Book Title: Ashtasahastritatparya Vivaranam Part 2
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
Catalog link: https://jainqq.org/explore/009090/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीविजयमहोदयसूरिग्रंथमाला-१५ न्यायविशारद-न्यायाचार्य-महोपाध्याय श्रीयशोविजयगणिवरविरचितम् अष्टसहस्त्रीतात्पर्यविवरणम् सम्पादक तपागच्छाधिराज पूज्यपादाचार्यदेव श्रीमद्विजयरामचन्द्रसूरिवराणां विनेयः मुनिवैराग्यरतिविजयः प्रवचन प्रकाशन ४८८, रविवार पेठ पूना-२ Page #2 -------------------------------------------------------------------------- ________________ श्रीविजयमहोदयसूरिग्रंथमाला-१५ ग्रन्थनाम कर्ता : अष्टसहस्त्रीतात्पर्यविवरणम् : महोपाध्याय श्रीयशोविजयजी गणिवर : मुनिश्री वैराग्यरतिविजयजी सम्पादक प्रकाशक : प्रवचन प्रकाशन-पूना आवृत्ति : प्रथमा मूल्य : रु. २००-०० : १२+४४३ : PRAVACHAN PRAKASHAN, 2004 (प्राप्तिस्थान) पूना : प्रवचन प्रकाशन ४८८, रविवार पेठ, पूना-४११००२ फोन : ०२०-३०९२२०६९, मो. ९८९००५५३१० अहमदाबाद सरस्वती पुस्तक भंडार हाथीखाना, रतनपोल, अहमदाबाद-३८०००१ फोन : २५३५६६९२ अशोकभाई घेलाभाई शाह २०१, ओएसीस, अंकुर स्कूल सामे, पालडी, अहमदाबाद-३८०००७ फोन : ०७९-२६६३३०८५, मो. ०७९-३१००७५७९ मुंबई हिन्दी ग्रंथ कार्यालय हीराबाग, सी. पी. टेंक, मुंबई-४००००४ फोन : २३८२६७३९ Website - www.hindibooks.8m.com Email : manish.modi@bol.net.in अक्षरांकन : विरति ग्राफिक्स, अहमदाबाद Page #3 -------------------------------------------------------------------------- ________________ પ્રકાશકીયમ ન્યાયવિશારદ ન્યાયાચાર્ય મહોપાધ્યાય શ્રી યશોવિજયજીગણિવર વિરચિત અષ્ટસહસ્ત્રીતાત્યવિવરણમ્ પ્રકાશિત કરતાં અમે અતીવ આનંદ અનુભવીએ છીએ. આ ગ્રંથ જોકે પૂર્વ પ્રકાશિત હતો તેમ છતાં પણ અનેક વિદ્વાનો તેના વિશિષ્ટ સંપાદનની અપેક્ષા રાખતા હતા. ગહન દાર્શનિક વિષય હોવાથી તેના વાંચનાર જ ઓછા હોય ત્યાં સંપાદન કરવા કોણ તૈયાર થાય ? પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજયરામચંદ્રસૂરીશ્વરજી મહારાજાના શિષ્યરત્ન પૂજ્ય મુનિપ્રવર શ્રી વૈરાગ્યરતિવિજયજી મહારાજસાહેબ-એ લગભગ એકાદ હજાર જેટલા જૈન-અજૈન સંદર્ભગ્રંથોનું અવલોકન અવગાહન કરીને આ ગ્રંથનું પુનઃ સંપાદન કર્યું છે. સંપાદક મુનિપ્રવરશ્રીએ પ્રસ્તાવનામાં ગ્રંથનો વિસ્તૃત પરિચય આપ્યો છે અને અગિયાર પરિશિષ્ટો દ્વારા સંપાદનને સમૃદ્ધ બનાવ્યું છે. દાર્શનિક ગ્રંથોમાં શિરમોર ગણી શકાય તેવા ‘અઠ્ઠમસ્ત્રી તાત્પર્યવિવરણમ્'ના પ્રકાશનનો લાભ, પૂજ્યપાદ તપાગચ્છાધિરાજ આચાર્યદેવ શ્રીમદ્ વિજયરામચંદ્રસૂરીશ્વરજી મહારાજાના પટ્ટાલંકાર, પૂજ્યપાદ સુવિશાલગચ્છાધિપતિ આચાર્યદેવ શ્રીમદ્ વિજયમહોદયસૂરીશ્વરજી મહારાજાની પાટને શોભાવનારા, સ્વાધ્યાયપ્રેમી પૂજયપાદ આચાર્યદેવ શ્રીમદ્ વિજયજિતમૃગાંકસૂરીશ્વરજી મહારાજાના શિષ્યરત્ન ગચ્છાધિપતિ પૂજયપાદ આચાર્યદેવેશ શ્રીમદ્ વિજયહેમભૂષણસૂરીશ્વરજી મહારાજાની પ્રેરણાથી શ્રી તપગચ્છ અમર શાળા જૈન સંઘખંભાત (ગુજરાત) શ્રી સંઘે જ્ઞાનખાતાની ઉપજમાંથી લીધો છે. તેમની શ્રુતભક્તિની ખૂબ અનુમોદના કરીએ છીએ. જ્ઞાનદ્રવ્યમાંથી મુદ્રિત આ ગ્રંથનો ઉપયોગ ગૃહસ્થો યોગ્ય મૂલ્ય પ્રદાન કરીને જ કરે તેવી નમ્ર વિનંતિ કરીએ છીએ. - પ્રવચન પ્રકાશન, પૂના Page #4 -------------------------------------------------------------------------- ________________ હાર્દિક અનુમોદના ન્યાયવિશારદ ન્યાયાચાર્ય મહામહોપાધ્યાય શ્રી યશોવિજયજી ગણિવર વિરચિત ___ अष्टसहस्त्रीतात्पर्यविवरणम् મહાગ્રંથના પ્રકાશનનો સંપૂર્ણ લાભ શ્રી જિનશાસનના પરમ તેજસ્વી અધિનાયક તપાગચ્છાધિરાજ આચાર્યદેવેશ શ્રીમદ્ વિજયરામચન્દ્રસૂરીશ્વરજી મહારાજાના પટ્ટાલંકાર સમાધિસિંધુ સમતામૂર્તિ સુવિશાલ પૂજ્યપાદ ગચ્છાધિપતિ આચાર્યદેવેશ શ્રીમદ્ વિજય મહોદયસૂરીશ્વરજી મહારાજાની પાટને શોભાવતા સુવિશાલ ગચ્છાધિપતિ પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજયહમભૂષણસૂરીશ્વરજી મહારાજાની પાવન પ્રેરણાથી ( શ્રી તપગચ્છ અમર શાખા જૈન સંઘ-ખંભાત (ગુજરાત) એ પ્રાપ્ત કર્યો છે. તેમની આ સુંદર શ્રુતભક્તિની અમે અનુમોદના કરીએ છીએ XXXXXX ક પ્રવચન પ્રકાશન Page #5 -------------------------------------------------------------------------- ________________ अनुक्रमः पृष्ठाङ्क ४१८ ocococcc ४२३ ४२३ ४२४ ४२५ ४३२ द्वितीयः परिच्छेदः एकत्वपृथकत्वैकान्त परीक्षा आ. अद्वैतवादः तन्निराकरणं च (का. २४-२७) अ. अद्वैतक्रियाकारकादिभेदासङ्गतिः । ३वि. जाग्रत्स्वप्नदशयोरनुपपत्तिदर्शनम् वि. अपरोक्षज्ञाननिराकरणम् मधुसूदनसरस्वतीमते दृष्टिसृष्टिवादनिराकरणम् व्यवहारवादिवेदान्तनिराकरणम् ब्रह्माद्वैतवाद: (पूर्वपक्षः) ब्रह्माद्वैतवादनिराकरणम् वि. अभेदवादः (श्रीहर्षोत्थापित: पूर्वपक्षः) अभेदवादः ( उत्तरपक्षः) पृथक्त्वै कान्तनिराकरणम् (का. २८-२९) न्यायवैशेषिकमतनिराकरणम् पृथक्त्ववादः निरन्वयक्षणिकलक्षणपृथक्त्वपक्षनिराकरणम् (का. २९) बौद्धाभिमतसन्तानवाद: सन्तानवादनिराकरणम् स्याद्वादाभिमतसन्तानलक्षणम् प्रत्यासत्तिविचार: विज्ञानाद्वैतवादविचारणा सदन्तरत्वविमर्शः अ. सामान्यस्यावास्तवत्वे दोषान्तरप्रदर्शनम् ४३४ ४३६ ४३६ ४३७ ४३९ ४३९ ४४० ४४१ ४४१ ४४३ ४४३ ४४४ १. आ० = आप्तमीमांसा । २. अ० = अष्टसहस्री । ३. वि० = अष्टसहस्रीतात्पर्यविवरणम् । Page #6 -------------------------------------------------------------------------- ________________ अ० वि० अ० आ. आ. आ० वि० अ० वि० आ० अ० आ० अ. अ. वि० आ. अ० க் க் க் க் अ० अ० आ. अ० अ० अ० अ० अ० वि० ६ निर्विकल्पखण्डनम् शब्दप्रमाणसमर्थनम् विभ्रमैकान्तवादनिराकरणम् पृथक्त्वैकत्वोभयैकान्तमतनिरासः (का० ३२ ) पृथक्त्वैकत्वविषयणी सप्तभङ्गी (का० ३३) पृथक्त्वैकत्वयोः सविषयत्वप्रदर्शनम् (का० ३४ ) पृथक्त्वैकत्वयोर्विवक्षाजन्यत्वप्रतिपादनम् बौद्धमतनिराकरणम् पृथक्त्वैकत्वयोर्विवक्षाजन्यगुणमुख्यभावस्थापनम् विवक्षाविवक्षयोः सद्विषयत्वप्रतिपादनम् (का० ३५) बौद्धमतनिराकरणम् भेदाभेदयोः प्रमाणविषयत्वव्यवस्थापनम् (का० ३६ ) प्रमाणलक्षणम् बौद्धाभिमतावयववादनिराकरणम् गौतमोक्तप्रत्यक्षलक्षणविमर्श: नित्यानित्यत्वैकान्तपरीक्षा (का० ३७-४० ) तृतीयः परिच्छेदः नित्यानित्यैकान्तपरीक्षा आत्मनः परिणामित्वसाधनम् साङ्ख्यमतनिराकरणम् सत्कार्यवादनिराकरणम् नित्यत्वैकान्ते पुण्यपापाद्यसम्भवः अनित्यत्वैकान्तनिराकरणम् (का० ४१ ) असत्कार्यवादनिराकरणम् शक्तिशक्तिमतोर्भेदाभेदप्रसाधनम् कारणस्वभावभेदात् कार्यनानात्वव्यवस्थापनम् स्थितिविरोधे बौद्धपूर्वपक्ष: स्थितिसाधने उत्तरपक्षः कुण्डबदरयोराश्रयाश्रयिभावविमर्शः संवेदनाद्वैतनिराकरणम् अ० आ. असत्कार्यवादनिराकरणम् (का० ४२ ) ४४५ ४४७ ४४८ ४४९ ४५० ४५२ ४५२ ४५३ ४५४ ४५४ ४५५ ४५६ ४५७ ४५७ ४५८ ४६१ ४६१ ४६२ ४६६ ४६७ ४६८ ४६९ ४७१ ४७२ ४७३ ४७५ ४७५ ४७६ ४७९ Page #7 -------------------------------------------------------------------------- ________________ ४८४ ४८६ ४८६ ४८८ ४८८ ४९२ ४९४ ४९६ आ. ० ० ० ० आ. अनित्यत्वैकान्ते पुण्यपापाद्यसम्भवः (का. ४३) आ० सन्तानवादप्रतिविधानम् (का० ४४) सन्तानलक्षणनिराकरणम् आ. तत्त्वान्यत्वाभ्यां अवाच्यत्वसाधनम् (का. ४५) आ. तत्प्रतिविधानम् (का० ४६-४७) आ. संवृतिप्रतिविधानम् (का० ४७-४८) आ. उभयैकान्तावाच्यत्वैकान्तप्रतिविधानम् (का. ५०) आ. अनित्यत्वैकान्ते कृतनाशाकृताभ्यागमदोषदर्शनम् (का. ५१-५२) विसदृशकार्यारम्भप्रतिविधानम् (का. ५३) आ. अवास्तविकस्कन्धेषूत्पादाद्यभावप्रसाधनम् (का० ५४) आ. उभयैकान्तावाच्यतैकान्तप्रतिविधानम् (का. ५५) आ. नित्यत्वाद्यनेकान्तव्यवस्था (का. ५६) एकत्वप्रत्यभिज्ञानसाधनम् प्रत्यभिज्ञानस्याकस्मिकत्वे विमर्शः प्रत्यभिज्ञानस्य पृथक्प्रामाण्यसाधनम् प्रत्यभिज्ञाविषये साङ्ख्यमतखण्डनम् अनित्यत्वैकान्ते प्रत्यभिज्ञासम्भवः नित्यत्वैकान्ते प्रत्यभिज्ञासम्भवः अनेकान्तसाधनम् एकत्वव्यवहारविमर्श: नाशोत्पादस्थितिष्वनेकान्तसिद्धिः (का. ५७-६०) न्यायमतखण्डनम् संयोगादिजन्यद्रव्योत्पत्तिविमर्शः वि० स्याद्वादसिद्धिवादः (पत्रम्) ५०५ ५०५ ५०६ ५०७ ५०९ अ० ५०९ ५११ ५११ ५१२ ५१५ ५१५ ५१९ आ. चतुर्थः परिच्छेदः कार्यकारणादिभेदाभेदैकान्तपरीक्षा भेदैकान्ते वैशेषिकमतम् (का. ६१) वैशेषिकमतप्रतिविधानम् (का. ६२) समवायनिराकरणम् विशेषवादः अवयवावयविनोदैकान्तनिरासः (का. ६३) अ. ५२४ ५२५ ५२७ ५२९ ५३१ Page #8 -------------------------------------------------------------------------- ________________ आ. अ० वि० आ. वि० आ० आ. आ० अ० आ० अ० आ. आ० वि० आ० अ० वि० यौगाभिमतसमवायसामान्ययोर्निरासः (का० ६४-६६ ) प्रागभावादीनां विचारः समवायनिराकरणवैशिष्ट्यस्वीकारवादः परमान्यतैकान्तनिरास: (का० ६७-६८ ) अणूनामवयविप्रदेशतयान्यत्ववादः कार्यकारणयोरत्यन्ताभेदवादिसाङ्ख्यमतनिरासः (का० ६९ ) उभयैकान्तावाच्यतैकान्तनिरासः (का० ७० ) द्रव्यपर्याययोः कथञ्चिद्भिन्नाभिन्नत्वसाधनम् (का० ७१-७२ ) ८ द्रव्यपर्यायैकान्तभेदवादियोगमतखण्डनम् स्याद्वादे वस्तुलक्षणम् पञ्चमः परिच्छेदः अपेक्षानपेक्षत्वैकान्तवादपरीक्षा बौद्धाभिमतापेक्षिकैकान्तनिराकरणम् (का० ७३ ) यौगाभिमतानपेक्षिकैकान्तनिराकरणम् उभयैकान्तावाच्यतैकान्तनिराकरणम् (का० ७४ ) धर्मधर्मिणोः कथञ्चिदापेक्षिकत्वसाधनम् (का० ७५) महत्त्वविषयकसापेक्षत्वविमर्शः षष्ठः परिच्छेदः हेत्वागमवादैकान्तपरीक्षा बौद्धाभिमतहेत्वैकान्तवादनिराकरणम् (का० ७६ ) वेदाभिमताऽऽगमैकान्तवादनिराकरणम् प्रत्यक्षस्य आगमोपदेशोपजीव्यत्ववादः बौद्धवैशेषिकासाधितागमप्रमाणोच्छेदनिराकरणम् अ० आ. आ. अ. वि० अ० अ० वि० हेतुसिद्धिविमर्श: उभयैकान्तावाच्यतैकान्तनिराकरणम् (का० ७७ ) युक्तीतरानेकान्तोपदर्शनम् (का० ७८ ) आप्तलक्षणम् आप्तत्वनिश्चयविमर्शः जैमिन्यादेराप्तत्वपरीक्षा वेदास्यापौरुषेयत्वनिराकरणम् ५३२ ५३५ ५३८ ५३९ ५४४ ५४६ ५४७ ५४८ ५४९ ५५१ ५५५ ५५७ ५५८ ५५९ ५६० ५६२ ५६४ ५६४ ५६५ ५६७ ५६७ ५६७ ५६७ ५६८ ५७१ ५७३ Page #9 -------------------------------------------------------------------------- ________________ ५७८ ५७८ ५८२ सप्तमः परिच्छेदः अन्तरङ्गबहिरङ्गार्थितैकान्तपरीक्षा आ० अन्तरङ्गैकान्तनिराकरणम् (का० ७९-८०) अ. विज्ञानाद्वैतनिराकरणम् वि. विज्ञप्तिवादविमर्शः बहिरङ्गार्थतैकान्तनिराकरणम् (का. ८१) वि. अष्टविधख्यातिवादः आ. उभयकान्तावाच्यतैकान्तनिराकरणम् (का. ८२) आ. भावैकान्तवादनिराकरणम् (का. ८३) मीमांसकाभिमताप्रत्यक्षज्ञानस्य निराकरणम् वि. ज्ञातताविमर्शः जीवमाश्रित्यान्तरङ्गबहिरङ्गार्थानकान्तसाधनम् (का. ८४-८६) भूतचैतन्यवादिचार्वाकमतनिराकरणम् बौद्धमतनिराकरणम् मीमांसकमतनिराकरणम् आ. बाह्यार्थसिद्धिः (का. ८६-८७) विज्ञानाद्वैतनिराकरणम् ५८६ ५८७ ५८८ ५९३ ५९३ ५९५ ५९८ ५९९ ६०१ ६०२ ६०३ ६०४ अष्टमः परिच्छेदः दैवपुरुषैकान्तपरीक्षा आ. दैवैकान्तप्रतिविधानम् (का० ८८) आ. पौरुषैकान्तप्रतिविधानम् (का. ८९) आ. उभयैकान्तावाच्यतैकान्त प्रतिविधानम् (का. ९०) आ. दैवपुरुषकारयोः स्याद्वादः (का. ९१) वि. पाक्षिकदैवपुरुषैकान्तविमर्शः ६११ ६१२ ६१३ ६१३ ६१३ आ० नवमः परिच्छेदः आ. पुण्यपापैकान्तपरीक्षा (का. ९२-९३) उभयैकान्तावाच्यतैकान्तप्रतिविधानम् (का. ९४) वि. न्यायवेदान्तिमताभिमतादृष्टविमर्श: आ. पुण्यपापयोः स्याद्वादः (का. ९५) आ. पुण्यापुण्ययोः विशुद्धिसङ्कलेशजन्यत्वम् (का. ९५) ६१७ ६१९ ६१९ ६१९ ६१९ Page #10 -------------------------------------------------------------------------- ________________ 정 अ. 정 विशुद्धिसङ्कलेशयोः लक्षणम् विशुद्धिसङ्कलेशयोः बन्धमाश्रित्य नयविभाग: शुभाशुभमिश्रबन्धविमर्शः सिद्धयोगस्य बन्धविषये बाह्यहेतुरकिञ्चित्कर इति दिगम्बरमतखण्डनम् wwww 칭 칭 ६२४ ६२४ wwwwwww ६३० ६३० आ० दशमः परिच्छेदः बन्धमोक्षहेतुज्ञानाज्ञानैकान्तपरीक्षा आ० ज्ञानाज्ञानैकान्तवादप्रतिविधानम् (का. ९६) ज्ञानाभावरूपाज्ञानस्य बन्धहेतुत्वमिति मतखण्डनम् साङ्ख्याभिमतज्ञानैकान्तवादनिराकरणम् मिथ्याज्ञानस्वरूपाज्ञानस्य बन्धहेतुत्वमिति मतखण्डनम् बन्धहेतुभूताज्ञानादिविमर्शः नैयायिकमतखण्डनम् बौद्धमतखण्डनम् बौद्धाभिमतमोक्षतत्त्वखण्डनम् बौद्धाभिमतमोक्षतत्त्वविमर्शः आ. उभयैकान्तावाच्यतैकान्तप्रतिविधानम् (का. ९७) मोहस्य बन्धहेतुत्वम् (का. ९८) केवलिनः प्रकृतिबन्धस्याकिञ्चित्करत्वख्यापनम् कषायविशिष्टाज्ञानत्वेन बन्धहेतुताविमर्शः गुणरूपकर्मवादिन्यायमतनिरासः ईश्वरस्य बन्धहेतुत्वप्रतिविधानम् (का. ९९) सृष्टेरनादित्वव्यवस्थापनम् ईश्वरकर्तृत्ववादः शुद्ध्यशुद्ध्योः मोक्षहेतुत्वम् (का. १००) भव्याभव्यत्वयोर्लक्षणम् प्रमाणतत्त्वनिरूपणम् (का. १०१) प्रमाणलक्षणम् अनेकान्ते विरोधपरिहारः सौगताभिमतस्मृत्यप्रामाण्यवादखण्डनम् प्रत्यभिज्ञायाः पृथक्प्रामाण्यप्रसाधनम् तर्कस्य पृथक्प्रामाण्यप्रसाधनम् ur Mm. ६३२ ६३३ ६३५ आ. ६४८ ६४८ आ. ६५० ६५० ६५१ ६५६ ६५७ ६५८ Page #11 -------------------------------------------------------------------------- ________________ अ. ६६० ६६० ६६४ आ. ६६५ ६६७ ६६८ अ. ६८० ६८२ ६८५ ६८६ ६८८ ६८८ केवलादिज्ञानानां विशेषलक्षणम् केवल ज्ञानदर्शनोपयोगवादः प्रमाणफलनिरूपणम् (का. १०२) बौद्धाभिमतकरुणाख्यप्रमाणफलनिराकरणम् करणक्रिययोः स्याद्वादः स्याद्वादवाक्यनिरूपणम् (का. १०३-१०५) भतृहर्याद्यभिमतदशविधवाक्यलक्षणनिराकरणम् वाक्यवादः स्याद्वादानुसारेण पदशक्तिसङ्गतिप्रदर्शनम् नयनिरूपणम् स्याद्वादकेवलज्ञानयोर्भेदप्रदर्शनम् हेतुलक्षणनिरुपणम् (का. १०६) प्रमाणनयदुनयानाम् लक्षणानि वस्तुलक्षणनिरुपणम् (का. १०७) नयानां सापेक्षनिरपेक्षभावेन मिथ्यासम्यग्रूपत्वनिरुपणम् (का. १०८) सुनयकुनयलक्षणम् अनेकान्तस्य वाक्यनियम्यत्वम् (का. १०९) वस्तुनः विधिवाक्यैकनियम्यप्रतिविधानम् (का. ११०) वस्तुनः निषेधवाक्यैकनियम्यत्वप्रतिविधानम् (का. १११) अन्यापोहवादप्रतिविधानम् (का. ११२) स्याद्वादमाहात्म्यसंस्थापनम् (का. ११३) ग्रन्थफलप्रकाशनम् (का. ११४) उपसंहारः ग्रन्थसमाप्तिमङ्गलम् परिशिष्ट आप्तमीमांसा मूलम् आप्तमीमांसा कारिकार्थ-अकाराद्यनुक्रमः अष्टसहस्रीगतानामुद्धरणानामकारादिक्रमः अष्टसहस्रीतात्पर्यविवरणगतानुमुद्धरणानामकारादिक्रमः ६८९ जाणम ६८९ आ. ६८९ ६९१ आ. आ. आ. आ. ६९१ ६९२ WW.० आ. ६९५ ६९६ १. १-१० ११-१४ १५-२३ २४-२९ Page #12 -------------------------------------------------------------------------- ________________ १२ ३०-३३ ३४-३५ ३६-४० अष्टसहस्रीतात्पर्यविवरणगतग्रन्थकृदादिनामसूची अष्टसहस्रीतात्पर्यविवरणगतग्रन्थनामसूची अष्टसहस्रीतात्पर्यविवरणगतन्यायसूची अष्टसहस्रीतात्पर्यविवरणगतवादसूची तुलनात्मकटीप्पणी विवरणसंकेत: अष्टसहस्रीतात्पर्यविवरणगतपारिभाषिकशब्दसूची ४१ ४२-६१ १०. ६२-६९ ७०-१६१ Page #13 -------------------------------------------------------------------------- ________________ प्रवचन प्रकाशन संस्कृत साहित्य सूची आचार्यश्रीविजयमहोदयसूरि-ग्रंथमाला ग्रंथ सम्पादक स्याद्वादमञ्जरी मुनिश्रीप्रशमरतिविजयजी पातंजलयोगसूत्राणि मुनिश्रीवैराग्यरतिविजयजी ३. कारिकावली ४. नयामृतम् मुनिश्रीवैराग्यरतिविजयजी षड्दर्शनसमुच्चयः-सटीकः मुनिश्रीवैराग्यरतिविजयजी ६. समरादित्यसंक्षेपः मुनिश्रीप्रशमरतिविजयजी ७. काव्यानुशासनम्-सटीकम् सुरसुंदरीचरियं ९. त्रिपुराभारतीस्तवः मुनिश्रीवैराग्यरतिविजयजी १०. षड्दर्शनसमुच्चय (अनुवाद) मुनिश्रीवैराग्यरतिविजयजी ११. योगदृष्टिसंग्रह मुनिश्रीप्रशमरतिविजयजी १२. योगशास्त्रबालावबोध मुनिश्रीप्रशमरतिविजयजी १३. शमामृतम् मुनिश्रीप्रशमरतिविजयजी १४. तर्कसंग्रहफक्किका मुनिश्रीवैराग्यरतिविजयजी १५. अष्टसहस्त्रीतात्पर्यविवरणम् भाग १-२ मुनिश्रीवैराग्यरतिविजयजी १६. श्रीकल्पसूत्रम् (प्रत) १७. आचारोपदेश हिन्दी-अनुवाद १८. रत्नाकरावतारिका १९. सभाष्यतत्त्वार्थाधिगमसूत्रम् २०. षोडशाधिकारप्रकरणम् सटीकम् २१. षोडशाधिकारप्रकरणम् मूलमात्रम् २२. नरनारायणानन्दमहाकाव्यम् २३. श्रावकधर्मविधिप्रकरणम् २४. श्रीस्मृतिमंदिरप्रशस्तिकाव्यम् २५. श्रीस्मृतिमंदिरप्रशस्तिकाव्यम् गुजराती-अनुवाद अन्य साहित्य मुनिश्रीवैराग्यरतिविजयजी, मुनिश्रीप्रशमरतिविजयजी मुनिश्रीवैराग्यरतिविजयजी (अप्राप्य) मुनिश्रीप्रशमरतिविजयजी (अप्राप्य ) मुनिश्रीवैराग्यरतिविजयजी (अप्राप्य) मुनिश्रीवैराग्यरतिविजयजी (अप्राप्य) मुनिश्रीप्रशमरतिविजयजी (अप्राप्य) (अप्राप्य) मुनिश्रीप्रशमरतिविजयजी मुनिश्रीप्रशमरतिविजयजी Page #14 -------------------------------------------------------------------------- ________________ प्रवचन प्रकाशन आज्ञाधर्मथी अनुबद्ध अने शब्दश्रीथी समृद्ध साहित्यनुं प्रकाशन करवानो मुद्रालेख धरावतां प्रवचन प्रकाशनने समुदार सहयोग आपनार प्रवचन स्तम्भ श्री हेमतलाल छगनलाल महेता परिवार श्रीमती प्रभाबेन नंदलाल शेठ मुंबई युवा संस्कार ग्रूप नागपुर - श्री चंदुलाल नेमचंद महेता श्री छोटालाल देवचंद महेता श्री खुशालचंद वनेचंद शाह श्री रसीकलाल वाडीलाल शाह श्री कस्तूरचंद नानचंद शाह श्री मंछालाल शामजी जोगाणी श्री गुलाबचंद ताराचंदजी कोचर प्रवचन प्रेमी श्री सुधीरभाई के भणशाली कलकत्ता श्री कुमारपाल दिनेशकुमार समदडिया- मंचर श्री शांतिलाल गमनाजी शंका (मंचरवाला) साबरमती, अमदावाद आरटेक्स एपल्स साबरमती, अमदावाद प्रेमचंद रवचंद शाह (कुणघेवाला) अमदावाद छगनलाल तिलोकचंद संघवी - साबरमती, अमदावाद प्रवचन भक्त कलकत्ता कलकत्ता कलकत्ता कलकत्ता कलकत्ता - कलकत्ता कलकत्ता नागपुर नागपुर श्रीमती समजुबेन मणीलाल दोशी परिवार उंझानिवासी श्री नटवरलाल पोपटलाल महेता नागपुर - - श्री प्रवीणचंद्र वालचंदजी शेठ (डीसावाला) - नासिक श्री चंद्रशेखर नरेंद्रकुमार चोपडा वरोरा श्री सुभाषकुमार वाडीलाल शाह कराड श्री प्रकाश बाबुलाल, देवेन्द्र, पराग, प्रितम शाह मंचर श्रीमती हसमुखबेन जयंतीलाल शाह (पृथ्वी) वापी श्री विनोदभाई मणिलाल शाह अमदावाद - स्व. रंभावेन त्रिकमलाल संघवी, हस्ते महेन्द्रभाई साणंद पुखराज रायचंद परिवार साबरमती, अमदावाद श्री शेफाली मूर्तिपूजक जैन संघना आराधको एक सद्गृहस्थ, हरजी ( राजस्थान ) वोरा नागरदास केवळदास रिलि. ट्रस्ट - अमदावाद श्री लांबडिया जैन संघ श्री नथमलजी प्रतापचंदजी ( बेडावाला) साबरमती आ धर्मानुरागी महानुभावोनी अमे हार्दिक अनुमोदना करीओ छीओ. - अमदावाद Page #15 -------------------------------------------------------------------------- ________________ ॥ द्वितीयः परिच्छेदः ॥ अद्वैतैकान्तपक्षेऽपि दृष्टो भेदो विरुद्धयते । कारकाणां क्रियायाश्च नैकं स्वस्मात्प्रजायते ॥२४॥ श्रोतव्याष्टसहस्री श्रुतैः किमन्यैः सहस्रसङ्ख्यानैः । विज्ञायते ययैव स्वसमयपरसमयसद्भावः ॥ (भा०) सदायेकान्तेषु दोषोद्भावनमभिहितमाचार्यैः । केवलमद्वैतैकान्ताभ्युपगमान्न तावतानेकान्तसिद्धिरिति चेत्, न प्रत्यक्षादिविरोधात् । न हि कस्यचिदभ्युपगममात्रं प्रमाणसिद्धं क्रियाकारकभेदं प्रतिरुणद्धि क्षणिकाभ्युपगमवत् । - अष्टसहस्रीतात्पर्यविवरणम् षट्तर्काम्बुधिसम्प्लवव्यसनितां व्यालोडनं दिक्पटग्रन्थानां सितवाससां च समये निःशङ्कसङ्क्रीडनम् । जानन्तु प्रतिवादिनः सहृदयाश्चानन्दिनः सन्त्वितः, सम्भाव्येति कृतो विनोदरसिकैरस्माभिरेषः श्रमः ॥२॥ (शार्दूल०) यत्तीर्थे विमले क्रियोज्ज्वलगुणैः संसेविते साधुभिः, गच्छ: स्वच्छतरस्तपाह्वय इह प्राप्तः प्रसिद्धि पराम् । सामाचार्यपि चारुतामचकलत्तत्रैव मैत्रीगृहं, तं श्रीवीरजिनेन्द्रमप्रतिहतानन्दाय वन्दामहे ॥१॥ [शार्दूल०] सन्नयोत्प्रेक्षयाऽकम्प्रसम्प्रदायाश्रयान्मम ॥ व्याख्यातुर्जेनतन्त्राणां विलं हरतु भारती ॥२॥ अद्वैतैकान्तनिरासपूर्वकमेकत्वपृथक्त्वसप्तभङ्गीसाधनायोपक्रमते-अद्वैतैकान्त Page #16 -------------------------------------------------------------------------- ________________ ४१८ अष्टसहस्त्रीतात्पर्यविवरणम् [अद्वैतवादी स्वस्य पूर्वपक्षं स्थापयति] नन्विदमयुक्तमेव संलक्ष्यते 'अद्वैतं ौकात्म्यं, द्वाभ्यामितं द्वीतं, द्वीतमेव द्वैतं, न द्वैतमद्वैतमिति व्याख्यानात्, तस्यैकान्तस्तदेवेत्यभिनिवेशः । तस्य पक्षः प्रतिज्ञाभ्युपगममात्रम् । तस्मिन्नपि दृष्टः साक्षात्कृतोऽनुमितश्च कारकाणां कादीनां क्रियायाश्च स्थानगमनादिरूपाया निष्परिस्पन्दस्वभावायाः परिस्पन्दरूपायाश्च भेदः प्रत्यक्षेणानुमानेन च विरुद्ध्यते, तदभ्युपगममात्रस्य प्रत्यक्षादिप्रमाणसिद्धक्रियाकारकभेदप्रतिरोधित्वासम्भवात् क्षणिकत्वाभ्युपगमवदिति तात्पर्यव्याख्यानम् अकलङ्कदेवानाम् । न हि कारकभेदः प्रत्यक्षादिनाद्वैतेऽपि विरुद्ध्यते, पादपस्यैकस्य युगपत्क्रमेण वा कर्नाद्यनेककारकात्मकत्वप्रतीते: ? क्रियानानात्वमप्येकस्य तथैव न प्रतिषिध्यते, देशाद्यपेक्षया गमनागमनयोः स्थानशयनयोर्वा सकृदपि निश्चयात् । तद्वदेकमपि परब्रह्म सकलक्रियाकारकभेदात्मकतया न विरोधमध्यास्ते तथा प्रतिभासवैचित्र्येऽप्येकत्वाव्याघाताच्चित्रज्ञानवदित्यपरः । [जैनाचार्या अद्वैतपक्षं निराकुर्वन्ति] सोऽप्येवं प्रष्टव्यः-क्रियाकारकभेदप्रपञ्चः किमजन्मा जन्मवान्वा ? न तावदजन्मा, कादाचित्कत्वात्, यस्त्वजन्मा स न कादाचित्को यथात्मा, कादाचित्कश्चायं, तस्मान्नाजन्मेति बाधकसद्भावात् । जन्मवांश्चेत्कुतो जायते ? इति वक्तव्यम् ? परमपुरुषादेवेति चेत्, कथमद्वैतसिद्धिः ? कारणकार्ययोद्वैतप्रसिद्धः । - अष्टसहस्त्रीतात्पर्यविवरणम् पक्षेऽपीत्यादिना । नन्विदमित्यादिः भाष्यतात्पर्यार्थो वृत्तिकृतैव प्रकाश्यते, तेन ननुः अक्षमार्थो, न तु पूर्वपक्षार्थः, तदुपमर्दाभावादिति मन्तव्यम् । इदम् =अद्वैतेकान्तवाद्युक्तम्, तस्मिन्नपि व्याख्याताद्वैतस्वीकारेऽपि क्रियाकारकभेदप्रतिभासो बाधितो भविष्यतीत्यत आहतदभ्युपगममात्रस्येति अद्वैताभ्युपगममात्रान्न तद्बाधोऽन्यच्च बाधकं न पश्याम इत्यबाधितक्रियाकारकभेदप्रतिभासादद्वैतपक्षो मिथ्यैवेति भावः । पारमार्थिकेऽद्वैते औपाधिक: क्रियाकारकसम्बन्धभेदो न विरोधमावहतीत्याशङ्कते-न हीत्यादिना । अपरो= अद्वैतवादी । परमार्थतो भेदाभावे प्रपञ्चब्रह्मणोः कार्यकारणभावो दुर्घट इति वक्तुमुपक्रमते-सोऽप्येवं प्रष्टव्य इत्यादिना । कथञ्चेति न च कार्यं ब्रह्मैव ब्रह्म च कार्यदशायां कार्यमन्यदा Page #17 -------------------------------------------------------------------------- ________________ ४१९ द्वितीयो भागः [ परि०२-का. २४] क्रियादिकार्यस्य ब्रह्मणोऽनन्यत्वादद्वैतमेवेति चेत्, कथं स्वस्मादेव तस्य जन्म युज्यते ? कथं च कार्यादभिन्नस्य ब्रह्मणोऽकार्यत्वम् ? यतो नित्यत्वं स्यात् । परस्माज्जायते इति चेद्, द्वैतसिद्धिः, पुरुषात्परस्य क्रियाकारकभेदहेतोरभ्युपगमात् । परस्यानाद्यविद्यारूपत्वादकिञ्चिद्रूपस्य द्वितीयत्वायोगान्न द्वैतसिद्धिरिति चेत्, कथमकिञ्चिद्रूपस्य कारणत्वम् ? कार्यस्याप्यकिञ्चिद्रूपत्वाददोष इति चेत्, किमिदानीं खरविषाणादश्वविषाणस्य जन्मास्ति ? नेति चेत्, कथमविद्यात्मनः कारणादविद्यात्मककार्यस्योत्पत्तिः ? माहेन्द्रादिषु मायामयादेव पावकादेस्तथाविधधूमादिजन्मदर्शनाददोष इति चेत्, न तत्रापि पावकधूमाद्योः सर्वथा मायामयत्वासिद्धेः न हि तत्प्रतिभासयोर्मायारूपत्वं, स्वसंवेदनसिद्धत्वात् । नापि बहि: सद्रव्यादिरूपयोर्मायास्वभावत्वं, व्यभिचारित्वाभावात् । तद्विशेषाकारयोर्मायारूपत्वमिति चेत्, न तद्विविक्तवस्तुव्यतिरेकेण मायायाः सम्भवाभावात् । तथा क्रियाकारकभेदप्रपञ्चाचारविविक्तपरब्रह्मव्यतिरेकेणाविद्यायाः सम्भवाभावे कथं वेदान्तवादिनामविद्यातः कार्यस्याविद्यात्मनो जनने स्वस्मादेव स्वस्य जन्म न भवेत् ? तच्च प्रमाणविरुद्धं न शक्यं व्यवस्थापयितुं नैरात्म्यवत् । [क्रियाकारकादिभेदो न स्वतो जायते न परतः, किन्तु जायत एवेति मन्यमाने दोषान् प्रदर्शयन्त्याचार्याः ।] क्रियाकारकभेदोऽयम्, (भा०) न स्वतो जायते परतो वा । अपि तु जायते एवेति - अष्टसहस्रीतात्पर्यविवरणम् चाकार्यमित्येवमभेदेऽपि सुवर्णतद्विकारवत् कार्यकारणभाव इति शङ्कनीयम्, एवं सति भेदाभेदवादप्रसङ्गात्, कार्यदशायामपि तदभिन्नत्वे कूटस्थत्वव्याघाताच्च । तर्हि प्रपञ्चोऽविद्याजन्मास्तित्वत्याशक्य निषेधति-परस्मादित्यादिना । अकिञ्चिद्रूपस्येति अविद्याया असत्याया द्वितीयायाः कारणभूताया अभ्युपगमेऽपि सदद्वैताव्याकोपादित्यर्थः । माहेन्द्रादिष्विति 'उडीशादिग्रन्थप्रसिद्धेन्द्रजालादिकर्मस. तद्विशेषाकारयोरिति अतद्देशस्थयोरपि तद्देशत्वेन प्रतीयमानयोरित्यर्थः । तद्विविक्तेति अन्यदेशे तत्सत्त्वान्न सर्वथा मायामयत्वमिति १. उड्डीशतन्त्रं रावणेश्वरसंवादरुपः तन्त्रशास्त्रीयग्रन्थः । तत्र दशमे पटले इन्द्रजालादिकर्मवर्णनम् । Page #18 -------------------------------------------------------------------------- ________________ ४२० अष्टसहस्त्रीतात्पर्यविवरणम् सुषुप्तायते, प्रतिपत्त्युपायाभावात् । दृष्टेष्टविरोधप्रसङ्गात् । न हि किञ्चित्स्वस्मात् परस्माच्चाजायमानं जन्मवदेव दृष्टमिष्टं वा, येन तथा प्रतिपत्त्युपायरहितं ब्रुवाणः सुषुप्तमिवात्मानं नाचरेत् । (भा० ) तस्माद्यद् दृष्टविरुद्धं तन्न समञ्जसं यथा नैरात्म्यम् । विरुद्धयते च तथैवाद्वैतं क्रियाकारकभेदप्रत्यक्षादिभिः । एकस्मिन्नपि क्रियाकारकभेदप्रत्यक्षादेः सम्भवात् स्वप्नसंवेदनवत् कथमद्वैतं विरुद्धमिति चेत्, न स्वप्नसंवेदनस्याप्येकत्वे तद्विरोधस्य तदवस्थत्वात् । तत्रान्यदेव हि क्रियाविशेषसंवेदनं स्ववासनोत्थमन्यदेव च कारकविशेषसंवेदनं प्रत्यक्षमनुमानादि वा न पुनरेकमेव, तद्धेतुवासनाभेदाभावप्रसङ्गात्, जाग्रद्दशायामिव स्वप्नादिदशायामपि पुंसोऽनेकशक्त्यात्मकस्य क्रियाकारकविशेषप्रतिभासवैचित्र्यव्यवस्थितेः । अष्टसहस्त्रीतात्पर्यविवरणम् भावः । प्रतिपत्त्युपायाभावादिति न चाकस्मादेवोत्पत्तेरयम् अदोषः, तत्पक्षस्य 'हेतुभूतिनिषेधो न इत्यादिना पञ्चभिर्विकल्पैरुदयनादिभिर्दुषितत्वात् । न च आनुपाख्यादुत्पत्तिपक्षोऽदूष्यः, तादृशादेवाविद्याविलासात् प्रपञ्चोत्पत्त्यभ्युपगमादिति वाच्यम्, अविद्यातत्कार्यस्यानुपाख्यत्वे तन्निवृत्तेरनात्मस्वरूपत्वेनानिर्मोक्षापातात्, अतिरिक्तायास्तस्यास्तत्सम्बन्धस्य चात्मन्यभ्युपगमे तु मुक्तावपि द्वैतप्रसङ्गादिति न किञ्चिदेतत् । एकस्मिन्नपीति यथैकस्मिन् स्वप्नज्ञाने गजतुरगादीनामनेकेषां प्रतिभासनं तथा परब्रह्मण्येकस्मिन् घटपटादिभेदानां भानमद्वैतपक्षेऽप्यविरुद्धमिति भावः । एकत्वे = सर्वथैकत्वे, तद्विरोधस्य = क्रियाकारक भेदप्रत्यक्षादिविरोधस्य । अनेकशक्त्यात्मकस्येति अन्यथा जाग्रत्स्वप्नविशेषस्य स्वप्नावान्तरविशेषस्य चानुपपत्तेरिति भावः । न च जाग्रत्स्वप्नारम्भकाज्ञानविशेषात् स्वप्नविशेषारम्भकतद्विशेषाच्च तदुपपत्तिर्मूलाज्ञाननिष्ठशक्तिविशेषाद्वेति वाच्यम्, तस्य कर्मतच्छक्त्यतिरिक्तत्वे मानाभावात्, तत्कार्यक्रियाकारकप्रतिभासभेदानामन्तःकरणधर्माणामात्मनि भानाभ्युपगमेऽन्यथाख्यात्यापत्तेः, आत्मनिष्ठानामनिर्वचनीयानां तेषामभ्युपगमेऽन्तःकरणात्माधारभेदेन सत्येतरविवेकस्य विना शपथं दुष्करत्वात्, १. हेतुभूतिनिषेधो न स्वानुपाख्यविधिर्न च । स्वभाववर्णना नैवमवधेर्नियत्वतः ॥ ( न्यायकुसुमाञ्जलि १५) । Page #19 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि०२-का. २४] ४२१ [एकनिरंशात्मादौ कारकाद्यालम्बनं यथा तथैव एकस्मिन् ब्रह्मणि काराकाद्यालम्बने भवेत् ____ का बाधा ? इति प्रश्ने सति प्रत्युत्तरम् । ] कस्यचिदेकरूपस्यात्मगगनादेरप्यनेकान्तवादिनामनेकक्रियाकारकविशेषप्रतिभासालम्बनत्वसिद्धिविरुद्धमेतत्प्रत्यक्षादिभिरद्वैतम् । न हि करोति कुम्भं कुम्भकारो दण्डादिना, भुङ्क्ते पाणिनौदनमित्यादि प्रत्यक्षं भ्रान्तं येनाद्वैतस्य विरोधकं न स्यात् । सर्वत्र क्रियाकारकादिरूपं कथञ्चिद्भिन्नं, भिन्नप्रतिभासित्वान्यथानुपपत्तेरित्यनुमानं वा नानाजीवा इत्यादिप्रवचनं वा न विभ्रमाक्रान्तं येनाद्वैतं न विरुन्ध्यात् । स्यादाकूतं-'विवादापन्नं प्रत्यक्षादि मिथ्यैव, भेदप्रतिभासित्वात् स्वप्नप्रत्यक्षादिवत्' इति तदसत्, प्रकृतानुमाने पक्षहेतुदृष्टान्तभेदप्रतिभासस्यामिथ्यात्वे तेनैव हेतोर्व्यभिचारात् तन्मिथ्यात्वे तस्मादनुमानात्साध्याप्रसिद्धः । पराभ्युपगमात्पक्षादिभेदप्रतिभासस्यामिथ्यात्वे न दोष इति चेत्, न स्वपराभ्युपगमभेदप्रतिभासेन व्यभिचारात् । तस्यापि पराभ्युपगमान्तरादमिथ्यात्वाद्दोषाभावे स एव तद्भेदप्रतिभासेन व्यभिचार इति न क्वचिद्व्यवतिष्ठेत । - अष्टसहस्त्रीतात्पर्यविवरणम् विविधप्रतिभासादितन्निष्ठानन्तधर्मादिकल्पनायां महागौरवेणात्मनिष्ठानामेव ('तेषां परिणामानां) कल्पनौचित्यात्, आत्मनि कौटस्थ्यस्य ब्रह्माद्वैतस्य च विलूनशीर्णत्वादिति दिग् । अथ एकस्य निरंशस्यात्माकाशादेरनेककारकाद्यालम्बनत्वं यथा तथा ब्रह्मणोऽपि भविष्यतीति आशङ्कायाम् आह-कस्यचिदित्यादि । तथा चानेकान्तावलम्बनं विनात्माकाशादेरप्यनेककारकालम्बनत्वमयुक्तमिति न तदृष्टान्तेनाद्वैताविरोध इति सिद्धम् । क्रियाकारकभेदप्रतिभासस्य मिथ्यात्वात्तेन नाद्वैतधीविरोध इत्याशक्य निराकरोति-स्यादाकूतमित्यादिना । पराभ्युपगमादिति एवं हि तत्र प्रातिभासिकममिथ्यात्वं सिद्धं, साध्यते च पारमार्थिकं मिथ्यात्वमिति न व्यभिचार इत्यर्थः । स एवेति विशेषेऽनुगमाभावेन सामान्यत एव मिथ्यात्वस्य साध्यत्वादिति भावः । न च तत्त्वज्ञाननाश्यतावच्छेदको धर्मः परमार्थतो मिथ्यात्वमद्वैतसिद्धेः पूर्वं सिद्ध इति तत्साध्यत्वप्रत्याशापि दत्तपदेति स्मर्त्तव्यम् । अद्वैतधीरेव महावाक्यजनितत्वेन निश्चितप्रामाण्यत्वात् क्रियाकारकभेदप्रतिभासविरोधिनी, न तु स १. अत्र आवलिकयां लिखितः पाठो भ्रष्ट इव प्रतिभाति । स च कल्पयित्वा पूरितः कोष्ठके न्यस्तः - सं० Page #20 -------------------------------------------------------------------------- ________________ ४२२ अष्टसहस्त्रीतात्पर्यविवरणम् कश्चिदाह 'ब्रह्माद्वैतस्य संविन्मात्रस्य स्वत:सिद्धस्य क्रियाकारकभेदप्रत्यक्षादीनां बाधकस्य भावात्तेषां भ्रान्तत्वम्, ततो न तद्विरोधकत्वम्' इति तदपि न साधीयः, तथा सति बाध्यबाधकयोर्भेदात् द्वैतसिद्धिप्रसङ्गात् । न च परोपगममात्रात्तयोर्बाध्यबाधकभावः, परमार्थतस्तदभावापत्तेः प्रतिभासमात्रवत्प्रतिभासमात्रविशेषस्यापि सत्यत्वसिद्धरनेकान्तव्यवस्थानात् । तदेकान्ततः पुरुषाद्वैतं प्रत्यक्षादिविरुद्धमेव ॥२४॥ तथास्मिन्नद्वैतैकान्ते दूषणान्तरमुपदर्शयन्तः प्राहु: कर्मद्वैतं फलद्वैतं लोकद्वैतं च नो भवेत् । विद्याविद्याद्वयं न स्याद् बन्धमोक्षद्वयं तथा ॥२५॥ लौकिकं वैदिकं च कर्मेति वा कुशलमकुशलं च कर्मानुष्ठानमिति वा पुण्यं पापं च कर्मेति वा कर्मद्वैतं न स्यात् । तदभावादिहामुत्र च श्रेयःप्रत्यवायलक्षणं फलद्वैतं न स्यात्, कारणाभावे कार्यस्यानुत्पत्तेः । तत एवेहलोकपरलोकलक्षणं लोकद्वैतं न स्यात् । कर्मादिद्वैतस्यानाद्यविद्योपदर्शितत्वाददोष इति चेत्, न धर्माधर्मद्वैतस्याभावे विद्याविद्याद्वयस्यासम्भवाद् बन्धमोक्षद्वयवत् । पूर्वाविद्योदयादेव विद्याविद्याद्वयं बन्धमोक्षद्वयं च, परमार्थतस्तदसम्भवात् न बन्धोऽस्ति न वै मोक्ष इत्येषा परमार्थता इति प्रवचनात् [ ] प्रतिभासमात्रस्य परब्रह्मण एव - अष्टसहस्रीतात्पर्यविवरणम् तद्विरोधी, सन्दिग्धप्रामाण्यकत्वेन दुर्बलत्वादिति कस्यचिन्मतमुत्थापयति-कश्चिदाहेत्यादिना । तथापि बाध्यबाधकबलादेव द्वैतसिद्धिः स्यादिति समाधत्ते-तदपि न साधीय इत्यादिना एतेन आत्मविषयकापरोक्षभ्रमनिवर्तकत्वेनात्माद्वैतापरोक्षज्ञानमेव बलवत, तच्च सकलभेदप्रपञ्चनाशकमिति तत्सिद्धौ द्वैतबाध इत्यपि अपास्तम् । आत्मसाक्षात्कारेण देहादावात्माभेदभ्रमनिरासे तद्भेदस्यैव परमार्थतः सिद्धेः । निर्विकल्पकस्य भ्रमाविरोधित्वेन सविकल्पात्मसाक्षात्काराश्रयणे ब्रह्मणो निर्द्धर्मकत्वव्याघाताच्च । किञ्च महावाक्यजन्यापरोक्षवृत्तिविषयतैव ब्रह्मणो दुर्घटा निर्द्धर्मकत्वहानेरिति कथं तदद्वैतधियो बलवत्त्वम् ? । एतेन मिथ्याज्ञानवासनानाशकत्वं तत्त्वज्ञानस्य वैजात्येनैव, न तु तत्र समानप्रकारकत्वमपि तन्त्रमित्युक्तावपि न क्षतिः इति दिग् ॥२४॥ Page #21 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि०२-का. २५] ४२३ तात्त्विकत्वादिति चेत्, न नैरात्म्यस्यापि तात्त्विकत्वापत्तेस्तत्कल्पनाया नैष्फल्यस्याविशेषात् । सर्वो हि, (भा० ) प्रमाणप्रत्यनीकं स्वमनीषिकाभिरद्वैतमन्यद्वा किञ्चित्फलमुद्दिश्यारचयेत्, अन्यथा तत्प्रति प्रवर्तनायोगात्प्रेक्षावृत्तेः । तथाहिपुण्यपापसुखदुःखेहपरलोकविद्येतरबन्धमोक्षविशेषरहितं प्रेक्षापूर्वकारिभिरनाश्रयणीयम् । यथा नैरात्म्यदर्शनम् । तथा च प्रस्तुतम् । तस्मात्प्रेक्षापूर्वकारिभिरनाश्रयणीयम् इति न तज्जिज्ञासापि श्रेयसी । अष्टसहस्रीतात्पर्यविवरणम् नैरात्म्यस्यापीति बौद्धदृष्ट्या तत्रापि स्वागमजन्यतत्त्वज्ञानविषयत्वाविशेषात्, नैष्फल्याविशेषादिति व्यवहारबाधदूषणस्य भूषणताया उभयमतेऽपि सुवचत्वादिति तात्पर्यम् । यथा नैरात्म्यदर्शनमिति न च प्रमाणगवेषणया प्रतिभासस्यावश्योपस्थितत्वात्तद्भेदस्योपाधिभिरेवोपपत्तेस्तस्य प्रागभावध्वंसप्रतियोगित्वकल्पने गौरवान्नित्यचिदात्मसिद्धिरेव नैरात्म्यसिद्धिमुपहन्तुं प्रगल्भत इति मधुसूदनसरस्वत्युक्तमपि क्षोदक्षमम्, प्रामाणिकस्य प्रतिभासस्य ध्वंसप्रागभावाप्रतियोगित्वकल्पनापेक्षया तत्प्रतियोगिताकल्पन एव लाघवात्, अज्ञातासत्त्वस्वीकारे गृहाद् बहिर्निर्गतस्य पुत्राद्यभावशङ्कयोर:शिरस्ताडनादिप्रसङ्गस्य च नैरात्म्यवादे बौद्धस्येव दृष्टिसृष्टिवादे वेदान्तिनोऽपि वज्रलेपत्वात् । वस्तुतः स्वाप्निकदण्डघटादिकार्यकारणभावतुल्यत्वात् यागस्वर्गादिकार्यकारणभावानां वैदिककर्ममात्रेऽनाश्वासाद्वेदान्तधर्मश्रद्धावतां न कदापि स्वोरस्ताडनाद्विरतिः । अथ इदृग् दूषणास्पदं दृष्टिसृष्टिवादं त्यक्त्वा व्यवहारवादं स्वीकुर्वन् वेदान्ती निर्दोषो भविष्यतीति चेत्, मैवम्, अव्यवहारिणस्तस्य केनापि व्यवहारिपङ्क्तावप्रवेशनात् । (शङ्का) भाट्टस्तत्र तं प्रवेशिष्यतीति चेत्, न, कर्मविधिशेषत्वाद्वेदान्तानामप्रामाण्यं वदता तेन तस्य दूरत एव वर्जनात् । आश्रयतां वा भाट्टमतं बलाद् व्यवहारवादे वेदान्ती, तथापि स्वर्गनरकादेर्व्यावहारिकपदार्थस्याविद्याजन्यस्योपगमे एकस्याविद्यानाशे स्वर्गनरकाधुच्छेदान्निर्दुःखसुखं जगत् स्यात्, तत्तदविद्याजन्यतत्तत्स्वर्गनरकाद्यभ्युपगमे चापेक्षिकत्वेन तस्य प्रातिभासिकत्वमागतं, न व्यावहारिकत्वम् । (शङ्का) मूलाज्ञानजन्ययावत्पदार्थनाशः सर्वमुक्तावेव, तद्विलासजन्यस्त्वन्यदापीत्यदोष इत्यपि न क्षोदक्षमम्, एवं सत्यध्यारोपबाधक्रमेण प्रतिपुरुषं मोक्षोपायनानात्वेन प्रतिपुरुषं जगत्सृष्टिभेदापत्तेरसमाधानात्, कथं चावस्थितव्यावहारिकपदार्थाभ्युपगमे तं पारमार्थिकत्वेन पश्यतां योगिनां नात्यन्तभ्रान्तत्वम् ? । (शङ्का) योगिनः Page #22 -------------------------------------------------------------------------- ________________ अष्टसहस्त्रीतात्पर्यविवरणम् [ब्रह्माद्वैतवादी सर्वचेतनाचेतनपदार्थान् ब्रह्मणो अन्तः प्रविष्टमेव मन्यते तस्य पूर्वपक्ष: ] स्यान्मतं-‘न ब्रह्माद्वैतं प्रमाणप्रत्यनीकत्वात् स्वमनीषिकाभिरारचितं, तस्यानुमानादागमाद्वा प्रमाणात्प्रसिद्धेः । तथा हि-यत्प्रतिभाससमानाधिकरणं तत्प्रतिभासान्तःप्रविष्टमेव । यथा प्रतिभासस्वरूपम् । प्रतिभाससमानाधिकरणं च सर्वम्, इति हेतोः परब्रह्मसिद्धिः । न चायमसिद्धः सुखं प्रतिभासते; रूपं प्रतिभासते इति सर्वत्र प्रतिभाससमानाधिकरणत्वस्य प्रतीतेरन्यथा सद्भावासिद्धेः । अप्रतिभासमानस्यापि सद्भावे सर्वस्य मनोरथसिद्धिप्रसङ्गान्न किञ्चिदसत्स्यात् । अथ प्रतिभासव्यतिरिक्तस्य प्रतिभास्यस्यार्थस्यान्तर्बहिर्वोपचारात्प्रतिभाससमानाधिकरणत्वव्यवस्थितेः प्रतिभासस्वरूपमुख्यतोपपत्तेरसिद्धो हेतुरिति मतं तदप्यसम्यक्, प्रतिभास्यप्रतिभासयोस्तद्भावानुपपत्तेः । प्रतिभासस्य हेतुत्वात्प्रतिभास्योऽर्थ इति चेत्, न, प्रतिभासमात्रस्याहेतुकत्वात्कस्यचित्तद्धेतुत्वायोगात् । तदहेतुकत्वम्, अकादाचित्कत्वात्, अन्यथा कदाचित्तदभावप्रसङ्गात् । प्रतिभासालम्बनत्वात्प्रतिभास्योऽर्थो भवतीति चेत्, कुतस्तस्य प्रतिभासालम्बनत्वम् ? प्रतिभास्यत्वादिति चेत्, परस्पराश्रयणम् । प्रतिभासालम्बनत्वयोग्यत्वादिति चेत्, तर्हि प्रतिभासस्वरूपमेव प्रतिभास्यं, तस्यैव प्रतिभासालम्बनत्वोपपत्तेः सर्वत्र प्रतिभासस्य स्वरूपालम्बनत्वात् । तथा च कथं विषयस्योपचरितं प्रतिभाससमानाधिकरणत्वं यतोऽसिद्धो तुः स्यात् ? । तत एव नानैकान्तिको विरुद्धो वा प्रतिभासान्तरप्रविष्टस्य कस्यचिदपि प्रतिभाससमानाधिकरणत्वायोगाद्धेतोर्विपक्षवृत्त्यभावात् । नाश्रयासिद्धिरपि हेतोः शङ्कनीया, सर्वस्य धर्मिणः परब्रह्मण एवाश्रयत्वात् । अष्टसहस्त्रीतात्पर्यविवरणम् प्रत्यविद्याशक्तिविशेषेण तत्र प्रतिभाससत्त्वमेव जन्यत इति चेत्, न, क्षणिकवादिवैलक्षण्ये तत्र तदेत्यस्य वाच्यत्वात्, तथाऽप्यन्यं प्रति व्यावहारिके उभयप्रतिभासप्रसङ्गाच्च । तस्मादापेक्षिकसत्त्वं ब्रुवाणो ज्ञानमात्रमभ्युपगम्य भेदमात्रमपछुवानो वेदान्ती माध्यमिकं नातिशयीतेति सुनिश्चिता नः प्रतीतिः ॥२५॥ 'तदभावानुपपत्तेः प्रतिभासस्वरूपाभावानुपपत्तेः, तर्हीति प्रतिभासविषयताया १. तद्भाव....इति अष्टसहस्रीसम्मतः पाठः । ४२४ Page #23 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि०२-का. २६] ४२५ ब्रह्मेति ब्रह्मशब्देन कृत्स्नं वस्त्वभिधीयते । प्रकृतस्यात्मकात्य॑स्य वै शब्दः स्मृतये मतः ॥ [ इति श्रुतिव्याख्यानात् । ततोऽनवद्याद्धेतोर्भवत्येवाद्वैतसिद्धिः । तथोपनिषद्वचनादपि सर्वं वै खल्विदं ब्रह्म इत्यादिश्रुतिसद्भावात्, ततस्तद्भ्रान्तिनिराकरणात् इति ॥२५॥ [इत्थमद्वैतवादिभिः स्वपक्षः समर्थितः आचार्या अग्रेतनकारिकाभिस्तन्निराकरणं कुर्वन्ति] तदेतत्प्रतिविधित्सवः प्राहु: हेतोरद्वैतसिद्धिश्चेद् द्वैतं स्याद्धेतुसाध्ययोः । हेतुना चेद्विना सिद्धिद्वैतं वाङ्मात्रतो न किम् ? ॥२६॥ ननु च प्रतिभाससमानाधिकरणत्वाद्धेतोः सर्वस्य प्रतिभासान्तःप्रविष्टत्वेन पुरुषाद्वैतसिद्धावपि न हेतुसाध्ययोद्वैतं भविष्यति, तादात्म्योपगमात् । न च तादात्म्ये साध्यसाधनयोस्तद्भावविरोधः, सत्त्वानित्यत्वयोरपि तथाभावविरोधानुषङ्गात् । कल्पनाभेदादिह साध्यसाधनधर्मभेदे प्रकृतानुमानेऽपि कथमविद्योदयोपकल्पितहेतुसाध्ययोस्तद्भावविघातः ? सर्वथा विशेषाभावादिति चेत्, न शब्दादौ सत्त्वानित्यत्वयोरपि कथञ्चित्तादात्म्यात् सर्वथा तादात्म्यासिद्धेः, तत्सिद्धौ साध्यसाधनभावविरोधात् । न चासिद्धमुदाहरणं नाम, अतिप्रसङ्गात् । ततो न हेतोरद्वैतसिद्धिः । [आगमादद्वैतसिद्धिर्भवेदिति मन्यमाने जैनाचार्याः दोषानारोपयन्ति ।] हेतुना विनैवागममात्रात्तत्सिद्धिरिति चेत्, न अद्वैततदागमयोद्वैतप्रसङ्गात् । यदि पुनरागमोऽप्यद्वयपुरुषस्वभाव एव न ततो व्यतिरिक्तो येन द्वैतमनुषज्यते इति मतम् । ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि तस्य पर्वाणि यस्तं वेत्ति स वेदवित् ॥ [भगवद्गीता १५.१] अष्टसहस्त्रीतात्पर्यविवरणम् अभेदनियतत्वादिति भावः । यदि पुनरागमोऽपीति मृन्मयगजभानेऽपि मृद्भानवत् सर्वत्र ब्रह्मभानेन तद्विषयत्वेनैवागमज्ञानस्यापि सत्यत्वादिति भावः । ऊर्ध्वमूलमिति ऊर्ध्वं Page #24 -------------------------------------------------------------------------- ________________ ४२६ अष्टसहस्त्रीतात्पर्यविवरणम् इति वचनात्, तदा ब्रह्मवत्तदागमस्याप्यसिद्धत्वं स्यात्, सर्वथाप्यसिद्धस्वभावस्य सिद्धत्वविरोधात् सिद्धासिद्धयोर्भेदप्रसक्तेः । तदेवं (भा० ) यदसिद्धं तन्न हितेप्सुभिरहितजिहासुभिर्वा प्रतिपत्तव्यम् । यथा शून्यतैकान्तः, तथा चासिद्धमद्वैतमिति । अत्र नासिद्धो हेतुः । पुरुषाद्वैतस्यानुमानादागमाद्वा सिद्धत्वायोगात् । प्रतिभाससमानाधिकरणत्वानुमानात्तत्सिद्धिरिति चेत्, न, तस्य विरुद्धत्वात्, प्रतिभासतद्विषयाभिमतयोः कथञ्चिद्भेदे सति समानाधिकरणत्वस्य प्रतीतेः सर्वथा प्रतिभासान्तःप्रविष्टत्वासाधनात् स्वविषयस्य । न हि शुक्ल: पट इत्यादावपि सर्वथा गुणद्रव्ययोस्तादात्म्ये सामानाधिकरण्यमस्ति । सर्वथा भेदवत् प्रतिभासस्वरूपं प्रतिभासते इत्यत्रापि न प्रतिभासतत्स्वरूपयोर्लक्ष्यलक्षणभूतयोः सर्वथा तादात्म्यमस्ति, प्रतिभासस्य साधारणासाधारणधर्माधिकरणस्य स्वस्वरूपादसाधारणधर्मात्कथञ्चिद्भेदप्रसिद्धरन्यथा तत्सामाधिकरण्यायोगात् सुवर्णं सुवर्णमिति यथा सह्यविन्ध्यवद्वा । तदेवं यत्प्रतिभाससमानाधिकरणं तत् प्रतिभासात्कथञ्चिदर्थान्तरं यथा प्रतिभासस्वरूपं, प्रतिभाससमानाधिकरणं च सुखनीलादि सर्वमिति साध्यविपरीतसाधनाद्धेतो द्वैतसिद्धिः । [आम्नायवाक्यं द्वैतमेव साधयति नाद्वैतम्] सर्वं वै खल्विदं ब्रह्म इत्याद्याम्नायादपि द्वैतसिद्धिरेव स्यात्, सर्वस्य प्रसिद्धस्याप्रसिद्धेन ब्रह्मत्वेन विधानात्, सर्वथा प्रसिद्धस्य विधानायोगादप्रसिद्धवत् । क्वचिदात्मव्यक्तौ प्रसिद्धस्यैकात्म्यरूपस्य ब्रह्मत्वस्य सर्वात्मस्वनात्माभिमतेषु च विधानादद्वैतप्रपञ्चारोपव्यवच्छेदेऽपि तदागमाद् व्यवच्छेद्यव्यवच्छेदकसद्भावसिद्धेः कथमद्वैतसिद्धिः ? आम्नायस्य परब्रह्मस्वभावत्वेऽपि न ततस्तदद्वैतसिद्धिः, स्वभावस्वभाववतोस्तादात्म्यैकान्तानुपपत्तेः । - अष्टसहस्रीतात्पर्यविवरणम् । शुद्धबुद्धस्वरूपावस्था मूलं यस्य स तथा तम् । अधोऽविद्याजन्यप्रपञ्चविलासावस्था शाखा यस्य स तथा तम् । असिद्धत्वं स्यादिति विशिष्याज्ञानादित्यर्थः, सामान्यज्ञानं तु सन्देहाविरोधि, सर्वं ज्ञानं शब्दब्रह्मविषयं परब्रह्मविषयं वेति सन्देहस्याप्यन्ततः सम्भवादिति स्मर्त्तव्यम् । स्वविषयस्य प्रतिभास्यस्य । सर्वथा भेदवत् सर्वथा भेदपक्ष इव । कथञ्चिद्भेदप्रसिद्धेरिति स्वरूपपदस्य विशेषपरत्वादिति भावः । साध्यस्यैव साधन Page #25 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि०२-का. २६] ४२७ [स्वसंवेदनप्रत्यक्षेण ब्रह्मणः सिद्धिर्भविष्यति तस्य विचारः ।] स्वसंवेदनमेव पुरुषाद्वैतसाधनमिति चेत्, नैतदपि सारं, निगदितपक्षदोषोपनिपातात् । तथा हि (भा०) तत्सिद्धिर्यदि साधनात्साध्यसाधनयोस्तर्हि द्वैतं स्यात् । अन्यथाद्वैतसिद्धिवद् द्वैतसिद्धिः कथं न स्यात् ? स्वाभिलापमात्रादर्थसिद्धौ सर्वं सर्वस्य सिद्धयेत् । न हि स्वसंवेदनमपि साधनमात्मनोऽन्यदेव साधनत्वविरोधात् अनुमानागमवत्साध्यस्यैव साधनत्वापत्तेः प्रकृतानुमानागमयोरिव स्वसंवेदनप्रत्यक्षस्यापि साधनस्याभावात् । स्वतः सिद्धं ब्रह्मेत्यभ्युपगमे द्वैतमपि स्वतः सकलसाधनाभावेऽपि किं न सिद्धयेत् ? तत्त्वोपप्लवमात्रं वा ? नैरात्म्यं वा ? स्वाभिलापमात्राविशेषात् । सर्वस्य सर्वमनोरथसिद्धिरपि दुर्निवारा स्यात् । एतेनैतदपि प्रत्याख्यातं यदुक्तं बृहदारण्यकवार्तिके आत्मापि सदिदं ब्रह्म मोहात्पारोक्ष्यदूषितम् । ब्रह्मापि स तथैवात्मा सद्वितीयतयेक्ष्यते ॥ आत्मा ब्रह्मेति पारोक्ष्यसद्वितीयत्वबाधनात् । पुमर्थे निश्चितं शास्त्रमिति सिद्धं समीहितम् ॥ [बृ० आ० वा० ९०९-९१०] इति । मोहस्याविद्यारूपस्याकिञ्चिद्रूपत्वे पारोक्ष्यहेतुत्वाघटनात् सद्वितीयत्वदर्शननिबन्धनत्वासम्भवात् तस्य वस्तुरूपत्वे द्वैतसिद्धिप्रसक्तेस्तत एव पारोक्ष्यसद्वितीयत्वयोर्बाधनात्, पुमर्थे निश्चितं शास्त्रमित्येतस्यापि द्वैतसाधनत्वात्, शास्त्रपुमर्थयोर्भेदाभावे साध्यसाधनभावासम्भवात् ॥२६॥ अष्टसहस्त्रीतात्पर्यविवरणम् त्वापत्तेः ब्रह्मान्तर्भावात्, साधनस्य-पृथक्साधनत्वेन विवक्षितस्याभावादित्यन्वयः । किं न सिद्धयेदिति श्रुतेरद्वैतविषयिण्या इव द्वैतविषयिण्या अपि बहुश उपलम्भादित्यर्थः । स्वस्वाभ्युपगममात्रेण चान्योऽप्यतिप्रसङ्गो दुर्निवार इत्याह-तत्त्वोपप्लवमानं वेत्यादिना । आत्मापीति तदिदं ब्रह्मापि तत्त्वेन वस्तुतोऽपरोक्षमपि मोहाद्=अज्ञानात्, पारोक्ष्यदूषितं १. सदिदं इति अष्टसहस्रीसम्मतः पाठः । Page #26 -------------------------------------------------------------------------- ________________ ४२८ अष्टसहस्त्रीतात्पर्यविवरणम् अद्वैतं न विना द्वैतादहेतुरिव हेतुना ।। सञ्जिनः प्रतिषेधो न प्रतिषेध्याहते क्वचित् ॥२७॥ [अद्वैतशब्दो नसमासयुक्तोऽतः स्वविरोधवास्तविकं द्वैतमपेक्षत इति जैनाचार्याः समर्थयन्ति ।] ___कथं पुनर्हेतुना विना अहेतुरिवाद्वैतं द्वैताद्विना न सिद्ध्यतीति निश्चितमिति चेद्, उच्यते, (भा०) अद्वैतशब्दः स्वाभिधेयप्रत्यनीकपरमार्थापेक्षो नञ्यूर्वाखण्डपदत्वादहेत्वभिधानवदित्यनुमानात् । अनेकान्तशब्देन व्यभिचार इति चेत्, न तस्यापि सम्यगेकान्तेन विनानुपपद्यमानत्वात् । एवममायादिशब्देनापि न व्यभिचारस्तस्य मायादिनाविनाभावित्वात् । तथा नपूर्वग्रहणात् केवलेन शब्देन व्यभिचारो निरस्तः, पदांशेनाखण्डग्रहणात् । अखरविषाणादिशब्देन च न । ततो (भा०) नात्र किञ्चिदतिप्रसज्यते, तादृशो नजो वस्तुप्रतिषेधनिबन्धनत्वात् । न ह्यखण्डपदविशेषणस्य नञः क्वचिदवस्तुप्रतिषेधनिबन्धनत्वमुपलब्धं, पदान्तरोपहितपदविशेषणस्यैव तथा प्रतीतेरखरविषाणमित्यादिवत् । अत एव (भा०) सर्वत्र प्रतिषेध्यादृते सचिनः प्रतिषेधाभावः प्रत्येतव्यः । न हि खरविषाणं सज्ञि किञ्चिदस्ति, येन तस्यापि सत एव कथञ्चित् प्रतिषेधः प्रसज्यते । - अष्टसहस्रीतात्पर्यविवरणम् दोषप्रयोज्यपारोक्ष्याभिलापाक्रान्तम्, ईक्ष्यत इत्युत्तरक्रियान्वयः । तथैव स प्रसिद्ध आत्मा ब्रह्मापि ब्रह्माभिन्नोऽपि, मोहाद्=अज्ञानात्, सद्वितीयतया भेदाक्रान्ततयेक्ष्यते । आत्मा ब्रह्मेति वेदान्तफलीभूततत्त्वज्ञाने सति ब्रह्मण्यध्यस्तयोः पारोक्ष्यसद्वितीयत्वयोर्बाधने सति, शास्त्रं पुमर्थे निश्चितं निश्चितपुरुषार्थं जातम्, इति हेतोः, अज्ञाननिवृत्त्यैव कण्ठगतचामीकरोपलम्भन्यायेनोद्देश्यसिद्धेरित्यर्थः ॥२६॥ स्वाभिधेयेति स्वार्थप्रतियोगिप्रमाधीननिरूपण इत्यर्थः । केवलेन शब्देन= घटादिना, पदांशेनेत्यादि, अखण्डपदग्रहणाच्च खरविषाणादिशब्दे नागौरनश्व इत्यादावगनश Page #27 -------------------------------------------------------------------------- ________________ ४२९ द्वितीयो भागः [ परि २-का. २७] [पुरुषाद्वैते वास्तवेन प्रतिषेधव्यवहारोऽसम्भव एवेत्यादिना ब्रह्मवादी स्वपूर्वपक्षं विधत्ते ।] ननु पुरुषाद्वैते परमार्थतः प्रतिषेधव्यवहारासम्भवात् परोपगतस्य द्वैतस्य परप्रसिद्धन्यायादेवानुमानादिरूपादभावः साध्यते । न च स्वपरविभागोऽपि तात्त्विकस्तस्याविद्याविलासाश्रयत्वात्, ततो न कश्चिद्दोष इति चेत्, न अविद्याया एव व्यवस्थापयितुमशक्तेः । ननु च न वस्तुवृत्तमपेक्ष्याविद्या व्यवस्थाप्यते, तस्यामवस्तुभूतायां प्रमाणव्यापारायोगात् । परब्रह्मण्यविद्यावति अविद्यारहिते च विद्याया विरोधादानर्थक्याच्च नाविद्यास्येत्यप्यविद्यायामेव स्थित्वा प्रकल्पनात्, ब्रह्माधारायास्त्वविद्यायाः कथमप्ययोगात् । यतश्चानुभवादविद्यास्मीति ब्रह्मानुभूतिमत्तत एव प्रमाणोत्थविज्ञानबाधिता सा तदबाधने तस्या अप्यात्मत्वप्रसङ्गात् । तथा ब्रह्मण्यविज्ञाते तदविद्याव्यवस्थानुपपत्तेर्बाधासद्भावात् विज्ञातेऽपि सुतरां तदबाधनादव्यवस्थानम्, अबाधिताया बुद्धेम॒षात्वायोगात् । न चाविद्यावान्नरः कथञ्चिदविद्यां निरूपयितुमीशश्चन्द्रद्वयादिभ्रान्तिमिव जातितैमिरिकः । तदुक्तं ब्रह्माविद्यावदिष्टं चेत्, ननु दोषो महानयम् । निरवद्ये च विद्याया आनर्थक्यं प्रसज्यते ॥ Tनाविद्यास्येत्यविद्यायामेव स्थित्वा प्रकल्पते । ब्रह्माधारा त्वविद्येयं न कथञ्चन युज्यते ॥ [बृहदा० सं० वा० १७५-१७६] - अष्टसहस्त्रीतात्पर्यविवरणम् इत्यादिपदांशे च न व्यभिचारः, एकत्र विशेषणस्यान्यत्र च विशेष्यस्याभावादित्यर्थः, परब्रह्मणीत्यादि अविद्यावति विद्याभावेनैव विद्याया विरोधः, तद्रहिते चाविद्यानिवृत्तिप्रयोजनाभावे विद्याया आनर्थक्यमित्यर्थः । असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते [ ] इति वचनादित्यर्थः, 'ब्रह्मद्वारायाश्चेति ब्रह्माश्रयायाश्चेत्यर्थः, न हि स्वतः स्फुरद्रूपं ब्रह्माविद्याया आश्रयो भवितुमर्हति, दीपज्योतिरिव तिमिरस्येति भावः, अस्तु तहि ब्रह्मविषया जीवाश्रयाऽविद्येति मतम् तत्राह- यतश्चेति यदैवाविद्याऽस्तीति जीवब्रह्मानुभूतिमद्भवति तदैव सा नश्यति, प्रमाणबाध्यस्वरूपत्वात्तस्या इत्यप्रामाणिकैवेयम् । अविज्ञात इति विशेषणज्ञानाभावादित्यर्थः, तदबाधना=विद्याया अबाधनात्, अव्यवस्थानं अविद्याया इत्यर्थः । अबाधिताया बुद्धेविद्यायाः, मृषात्वायोगादविद्यात्वस्य वक्तुमशक्यत्वात् । मानाघातासहिष्णुत्वं प्रमाणप्रवृत्त्यस्पर्शित्वम् । स्वानुभवाश्रयत्वादिति अहं मां न १. ब्रह्माधाराया इति अष्टसहस्रीसम्मतः पाठः । Page #28 -------------------------------------------------------------------------- ________________ ४३० अष्टसहस्त्रीतात्पर्यविवरणम् यतोऽनुभवतोऽविद्या ब्रह्मास्मीत्यनुभूतिमत् । अतो मानोत्थविज्ञानध्वस्ता साप्यन्यथात्मता ॥ ब्रह्मण्यविदिते बाधान्नाविद्येत्युपपद्यते । नितरां चापि विज्ञाते मृषा धीर्नास्त्यबाधिता ॥ अविद्यावानविद्यां तां न निरूपयितुं क्षमः । वस्तुवृत्तमतोऽपेक्ष्य नाविद्येति निरूप्यते ॥ वस्तुनोऽन्यत्र मानानां व्यापृतिर्न हि युज्यते । अविद्या च न वस्त्विष्टं मानाघातासहिष्णुतः ॥ अविद्याया अविद्यात्वे इदमेव च लक्षणम् । मानाघातासहिष्णुत्वमसाधारणमिष्यते ॥ [बृहदा० वा० १७७. १८१] न चैवमप्रामाणिकायामविद्यायां कल्प्यमानायां कश्चिद्दोषः, तस्याः संसारिणः स्वानुभवाश्रयत्वाद् द्वैतवादिन एव दृष्टादृष्टार्थप्रपञ्चस्य प्रमाणबाधितस्य कल्पनायामनेकविधायां बहुविधदोषानुषङ्गात् । तदप्युक्तं त्वत्पक्षे बहु कल्प्यं स्यात् सर्वं मानविरोधि च । कल्प्याविद्यैव मत्पक्षे सा चानुभवसंश्रया ॥ [बृहदा० बा० १८२] इति कश्चित् । [अधुना जैनाचार्या ब्रह्मवादिपक्षं निराकुर्वन्ति ।] सोऽपि न प्रेक्षावान्, सर्वप्रमाणातीतस्वभावायाः स्वयमविद्यायाः स्वीकरणात् । न हि प्रेक्षावान् सकलप्रमाणातिक्रान्तरूपामविद्यां विद्यां वा स्वीकुरुते । न च प्रमाणानामविद्याविषयत्वमयुक्तं, विद्यावदविद्याया अपि कथञ्चिद्वस्तुत्वात् । तथा विद्यात्वप्रसङ्ग इति चेत्, न किञ्चिदनिष्टम् । __ यथा यत्राविसंवादस्तथा तत्र प्रमाणता इत्यकलङ्कदेवैरप्युक्तत्वात् । बहि:प्रमेयापेक्षया तु कस्यचित्संवेदनस्याविद्यात्वं बाधकप्रमाणावसेयम् । कथम %3 - अष्टसहस्त्रीतात्पर्यविवरणम् - जानामीत्यनुभवस्यैवानिर्वचनीयभावरूपाज्ञानसाक्षित्वादिति भावः । कथञ्चिद्वस्तुत्वादिति पर्युदासाश्रयणस्यान्यथानुपपत्तेरिति भावः । तथा वस्तुत्वेऽविद्याया यथा यत्रेति Page #29 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि० २-का. २७] ४३१ प्रमाणविषयः ? तद्बाधकं पुनरर्थान्यथात्वसाधकमेव प्रमाणमनुभूयते इति वस्तु वृत्तमपेक्ष्यैवाविद्या निरूपणीया । न च कथञ्चिद्विद्यावतोऽप्यात्मनः प्रतिपत्तुरविद्यावत्त्वं विरुद्धयते, यतोऽयं महान् दोषः स्यात् । नाप्यविद्याशून्यत्वे कथञ्चिद्विद्यानर्थक्यं प्रसज्यते, तत्फलस्य सकलविद्यालक्षणस्य भावात् । न चाविद्यायामेव स्थित्वास्येयमविद्येति कल्प्यते, सर्वस्य विद्यावस्थायामेवाविद्येतरविभागनिश्चयात् स्वप्नाद्यविद्यादशायां तदभावात् । ततश्चात्मद्वारैवाविद्या युक्तिमती । यस्मादनुभवादविद्यावानहमस्मीत्यनुभववानात्मा तत एव कथञ्चित् प्रमाणोत्थविज्ञानाबाधिता तदविद्यापि सैवेत्यात्मताविरोधाभावात् । न चात्मनि कथञ्चिदविदितेप्यविद्येति नोपपद्यते, बाधाविरोधात् । कथञ्चिद्विज्ञातेऽपि वाविद्येति नितरां घटते, विदितात्मन एव तद्बाधकत्वविनिश्चितेः कथञ्चिद् बाधिताया - अष्टसहस्त्रीतात्पर्यविवरणम् स्वसंवेदनापेक्षया सर्वत्राविद्यायां विद्यात्वमिष्टमेवेत्यर्थः । न च कथञ्चिदिति कालभेदाद्विषयभेदाच्चैकत्राप्यात्मनि विद्यावत्त्वेनाविद्यावत्त्वमविरुद्धमिति भावः । तत्फलस्य मतिज्ञानश्रुतज्ञानादिरूपपूर्वविद्याफलस्य, सकलविद्यालक्षणस्य केवलज्ञानस्वरूपस्य तन्निष्फलत्वं त्विष्टमेव, ततः परस्य ज्ञानरूपफलस्याभावात्, तदाहुः-श्रीसिद्धसेनदिवाकरपादाः दोषपक्तिर्मतिज्ञानान्न किञ्चिदपि केवलात् । तमःप्रचयनिःशेषविशुद्धिफलमेव तत् ॥ [निश्चय द्वात्रिंशिका-१४] श्रीहरिभद्रसूरयस्त्वस्यापि परममुक्तिरूपफलमधिकृत्य परापरफलत्वं स्वीचक्रुः । तदुक्तं षोडशकप्रकरणे एतद्योगफलं तत्परापरं दृश्यते परमनेन । तत्तत्वं यद् दृष्टवा निवर्त्तते दर्शनाकाङ्क्षा ॥१॥ [१५.१२] इति । कथञ्चित्प्रमाणोत्थेति ज्ञानेन विषयस्याबाधनादित्यर्थः । सैव= कथञ्चिद्विद्यैव, स्वसंवेदनांशेऽबाधादित्यर्थः । कथञ्चिद्=बहिःप्रमेयापेक्षया । कथञ्चिद् बाधिताया इति भावप्रमेयापेक्षयाऽबाधिताया अपि बहि:प्रमेयापेक्षया बाधिताया इत्यर्थः । अहं मां न जानामीति प्रतीतिश्च विशेषज्ञानाभावविषया, न भावरूपाज्ञानविषया, अन्यथाहमज्ञः किमपि न जानामीति प्रतीत्या सर्वविषयज्ञानासिद्धेस्तन्निवृत्तये सर्वविषयकं तत्त्वज्ञानमेष्टव्यम्, तच्च तवानिष्टमिति विपरीतसिद्ध्यापत्तेः, तस्मान्नाज्ञाननिमित्तकप्रपञ्चप्रतिपादकमद्वैतदर्शनं Page #30 -------------------------------------------------------------------------- ________________ अष्टसहस्त्रीतात्पर्यविवरणम् बुद्धेर्मृषात्वसिद्धेः । न च कथञ्चिदविद्यावानेव नरस्तामविद्यां निरूपयितुमक्षमः, अष्टसहस्त्रीतात्पर्यविवरणम् ४३२ प्रामाणिकं नाम । T॥ अभेदवादः ॥ स्यादेतद् भेदखण्डनादेवाभेदपर्यवसानेऽद्वैतसिद्धिर्भविष्यति, तथा च श्रीहर्षः कोऽसौ भेदो नाम ? यद्धीरद्वैतविरोधिन्युच्यते, स हि स्वरूपं वा स्यादितरेतराभावो वा धर्मान्तरं वा । नाद्यो भिन्नेऽभिन्नभ्रमानुत्पत्तिप्रसङ्गात्, भ्रान्त्यापि धर्मिस्वरूपावगाहनात् । न च अनारब्धावयविषु तरुष्ववयविविभ्रमवद् उपपत्तिः, तदुदाहरणानङ्गीकारात्, अतस्मिन् स एवायमिति प्रत्यभिज्ञाभासार्थस्यैवात्र दृष्टान्तत्वेनेष्टत्वात्, अत्रापि धर्मारोपोपगमे तादात्म्याभावस्य संसर्गाभावप्रवेशापत्तेः, स्वरूपभेदग्रहेऽभेदधर्मस्याप्यशक्यारोपत्वाच्च । नापि द्वितीयः, प्रतीतावन्योन्याश्रयप्रसङ्गात् । (शङ्का) प्रतियोगिरूपत्वेनाप्रतीतावधिकरणप्रतीतिरधिकरणस्वभावत्वेनास्मृतौ प्रतियोगिस्मृतिश्च तद्ग्रहणकारणमतो नान्योन्याश्रय इति चेत्, न, वस्तुतोऽन्योन्याभावस्य कुम्भपटोभयप्रतियोगिकाश्रयकत्वेन पटे निषिद्धयमाने कुम्भस्यापि निषेधापत्तेः । (शङ्का) प्रत्येकप्रतियोगिताश्रयतयोर्भिन्नत्वादेकस्य प्रतियोगिताश्रयतान्यतरनिरूपणकालेऽन्यस्य तदपेक्षाभावान्न दोष इति चेत्, न, अन्योन्याभावाधिकरणप्रतियोगितया प्रतीतेरन्योन्याभावग्रहात् पूर्वमयोगाद्विशिष्टप्रतीतौ विशेषणप्रतीतेर्हेतुत्वात् यस्य कस्यचित् प्रतियोगितयाऽधिकरणतया च प्रतीतेरहेतुत्वात् । यत्र भिन्नेऽभेदभ्रमस्तद्देशान्यदेशे भ्रमविषयस्य स्वाभावप्रतियोगित्वेन तद्देशे च धर्मिणः सत्त्वाधारतया प्रतीतावप्यन्योन्याभावप्रतीत्यनुत्पत्तेः । (शङ्का) प्रतियोगिबुद्धौ स्मृतित्वस्य प्रयोजकत्वेऽपि योऽसौ तत्र नासीत् सोऽयमिति स्मर्यमाणाभावप्रतियोगित्वेऽपि वस्तुगत्या भिन्नस्याभिन्नतया भ्रमेणोल्लिख्यमानस्यान्योन्याभावप्रतीत्यनुदयाद् दोषाभावोऽपि हेतु:, स भ्रमोदाहरणे नास्तीति चेत्, न, पूर्वदृष्टस्मृतिमता ततो वस्तुगत्याऽन्यस्यैवानन्तरदृष्टस्य पूर्वदृष्टाद्भिन्नाभिन्नतयाऽनिरूपितस्यापि सम्भवेन तत्रेतरेतराभावबुद्धयापत्तेः । (शङ्का) बुध्यत एव तत्र स इति चेत्, न पश्चात्तत्र संशयस्य दर्शनात् । (शङ्का) विशेषधीरपि तत्र हेतुरिति चेत्, न, विशेषत्वस्यान्योन्याभावनिरूपणं विना दुर्निरूपत्वात् । एतेन वस्तुगत्या प्रतियोगिनः स्वरूपेण स्मृतिर्वस्तुगत्या चाधिकरणस्य स्वरूपेण प्रतीतिर्हेतुरित्यपि निराकृतम्, भिन्नस्याभिन्नतया वृक्षादेः प्रतीयमानस्यान्योन्याभाववत्तया ग्रहणप्रसङ्गात् । नापि तृतीयः, अभावस्य निर्द्धर्मकतापक्षे तस्य विश्वाभिन्नत्वप्रसक्तौ विश्वस्या Page #31 -------------------------------------------------------------------------- ________________ ४३३ द्वितीयो भागः [ परि०२-का० २७] सकलप्रेक्षावद्व्यवहारविलोपात् । यदपि प्रमाणाघातसहिष्णुत्वमसाधारण - अष्टसहस्त्रीतात्पर्यविवरणम् भावरूपत्वेन निर्द्धर्मकतयाऽन्योन्यभेदविरहिण ऐकरूप्यापत्तेः । (शङ्का) अभावे धर्माभावात् स्वरूपमेव भेद इति चेत्, न, तस्य निष्प्रतियोगिकत्वेन भेदत्वस्य वक्तुमशक्यत्वात्, निष्प्रतियोगिकेनापि तेन सप्रतियोगिकव्यवहारजननाभ्युपगमे च प्रतियोगिनियमाभावात् स्वस्मादपि भेदव्यवहारोत्पत्तिप्रसङ्गात् । किञ्च, धर्मान्तरं भेद इति ब्रुवतः कोऽभिसन्धिः ?, किं घटत्वादय एव भेदः, उत भेदो नामान्य एवैकः कश्चिद्धर्म: ? आये घटत्वादीनां सप्रतियोगिकत्वप्रसङ्गः, भेदस्य सप्रतियोगिकत्वात्, न च घटत्वादयस्तथा, पटाद्यनपेक्ष्य तेषां प्रतीतेः । (शङ्का) यदा पटाद्यपेक्षया प्रतीयन्ते तदा भेदव्यवहारं कुर्वन्तीति चेत्, प्रतीतौ कस्य पटाद्यपेक्षेति वाच्यं, किं घटत्वादेरुत तद्धर्मस्य कस्यचित् ? आद्ये पटाद्यपेक्षामन्तरेण कदापि घटत्वप्रतीत्यनुत्पत्तिप्रसङ्गो, न हि यदन्तरेण यदुत्पद्यते तत्तत्कारणकं नाम, वह्नाविवावान्तरजातिभेदेन कारणभेदस्य चरितार्थीकर्तुमशक्यत्वात्, साक्षात्कारत्वादिना सह परापरभावानुपपत्तेः, जात्योः परस्परं सङ्करमिच्छतामपि मते पञ्चम्याऽवधिभावः प्रतिपाद्यमानः केन समन्वियात् ? न तावद् घटत्वेन, तस्यावधिघटितत्वे तथैव पटं प्रतीत्यापत्तेः। (शङ्का) तद्धर्मेणेति चेत्, तद्ययं द्वितीयो विकल्पः, तत्र च स एव सापेक्षप्रतिपत्तिर्भेदो न तु घटत्वादिः, घटत्वादेश्च स भेदः स्यात् तद्धर्मः स्यात्, घटादेस्तु भेदपर्यनुयोगे तदभिधानमसङ्गतम् । कथं च भिन्नैरनुगतभेदव्यवहारः स्यात् ? तथा सति वा किं न तैरेव सदादिव्यवहारोऽपि स्यात् ।। ___नापि द्वितीयोऽनभ्युपगमात्, सप्तपदार्थ्यनन्तर्भावप्रसङ्गात् । ननु घटत्वादय एव भेदो घटत्वादिज्ञानाविशेषेऽपि च प्रतियोगिज्ञानसहकारिवशाद्विचित्रव्यवहारोपपत्तिरिति चेत्, न, व्यवहारसत्यत्वार्थं वास्तवार्थगतविशेषस्यावश्यं स्वीकर्तव्यत्वे तत्रैव पर्यनुयोगानुवृत्तेः, अनन्तभेदपरम्पराभ्युपगमे च तत्क्रमज्ञेयतायां प्रतीत्यपर्यवसानात्, तद्युगपज्ज्ञेयतायामनन्तत्वात् सुसदृशतया कस्यचिदन्यभेदस्यान्यदीयतयाऽपि ग्रहसम्भवादिना सर्वत्र प्रामाण्यानाश्वासप्रसङ्गात् । किञ्च घटत्वादेर्भेदत्वेऽवधिभूतपटत्वादिसापेक्षप्रतिपत्तिकतायां घटत्ववत्पटत्वस्यापि भेदरूपस्य भेदावधिप्रतिपत्तिसापेक्षतयाऽवधेश्च घटत्वादिना घटत्वादिप्रतीत्यपेक्षायामन्योन्याश्रयप्रसङ्गः । (शङ्का) भेदरूपत्वे घटत्वादेरवधिप्रतीत्यपेक्षा, न तु स्वरूपमात्रप्रतिपत्तौ, स्वरूपमात्रेण चावधित्वं तत् कृत एवमिति चेत, भेदरूपता यदि तस्य स्वात्मैव, तदा Page #32 -------------------------------------------------------------------------- ________________ ४३४ अष्टसहस्त्रीतात्पर्यविवरणम् लक्षणमविद्यायास्तदपि प्रमाणासामर्थ्यादेव निश्चेतव्यम इति न प्रमाणातिक्रान्ता - अष्टसहस्त्रीतात्पर्यविवरणम् - स्वरूपमात्रप्रतिपत्तौ नावध्यपेक्षेति शून्यं वचनम् । अथ धर्मान्तरं, तदा स एव भेदोऽस्तु, कृतं तद्वत्तया घटत्वादेर्भेदरूपतेति प्रक्रियाकल्पनया । (शङ्का) अस्तु स एव धर्मान्तरं भेद इति चेत्, न, दूषितत्वात् । अथ अस्तु स्वरूपादित्रयं भेद इति चेत्, न, तद्व्यवहारस्यैकाकारस्य नानानिमित्तत्वे गोत्वाद्यनुगताकारप्रतीतेरपि कथमेकनिमित्तसिद्धौ प्रमाणत्वं ? व्यभिचारात्, सामान्यविशेषैरेव परसामान्यस्य बुद्धिव्यवहारोपपत्तौ तत्कल्पनानुपपत्तेः । किञ्च, भेदे भेदान्तरमस्ति न वा, आद्येऽनवस्था, द्वितीये तदभाव एव स्यात्, तद्धर्मिण्येव तत्प्रवेशात् । (शङ्का) भेदस्वभावत्वात् स्वात्मन्यपि स्वयमेव तद्व्यवहारमयं करोति सत्तेव सद्व्यवहारमिति चेत्, न, अस्य भेदस्य स्वात्मप्रतियोगित्वेन स्वाश्रयत्वेन चाङ्गीकारे स्वस्मादपि स्वस्य भेदप्रतीतिव्यवहारयोः प्रामाण्यप्रसङ्गात् । (शङ्का) न वयं स्वात्मा स्वाधिकरणं स्वावधिरित्यभ्युपगच्छामः, किन्तु धर्मान्तरे तत्प्रतियोगिके तदाधारके वा स्वीकृतौ यौ बुद्धिव्यवहारावृत्पद्येते तावनवस्थाभयाद्धर्मान्तरमन्तरेणैव स्वभावाद्धेदः करोतीति ब्रूम इति चेत्, तमुन्यत्र यादृशी प्रतीतिर्द्धर्मान्तरविषया तादृश्येवात्र विना धर्मान्तरमुत्पद्यत इति भ्रान्ता स्यात्, यस्य च स्वभावस्य वशेनेदृशी सा जायते स दोषः स्यात्, यथा सत्यरजते रजतत्वप्रतीती रजतत्वादुत्पन्ना विनापि धर्मान्तरमन्यत्रोत्पद्यत इति भ्रान्ता भवति, यस्य च सामर्थ्यात्तादृशी जायते स दोष इत्युच्यते । (शङ्का) तत्र रजतत्वं नास्ति अत्र धर्मिरूपोऽपि भेद एव सन्नवलम्बनमिति चेत्, मैवम्, भिन्नप्रतीतिविशिष्टविषया भेदतदाश्रयरूपोभयवस्तुविषयाऽन्यत्र यादृशी सत्याङ्गीकृता ततो मात्रयाऽप्यन्यूनार्थाया इह जायमानाया यदि द्वयं विषयं नाङ्गीकुरुषे तदा गीर्वाणगुरुणापि दुर्निवारं भ्रान्तत्वम्, अथाङ्गीकुरुषे, तदाऽनवस्थाप्रसङ्गः । अथ तदुभयव्यतिरेकेणैवात्र सा सत्या, अन्यत्र तहि ततोऽन्यादृशविषया मिथ्या स्यादित्यलं पल्लवेन । अत्रोच्यते श्रीहर्ष हर्षस्तव खण्डनेऽस्मिन् भेदस्य चेदस्य कटुर्विपाकः । अतद्भिदानां भविता वितानैर्ब्रह्मश्रुतौ किं न कृतान्तकोपः ॥ किञ्चैतेन भेदखण्डनेनाभिमतम्, ? (१) किं भेदज्ञानमेव नास्ति, (२) सदपि वा नित्यम्, (३) अनित्यमपि वा निर्हेतुकम्, (४) सहेतुकमपि वा निर्विषयम्, (५) Page #33 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि. २-का. २७] ४३५ काचिदविद्या नाम यदभ्युपगमे ब्रह्माद्वैतं न विरुद्धयेत, द्वैतप्रतिषेधो वाद्वैताविनाभावी - अष्टसहस्त्रीतात्पर्यविवरणम् धिकारिहारयात, यश्च दिन्ति, सविषयमपि वा बाध्यमानविषयम् । तत्र प्रथमः सर्वतो विरोधादनुत्तरः, द्वितीयः सुषुप्त्यवस्थानुरोधादुपेक्षणीयः, तृतीयोऽपि विरोधादेव हेयः, चतुर्थस्तु भेदोल्लेखादेव त्याज्यः पञ्चमपक्षचिन्तायां तु निरपेक्षस्वरूपादित्रयबाधेऽपि जात्यन्तरात्मकस्य भेदस्य किमेताभिर्व्यधिकरणानुपपत्तिभिर्बाधनीयम् ? । हन्त एवं धर्म्यभिन्नधर्मान्तरमेव भेदः इत्यागतं तथा चानवस्थेति चेत्, तीनवस्थाभिया तदधिकप्रवाहस्त्यज्यताम्, तस्य तु कुतस्त्यागः ? न ह्यनवस्था प्रतिभासमानमर्थं निवर्तयति, किन्तु प्रवाहं परिहारयति, गन्धे गन्धान्तरवत् । ये अत्यन्ताभावात्यन्ताभावः प्रतियोग्येव तदत्यन्ताभावस्तु प्रथमः तुरीयश्च द्वितीय एवेति नानवस्था, भेदतद्भेदादिस्त्वधिक एव तत्रानवस्थाप्रमाणसिद्धत्वान्न दोष इति वदन्ति, तन्मतेऽप्याकाङ्क्षाक्रमवशात् प्रतीतिपर्यवसानेन न दोषः । स्वरूपभेदपक्षेऽपि भिन्नत्वेन ज्ञानाभावान्नाभेदभ्रमानुपपत्तिः, तत्तत्प्रतियोगिकत्वतत्तदधिकरणकत्वेन भेदज्ञाने च क्षयोपशमविशेषस्यैव हेतुत्वान्नातिप्रसङ्गोऽर्थित्वादिविशेषस्यापि तदाधान एवोपक्षयात्, तुल्ययोगक्षेमं चैतत्तद्विशेषणविशिष्टभावप्रत्यक्षेणापि, न ह्युपस्थितानामेव विशेषणानां भावबुद्धौ वैशिष्ट्यग्रह इति नियमः, अनुपस्थितानामपि पर्यायाणां द्रव्यग्रहकाले ग्रहस्य तुल्यवित्तिवेद्यत्वन्यायसिद्धत्वात्, उपस्थितानामप्यनपेक्षितानां विशिष्टबुद्धावनारोहाच्च । किञ्च, भेदे प्रतिक्षिप्तेऽभेदः सुतरां प्रतिक्षिप्तः स्यात्, भेदाभावरूपस्याभेदस्य भेदनिरूपणं विना दुर्निरूपत्वात्, इत्थं च भेदेनेवाभेदेनापि ब्रह्मणो दुर्जेयत्वात्तस्यानिर्वचनीयत्वं शून्यत्वं वा स्यादिति गतं वेदान्तिनां क्लीवा(बा)नामधिष्ठानसत्तयाऽपि । (शङ्का) पार्यन्तिकाभेदभाने विकल्पाभावान्नानुपपत्तिरिति चेत्, पार्यन्तिकभेदभानेऽपि तत एव सा मा भूत्, विचारसाध्यनिर्विकल्पकत्वस्योभयत्र साम्यात् । (शङ्का) अभेदो न भेदाभावः किन्तु तादात्म्यं प्रमेयमभिधेयमित्याद्यनुरोधादिति चेत्, न, तदपि यदि धर्मिस्वरूपं तदा त्वदुक्तरीत्याऽभिन्ने भेदभ्रमानुपपत्तेः, यदि चातिरिक्तम, तदा तत्सम्बन्धगवेषणेऽनवस्थानात् । (शङ्का) अस्तु तर्हि भेदाभेदोभयशून्यं ब्रह्मतत्त्वमिति चेत्, न, तस्य खपुष्पप्रायत्वात्, तद्ग्राहकत्वेनाभिमतस्य ज्ञानस्य सुषुप्तज्ञानतुल्यस्याप्रमाणत्वात् (शङ्का) सुषुप्तज्ञानमप्युत्थानान्तरसत्यविकल्पदर्शनेन प्रमाणमिति चेत्, तर्हि स्वविषयविकल्पाजननात्ततोऽपि त्वदीयं ब्रह्मज्ञानं हीनतरमस्तु, तदभावे तस्याभेदविषयत्वं भेदविषयत्वं वेत्यत्र संशयानिवृत्तेः, वेदान्तवासनामात्रेण तत्प्रामाण्ये पिटकत्रयादिवासनया क्षणिकादिज्ञानमपि प्रमाणं स्यादिति न किञ्चिदेतत् । Page #34 -------------------------------------------------------------------------- ________________ ४३६ अष्टसहस्त्रीतात्पर्यविवरणम् न भवेत् । तदेतेन शब्दाद्वैतमपि निरस्तं, विज्ञानाद्यद्वैतवत्तस्यापि निगदितदोषविषयत्वसिद्धेः प्रक्रियामात्रभेदात्, तद्व्यवस्थानुपपत्तेः, स्वपक्षेतरसाधकबाधकप्रमाणाभावाविशेषात् स्वतः सिद्ध्ययोगाद् गत्यन्तराभावाच्च । इत्यलमतिप्रसङ्गिन्या सङ्कथया, सर्वथैवाद्वैतस्य निराकरणात् ॥२७॥ (भा० ) इष्टमद्वैतैकान्तापवारणं, पृथक्त्वैकान्ताङ्गीकरणादिति माऽवदीधरत् । यस्मात् पृथक्त्वैकान्तपक्षेऽपि पृथक्त्वादपृथक् तु तौ । पृथक्त्वे न पृथक्त्वं स्यादनेकस्थो ह्यसौ गुणः ॥२८॥ पृथगेव द्रव्यादिपदार्थाः प्रमाणादिपदार्थाश्च, पृथक्प्रत्ययविषयत्वात् सह्यविन्ध्यवदित्येकान्तः पृथक्त्वैकान्तः, सजातीयविजातीयव्यावृत्ता निरन्वयविनश्वरा बहिरन्तश्च परमाणवः इत्यभिनिवेशश्च । [वैशेषिकनैयायिकाभ्यां स्वीकृतं भेदपक्षं निराकुर्वन्ति जैनाचार्याः ।] तत्र येषां पृथक्त्वगुणयोगात् पृथक् पदार्था इत्याग्रहस्ते एवं तावत्प्रष्टव्याः । किं पृथग्भूतपदार्थेभ्यः पृथक्त्वं गुणः पृथग्भूतोऽपृथग्भूतो वा ? न तावदुत्तरः पक्षो गुणगुणिनोर्भेदोपगमात् । नापि प्रथमः (भा०) पृथग्भूतपदार्थेभ्यः पृथक्त्वस्य पृथग्भावे तेषामपृथक्त्व अष्टसहस्रीतात्पर्यविवरणम् यत्खण्डनं मण्डनहेतुरस्मन्मते रते तद्दशनक्षताभम् । वेदान्तवादेऽथ च शून्यवादे दंशः श्वदन्तस्य विडम्बनं तत् ॥ रतोत्सवः स्यात्परसङ्कथानां स्याद्वादयूनः किल वल्गनेन । यत्ता: सहन्ते रतियुद्धमेतन्न मल्लयुद्धं परतीथिकानाम् ॥ ब्रह्माद्वैतदूषणं शब्दाद्वैतेऽप्यतिदिशति-तदेतेनेत्यादि ॥२७॥ Page #35 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० २ - का० २८ ] प्रसङ्गात् । पृथक्त्वस्य तद्गुणत्वात् पृथगिति प्रत्ययस्य तदालम्बनत्वात् न तेषामपृथक्त्वप्रसङ्ग इति चेत्, न तस्य कथञ्चित्तादात्म्यापत्तेः पृथक्त्वैकान्तविरोधात् । ४३७ (भा०) तद्गुणगुणिनोरतादात्म्ये घटपटवद् व्यपदेशोऽपि मा भूत्, सम्बन्धनिबन्धनान्तराभावात् । कथञ्चित्तादात्म्यमेव हि तयोः सम्बन्धनिबन्धनं, न ततोऽन्यत्सम्भवति । समवायवृत्तिः सम्भवतीति चेत्, न समवायस्य कथञ्चिदविष्वग्भावादपरस्य प्रतिक्षेपात् । (भा० ) पृथक्त्वमन्यद्वा पृथग्भूतमनंशमनेकस्थेषु निष्पर्यायं वर्तते इति दुरवगाहम् । न ह्यनेकदेशस्थेषु हिमवद्विन्ध्यादिषु सकृदेकः परमाणुर्वर्तते इति सम्भवति । गगनाद्यनंशमपि वर्तते इति चेत्, न तस्यानन्तप्रदेशादितयानंशत्वासिद्धेरनाश्रयतया क्वचिद् वृत्त्यभावाच्च । सत्तैका युगपदनेकत्र वर्तते इत्यप्यसिद्धं तदनन्तपर्यायत्वसाधनात् स्वपर्यायेभ्योऽत्यन्तभेदासिद्धेश्च समवायवृत्त्यनुपपत्तेः । द्रव्यत्वादिसामान्यमपि नैकमनंशमनेकस्वव्यक्तिवृत्ति सकृत्प्रसिद्धं तस्यापि स्वाश्रयात्मकतया कथञ्चित्सांशत्वानेकत्वप्रतीतेः । संयोगविभागपरत्वापरत्वान्यपि नानेकवृत्तीनि युगपदुपपद्यन्ते प्रतियोग्यादिसंयोगादिपरिणामप्रतीतेः सादृश्योपचारादेकत्वव्यवहारात् । अष्टसहस्त्रीतात्पर्यविवरणम् T॥ पृथक्त्ववादः ॥ पृथक्त्वमन्यद्वेति अन्यद् = गुणान्तरं अनेकस्थेषु = अनेकदेशस्थेषु नानापदार्थेषु । न च पृथक्त्वं रूपादिवत् प्रत्याश्रयं भिन्नमेवेष्यत इत्ययमनभ्युपगतोपालम्भः परं प्रति ग्रन्थकृत इति वाच्यम् । द्वित्वद्विपृथक्त्वादीनां परेण व्यासज्यवृत्तित्वस्योपगमात्, एकपृथक्त्वस्य स्वाश्रये द्विपृथक्त्वादेरन्यत्र चैकपृथक्त्वस्यारम्भकतयोभयत्रारम्भकत्वस्वीकारात् । प्रतियोग्यादीति आदिनानुयोगिपरिग्रहः । तथा च घटप्रतियोगिकत्वपटानुयोगिकत्वाभ्यां घटपटसंयोगयोर्भिन्नत्वम्, न त्वेकत्वम्, घटे पयव्यवधानात्मनः पटे घटाव्यवधानात्मनश्च Page #36 -------------------------------------------------------------------------- ________________ ४३८ अष्टसहस्त्रीतात्पर्यविवरणम् द्वित्वादिरनेकद्रव्यवृत्तिर्युगपदित्यप्यप्रातीतिकं, प्रतिव्यक्ति सकलसङ्ख्यापरिणामसिद्धेः क्वचिदेकत्र तदसिद्धौ परापेक्षयापि तद्विशेषप्रतीत्ययोगात् खरविषाणवत् । ततो न पृथक्त्वमने कत्र युगपद्वर्तते गुणत्वाद्रूपादिवत् । न संयोगादिभिरने कान्तः, तेषामप्यनेकद्रव्यवृत्तीनां सकृदनंशानामसिद्धेः । तदनेन पृथक्त्वैकान्तपक्षेऽपि पृथक्त्ववतोः पृथक्त्वात्पृथक्त्वे तौ तद्वन्तावपृथगेव स्याताम् । तथा च न पृथक्त्वं नाम गुणः स्यात्, एकत्र तद्वति तदनभ्युपगमात् । अनेकस्थो ह्यसौ गुण इति कारिकाव्याख्यानं स्थितपक्षदूषणपरं प्रकाशितं प्रतिपत्तव्यम् ॥२८॥ साम्प्रतं निरन्वयक्षणिकलक्षणपृथक्त्वपक्षे दूषणमाविर्भावयितुमनसः सूरयः प्राहुः - अष्टसहस्त्रीतात्पर्यविवरणम् संयोगस्यैकत्वायोगादित्युक्तं भवति । सादृश्योपचारादिति, तन्निबन्धनीभूता वृत्तिरेव च पर्याप्तिः, अन्यथा प्रत्येकावृत्तेः समुदायवृत्तित्वायोगात्, कथं चान्यतरकर्मजत्ववदन्यतरकर्माभावजत्वमन्यतरकर्मजे उभयकर्मजे च तदतत्कर्मजत्वेन भेदकम्, अन्यथोभयकर्मजन्यतावच्छेदिकाया इव त्रयकर्मादिजन्यतावच्छेदिकाया अपि जातेरभ्युपगमप्रसङ्गात्, नो चेत्, कर्मत्रयस्थले उभयकर्मसंयोगद्वयापत्तेः, एवमग्रेऽपि नानासंयोगस्वीकारे आदित एव किं न तत्स्वीकारः ? । यदि च समवायिकारणभेदेऽपि संयोगाद्यैक्यं स्वीक्रियेत, तदा घटादौ यावदवयवरूपमप्येकं स्यादेकत्वप्रतीत्यविशेषात् । (शङ्का) यावदाश्रयबुद्धि सापेक्षत्वासापेक्षत्वाभ्यां विशेष इति चेत्, न, रूपादिप्रतीतेरप्याश्रये पर्याप्तत्वापर्याप्तत्वावगाहने न द्विविधरूपत्वादित्याद्यधिकं वादमालायां निरूपितमस्माभिः । द्वित्वादिरिति एकत्वद्वयादिनैव द्वित्वादिबुद्धिव्यवहारोपपत्तेरिति भावः, तथा च न पृथक्त्वं नाम गुणः स्यादिति। ननु अष्टापत्तिः, नैयायिकमूर्धाभिषिक्तेन शिरोमणिभट्टाचार्येण पृथक्त्वस्यान्योन्याभावरूपस्यैव स्वीकारात्, तथा च तद्ग्रन्थः- Tपृथक्त्वमपि न गुणान्तरम्, अन्योन्याभावादेव तद्व्यवहारोपपत्तेः । पृथक्त्वप्रतीतिस्तु न सावधित्वालम्बना, मानाभावात्, घटात्पट: पृथगितरोऽन्यो भिन्नोऽर्थान्तरमित्यादौ तत्तच्छब्दविशेष्ययोगे पञ्चम्यानुशासनिकीति । अन्याराद् इत्यादिसूत्रे [ ] अन्यपदं विशिष्य पृथगादिपरं न त्वन्योन्याभावविशिष्टबोधकपदसामान्यपरम् इति पृथक्त्वस्यान्योन्याभावरूपत्वेऽपि घटात्पट: पृथगित्यस्येव घटान्न पट इत्यस्य नापत्तिरित्येतदर्थम् इति चेत्, सत्यम्, पृथक्त्वस्यान्योन्याभावरूपत्वेऽप्यभेदसंवलितत्वेन तदेकान्तायोग इत्यत्र ग्रन्थकृतस्तात्पर्यात् । वस्तुतो मूले वृक्षः कपिसंयोगी न शाखायामिति प्रतीत्यनुरोधेनान्योन्याभावाव्याप्यवृत्तित्ववादिनो दीधितिकृतो मते श्यामाद्रक्तो विधर्मा न तु Page #37 -------------------------------------------------------------------------- ________________ ४३९ द्वितीयो भागः [ परि०२-का. २९] सन्तानः समुदायश्च साधर्म्यं च निरङ्कशः । प्रेत्यभावश्च तत्सर्वं न स्यादेकत्वनिह्नवे ॥२९॥ जीवादिद्रव्यैकत्वस्य निह्नवे सन्तानो न स्याद्भिन्नसन्तानाभिमतक्षणवत् । यथैकस्कन्धावयवानामेकत्वपरिणामापलापे समुदायो न स्यान्नानास्कन्धावयववत् तथा सधर्मत्वाभिमतानां सदृशपरिणामैकत्वापह्नवे साधर्म्यं न स्याद्विसदृशार्थवत् । मृत्वा पुनर्भवनं प्रेत्यभावः, सोऽपि न स्यादुभयभवानुभाव्येकात्मापाकरणे नानात्मवत् । चशब्दाद्दत्तग्रहादि सर्वं न स्यात्तद्वत् । न च तदभावः शक्यः प्रतिपादयितुं, सकलबाधकशून्यत्वेन निरङ्कुशत्वात् । [बौद्धाभिमतसन्तानमान्यतायाः पूर्वपक्ष:] ननु चापरामृष्टभेदाः कार्यकारणक्षणा एव सन्तानः । स चैकत्वनिह्नवेऽपि घटते एवेत्यपि ये समाचक्षते तेषामपि, (भा०) कार्यकारणयोः पृथक्त्वैकान्ते कार्यकालमात्मानमनयतः कारणत्वासम्भवात्तदनुत्पत्तेः कुतः सन्ततिः ? - अष्टसहस्त्रीतात्पर्यविवरणम् पृथगिति प्रतीत्यनुपपत्तेः पृथक्त्वं नान्योन्याभावः सङ्गच्छते, किन्तु प्रविभक्तप्रदेशत्वम्, इत्थमेव तन्तुभ्यः पटो न पृथगित्यस्योपपत्तेः । न च श्यामाद्रक्तो विधर्मा न तु पृथगित्यत्र पृथक्पदस्य तत्तद्व्यक्तित्वावच्छिन्नभेदपरत्वाद् उपपत्तिः सम्भवति प्रकारान्तरे लक्षणाश्रयणस्यातिजघन्यत्वात्, श्यामाद् घटाद् रक्ते घटे न पृथक्त्वं किन्तु पटादित्यत्र श्यामघटाप्रविभक्तपटप्रविभक्तप्रदेशवृत्त्येकविशेष्यताकबोधस्यास्मदुक्तप्रकारं विनानुपपत्तेश्चेति विचारणीयं सुधीभिः ॥२८॥ सन्तानो न स्यादिति मुक्तास्थानीयानां क्षणानां मालास्थानीस्यानुगमकस्याभावादित्यर्थः । नानास्कन्धावयववदिति, न च धान्यराशिवदुपपत्तिः, बुद्धिकृतादेकत्वादवयवबन्धकृतस्यैकत्वस्य विलक्षणत्वात् । साधर्म्यं न स्यादिति, तथा च समानपरिणामैकत्वमादाय सोऽयं शब्द इति प्रयोगो न स्यादिष्यते च तद्व्यक्त्यैक्यं समानपरिणामैक्यं चादाय सोऽयमित्येव प्रयोगस्तव्यक्त्यभिन्नोऽयं तज्जातीयोऽयमिति विवरणद्वैविध्येऽपि प्रयोगैक्यादिति द्रष्टव्यम् । सकलेत्यादि तथा च निरङ्कशत्वं बाधारहित्वं विशेषणं यथास्थितं Page #38 -------------------------------------------------------------------------- ________________ ४४० अष्टसहस्त्रीतात्पर्यविवरणम् ननु कार्यकाले सतोऽपि कारणत्वे तत्कारणत्वानभिमतस्य कार्यकालमात्मानं नयतः सर्वस्य तत्कारणत्वप्रसङ्गः । कार्याकारेण प्रागसतः सव्व्यादिरूपेण प्राक्कार्यकाले च सतस्तत्कार्यस्योत्पत्तौ खरादिमस्तके विषाणादेरुत्पत्तिः किन्न स्यात् ? गवादिशिरसीव तत्रापि तस्य विषाणाद्याकारतया प्रागसत्त्वस्य सव्व्यादिरूपतया सत्त्वस्य चाविशेषात् । तदुत्पत्तिकारणस्य दृष्टस्यादृष्टस्य चाभावात् तत्र न तस्योत्पत्तिरिति वचने परेषामपि प्रागसत्त्वैकान्ताविशेषेऽपि कार्यस्य पूर्वं सति कारणे जन्म नासतीति न किञ्चिदतिप्रसज्यते, तदन्वयव्यतिरेकानुविधाननिबन्धनत्वात् तत्कारणत्वस्य । न च निरन्वयक्षणिकत्वेऽपि कार्यस्य कारणान्वयव्यतिरेकानविधानमसम्भाव्यं स्वकाले सति कारणे कार्यस्योत्पत्तेरसत्यनुत्पत्तेः प्रतीयमानत्वात् स्वदेशापेक्षान्वयव्यतिरेकवत् । तदुक्तम् अन्वयव्यतिरेकाद्यो यस्य दृष्टोऽनुवर्तकः ।। स्वभावस्तस्य तद्धेतुरतो भिन्नान्न सम्भवः ॥ [ ] इति । ततोऽव्यभिचारेण कार्यकारणभूता एवापरामृष्टभेदाः क्षणाः सन्तानो युक्तः । इति कश्चित् । [अधुना बौद्धाभिमतसन्तानलक्षणं जैनाचार्या निराकुर्वन्ति । सोऽपि न प्रतीत्यनुसारी, तथा बुद्धेतरचित्तानामप्येकसन्तानत्वप्रसङ्गात् तेषामव्यभिचारेण कार्यकारणभूतत्वाविशेषात् । निरास्रवचित्तोत्पादात्पूर्वं बुद्धचित्तस्यापि सन्तानान्तरचित्तकारणत्वाभावान्न तेषामव्यभिचारी कार्यकारणभाव इति चेत्, न, यतः प्रभृति तेषां कार्यकारणभावस्तत्प्रभृतितस्तस्याव्यभिचारादन्यथा बुद्धचित्तस्यासर्वज्ञत्वप्रसङ्गात् । नाननुकृतान्वयव्यतिरेकं कारणं, नाकारणं विषय इति वचनात् [ ] । - अष्टसहस्त्रीतात्पर्यविवरणम् - विपरिणतं वा सर्वत्र योजनीयम्, तेन न तत् सर्वमित्यनेन सर्वत्र तत्परामर्शानुपपत्तिरिति बोध्यम् । पूर्वं सतीति अव्यवहितप्राक्काले सामग्रीसत्त्वं कार्योत्पत्तिप्रयोजकं न तु कार्यस्य प्राक्सत्त्वमसत्त्वं वेति भावः । स्वकाले इति स्वाव्यवहितप्राक्काल इत्यर्थः, स्वदेशे सति कारणे यथा कार्यमुत्पद्यते तथा स्वकालेऽपीति दैशिककालिकव्याप्तिगर्भमेकं कारणत्वमिति भावः । तथा बुद्धेतरेति अनुगमकाभावेन देशस्यापि क्षणत्वादेशिककालिकव्याप्त्योरभेदपर्यवसानादित्यर्थः । सन्तानान्तरेत्यादि सन्तानान्तरचित्तकारणे स्वाकारणे सन्ताने Page #39 -------------------------------------------------------------------------- ________________ ४४१ द्वितीयो भाग: [ परि०२-का. २९] स्यान्मतं, येषामग्राह्यग्राहकत्वे सत्यव्यभिचारी कार्यकारणभावस्तेषामेकसन्तानत्वोपगमान्न दोष इति चेत्, तदप्ययुक्तं, समनन्तरप्रत्ययेनापि सह बुद्धचित्तस्यैकसन्तानतापायप्रसक्तेः, तस्य बुद्धचित्तेनाग्राह्यत्वे तस्यासर्ववेदित्वापत्तेः । समनन्तरप्रत्ययस्य समनन्तरत्वादेव बुद्धचित्तेन सहैकसन्तानत्वमिति चेत्, कुतस्तस्य समनन्तरत्वम् ? तस्याव्यभिचारिकारणत्वादिति चेत्, न सर्वार्थानां तत्समनन्तरत्वप्रसङ्गात् । एकसन्तानत्वे सति कारणत्वादिति चेत्, सोऽयमन्योन्यसंश्रयः । सिद्धे समनन्तरप्रत्ययत्वे तस्यैकसन्तानत्वेन कारणत्वसिद्धिस्तत्सिद्धौ च समनन्तरप्रत्ययत्वसिद्धिरिति । [बौद्धस्य जिज्ञासायां स्वाभिमतसन्तानस्य लक्षणं ब्रुवन्ति जैनाचार्याः ।] स्याद्वादिनां कस्तइँकः सन्तानः ? इति चेत् । (भा०) पूर्वापरकालभाविनोरपि हेतुफलव्यपदेशभाजोरतिशयात्मनोरन्वयः सन्तानः । क्वचित्क्षणान्तरे नीललोहितादिनिर्भासचित्रैकसंवेदनवत्कथञ्चिदेकत्वमेव भवितुमर्हति ।। न च साध्यविकलं चित्रज्ञानमुदाहरणं तस्यैकत्वसिद्धेः । __ (भा०) तदवयवपृथक्त्वकल्पनायां चित्रनि सो मा भूत् पृथग्वर्णान्तरविषयानेकसन्तानैकक्षणवत् । तत्र प्रत्यासत्तिविशेषः कथञ्चिदैक्यात्कोऽपरः स्यात् ? [प्रत्यासत्त्यैकत्वकल्पना भवति इति मन्यमाने प्रत्यासत्तेविचारः क्रियते ।] देशप्रत्यासत्तेः शीतातपवातादिभिर्व्यभिचारात्, कालप्रत्यासत्तेरेकसमयवर्तिभिरशेषार्थैरनेकान्तात्, भावप्रत्यासत्तेरेकार्थोद्भूतानेकपुरुषज्ञानैरनैकान्तिकत्वाद् द्रव्यप्रत्यासत्तिरेव परिशेषात् सम्भाव्यते । सा चैकद्रव्यतादात्म्यलक्षणत्वात्प्रत्यासत्तिविशेषः । अष्टसहस्त्रीतात्पर्यविवरणम् बुद्धचित्तस्यासर्वज्ञत्वप्रसङ्गादित्यर्थः । अतिशयात्मनोः= पर्यायस्वरूपयोः, अन्वयः= द्रव्यात्मनैकत्वम्, 'कथञ्चिदैक्यमेवेति नीलाद्यनेकनिर्भासपर्यायज्ञानात्मना तत्काले तदात्म १. कथञ्चिदैक्यम् इति अष्टसहस्रीसम्मतः पाठः । Page #40 -------------------------------------------------------------------------- ________________ ४४२ अष्टसहस्त्रीतात्पर्यविवरणम् इति कथञ्चिदैक्यमेवैकत्वव्यवहारनिबन्धनं चित्रज्ञानस्य, (भा० ) अन्यथा वेद्यवेदकाकारयोरपि पृथक्त्वैकान्तप्रसङ्गात् । तयोः (भा० ) स्वभावभेदेऽपि सहोपलम्भनियमात्कथञ्चिदभेदाभ्युपगमे कथमेकसन्तानसंविदां समनन्तरोपलम्भनियमात्कथञ्चिदैक्यं न स्यात् । कालसमनन्तरोपलम्भनियमादेकसन्तानत्वमेव स्याद्देशसमनन्तरोपलम्भनियमात् समुदायवत्, न पुनरेकद्रव्यत्वमिति चेत्, न, भवतां बुद्धतरसंविदामेकसन्तानत्वापत्तेः, कालसमनन्तरोपलम्भनियमस्य भावात् पञ्चानामपि च स्कन्धानामेकस्कन्धत्वप्रसङ्गात्, प्रदेशसमनन्तरोपलम्भनियमस्य भावात् । प्रत्यासत्त्यन्तरकल्पनायां (भा० ) तत्र यया प्रत्यासत्त्या सन्तानः समुदायश्च, तयैव कथञ्चिदैक्यमस्तु । न हि तादृशां साधर्म्यमन्यदन्यत्रात्मसाकर्यात् । येन कालसमनन्तरोपलम्भनियमभाजामेकसन्तानत्वं व्यवतिष्ठते देशसमनन्तरोपलम्भनियमभृतां चैकस्कन्धाख्यं समुदायत्वं युज्यते, तादृशः साधर्म्यस्यैकत्वनिह्नवेऽनुपपत्तेः कथञ्चिदेकत्वशून्यार्थसाधर्म्यस्य सन्तानान्तरेषु नानासमुदायेषु च दर्शनात् । एतेनैकसन्तानत्वात् प्रेत्यभावव्यवहारकल्पनमपास्तं कथञ्चिदेकत्वापह्नवे अष्टसहस्त्रीतात्पर्यविवरणम् द्रव्यपरिणामकृतमैक्यमित्यर्थः । समनन्तरोपलम्भनियमाद्=अनुभवस्मरणयोरेकविषयस्पर्शनियमात्, 'कथञ्चिदैक्यं कथं न स्यादिति विशिष्टैक्यद्वारकं विशेषणानामैक्यं स्यादेवेत्यर्थः, कालसमनन्तरोपलम्भनियमात् सादृश्यप्रत्यासन्नक्षणविषयानुभवनियमात्, देशसमनन्तरोपलम्भनियमात्= नैरन्तर्यप्रत्यासन्नस्वलक्षणविषयानुभवनियमात्, पञ्चानां विज्ञानवेदनासञ्जासंस्काररूपलक्षणानाम् । तत्रेति पूर्वोत्तरज्ञानक्षणेष्वेकदेशवर्तिषु च परमाणुष्वित्यर्थः । तादृशामेकसन्तानभाजां=ज्ञानक्षणानां परमाणूनां च, तादृश= एकसन्तानत्वनिबन्धनस्य समुदायत्वनिबन्धनस्य च ॥२९॥ १. कथञ्चिदैक्यं न स्यादिति अष्टसहस्रीसम्मतः पाठः । Page #41 -------------------------------------------------------------------------- ________________ ४४३ द्वितीयो भागः [परि०२-का. ३०] तदयोगात् । कथमिह जन्मनो जन्मान्तरेणैकत्वं, विरोधादिति चेत्, न कथञ्चिदेकत्वे विरोधाभावात् । तथा प्रतिभासादेकज्ञाननिर्भासविशेषवत् । तथा हि (भा०) एकज्ञाननिर्भासविशेषाणां मिथः स्वभावभेदेऽपि यथैकत्वपरिणामः स्वभावतोऽनङ्कुशस्तथा प्रेत्यभावादिषु सन्तानोऽन्वयः परमार्थैकत्वमात्मसत्त्वजीवादिव्यपदेशभाजनं स्वभावभेदानाक्रम्य स्वामिवदन्यत्र वर्तयति । न पुनरन्यत्र जीवान्तरे तेषामशक्यविवेचनत्वाद्विरोधवैयधिकरण्यादीनामेकज्ञाननिर्भासविशेषैरपाकरणान्निरङ्कुशत्वसिद्धेः ॥२९॥ पृथक्त्वैकान्तपक्षे दूषणान्तरमुपदर्शयन्तः प्राहु: सदात्मना च भिन्नं चेज्ज्ञानं ज्ञेयाद् द्विधाप्यसत् । ज्ञानाभावे कथं ज्ञेयं बहिरन्तश्च ते द्विषाम् ॥३०॥ सदात्मना सत्सामान्यात्मना भिन्नमेव ज्ञानं ज्ञेयादिति चेद्, द्विधाप्यसदेव प्राप्तं ज्ञानस्यासत्त्वे ज्ञेयस्यासत्त्वप्रसङ्गात्, ततो बहिरन्तश्च न किञ्चित्कथञ्चिदपि ज्ञेयं नाम त्वद्विषां प्रतीयेत । [ज्ञानं ज्ञेयात् सद्रूपेणापि भिन्नमिति विज्ञानद्वैतवादिना मन्यमाने विचार: प्रवर्तते जैनाचार्याणाम् ।] ननु सद्विशेषाद् भेदेऽपि ज्ञानस्य ज्ञेयान्नासत्त्वप्रसक्तिः । सदन्तरत्वं तु न स्यात् पटान्तराद् भेदेऽपि पटस्य पटान्तरत्वाभाववत् । सत्सामान्यं पुनः सर्वेषु सद्विशेषेष्वसत्त्वव्यावृत्तिमात्रम् । न च तदात्मना कस्यचित्कुतश्चिद् भेदोऽभेदो वा विचार्यते तस्य वस्तुनिष्ठत्वात् सन्मात्रस्य चावस्तुत्वात् । तदात्मना व्यावृत्तस्य ज्ञानस्य ज्ञेयात्परमार्थसत्त्वाविरोधान्न कश्चिदुपालम्भ इति चेत्, न सत्सामान्यस्याभावे - अष्टसहस्त्रीतात्पर्यविवरणम् सदन्तरत्वं त्विति यद्यपि एकपटापेक्षयाऽन्यपटे पटान्तरत्वव्यवहारवद् ज्ञेयापेक्षया ज्ञाने सदन्तरत्वव्यवहारोऽपि सम्भवी तथापि प्रतिनियतप्रतियोगिसद्वाचकपदसमभिव्याहाराभावादयं निषेधो द्रष्टव्यः । प्रागुद्दिष्टधर्मविशिष्टान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकभेदस्यान्वयितावच्छेदकधर्मस्य चान्तरपदार्थत्वात् । वास्तवसत्सामान्यात्मनेति Page #42 -------------------------------------------------------------------------- ________________ ४४४ अष्टसहस्त्रीतात्पर्यविवरणम् सांवृतत्वे वा सद्विशेषाणामभावप्रसङ्गात् सांवृतत्वापत्तेश्च तदसत्त्वव्यावृत्तेरपि वस्तुस्वभावत्वादन्यथा खरविषाणादावपि तदनुषङ्गात् । तथा हि- ज्ञानज्ञेययोरसद्व्यावृत्तिर्वास्तवी सद्विशेषत्वात् । यस्य तु न सा वास्तवी स न सद्विशेषो यथा वन्ध्यासुतः । सद्विशेषौ च ज्ञानज्ञेये इति केवलव्यतिरेकी हेतुः । तथा यत्रासद्व्यावृत्तिर्वास्तवी तत्र सत्सामान्यं वस्तु, सत्सामान्यरहितेषु वन्ध्यासुतादिष्वसद्व्यावृत्तेरवास्तवत्वात् इति वास्तवसत्सामान्यात्मना ज्ञानस्य ज्ञेयाद् भेदे सद्विशेषात्मनापि भेदः स्यात् । तथा च ज्ञानमसत् प्राप्तम् । तदनिच्छतां ( भा० ) विषयिणो विषयात्कथञ्चित्स्वभावभेदेऽपि सदाद्यात्मना तादात्म्यं बोधाकारस्येव विषयाकाराद्, विशेषाभावात् । अन्यथा ज्ञानमवस्त्वेव खपुष्पवत् । तदभावे बहिरन्तर्वा ज्ञेयमेव न स्यात्, तदपेक्षत्वात् । तस्य । ततः श्रेयानयमुपालम्भः पृथक्त्वैकान्तवाचां ताथागतानां वैशेषिकवत् ॥३०॥ किञ्च सामान्यार्था गिरोऽन्येषां विशेषो नाभिलप्यते । सामान्याभावतस्तेषां मृषैव सकला गिरः ॥३१॥ सामान्यमेवार्थोऽभिधेयो यासां ताः सामान्यार्था गिरो यतस्ताभिर्विशेषो नाभिलप्यते इत्यन्ये, तेषां मृषैव सकलाः स्वयं सत्यत्वेनाभिमता अपि गिरः स्युः, सामान्यस्य वास्तवस्याभावात् । कुतः पुनः सामान्यस्यैवाभिधेयत्वम् इति चेत् । अष्टसहस्त्रीतात्पर्यविवरणम् सत्सामान्यनिष्ठप्रतियोगित्वाभिन्नज्ञेयनिष्ठप्रतियोगिताके ज्ञानाधिकरणके भेदेऽभ्युपगम्यमान इत्यर्थः । परैरपि हि प्रतियोगितावच्छेदकावच्छिन्नसत्त्वस्याभावविरोधित्वात् सामान्यरूपेण विशेषाभावो न स्वीक्रियते तथाऽस्माभिरपि सामान्यात्मना विशेषाभाव इति मन्तव्यम् । तथा चेति यावद्विशेषभेदस्य सामान्यभेदनियतत्वादिति भावः । तादात्म्यमित्यनन्तरमेष्टव्यमिति शेषः ||३०|| सामान्यस्यावास्तवत्वे दोषान्तरं समुच्चिचीषुराह - किञ्चेत्यादिना । इत्यन्ये इति अन्ये = सौगताः । स्वयमिति अन्यगिरामसत्यत्वे इष्टापत्तिवारणाय अभिधेयत्वमित्यनन्तरं Page #43 -------------------------------------------------------------------------- ________________ ४४५ द्वितीयो भागः [परि०२-का. ३१] (भा०) विशेषाणामशक्यसमयत्वात् । न ह्यनन्ता विशेषाः शक्याः सङ्केतयितुं ततो नाभिधीयेरन् । (भा०) असङ्केतितानभिधानात् । विशेषदर्शनवत्तबुद्धावप्रतिभासनादर्थसन्निधानानपक्षणाच्च । __न हि स्वलक्षणे दर्शने यथा सङ्केतनिरपेक्षो विशेषः प्रतिभासते तथा शब्दबुद्धावपि, तस्याः स्वलक्षणसन्निधानानपेक्षत्वात्, तदपेक्षत्वेऽतीतानुत्पन्नादिषु शब्दबुद्धेरभावप्रसङ्गात् । _ [यदि शब्देन वस्तु नोच्येत तर्हि शब्दोच्चारणं व्यर्थमेव ।] यद्येवं (भा० ) स्वलक्षणमनभिधेयं सामान्यमवस्तूच्यते इति स्यात् । ततः किं शब्दोच्चारणेन सङ्केतेन वा ? गोशब्दोऽपि गां नाभिधत्ते यथाश्वशब्दस्य । तथा च वस्तुनोऽनभिधाने मौनं यत्किञ्चिचिद्वा वचनमाचरेत्, विशेषाभावात् । अथास्ति विशेषः कथं स्वार्थं नाभिदधीत ? । ___ मौनाद् यत्किञ्चिनवचनाद्वा यथार्थाभिधानस्य स्वाभिधानं मुक्त्वा विशेषस्यासम्भवात् । ( भा० ) न वै परमार्थंकतानत्वादभिधाननियमः । परमार्थंकतानत्वे शब्दानामनिबन्धना । न स्यात् प्रवृत्तिरर्थेषु समयान्तरभेदिषु ॥ [ ] इति वचनात् । (भा०) किं तूपादानविशेषादित्यपि वार्तम्, अविकल्पेऽपि तथैव प्रसङ्गात् । शक्यं हि वक्तुम् 'अविकल्पकप्रत्यक्षस्य न परमार्थंकतानत्वान्नियमो, अष्टसहस्रीतात्पर्यविवरणम् कारणाम - युक्तिसिद्धमिति शेषो द्रष्टव्यः । समयान्तरभेदेष्विति तत्तच्छास्त्रप्रसिद्धेषु प्रधानेश्वराद्यर्थेष्वपारमाथिकेष्वित्यर्थः । उपादानविशेषा=विलक्षणविकल्पात् । प्रत्यासन्नेऽर्थ इति Page #44 -------------------------------------------------------------------------- ________________ अष्टसहस्त्रीतात्पर्यविवरणम् द्विचन्द्रादिदर्शनाभावप्रसङ्गात् किन्तूपादानस्य स्ववासनाविशेषस्य भेदात्' इति । (भा०) तदेवमनवधारितात्मकं वस्तु स्वलक्षणमापनपद्येत । विकल्पेनेवाविकल्पेनाप्यवधारयितुमशक्तेः । निर्विकल्पकस्यार्थसन्निधानापेक्षत्वाद्वैशद्याच्च परमार्थैकतानत्वमिति चेत्, न तदनियमात् । तथा हि[निर्विकल्पज्ञानमर्थसन्निधानमपेक्षत एवास्य निराकरणम् ।] ४४६ भा० ) नावश्यमिन्द्रियज्ञानमर्थसन्निधानमपेक्षते विप्लवाभावप्रसङ्गात् । नापि विशदात्मकमेव, दूरेऽपि तथा प्रतिभासप्रसङ्गाद्यथाऽऽरात् । न हि आरादेवार्थे निर्विकल्पमिन्द्रियज्ञानं न पुनर्दूरे इति शक्यं वक्तुम्, इन्द्रियान्वयव्यतिरेकानुविधानाविशेषात् । दूरार्थेऽपीन्द्रियज्ञानं विशदात्मकमेव, तत्रावैशद्यस्याशूत्पन्नानन्तरविकल्पेन सहैकत्वाध्यारोपादेव प्रतीतेरिति चेत्, न आसन्नार्थेऽपि तदवैशद्यप्रतीतिप्रसङ्गात् । न हि तत्राविकल्पानन्तरं चिराद्विकल्पस्योत्पत्तिः, पुरोवर्त्तिन्यर्थेऽक्षज्ञानजविकल्पवैशद्यस्य तल्लघुवृत्तिनिबन्धनत्वाभावप्रसङ्गात् । विमूढो लघुवृत्तेर्वा तयोरैक्यं व्यवस्यति । इति वचनविरोधात् [ ] । यदि पुनरासन्नार्थे निर्विकल्पकस्य बलीयस्त्वात्तद्वैशद्येनानन्तरविकल्पावैशद्यस्याभिभवाद्वैशद्यप्रतिभासो न पुनर्दूरे विपर्ययादिति मतं तदा पुरोवर्तिगोदर्शनवैशद्येनाश्वविकल्पावैशद्यस्याभिभूतिप्रसङ्गात् तत्र वैशद्यप्रतीतिः किन्न स्यात् गोदर्शनभिन्नविषयत्वादश्वविकल्पस्य नैवमिति चेत्, न, नीलदर्शनविकल्पयोरपि भिन्नविषयत्वात्तद्वैशद्याप्रतीतिप्रसङ्गात् । न हि तयोरभिन्नविषयत्वं, स्वलक्षणसामान्ययोरतद्विषययोर्भेदात् । तत्र दृश्यविकल्पयोरेकत्वाध्यवसायान्नीलविकल्पे वैशद्यप्रतिभास इति चेत्, न तत एव दूरेऽपि वैशद्यप्रतिभासप्रसङ्गात् । स्यान्मतं, प्रत्यासन्नेऽर्थे विकल्प्ये दृश्यस्याध्यारोपाद्विकल्पवैशद्यं दूरे तु दृश्ये विकल्प्य - स्याध्यारोपाद्दर्शनावैशद्यं प्रतीयते, कुतश्चिद्विभ्रमात् इति तदप्यसारं, चन्द्रार्कादावतिदूरे अष्टसहस्त्रीतात्पर्यविवरणम् दर्शनविषयाध्यारोपाधिष्ठानविषयकत्वं विकल्पस्य वैशद्यं, विकल्पविषयाध्यारोपाधिष्ठानविषयकत्वं च दर्शनस्यावैशद्यमित्यर्थः । यद्यपि अत्र दर्शनविकल्पयोरन्तराध्यारोपा Page #45 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि. २-का. ३१] ४४७ दृश्ये विकल्प्याध्यारोपादवैशद्यप्रतीतिप्रसङ्गात्, प्रत्यासन्नतरे च चक्षुषः करतलरेखादौ विकल्प्ये दृश्याध्यारोपाद्वैशद्यप्रसङ्गात् । यदि पुनरदृष्टविशेषवशाद् दृश्यविकल्प्ययोरेकत्वाध्यारोपाविशेषेऽपि क्वचिद्वैशद्यमवैशद्यं च यथाप्रतीत्यभिधीयते तदा तत एवेन्द्रियजत्वाविशेषेऽपि क्वचिद्विशदप्रतिभासोऽन्यत्रान्यथेति नैकान्तेन दर्शनस्य विशदात्मकत्वमर्थसन्निधानापेक्षत्वं वा यतः परमार्थंकतानत्वान्नियमः स्यात्, न पुनः शब्दबुद्धिवदुपादाननियमादिति । [त्रिरूपहेतुसूचकं वचनं सत्यं नान्यदिति मान्यतां निराकुर्वन्ति जैनाचार्याः ।] न शब्दबुद्धेरवस्तुविषयत्वेऽप्युपादाननियमाद्विशेषः, परार्थनुमानस्य वक्त्रभिप्रेतसमये त्रिरूपहेतुसूचितत्वादविसंवादादितरवचनाद्विशेष इति चेत्, न, तथापि (भा०) क्षणभङ्गादिसाधनवचनमन्यद्वा न किञ्चित् सत्यं स्याद्वक्त्रभिप्रेतमात्रसूचित्वात् प्रधानेश्वरादिसाधनवाक्यवत् । न हि वक्त्रभिप्रेतमात्रसूचित्वाविशेषेऽपि क्षणभङ्गादिसाधनं प्रतिपक्षदूषणं वा सत्यं न पुनः प्रधानेश्वरादिसाधनमिति शक्यव्यवस्थं, यतस्तदेव संवादि स्यात्, सर्वथा विशेषाभावात् ।। (भा०) सदाप्रतिपादनाद्वा न क्षणभङ्गादिसाधनवचनं विपक्षदूषणवचनं वा सत्यं, प्रसिद्धालीकवचनवत् । ननु च व्याख्यातारः खल्वेवं विवेचयन्ति न व्यवहारः । ते हि दृश्यविकल्प्यावावेकीकृत्य यथेष्टं व्यवहरन्ति । क्षणभङ्गादिसाधनवचनमन्यद्वा सत्यं, अष्टसहस्त्रीतात्पर्यविवरणम् नवकाशः, औत्तरकालिकश्चारोपो धर्मिणं विना धर्मानुत्पत्तेरभित्तिचित्रार्पितः, तथापि सन्निकर्षविप्रकर्षकृतो भेदाग्रह एव वैशद्यावैशद्यव्यवहारहेतुः स्वरूपतो वैशद्यं तु स्वलक्षणविषयत्वेनेत्यत्र तात्पर्यम् । यथाप्रतीत्यभिधीयत इति तथाव्यवहारस्य तथाप्रतीतिसाध्यत्वाद्भेदाग्रहस्य च विशिष्टज्ञानमात्रोच्छेदकत्वेन व्यवहारानङ्गत्वादिति भावः । परमार्थंकतानत्वाद्वस्त्वेकावलम्बनत्वात् । नियमः स्याद् दर्शनेऽर्थप्रकाशकत्वस्येति गम्यम् । उपादाननियमा=वासनाविशेषव्याप्तेः । भाष्ये प्रसिद्धालीकवचनवदिति नदीतीरे मोदकराशयः सन्तीति विप्रतारकवचनवदित्यर्थः । ननु वक्त्रभिप्रायसूचकत्वं Page #46 -------------------------------------------------------------------------- ________________ ४४८ अष्टसहस्त्रीतात्पर्यविवरणम् न प्रधानेश्वरादिसाधनवाक्यम्, परमार्थतस्तु न किञ्चिद्वचनमवितथम्, इत्यभ्युपगमेऽपि (भा०) दृश्यविकल्प्यार्थाकारयोः कथञ्चिदप्यतादात्म्ये स्वलक्षणं सर्वथानवधारितलक्षणं दानादिचेतोधर्मादिक्षणवत् कथं संशीतिमतिवर्तेत ? निर्विकल्पकदर्शनात्तदवधारणासम्भवात् । (भा०) विकल्पानां चावधास्नुविषयत्वात् । सोऽयमविकल्पेतरराश्योरर्थेतरविषयत्वमन्यद्वा स्वांशमात्रावलम्बिना विकल्पान्तरेण प्रत्येतीति सुपरिबोधप्रज्ञो देवानांप्रियः । न ह्यविकल्पेतरराश्योरर्थानर्थविषयत्वं विशदेतरात्मत्वं वानुपष्णवेतररूपत्वं वा येन विकल्पान्तरेण प्रत्येति । तद्वस्तुविषयं युक्तं, तस्य विकल्पराशावनर्थविषयेऽनुप्रवेशात् । (भा०) स्वत एव विकल्पसंविदां निर्णये स्वलक्षणविषयोऽपि - अष्टसहस्त्रीतात्पर्यविवरणम् तदवच्छेदकार्थानुमापकत्वं, तथा चैतानि पदानि वक्तृतात्पर्यविषयसंसर्गप्रमाणपूर्वकाणि आकाङ्क्षादिमत्पदकदम्बकत्वाद् गाम् अभ्याज दण्डेनेत्यादिपदवदित्यनुमानविधया शब्दप्रामाण्यं ताथागतानां न दुर्वचं काणादताथागतयोः प्रत्यक्षानुमानप्रमाणद्वयवादित्वात्, एवमपि वक्तृतात्पर्यसम्भावनामात्रहेतुतया शब्दप्रामाण्यप्रतिक्षेपे धूमादपि वह्निसम्भावनयैव प्रवृत्तिसम्भवादनुमानमात्रोच्छेदेन चार्वाकमतप्रवेशापत्तेरिति चेत्, नाननुमितमसाक्षात्कृतं श्रुतमिदं मयाऽऽप्तमुखादिति प्रतीत्या शाब्द्याः प्रमाया अतिरिक्तत्वे तत्करणस्यानुमानातिरिक्तत्वात्, व्युत्पत्तिज्ञानादेः स्वातन्त्र्येण शाब्दबोध एव हेतुत्वाच्च । विलक्षणानुमितावेव तद्धेतुत्वोपगमे च विलक्षणमानस एव तद्धेतुत्वं किं न स्यात् ? येन शाब्दत्वं मानसत्वव्याप्यं न भवेत्, व्याप्त्याद्यप्रतिसन्धानेऽपि व्युत्पन्नस्य शब्दश्रवणेन शाब्दबोधाच्च नानुमानं शब्द इति दिक् । स्वांशमात्रावलम्बिनेति स्वमेवांशो भागस्तन्मात्रावलम्बिना=परमार्थचिन्तायां स्वरूपमात्रग्राहिणेत्यर्थः । तदुक्तं न्यायविनिश्चयालङ्कारे स्वग्राौकस्वभावोऽयं विकल्पस्तन्मते स्थितः । व्याहारादेः कथं तेन बहिरर्थस्य वीक्षणम् ॥ इति । [८३३] स्वत एवेति स्वत एव स्वग्राह्यार्थस्य विकल्पज्ञानेन तत्तत्प्रकारकत्वेन निर्णये Page #47 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि. २-का० ३१] ४४९ विकल्प: स्यात् । परतश्चेदनवस्थानादप्रतिपत्तिः । अतोऽर्थविकल्पोऽपि मा भूदित्यन्धकल्पं जगत् स्यात् स्वयमनिश्चयात्मनो विकल्पादर्थनिश्चयानुपपत्तेः । (भा०) न चायं परोक्षबुद्धिवादमतिशेते । सर्वथार्थचिन्तनोच्छेदाविशेषात् । यथैव ह्यप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्ध्यति तथा स्वयमनिश्चितात्मोपलम्भस्यापि । (भा०) स्वयमनिर्णीतेन नामात्मना बुद्धिरर्थं व्यवस्थापयतीति सुव्यवस्थितं तत्त्वम् । [विभ्रमैकान्तवादी कथयति यत् ज्ञानं स्वरूपं पररूपं वा कञ्चिदप्यर्थं न निश्चिनोतीति तस्य विचारः क्रियते जैनाचार्यैः ।] (भा०) न वै स्वरूपं पररूपं वा बुद्धिरध्यवस्यति निर्विषयत्वाद्भ्रान्तेः । स्वप्नबुद्धिवदिति विभ्रमैकान्तवादिवचनम् । (भा० ) इदमतो भ्रान्ततरं, बहिरन्तश्च सद्भावासिद्धेः । स्वप्नादिभ्रान्तज्ञानं हि बहिरासत्त्वादेव, न पुनः स्वरूपासत्त्वात्, इदं तु विभ्रमैकान्तसंवेदनं बहिरन्तरप्यर्थासत्त्वादिति कथं न तदतिशेते ? न चास्य स्वरूपसत्त्वं, तद्व्यवस्थानस्य विपक्षव्यवच्छेदेन प्रतिपत्तिपथमुपनेतुमशक्तेः । (भा०) स्वपरस्वभावप्रतिपत्तिशून्येन स्वपरपक्षसाधनदूषणव्यवस्था प्रत्येतीति किमपि महाद्भुतम् । संवृत्या प्रत्येतीति चायुक्तं, कथञ्चिदपि परमार्थप्रतिपत्त्यभावे संवृतिप्रतिपत्त्ययोगात् परमार्थविपर्ययरूपत्वात्संवृतेः । अन्यथा परमार्थस्य संवृतिरिति - अष्टसहस्त्रीतात्पर्यविवरणम् बोधस्वरूपस्वलक्षणांशेऽपि विकल्पः सप्रकारकः स्यात्, न च त्रिपुटीप्रत्यक्षवादे इष्टापत्तिः, बोधांशे निर्विकल्पकत्वेऽपि स्वात्मोभयव्यवहारजनकत्वेनैव स्वात्मविषयत्वव्यवस्थानात्, अन्यथाऽनुव्यवसायाकारपरम्पराभाजनत्वापत्तेरित्यर्थः । विभ्रमैकान्तवादि Page #48 -------------------------------------------------------------------------- ________________ ४५० अष्टसहस्त्रीतात्पर्यविवरणम् नामकरणमात्रमबाधाकरमेव परेषामनुषज्येत । सोऽयं संवृत्या विभ्रमैकान्तसाधनमविभ्रमदूषणं च प्रत्येतीति परमार्थतो न प्रत्येतीति उपेक्षणीयवचन एव । तमन्येऽद्याप्यनुमन्यन्ते इत्यचिन्त्यमनल्पतमतमोनिबन्धनमशक्यपर्यन्तगमनमिहाद्भुतम् ॥३१॥ एवं तर्हि मा भूत् पृथक्त्वैकान्तोऽद्वैतैकान्तवदशक्यव्यवस्थापनत्वात् । तदुभयैकात्म्यं तु श्रेय इति मन्यमानं वादिनं सर्वथा वावाच्यं तत्त्वमातिष्ठमानं प्रत्याहु: विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥३२॥ (भा०) अस्तित्वनास्तित्वैकत्वानेकत्ववत् पृथक्त्वेतरपरस्परप्रत्यनीकस्वभावद्वयसम्भवोऽपि मा भूद्विप्रतिषेधात् । न खलु सर्वात्मना विरुद्धधर्माध्यासोऽस्ति तदन्योन्यविधिप्रतिषेधलक्षणत्वाद्वन्ध्यासुतवत् । यथैव हि वन्ध्याया विधिरेव तत्सुतप्रतिषेधः स एव वा वन्ध्याया विधिरिति वन्ध्यासुतयोरन्योन्यविधिप्रतिषेधलक्षणत्वं तथा पृथक्त्वस्वभावविधिरेव सर्वथैकत्वप्रतिषेधः स एव च तद्विधिः इति कथमिव स्याद्वादमनिच्छतां विरुद्धधर्माध्यासः सम्भवेद्यतस्तदुभयैकात्म्यं तत्त्वमेकान्तवादिनः स्वीकुर्युः ? (भा०) सर्वथानभिलाप्यतत्त्वाधिगमेऽपि यदेतदनभिलाप्यं तत्त्वमिति तव्याहन्यते, पूर्ववत् । इत्यलं प्रपञ्चेन ॥३२॥ - अष्टसहस्रीतात्पर्यविवरणम् वचनमिति विभ्रमैकान्तवादी माध्यमिको, ग्राह्यांशे ग्राहकांशे च तस्य विभ्रमवादित्वात्, वेदान्ती वा, विद्याया अप्यविद्याकार्यत्वेन तेन भ्रान्तत्वोपगमादिति द्रष्टव्यम् ॥३१॥ न खल्विति सर्वात्मना विरुद्धयोरैकाधिकरण्यं नास्तीत्यर्थः । तथा च सर्वथा पृथक्त्वैकत्वयोर्न तत्, कथञ्चित् पृथक्त्वैकत्वयोस्त्वविरोधात्तत् सम्भवत्येवेति भावः । वन्ध्याया विधिरेव तादात्म्येनेति दृश्यम् । तत्सुतप्रतिषेधः जनकतासम्बन्धेन सुताभाव Page #49 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० २ - का० ३३] तदेवमेकत्वाद्येकान्तनिराकृतिसामर्थ्यात्तदनेकान्ततत्त्वप्रसिद्धावपि तत्प्रतिपत्तिदाढ्र्क्ष्यार्थमन्यथाशङ्कापाकरणार्थं च तत्सप्तभङ्गीं समाविर्भावयितुकामास्तन्मूलभङ्गद्वयात्मकत्वं जीवादिवस्तुनः प्राहुः ४५१ अनपेक्षे पृथक्त्वैक्ये ह्यवस्तु द्वयहेतुतः । तदेवैक्यं पृथक्त्वं च स्वभेदैः साधनं यथा ॥३३॥ स्पष्ट हि=यस्मादवस्त्वेवानपेक्षे पृथक्त्वैक्ये ऐक्यपृथक्त्वनिरपेक्षत्वहेतुद्वयात् प्रतिपादिते प्राक्, तस्मात्तदेवैक्यं पृथक्त्वं च जीवादिवस्तु कथञ्चिदेकत्वपृथक्त्वप्रत्ययहेतुद्वयादवसीयते । यथा साधनं सत्त्वादि पक्षधर्मत्वसपक्षसत्त्वविपक्षासत्त्वलक्षणैर्भेदैर्विशिष्टमेकं प्रसिद्धमुभयोः । तत्राप्यन्वयव्यतिरेकयोरनपेक्षयोरवस्तुरूपत्वात् साधनलक्षणत्वायोगात् सापेक्षयोरेव तल्लक्षणत्वेन वस्तुस्वभावत्वसिद्धेः साम्यमुदाहरणस्य प्रतिपत्तव्यम् । किं पुनरनया कारिकया करोत्याचार्यः ? पूर्वेणैवास्यार्थस्य गतत्वादिति चेत्, (भा०) एकत्वपृथक्त्वे नैकान्ततः स्तः, प्रत्यक्षादिविरोधादिति गतार्थस्याप्यनुमानविषयत्वप्रदर्शनात्स्पष्टत्वप्रसिद्धेः, प्रमाणसम्प्लववादिनां गृहीतग्रहणस्यादूषणात् । तथा हि ( भा० ) पृथक्त्वैकत्वे तथाभूते न स्ताम्, एकत्वपृथक्त्वरहित अष्टसहस्त्रीतात्पर्यविवरणम् इत्यर्थः । एवमग्रेऽपि ||३२|| कथञ्चिदेकत्वेत्यादि जीवादिवस्तु सापेक्षं सदेकं भवति कथञ्चिदेकत्वेन प्रतीयमानत्वात् सत्त्वादिसाधनवत्, तथा जीवादिवस्तु सापेक्षं पृथग् भवति कथञ्चित् पृथक्त्वेन प्रतीयमानत्वात् तद्वदेवेति हेतुद्वयं बोध्यम् । (शं०) न च दृष्टान्ते साध्यवैकल्यं, (स०) सत्त्वादिहेतौ हेतुलक्षणपर्याप्तिप्रकारकबुद्धिविषयत्वरूपस्याभेदस्यान्वयित्वव्यतिरेकित्वापेक्षया तदविषयकबुद्धिविषयत्वादिरूपभेदस्य च सर्वसम्प्रतिपन्नत्वात् । (शं०) न चायं भेदोऽकिञ्चित्करो, (स०) व्याप्तिलक्षणे ईदृशस्यैव भेदस्यान्यैरपि प्रवेशात्, अन्यथाऽनिर्वाहादिति बोध्यम् । तदेव स्पष्टयति-यथा साधनमित्यादिना । सिद्धान्यथानुपपत्तिरिति तथा च Page #50 -------------------------------------------------------------------------- ________________ ४५२ अष्टसहस्रीतात्पर्यविवरणम् त्वाव्योमकुसुमादिवत् । तथा हि-सर्वथा पृथक्त्वं नास्त्येव, एकत्वनिरपेक्षत्वाद् व्योमकुसुमवत् । सर्वथैकत्वं नास्ति पृथक्त्वनिरपेक्षत्वात्तद्वदिति । अत्र न हेतुद्वयमसिद्धं तदेकान्तवादिनां तथाभ्युपगमात् । नाप्यनैकान्तिकं विरुद्धं वा, विपक्षवृत्त्यभावात् । [सापेक्षमेवैक्यं पृथक्त्वञ्च जीवादिवस्तुनीति साधयन्ति जैनाचार्याः ।] (भा०) सापेक्षत्वे हि तदेवैक्यं पृथक्त्वमित्यविरुद्धम् । कथञ्चिज्जीवादिवस्तु प्रत्यक्षादिभिरुपलभ्यते न पुनः सर्वथेति सिद्धान्यथानुपपत्तिः । (भा०) सपक्षविपक्षयोर्भावाभावाभ्यां साधनवत् । न हि सपक्षे एव भावो विपक्षेऽभावनिरपेक्षो विपक्षेऽभाव एव वा सपक्षे भावानपेक्षः साधनवस्तुनो रूपं परेषां सिद्धं येन साध्यसाधनविधुरमुदाहरणं स्यात् । (भा०) स्वभेदैर्वा संवेदनवत् । न हि हेतुमनिच्छतः संवेदनाद्वैतं पुरुषाद्वैतं वा स्वीकुर्वतोऽपि चित्रसंवेदनं नीलादिनिर्भासैरद्वयसंवेदनं वा ग्राह्यग्राहकाकारविवेकसंविदाकारैः परमब्रह्म वा तेजःशब्दज्ञानज्योतिराकारैर्विद्येतराकारैर्वा स्वभेदैः परस्परनिरपेक्षैर्विशिष्टं वस्तु सिद्धं येनोदाहरणमनवद्यं न स्यात् । (भा०) स्वारम्भकावयवैर्वा घटादिवत् औलूक्यानाम् । सत्त्वादिभिः प्रधानवद्वा कापिलानाम् । - अष्टसहस्त्रीतात्पर्यविवरणम् वस्तुत्वान्यथानुपपत्त्या कथञ्चिदेकं कथञ्चित् पृथक् च जीवादिवस्तु साधनीयं, विपक्षे बाधकश्च व्यवहारबाध एवेति नाप्रयोजकत्वम् । स्वभेदैः साधनं यथेति दृष्टान्तचतुष्टयप्रतिपादनपरे प्रतीके साधनपदं हेतुसंवेदनघटाद्यवयविप्रधानपरतया भेदपदं च हेतुरूपनीलाद्याकारस्वारम्भकावयवसत्त्वादिपरतया व्याचिख्यासुराह भाष्यकृत्-सपक्षविपक्षयोरित्यादिना परस्परनिरपेक्षरूपविशिष्टे न वस्तुत्वमिति व्यतिरेकं प्रदर्शयित्वा परस्परसापेक्षरूपविशिष्ट एव Page #51 -------------------------------------------------------------------------- ________________ ४५३ द्वितीयो भागः [परि० २-का० ३४] (भा०) तादृशं हि साधनं स्वार्थक्रियायाः क्षीराद्याहरणादिकाया महदादिसृष्टिरूपाया वा स्वविषयज्ञानजननलक्षणाया वा सिद्धमेव । (भा०) तदन्तरेणापि पाठान्तरमिदं बहु सगृहीतं भवति । कारिकायां स्वभेदैः साधनं यथा इत्यत्र साधनशब्देन साधनसामान्यस्याभिधानात् स्वभेदशब्देन च तत्सामान्यस्य वचनात् । यथायोगं विशेषव्याख्यानादिष्टविशेषसिद्धेर्बहुसङ्ग्रहः ॥