते, जीवो त्ति वा नरलक्षणो जीव इत्यर्थः] ९ । तथा शाययति स्वापयति निद्रावन्तं करोति या शेते वा यस्यां सा शायनी शयनी वा, तथेति समुच्चये ति १०।
[सू० ७७३] दसविधा तणवणस्सतिकातिता पन्नत्ता, तंजहा-मूले, कंदे जाव पुप्फे, फले, बीये ।
[टी०] अनन्तरं पुरुषदशा उक्ताः, अथ पुरुषसमानधर्मकाणां वनस्पतीनां ताः प्रकारान्तरत आह- दसेत्यादि । तृणवद् वनस्पतयः तृणवनस्पतयः, तृणसाधर्म्य च बादरत्वेन, तेन सूक्ष्माणां न दशविधत्वमिति । मूलं जटा, कन्दः स्कन्धाधोवर्ती, यावत्करणात् खंधेत्यादीनि पञ्च द्रष्टव्यानि, तत्र स्कन्धः स्थुडमिति यत् प्रतीतम्, त्वक् [शाला, प्रवालम्, पत्रम्] शेषं प्रागिव ।
[सू० ७७४] सव्वातो वि णं विजाहरसेढीओ दस दस जोयणाई विक्खंभेणं पण्णत्तातो १॥ सव्वातो वि णं अभिओगसेढीओ दस दस जोयणाई विक्खंभेणं पण्णत्तातो।
[टी०] दशस्थानकाधिकार एव इदमपरमाह- सव्वेत्यादि सूत्रद्वयम्, सर्वाः सर्वदीर्घवैताढ्यसम्भवाः विद्याधरश्रेणयः विद्याधरनगरश्रेणयः, दीर्घवैताढ्या हि पञ्चविंशतिर्योजनान्युच्चस्त्वेन पञ्चाशच्च मूले विष्कम्भेण, तत्र दश योजनानि धरणीतलादतिक्रम्य दशयोजनविष्कम्भा दक्षिणत उत्तरतश्च श्रेणयो भवन्ति, तत्र दक्षिणतः पञ्चाशन्नगराणि, उत्तरतस्तु षष्टिरिति भरतेषु, ऐरवतेषु तदेव व्यत्ययेन, विजयेषु तु पञ्चपञ्चाशत् पञ्चपञ्चाशदिति । ___ तथा विद्याधरश्रेणीनामुपरि दश योजनान्यतिक्रम्य दशयोजनविष्कम्भा उभयत आभियोगिकदेवश्रेणयो भवन्ति, तत्राभियोगः आज्ञा, तया चरन्तीत्याभियोगिका देवाः, शक्रादिसम्बन्धिनां लोकपालानां सोम-यम-वरुण-वैश्रमणानां सम्बन्धिनो व्यन्तरा इति, तच्छ्रेणीनामुपरि पर्वतः पञ्च योजनान्युच्चतया दश विष्कम्भत इति ।
[सू० ७७५] गेवेजगविमाणा णं दस जोयणसयाई उड्उच्चत्तेणं पण्णत्ता।