३३॥ ननु चैकत्वप्रत्ययात्पृथक्त्वप्रत्ययाच्च कथमेकत्वं पृथक्त्वं च जीवादीनामुपपन्नं तस्य निर्विषयत्वादित्यारेकायां तस्य सविषयत्वमादर्शयितुमनसः स्वामिनः प्राहु: सत्सामान्यात्तु सर्वैक्यं पृथग्द्रव्यादिभेदतः । भेदाभेदविवक्षायामसाधारणहेतुवत् ॥३४॥ तु (:) विशेषणे । तेन सत्सामान्यं विशेषणमाश्रित्य सर्वेषां जीवादीनामैक्य - अष्टसहस्त्रीतात्पर्यविवरणम् - तत्त्वमित्यन्वयं प्रदर्शयति-तादृशं हीत्यादिना क्षीराद्याहरणादिकाया इत्युत्तरयोरर्थक्रियाप्रदर्शनं स्वविषयज्ञानेत्याद्ययोः हेतुना स्वविषयज्ञानस्यानुमितिरूपस्य संवेदनेन चानुव्यवसायस्य जननादिति बोध्यम् । (शङ्का) स्वप्रकाशत्वात्संवेदनस्य न स्वविषयज्ञानजननलक्षणाप्यर्थक्रियेति चेत्, तर्हि व्यवहारजननलक्षणा साऽऽद्रियतां, यथा कथञ्चिदर्थक्रियाकारित्वस्यैव वस्तुत्वव्यवस्थापकत्वादिति तत्त्वम् । भाष्ये तदन्तरेणापीति तत्=प्रसिद्धसाधनम्, अन्तरेण विनापि, इदं तुरीयपादलक्षणं पाठान्तरम्= एकपाठत्वेऽप्यावृत्त्यपेक्षया नानाप्रयोगरूपं बहूनां सङ्ग्रहीतं भावे क्तप्रत्ययात् सङ्ग्रहो यत्र तत्तथा, बह्वर्थसङ्ग्राहकं भवतीत्यर्थः । कारिकायामिति अवयवावयविभावेन वृत्तित्वे सप्तमी । उक्तमेव विवृणोति वृत्तिकृत्-स्वभेदैरित्यादिना ॥३३॥ सत्सामान्यात्त्विति सर्वस्य वस्तुनः सत्त्वेनैक्यं द्रव्यादिभेदेन पार्थक्यं यथाऽसाधारणः शृङ्गग्राहिकयाऽभिहितः सत्त्वादिर्हेतुस्तद्धेतुत्वेनाभेदविवक्षयैक: पक्षधर्मत्वाद्यपेक्षया च पृथग्रूप इति । तथा चैकत्वं पृथक्त्वं च वैवक्षिकमेव न तु क्वचन Page #52 -------------------------------------------------------------------------- ________________ ४५४ अष्टसहस्त्रीतात्पर्यविवरणम् मिति नैकत्वप्रत्ययो निर्विषयः, तस्य सत्सामान्यविषयत्वात् । पृथक् सर्वं जीवादि द्रव्यादिपदार्थभेदमाश्रित्यानुभूयते । ततो न पृथक्त्वप्रत्ययोऽपि निविषयः, तस्य द्रव्यादिभेदविषयत्वादिति निवेदितं बोद्धव्यम् । हेतुरत्र ज्ञापकः कारकश्चोच्यते । स चासाधारणो यथास्वं प्रवादिभिर्विशेषेणेष्टत्वात् । स च यथा स्वभेदानां पक्षधर्मत्वादीनां स्वारम्भकावयवादीनां वा विवक्षायां पृथगेव हेतुत्वेन घटावयव्यादित्वेन वा तदभेदविवक्षायामेक एव तथा सर्वं विवादाध्यसितमिति दृष्टान्तदार्टान्तिकघटनात् ।। [सम्पूर्णपदार्थेषु सदृशपरिणामे सत्यपि कथमेकत्वम् ?] (भा०) कश्चिदाह-सर्वार्थानां समानपरिणामेऽपि कथमैक्यं ? भेदानां स्वभावसाङ्कानुपपत्तेः । न हि भावाः परस्परेणात्मानं मिश्रयन्ति, भेदप्रतीतिविरोधात् । तेषामतत्कार्यकारणव्यावृत्त्या समानव्यवहारभाक्त्वेऽपि परमार्थतोऽसङ्कीर्णस्वभावत्वात् । तदुक्तं सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः । स्वभावपरभावाभ्यां यस्माद्व्यावृत्तिभागिनः ॥ तस्माद्यतो यथार्थानां व्यावृत्तिस्तन्निबन्धनाः । जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः ॥ - अष्टसहस्त्रीतात्पर्यविवरणम् विशिष्यविश्रान्तं द्रव्यार्थिकनयेनैकीकृतस्यैव पर्यायार्थिकनयेन पृथक्करणात्, तेन पृथक्कृतस्यैव चान्येनैकीकरणात्, सम्मतौ द्रव्योपयोगस्यापश्चिमविकल्पनिर्वचनत्वोक्तेः, कार्यकारणभावप्रवाहपतितानां द्रव्यपर्यायाणां तत्र विश्रान्त्या सम्भवेऽपि सामान्यतस्तदविश्रामात्, नीलादिस्वलक्षणज्ञानस्वलक्षणयोरपि रूपरसादिपर्यायैस्तत्तन्निर्भासभेदैश्च पृथक्त्वेन सर्वथैकत्वायोगात्, तत्तदात्मनि तत्तत्परमाणौ च द्रव्यैक्येऽपि पर्यायाविवक्षाप्रयुक्तद्रव्यविवक्षाया एव शरणत्वात्, देशप्रदेशकल्पनाविनिर्मुक्तवस्तुगोचरैवंभूतनयप्रवृत्तेरपि नयान्तराविवक्षाहेतुकत्वात्, Tद्रव्यार्थिकपर्यायार्थिकोभयप्रवृत्तेरपि सर्वत्र नियमस्य भजनामात्रेण च क्वचन तदपवादस्य शास्त्रसिद्धत्वात्, सर्वेषां नयानां स्वस्ववचनीयसत्यत्वेऽपि च परविचारप्रवृत्तौ मोघत्वादित्यादिरहस्यं सहृदयैः स्वयं बोध्यम् । ज्ञापकः साध्यज्ञानजनकज्ञानविषयः, कारको= Page #53 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि० २-का० ३४] ४५५ ततो यो येन धर्मेण विशेषः सम्प्रतीयते । न स शक्यस्ततोऽन्येन, तेन भिन्ना व्यवस्थितिः ॥ [ ] इति । [अधुना बौद्धस्य पक्षं निराकुर्वन्ति जैनाचार्याः] अत्राभिधीयते-जीवादिभेदानामैक्यं । (भा०) यथैकभेदस्य स्वभावविच्छेदाभावात् । न हि स्वभावविच्छेदाभावादृते नीलस्वलक्षणस्य संवेदनस्य वा कस्यचिदेकस्य स्वयमिष्टस्याप्येकत्वनिबन्धनं किञ्चिदस्ति । नापि कथञ्चिद्भिन्नानामपि भावानां सत्सामान्यस्वभावेन विच्छेदोऽस्ति, तथा विच्छेदाभावस्यानुभवात् । (भा०) अन्यथैकं सदन्यदसत् स्यात् । ततः समञ्जसं सर्वमेकं सदविशेषादिति । सदात्मना सर्वभावानां परस्परमिश्रणेऽपि साङ्कर्याप्रसक्तेः चित्रैकज्ञाननीलादिनि सानां संविदात्मनैकत्वेऽपि साङ्कर्याप्रसक्तिवत् । न हि तेषामनेकत्वे चित्रज्ञानसिद्धिः सर्वथैकत्ववत् । तत एव न किञ्चिद्भिन्नज्ञानं निरंशसंवेदनाद्वैतोपगमादिति चेत्, न, तत्रापि वेद्याकारविवेकसंविदाकारयोः परोक्षप्रत्यक्षयोरेकसंवेदनत्वेऽपि साङ्कर्यानिष्टेरन्यथा संविदाकारस्यापि परोक्षत्वप्रसङ्गात् वेद्याकारविवेकवत् । तस्य वा प्रत्यक्षत्वं संविदाकारवत् स्यात् । न चैवं तद्विप्रतिपत्तिविरोधात् समारोपस्यापि सर्वथाप्यविशेषे क्वचिदेवासम्भवान्निश्चयवत् । (भा०) तस्यैव सतो द्रव्यादिभेदात् पृथक्त्वमुदाहरणं पूर्ववत् । तथा च बहिरन्तश्च भावानां सदात्मनैकत्वं द्रव्याद्यात्मना पृथक्त्वं च स्वस्वभावः सिद्धो, न पुनरसाधारणं भिन्नं रूपम् । तेन च स्वस्वभावेन व्यवस्थितेः स्वभावपरभावाभ्यां भावाः स्वभावेनानुवृत्तिव्यावृत्तिभागिनो, न पुनरेकान्ततो व्यावृत्तिभागिनः । तस्माद्यतो यतोऽर्थानां व्यावृत्तिस्तन्निबन्धना भेदविशेषा एव - अष्टसहस्त्रीतात्पर्यविवरणम् अनन्यथासिद्धनियतपूर्ववर्ती, जातिभेदा=अतव्यावृत्तिरूपास्तुच्छाः, तद्विशेषावगाहिनः= स्तद्विशेषाकारज्ञानविषयाः, यथाश्रुतेऽवगाहित्वस्य ज्ञानधर्मस्य जातिभेदविशेषणत्वानुपपत्तेरिति द्रष्टव्यम् । भिन्नं रूपं=गुणान्तरं पदार्थान्तरं वा । इतरस्याविवक्षायां गुणभावादिति Page #54 -------------------------------------------------------------------------- ________________ ४५६ अष्टसहस्त्रीतात्पर्यविवरणम् प्रकल्प्यन्ते, न जातिविशेषाः प्रतीतिविरोधात् । यतो यतस्त्वनुवृत्तिस्ततस्ततो जातयः प्रकल्प्यन्ते, तासामेवानुवृत्तिप्रत्ययलिङ्गत्वात् । ततो यो येन धर्मेण विशेषोऽविशेषश्च सम्प्रतीयते, न स शक्यस्ततोऽन्येन । तेन भिन्नाभिन्ना च व्यवस्थितिः पदार्थानां, तथाप्रतीतेर्बाधकाभावात् । ततः स्थितमेतत्, सत्सामान्यविवक्षायां सर्वेषामैक्यं, द्रव्यादिभेदविवक्षायां पृथक्त्वमेव, इतरस्याविवक्षायां गुणभावात् ॥३४॥ विवक्षाविवक्षयोरसद्विषयत्वान्न तद्वशात्तत्त्वव्यवस्था युक्ता इति मन्यमानं प्रत्याहुः सूरयः विवक्षा चाविवक्षा च विशेष्येऽनन्तधर्मिणि । सतो विशेषणस्यात्र नासतस्तैस्तदर्थिभिः ॥३५॥ क्रियते इति शेषः । विशेष्योऽर्थस्तावदनन्तधर्मा प्रागुक्तः । तत्र कस्यचिद्विशेषणस्यैकत्वस्य सत एव विवक्षा पृथक्त्वस्य च सत एव वाविवक्षा, न पुनरसतः क्रियते तैः प्रतिपत्तृभिरेकत्वपृथक्त्वाभ्यामर्थिभिः, सर्वथा तत्र कस्यचिदर्थित्वानथित्वयोरसम्भवात्, तस्य सकलार्थक्रियाशक्तिशून्यत्वात् खरविषाणवत् । - अष्टसहस्रीतात्पर्यविवरणम् गुणभावः तत्प्रकारकबोधोद्देशेन वचनाप्रवृत्तावप्यभेदसंसर्गप्रवेशमर्यादया भानं, तत्र मूलं चानन्तधर्मात्मके वस्तुन्येकोऽपि धर्मस्तदितरसकलधर्माभिन्नत्वविशिष्टसंसर्गेण भातीति व्युत्पत्तिः । ननु एकत्वमभेदः पृथक्त्वं च भेदः साधनमेकं पक्षधर्मत्वादिना न भिद्यते किन्तु भिन्नप्रकारकप्रतीतिविषयो भवतीति दृष्टान्तावष्टम्भेन जीवादिवस्तुन्येकत्वपृथक्त्वयोरन्योन्यानुगमसाधनं युक्तिरिक्तमिति चेत्, न, धूमो वह्नौ धूमत्वेनैको हेतुः पक्षधर्मत्वादिरूपैः पृथग्रूपः, दण्डो घटे दण्डत्वेन हेतुर्द्रव्यत्वेन न हेतुरिति प्रतीत्या हेतावेकत्वपृथक्त्वयोर्भेदाभेदयोश्चान्योन्यानुगमसिद्धान्तदृष्टान्तेन जीवादिवस्तुनि तत्साधनस्य युक्तिपथानतिवत्तित्वात् । (शङ्का) न च द्रव्यत्वेन न हेतुरित्यत्र द्रव्यत्वानवच्छिन्नहेतुतावानर्थः, (समा०) मूले वृक्षः संयोगी न शाखायामित्यत्रापि शाखानवच्छिन्नसंयोगवद्विषयकत्वापत्तेः, दण्डोऽदण्डश्च द्रव्यत्वेन न हेतुरित्यत्रागतेश्च । युक्तिसिद्धे च भेदस्याव्याप्यवृत्तित्वे किमेकत्रापेक्षया भेदाभेदोभयावगाहिप्रतीतेरन्यविषयत्वकदर्थनेन । न च द्रव्यत्वावच्छिन्नतादात्म्येन हेतुमति द्रव्यत्वेन हेतुभेदोऽप्यसम्भवतीति शङ्कनीयम्, तादात्म्येन Page #55 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० २ - का० ३५ ] ४५७ [विवक्षाया विषयोऽसदेवेति मन्यमाने बौद्धेन जैनाचार्याः समादधते ।] न हि कस्यचिद्विवक्षाविषयस्य मनोराज्यादेरसत्त्वे सर्वस्यासत्त्वं युक्तं, कस्यचित् प्रत्यक्षविषयस्य केशोण्डुकादेरसत्त्वे सर्वस्य प्रत्यक्षविषयस्यासत्त्वप्रसङ्गात् । प्रत्यक्षाभासविषयस्यासत्त्वं न पुनः सत्यप्रत्यक्षविषयस्येति चेत्, तर्ह्यसत्यविवक्षाविषयस्यासत्त्वमस्तु, सत्यविवक्षाविषयस्य तु मा भूत् । न काचिद्विवक्षा सत्या विकल्परूपत्वान्मनोराज्यादिविकल्पवदिति चेत्, न, अस्यानुमानस्य सत्यत्वेऽनेनैव हेतोर्व्यभिचारात् तदसत्यत्वे साध्याप्रसिद्धेः । यतोऽनुमानविकल्पादर्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां न विसंवाद्यते । तद्विषयः सन्नेवेति चेत्, तर्हि यतो विवक्षाविशेषादर्थं विवक्षित्वा प्रवर्तमानो न विसंवाद्यते तद्विषयः कथमसन् भवेत् ? । [अविवक्षाया विषयोऽसदेवेति बौद्धेन मन्यमाने जैनाचार्याः समादधते ।] अविवक्षाविषयोऽसन्नेवान्यथा तदनुपपत्तेरिति चेत्, न, सकलवाग्गोचरातीतेनार्थस्वलक्षणेन व्यभिचारात् । सर्वस्य वस्तुनो वाच्यत्वान्नाविवक्षाविषयत्वमिति चेत्, न नाम्नस्तद्भागानां च नामान्तराभावादन्यथानवस्थानुषङ्गात् । तेषामविवक्षाविषयत्वेऽपि सत्त्वे कथमन्यदपि विशेषणमविवक्षाविषयत्वे सदेव न सिद्ध्येत् ? तदेवं, (भा०) विधिप्रतिषेधधर्माणां सतामेव विवक्षेतराभ्यां योगस्तदर्थिभिः क्रियते, अन्यथार्थनिष्पत्तेरभावात् । न ह्यर्थक्रियार्थिनामर्थनिष्पत्तिमनपेक्ष्य विवक्षेतराभ्यां योगः सम्भवति, येन तदभावेऽपि स स्यात् । अष्टसहस्त्रीतात्पर्यविवरणम् तत्तद्धेतुतत्तद्भेदयोस्तत्तद्धेतुतावच्छेदकतदनवच्छेदकभेदेन सत्त्वस्वीकारात् प्रतियोग्यनवच्छेदकस्याभावावच्छेदकत्वेऽतिप्रसङ्गस्तु कथञ्चित्पक्षेणैव प्रतीत्यबाधया परिहरणीय इति दिग् ||३४|| विकल्परूपत्वादिति, न च पक्षावृत्तित्वेनास्यासिद्धत्वं, विवक्षाया मोहाभिव्यक्तचैतन्यरूपत्वेनास्य पक्षवृत्तित्वात्, नाम्नो = घटादिनाम्नः, तद्भागानां च घकार Page #56 -------------------------------------------------------------------------- ________________ ४५८ अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) उपचारमात्रं तु स्यात् न चाग्निर्माणवक इत्युपचारात् पाकादावुपयुज्यते । ननु चान्यव्यावृत्तय एव विवक्षेतराभ्यां युज्यन्ते, न वस्तुस्वभावो, यतस्तयोः सद्विषयत्वमिति चेत्, न शब्देभ्यो वस्तुनि प्रवृत्तिविरोधात् । व्यावृत्तितद्वतोरेकत्वाध्यारोपात्तद्वति प्रवृत्तिरिति चेत्, न, अध्यारोपस्य विकल्पत्वेनार्थाविषयत्वात् स्वाविषयेण व्यावृत्तेरेकत्वारोपणायोगात् । सामान्येनार्थोऽध्यारोपविकल्पविषय एवेति चेत्, तदपि यद्यन्यव्यावृत्तिरूपं तदा व्यावृत्त्यैव व्यावृत्तेरेकत्वारोपात्कुतोऽर्थे प्रवृत्तिः ? तामिच्छता (भा०) तदेकैकशः परस्परव्यावृत्तयोऽपि परिणामविशेषाः एषितव्याः ॥३५॥ योऽप्याह-भेद एव परमार्थसन्नर्थानां नाभेदस्तस्य संवृतिसत्त्वादन्यथा विरोधादिति । अभेद एव तात्त्विको भावानां न भेदस्तस्य कल्पानारोपितत्वादन्यथा विरोधानुषङ्गादिति चापरः । तौ प्रति सूरयः प्राहुः प्रमाणगोचरौ सन्तौ भेदाभेदौ न संवती । तावेकत्राविरुद्धौ ते गुणमुख्यविवक्षया ॥३६॥ अभेदस्तावत्सन्नेव न पुनः संवृतिविषयः प्रमाणगोचरत्वाद्भेदवत् । भेदः सन्नेव न पुनः संवृतिः प्रमाणगोचरत्वादभेदवत् । भेदाभेदौ सन्तावेव, न पुनः संवृती, प्रमाणगोचरत्वात्स्वेष्टतत्त्ववदित्यपि पक्षान्तरमाक्षिप्तं लक्ष्यते, तदुभयसंवृतिवादिनोऽपि सकलधर्मविधुरत्वमनुमन्यमानस्य भावात् । न चात्र साध्य अष्टसहस्रीतात्पर्यविवरणम् टकाराद्यक्षराणाम्, उपचारमात्रं तु स्यादिति मुख्यार्थबाधतद्योगरूढिप्रयोजनान्यतरसंपत्तेरेव तद्धेतुत्वादिति भावः । न चाग्निरित्यादि ततः सतामेवार्थानामर्थिविवक्षेतराभ्यां योग इति नियूंढम् ॥३५॥ कारिकायां न संवृती इति, संवृतिपदस्य संवृतिविषये लाक्षणिकत्वान्न सांवृतावित्यर्थः । अविरुद्धौ इत्यतः पूर्वं वक्तुमिति शेषः । एकत्राविरुद्धतया वचन एव Page #57 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि. २-का० ३६] ४५९ साधनधर्मविकलमुदाहरणं, भेदाभेदतदुभयानुभयैकान्ताभिधायिनां तत्प्रसिद्धः स्याद्वादिवत् । तथैकत्र वस्तुनि भेदाभेदौ परमार्थसन्तौ ते भगवतो न विरुद्धौ प्रमाणगोचरत्वात्स्वेष्टतत्त्ववत् इति सामर्थ्यात् परस्परनिरपेक्षौ भेदाभेदौ विरुद्धावेव प्रमाणागोचरत्वाद्भेदैकान्तादिवत् इति कारिकायामर्थसङ्ग्रहः । [प्रमाणस्य किं लक्षणमिति प्रश्ने सत्याचार्याः कथयन्ति] किं पुनः प्रमाणं यद्गोचरत्वमत्र हेतुः ? इति चेत् । (भा०) प्रमाणमविसंवादि ज्ञानमनधिगतार्थाधिगमलक्षणत्वाद् । इत्यग्रे वक्ष्यति । अधिगमो हि स्वार्थाकारव्यवसायः । स्वार्थाकारौ च कथञ्चिद्भेदाभेदौ, तदन्यतरापायेऽर्थक्रियानुपपत्तेस्तदेकान्ते सर्वथा तदयोगात् । (भा०) तदेवं सति भेदमभेदं वा नान्योन्यरहितं विषयीकरोति प्रमाणम् । न हि बहिरन्तर्वा स्वलक्षणं सामान्यलक्षणं वा तथैवोपलभामहे यथैकान्तवादिभिराम्नायते । ___ इति भेदैकान्ताभावेऽभेदैकान्तासत्त्वे च परस्परनिरपेक्षतदुभयैकान्तापाकरणेऽनुभयैकान्तापसारणे च साध्ये स्वभावानुपलब्धिः, स्वयमुपलब्धिप्राप्तस्य तस्यानुपलभ्यमानत्वसिद्धेः । न चेयमसिद्धा, ___ (भा०) सूक्ष्मस्थूलाकाराणां स्थूलसूक्ष्मस्वभावव्यतिरेकेण प्रत्यक्षादावप्रतिभासनात् । न हि प्रत्यक्षे स्वलक्षणं सूक्ष्म परमाणुलक्षणं प्रतिभासते स्थूलस्य घटाद्यात्मनः प्रतिभासनात् । [प्रत्यक्षज्ञाने परमाणव एव प्रतिभासन्ते न पुनः स्कन्धा इति बौद्धमान्यतां निराकुर्वन्त्याचार्याः] परमाणुष्वेवात्यासन्नासंसृष्टेषु दृष्टौ प्रतिभासमानेषु कुतश्चिद्विभ्रमनिमित्तादात्मनि - अष्टसहस्त्रीतात्पर्यविवरणम् गुणमुख्यविवक्षाया हेतुत्वसम्भवादित्यर्थः । न चेयमसिद्धेति एतेषु साध्येषु इयं स्वभावानुपलब्धिः सिद्धा न । सूक्ष्मेत्यादिभाष्यम् सूक्ष्मस्थूलाकाराणाम् अवयवावयविरूपाणां विषयाणां स्थूलसूक्ष्मस्वभावव्यतिरेकेण=अवयव्यवयवस्वभावानुपरागेण, Page #58 -------------------------------------------------------------------------- ________________ ४६० अष्टसहस्त्रीतात्पर्यविवरणम् परत्र चासन्तमेव स्थूलाकारमादर्शयन्ती संवृतिस्तान् संवृणोति केशादिभ्रान्तिवदिति चेत्, नैवं, बहिरन्तश्च प्रत्यक्षस्याभ्रान्तत्वकल्पनापोढत्वाभावप्रसङ्गात्, संव्यवहारतः परमार्थतो वा प्रत्यक्षं कल्पनापोढमभ्रान्तमिति लक्षणस्यासम्भवदोषानुषङ्गात्, परमाणूनां जातुचिदध्यक्षबुद्धावप्रतिभासनात् । ते इमे परमाणवः प्रत्यक्षबुद्धावात्मानं च न समर्पयन्ति प्रत्यक्षतां च स्वीकर्तुमिच्छन्तीत्यमूल्यदानक्रयिणः स्वावयवभिन्नैकावयविवत् । न हि सोऽपि सूक्ष्मस्वावयवव्यतिरिक्तो महत्त्वोपेतः प्रत्यक्षे प्रतिभासते कुण्डादिव्यतिरिक्तदध्यादिवत् । समवायात्तेभ्योऽनन्तरमिव प्रतिभासते इति चेत. न. अवयविप्रत्यक्षस्य सर्वत्र भ्रान्तत्वप्रसङ्गात । तथा चाव्यभिचारित्वं प्रत्यक्षलक्षणमसम्भवि स्यात् । न चैतेऽवयवा अयमवयवी समवायश्चायमनयोरिति त्रयाकारं प्रत्यक्षमनुभूयते सकृदपि, यतोऽसावप्यमूल्यदानक्रयी न स्यात्, प्रत्यक्षबुद्धावात्मानर्पणेन प्रत्यक्षतास्वीकरणाविशेषात् । तत एव परस्परभिन्नावयवावयविनामपि प्रत्यक्षे प्रतिभासनादमूल्यदानक्रयिणावुक्तौ समवायवत् । अष्टसहस्त्रीतात्पर्यविवरणम् अत्यासन्नासंसृष्टेष्विति अयोग्यपरमाणुभ्यो योग्यपरमाणूत्पत्त्युपलक्षणमेतत्, तेन वाय्वादेरचाक्षुषत्वमप्युपपादितं भवति, शक्तिविशेषेणैवाणूनां चाक्षुषादिजननयोग्यत्वादिति बोध्यम् । संवृणोतीति तथा च घटादावेकत्वग्रहहेतुरनेकत्वग्रहप्रतिबन्धकश्च दोष एव संवृतिः, संवरणाच्चान्वर्थत्वं सञ्ज्ञाया इत्युक्तं भवति । कुण्डादिव्यतिरिक्तदध्यादिवदिति यथा कण्डादिव्यतिरिक्तं दधि प्रतिभासते तथा स्वावयवव्यतिरिक्तोऽवयवी न प्रतिभासत इति व्यतिरेकदृष्टान्तोऽयम् । अनर्थान्तरमिवेति तन्तव एव पट इत्यवयवभिन्नोऽप्यवयवी समवाययोगात्तदभिन्नत्वेन भासत इत्यर्थः । प्रत्यक्षलक्षणमिति इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् [न्या० १.१.४] इत्यक्षपादसूत्रोक्तप्रत्यक्षलक्षणघटकमित्यर्थः । अत्र हीन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यभिचारिप्रत्यक्षमित्येतावदेव लक्षणम्, अव्यपदेश्यं व्यवसायात्मकं चेत्येतावत् निर्विकल्पकत्वसविकल्पकत्वाभ्यां विभागपरमित्यादि व्यवस्थितं न्यायसिद्धान्तमालायाम् । न चैते इति समवायाप्रत्यक्षत्वं च वैशेषिकेणापि स्वीक्रियते, तच्च न सम्बन्धप्रत्यक्षे यावदाश्रयप्रत्यक्षस्य हेतुत्वात् समवायसंयोगान्यतरत्वगर्ने सम्बन्धत्वं परित्यज्य संयोगप्रत्यक्षत्वस्यैव तत्कार्यतावच्छेदकत्वादिति विषयासत्त्वादेव तदप्रत्यक्षत्वं स स्वीकरणीयः, 'तत्सम्बन्धतत्सम्बन्धादि १. हस्तप्रतेः प्रतिमुद्रिते (xerox) आदर्श एषा पङ्क्तिः पतिता प्रतिभाति । Page #59 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि०२-का० ३६] ४६१ [परमाणव एव सद्रूपा न स्कन्धा इति बौद्धेन कथितं, जैनाचार्याः समादधते] सर्वं वस्तु क्षणिकपरमाणुरूपं, सत्त्वात्, नित्यस्थूलरूपे क्रमाक्रमाभ्यामर्थक्रियानुपपत्तेस्तदयोगादित्यनुमानेन स्वलक्षणमध्यवसीयते इति चेत्, न, अत्र हेतोविरुद्धत्वात्, सत्त्वस्य कथञ्चिन्नित्यानित्यात्मकसूक्ष्मस्थूलात्मकत्वेन व्याप्तत्वात्, सर्वथा नित्यायेकान्तरूपे क्रमयोगपद्याभ्यामर्थक्रियाविरोधात्सत्त्वानुपपत्तेः समर्थनात् । एतेन स्थूलमेवावयवि द्रव्यं सूक्ष्मावयवरहितं प्रतिभासते इति व्युदस्तं तदनुमानस्यापि विरुद्धत्वाविशेषात् प्रत्यक्षबाधितविषयत्वाच्च हेतोरतीतकालत्वाव्यवस्थितेः । अत एव नोपमानादावपि तत्प्रतिभासनमिति नासिद्धं सूक्ष्मायेकान्तस्य प्रत्यक्षबुद्धावप्रतिभासनं, यतस्तत्प्रतिषेधे साध्ये स्वभावानुपलब्धिर्न सिद्धयेत् । तत्प्रतिषेधे च सिद्धः सूक्ष्मायनेकान्तः । [प्रधानगौणव्यवस्था कथं घटते ? इति प्रश्ने सति समादधते जैनाचार्याः ।] (भा० ) तत्र स्वभावान्तरस्य प्राधान्यविवक्षायामाकारान्तरस्य गुणभावः स्यात्, घटोऽयं परमाणवो रूपादयो वेति । घटार्थिनो हि घटविवक्षायां घट: प्रधानं परमाणवोऽनुमेयाः, प्रत्यक्षाश्च रूपादयो गुणीभूताः, तदनथित्वादविवक्षाप्रसिद्धः । तदर्थिनां तु तद्विवक्षायां त एव – अष्टसहस्त्रीतात्पर्यविवरणम् - प्रत्यक्षपरम्पराभिग्राह्यभिया ह्यस्य सुग्राह्यत्वम्, अन्यथा समवायस्य सत्त्वे तत्प्रत्यक्षमिव तत्सम्बन्धतत्सम्बन्धपरम्पराऽपि प्रत्यक्षा स्यात् । प्रत्यक्षादाविति= भाष्यस्थादिशब्दगृहीतानुमानादावपि । सूक्ष्मस्थूलाकाराः स्थूलसूक्ष्मस्वभावव्यतिरेकेण न प्रतिभासन्त इति समर्थयितुमनाः प्राह-सर्वं वस्त्वित्यादिना । प्रत्यक्षबाधितेति अवयवसहितस्यैवावयविनः प्रत्यक्षे भानादित्यर्थः । गुणीभूता इति यावत्स्वप्रदेशगुणपर्यायविशिष्टतादात्म्यसंसर्गेणैवेदन्तादेर्घटे भानाभ्युपगमादित्यर्थः । तदनर्थित्वादिति रूपाद्युद्देश्यकजिज्ञासाभावादित्यर्थः, तत्सद्भावे तु जायत एवैते रूपादयो घट इति प्रत्यक्षमिति भावः । यद्यपि विवक्षा शाब्दबोध एव प्रयोजिका, न प्रत्यक्षे, नापि जिज्ञासा, घटदिदृक्षयोन्मीलितनयनस्य पुरःस्थितपटप्रत्यक्षानुत्पत्तिप्रसङ्गात्, तथापि प्रधानगुणभावेन तथातथाप्रत्यक्षे तत्तदथित्वादिनियन्त्रितक्षयोपशमस्यान्वयव्यतिरेकाभ्यां विशिष्य हेतुत्वान्नानुपपत्तिरिति सर्वमनवद्यम् । शिष्टं सुगमम् ॥३६॥ Page #60 -------------------------------------------------------------------------- ________________ ४६२ अष्टसहस्त्रीतात्पर्यविवरणम् प्रधानं न पुनर्घटोऽवयवी, तद्विवक्षायाः सम्भवाभावात्तदर्थित्वानुपपत्तेः । न च तदुभयसत्त्वाविशेषादविशेषेणार्थित्वमनर्थित्वं वा प्रसज्यते, तस्य तत्सत्तामात्रानिबन्धनत्वात्, मोहविशेषोदयहेतुकत्वात् तदुदयस्यापि मिथ्यादर्शनादिकालादिनिमित्तकत्वात् । तदेवं स्यादद्वैतं, स्यात् पृथक्त्वमिति मूलभङ्गद्वयं विधिप्रतिषेधकल्पनयैकवस्तुन्यविरोधेन प्रश्नवशादुपदर्शितम् । शेषभङ्गानां तु प्रक्रिया यथोदितनयविशेषवचनभाक् 'एकानेकविकल्पादावुत्तरत्रापि योजयेत्' इत्याद्यतिदेशकारिकानिर्देशसामर्थ्यात्प्रपञ्चतो निश्चेतव्या । अद्वैताद्याग्रहोग्रग्रहगहनविपन्निग्रहेऽलङ्घ्यवीर्याः स्यात्कारामोघमन्त्रप्रणयनविधयः शुद्धसद्ध्यानधीराः । धन्यानामादधाना धृतिमधिवसतां मण्डलं जैनमग्रयं वाचः सामन्तभद्र्यो विदधतु विविधां सिद्धिमुद्भुतमुद्राः ॥ [स्रग्धरा ] इत्याप्तमीमांसालङ्कृतौ द्वितीयः परिच्छेदः ॥ अष्टसहस्त्रीतात्पर्यविवरणम् इत्येकत्वपृथक्त्वचिन्तननयौ यौ सप्तभङ्ग्यावहौ, तावुन्मग्नजलानिमग्नजलयोः सादृश्यमन्विच्छतः । उल्लङ्घ्य द्वयमस्तमोहविषमम्लेच्छो लिखित्वाभिधां, स्याद्वादर्षभकूट एव हि निजां स्याच्चक्रवर्त्ती बुधः ॥१॥ इति श्रीमदकब्बरसुरत्राणप्रदत्तजगद्गुरुबिरुदधारकभट्टारक श्रीहीरविजयसूरीश्वरशिष्य मुख्यमहोपाध्यायश्रीकल्याणविजयगणिशिष्यावतंसपण्डित श्रीलाभविजयगणि शिष्याग्रेसरपण्डित श्रीजितविजयगणिसतीर्थ्यालङ्कार पण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकेण पण्डितश्रीपद्मविजयगणिसहोदरेण महोपाध्यायश्रीयशोविजयगणिना विरचितेऽष्टसहस्त्रीतात्पर्यविवरणे द्वितीयः परिच्छेदः ॥ Page #61 -------------------------------------------------------------------------- ________________ ॥ तृतीयः परिच्छेदः ॥ नित्यत्वैकान्तपक्षेऽपि विक्रिया नोपपद्यते । प्रागेव कारकाभावः क्व प्रमाणं क्व तत्फलम् ॥३७॥ अष्टशती प्रथितार्था साष्टसहस्त्री कृतापि सक्षेपात् । विलसदकलङ्कधिषणैः प्रपञ्चनिचितावबोद्धव्या ॥ (भा०) सदसदेकत्वपृथक्त्वैकान्तप्रतिषेधानन्तरं नित्यत्वैकान्तप्रतिक्षेपः । प्रक्रम्यतेऽनेनेति तात्पर्यम् । तत्र नित्यत्वैकान्तः कूटस्थत्वाभिनिवेशः । तस्य पक्षः प्रतिज्ञानम् । तस्मिन्नपि विविधा क्रिया परिणामपरिस्पन्दलक्षणा नोपपद्यते । कार्योत्पत्तेः प्रागेव तदुत्पत्तौ वा प्रागेव कारकाभावो नोपपद्यते इति कूटस्थः प्रागेव कारकः स्यादात्मा भोगस्य । अथ प्रागेव कारकाभावस्तदा विक्रियापि नोपपद्यते इति शश्वदकारक: स्यात् तदविशेषात् । [साङ्ख्या आत्मानमक रमपरिणामिनं मन्यन्ते किन्तु जैनाचार्यैरात्मा परिणामीति साध्यते ।] ___ सोऽस्त्वकारकोऽविक्रियश्चेति चेत्, क्वैव प्रमाणं प्रमितिलक्षणं च तत्फलमुपपद्येत ? प्रमातुरभावे तदसम्भवात् । न ह्यकारकः प्रमाता नाम, प्रमितिक्रिया अष्टसहस्त्रीतात्पर्यविवरणम् रमारमणशङ्करद्रुहिणचन्द्रसूर्यादयः, प्रसादमिव मूनि यत्क्रमरजःकणं बिभ्रति । प्रसीदतु स वो विभुर्धरणराजपद्मावतीनिषेवितपदद्वयः प्रकटपार्श्वपुण्याह्वयः ॥१॥ Page #62 -------------------------------------------------------------------------- ________________ ४६४ अष्टसहस्त्रीतात्पर्यविवरणम् साधनस्य कारकविशेषस्य स्वतन्त्रस्य प्रमातृतोपपत्तेः । सकलकार्योत्पत्तिपरिच्छित्तिक्रिययोः सर्वथाप्यसाधनस्य सत्त्वासम्भवादवस्तुत्वापत्तेः कथमात्मसिद्धिः परस्य स्यात् ? खरविषाणादिसिद्धिप्रसङ्गात् । [साङ्ख्य आत्मनश्चेतनाक्रियां साधयितुं पूर्वपक्षं विधत्ते ] ननु चात्मनश्चेतनैवार्थक्रिया, न पुनः स्वव्यतिरिक्तकार्यस्योत्पत्तिर्ज्ञाप्तिर्वा, तस्याः प्रधानहेतुत्वात् । न च चेतना पुंसोऽर्थान्तरमेव, तस्य तल्लक्षणत्वात् चैतन्यं पुरुषस्य स्वरूपम् [ ] इति वचनात् । न चानित्या चेतना, नित्यपुरुषस्वभावत्वात् साक्षित्वादिवत्तस्याः प्रधानस्वभावत्वे पुरुषकल्पनावैयर्थ्यात् तद– नित्यत्वप्रसङ्गाच्च सुखादिवत् । न च नित्यायाश्चेतनायाः परस्यार्थक्रियात्वं विरुद्धयते धात्वर्थरूपायाः क्रियायाः प्रतिघाताभावात्सत्तावत् । ततोऽर्थक्रियास्वभावत्वादात्मनो वस्तुत्वमेव । न ह्यर्थक्रियाकारणस्यैव वस्तुत्वमर्थक्रियायाः स्वयमवस्तुत्वापत्तेस्तत्रार्थक्रियान्तराभावादन्यथानवस्थाप्रसङ्गात् । स्वतोऽर्थक्रियाया वस्तुस्वभावत्वे पुरुषस्यापि स्वतः शश्वदर्थक्रियास्वभावत्वान्नित्यं वस्तुत्वमस्तु, विक्रियाविरहेऽपि नित्यकारकत्वस्यापि घटनाद् इति कश्चित् सोऽपि न परीक्षादक्षधिषणः, प्रमाणविरोधात्, प्रत्यक्षतोऽनुमानादेर्वा नित्यार्थक्रियायाः कदाचिदपरिच्छेदात् । स्वसंवेदनमेव नित्यचेतनार्थक्रियां परिच्छिनत्तीति चेत्, न, तथा तद्बुद्ध्यानध्यवसायात् । न हि बुद्ध्यनध्यवसितां चेतनां पुरुषश्चेतयते, बुद्धिपरिकल्पनावैयर्थ्यप्रसङ्गात्, सर्वस्य शब्दादेर्विषयस्य बुद्ध्यनध्यवसितस्यैव पुंसा संवेद्यत्वसिद्धेः । स्यान्मतं-'न चेतना नाम विषयभूतार्थान्तरं पुंसोऽस्ति या बुद्ध्याध्यवसीयते तस्यास्तत्स्वरूपत्वात् स्वतः प्रकाशनाच्च' इति तदप्ययुक्तं, तदर्थक्रियात्वायोगात् । न ह्यर्थक्रियावतः स्वरूपमेव सदावस्थाय्यर्थक्रिया प्रसिद्धास्ति, तस्याः पूर्वाकारपरित्यागेनोत्तराकारोपादानेन च अष्टसहस्त्रीतात्पर्यविवरणम् तृतीयपरिच्छेदे किञ्चिद् विविच्यते - साक्षित्वादिवदिति प्रधानात् सकलकार्योत्पत्तावात्मनस्ताटस्थ्येनाऽवस्थानं साक्षित्वम्, आदिना प्रकृतिभिन्नत्वादिग्रहः । पुरुषकल्पनावैयर्थ्यादिति पुरुषो हि प्रधानकार्यबुद्धितत्त्वनिष्ठचित्प्रतिबिम्बग्राहितयैव कल्प्यत इति । 'बुद्ध्याध्यवसितस्यैवेति अन्यथा पुरुषे विषयोपरागप्रसङ्गेन निर्द्धर्मकत्व - १. बुद्ध्यनध्यव..... इति अष्टसहस्रीसम्मतः पाठः । Page #63 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० ३ - का० ३७] स्वस्मिन् परत्र वा प्रतीतेः । [कूटस्थनित्येऽर्थक्रिया सम्भवति न वा तस्य विचारः ।] ४६५ सोऽयम् ( भा० ) पूर्वापरस्वभावपरिहारावाप्तिलक्षणामर्थक्रियां कौटस्थ्येऽपि ब्रुवाणः कथमनुन्मत्तः ? सा ह्यर्थक्रियोत्पतिर्ज्ञाप्तिर्वा । न च शश्वदवस्थिते सर्वथासौ प्रतीयते, तत्र (भा०) कारकज्ञापकहेतुव्यापारासम्भवात् । न हि पुरुषस्यार्थस्योत्पत्तिश्चेतनाक्रिया येन कारकहेतोरुपादानस्य सहकारिणो वा व्यापारस्तत्र भवेत् । तथोपगमे वा तस्यानित्यत्वानुषङ्गात्कुतः कौटस्थ्यसिद्धिः ? चेतना पुंसो ज्ञप्तिक्रियेत्यपि न युक्तं यतस्तत्र ज्ञापकहेतोः प्रमातुः प्रमाणस्य च व्यापारः स्यात् । स्यान्मतं- 'न पुरुषलक्षणस्यार्थस्य क्रिया चेतनाख्योत्पतिर्ज्ञाप्तिर्वा, किं तर्हि ? स्वभाव एव तस्य सर्वदा तत्स्वभावत्वात्' इति तदप्यसत्, पुंसः परिणामसिद्धिप्रसङ्गात् । [परिणामस्वभावयोर्भेदोऽस्तीति साङ्ख्येन मन्यमाने आचार्याः समादधते ।] ( भा० ) परिणामविवर्तधर्मावस्थाविकाराणां स्वभावपर्यायत्वात् । ननु च 'स्थितस्य धर्मिणः पूर्वाकारतिरोभावेनोत्तराकाराविर्भावः परिणामः । स कथं स्वभावपर्यायः ? सदावस्थितस्य स्वरूपस्य स्वभावत्वात् । एतेन विवर्तविकारावस्थानां स्वभावपर्यायत्वं व्युदस्तं विवर्तादीनां कादाचित्कत्वात् । तत एव धर्मविशेषस्य न स्वभावपर्यायत्वम् । 'धर्मसामान्यस्यापि साधारण अष्टसहस्त्रीतात्पर्यविवरणम् व्याघातापत्तेः, परम्परासम्बन्धेनोपचारस्तु न तद् व्याहन्ति, उपलक्षणस्याविशेषकत्वादिति भावः । तस्या इति वस्तुत्वव्यवहारे तादृश्या एवार्थक्रियाया उपयुक्तत्वादिति भावः । तर्हि स्वभाव एवेति धात्वर्थरूपक्रियाश्रयणादिति भावः । पुंसोऽर्थस्य चेतनायाः स्वभावक्रियात्वोक्तौ स्वभावपदस्य परिणामपर्यायत्वात्परिणामाभ्युपगमप्रसक्तिरित्याह-पुंस इत्यादिना । स्वभावपदस्य न परिणामपर्यायत्वमित्याशयेन साङ्ख्य आशङ्कते-ननु Page #64 -------------------------------------------------------------------------- ________________ अष्टसहस्त्रीतात्पर्यविवरणम् त्वादसत्त्वमेव, शश्वदनपायिनोऽसाधारणस्य स्वरूपस्य स्वभावत्वात्' इति कश्चित् सोऽपि न तत्त्ववित्, सततावस्थितस्यैकान्ततः कस्यचित्स्वभावस्यासम्भवात् । स हि न तावत्सकलप्रमाणेनापरिच्छिद्यमानः प्रतिष्ठामियति, अतिप्रसङ्गात् । परिच्छिद्यमानस्तु पूर्वापरिच्छिद्यमानरूपताव्यवच्छेदेन परिणामलक्षणानुसरणात् कथं न स्वभावः परिणाम एव स्याद्यतस्तत्पर्यायो न स्यात् ? एतेन विवर्तादीनां स्वभावपर्यायत्वमुक्तं, तद्वत्स्वभावस्यापि कथञ्चित्कादाचित्कत्वसिद्धेः । धर्मसामान्यस्य तु यथा साधारणत्वं तथा स्वभावसामान्यस्यापि परिणामादिसामान्यवत् । ततः परिणामादिविशेषाणां स्वभावविशेषपर्यायत्वं परिणामादिसामान्यानां तु स्वभावसामान्यपर्यायता व्यवतिष्ठते । ४६६ [उत्पादव्ययौ एवाविर्भावतिरोभावनामानौ स्तः ।] पूर्वोत्तराकारयोस्तिरोभावाविर्भावौ तु नाशोत्पादावेव नामान्तरेणोक्तौ, सर्वथा तदभावे स्वभावस्यासम्भवात् । (भा०) तदेतद्विनाशोत्पत्तिनिवारणमबुद्धिपूर्वकं प्रत्यक्षादिविरोधात् क्षणिकैकान्तवत् । नेदमसिद्धं साधनं, पुरुषस्योत्पादव्ययध्रौव्यात्मनः स्वसंवेदनप्रत्यक्षात् स्मरणात्प्रत्यभिज्ञानादूहादनुमानाच्छुताच्च प्रमाणात् सुनिश्चितासम्भवद्बाधकप्रमाणात्प्रतिपत्तेः, विनाशोत्पत्तिरहितस्य जातुचिदप्रतीतेः प्रत्यक्षादिविरोधस्य निश्चयात् । एतेन क्षणिकैकान्तनिदर्शनस्य साधनविकलता निरस्ता, सर्वथा स्थितिरहितस्य चेतसः प्रत्यक्षादावप्रतिभासनात्तद्विरोधस्य सिद्धेः । साध्यशून्यता च न सम्भवति, स्थितिमात्राभिनिवेशस्येव निरन्वयक्षणिकाभिनिवेशस्यापि मिथ्या अष्टसहस्त्रीतात्पर्यविवरणम् चेत्यादिना । असत्त्वमेव = अस्वभावपर्यायत्वमेव । उक्तसाङ्ख्याशयं दूषयति जैन:सोऽपि न तत्त्वविदित्यादिना । पूर्वापरिच्छिद्यमानतारूपव्यवच्छेदेनेति न च परिच्छिद्यमानत्वापरिच्छिद्यमानत्वे न स्वभावं भेत्तुमलमिति शङ्कनीयम्, अतद्व्यावृत्तेरपि स्वभावभेदनिबन्धनत्वस्य बहुधा व्यवस्थापितत्वात्, अन्यथाऽधिकृतचित्स्वभावस्यापि स्वभावान्तरव्यावृत्तिरूपत्वप्रसङ्गादिति द्रष्टव्यम् । सर्वथा तदभाव इति त्रैलक्षण्यस्यैव स्वभावत्वव्यवस्थितेरित्यर्थः । एतेन = उत्पादव्ययध्रौव्यात्मन एव स्वात्मनः प्रत्यक्षादि Page #65 -------------------------------------------------------------------------- ________________ ४६७ द्वितीयो भागः [ परि० ३-का० ३८] बुद्धिपूर्वकत्वात् । एतेनाव्यक्तं नित्यमेवेत्यपास्तं, व्यक्तस्यापि नित्यत्वानुषङ्गात् नित्यादव्यतिरिक्तस्याप्यनित्यत्वे चैतन्यस्याप्यनित्यत्वापत्तेः । सर्वथा व्यक्तस्यापि नित्यत्वे प्रमाणकारकव्यापारविरोधात्तदप्रमेयमनर्थक्रियाकारि प्रसज्येत ॥३७॥ प्रमाणकारकैर्व्यक्तं व्यक्तं चेदिन्द्रियार्थवत् । ते च नित्ये विकार्य किं साधोस्ते शासनाद् बहिः ॥३८॥ न हि प्रमाणं नित्यं नाम, तत्कृताभिव्यक्तेः प्रमितिरूपाया महदहङ्कारादौ व्यक्तात्मनि नित्यत्वप्रसङ्गात् । नापि कारकं नित्यं, तद्विहिताभिव्यक्तेरुत्पत्तिरूपाया: सातत्यप्रसक्तेः । तथा च न व्यक्तं प्रमाणकारकैरभिव्यक्तमिन्द्रियैरर्थवदिति शक्यं वक्तुं, पूर्वमनभिव्यक्तस्य व्यञ्जकव्यापारादभिव्यक्तिप्रतीतेः । [प्रमाणकारकाणि नित्यानि सन्तीति साङ्ख्यस्य मान्यतां निराकुर्वन्ति आचार्याः ।] (भा०) अथ मतं-प्रमाणकारकाणि व्यवस्थितमेव भावं व्यञ्जयन्ति चक्षुरादिवत् स्वार्थम् । ततो न किञ्चिद्विप्रतिषिद्धम् । इति तदप्यसम्यक्, सर्वथा नित्यत्वेन भावस्याव्यवस्थितत्वात् कथञ्चिदनित्यस्यैव प्रमाणकारकव्यापारविषयत्वविनिश्चयात् । चक्षुरादयो हि स्वार्थ रूपादिकमनभिव्यक्तस्वभावपरिहारेणाभिव्यक्तस्वभावोपपादनेन च व्यञ्जयन्तः स्वयमव्यञ्जकरूपत्यागेन व्यञ्जकत्वस्वीकारणेन च व्यञ्जकव्यपदेशभाजो दृष्टाः । न चैवं प्रमाणं कारकं च परिष्टं तयोर्नित्यत्वाभ्युपगमात् । तत्कृतस्य च अष्टसहस्रीतात्पर्यविवरणम् प्रमाणसिद्धत्वेन । एतेन आत्मतत्त्वस्यैकान्तनित्यतानिराकरणेन, वक्ष्यमाणकारिकार्थानुसारेण च । इष्टापत्त्याशङ्कायामाह-सर्वथेत्यादि ॥३७॥ प्रमाणेत्यादिकारिकायां ते च नित्ये इत्यन्तेन यदि व्यक्तम् इन्द्रियैरर्थवत् प्रमाणकारकाभ्यां व्यक्तं स्वीक्रियते ते च प्रमाणकारके नित्ये स्वीक्रियते तीत्यध्याहारात्तर्हि= तदा, ते=तव, साधोः शासनाद् हिः=अन्यत्र, विकार्य किं न किञ्चित्, प्रमाणकारककृताभिव्यक्तेरपि सदातनत्वादित्यक्षरार्थः । अत्र प्रमाणकारकरित्यपपाठः बहुवचना Page #66 -------------------------------------------------------------------------- ________________ ४६८ अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) विषयविशेषविज्ञानादेः शाश्वतत्वान्न किञ्चिद् व्यक्त्यर्थं पश्यामः, कथञ्चिदपूर्वोत्पत्तौ तदेकान्तविरोधात् । न ह्यनेकान्तवादिनस्तव साधोः शासनाद् बहिर्विषयविशेषविज्ञानाभिलाषप्रवृत्त्यादेरुत्पत्तिः कथञ्चिदपूर्वा युज्यते, यतोऽस्यामभ्युपगम्यमानायां नित्यत्वैकान्तविरोधो न भवेत् । (भा० ) तदभावे विकार्यानुपपत्तेः । न हि कथञ्चिदपूर्वोत्पत्त्यभावे किञ्चिद् व्यङ्ग्यं कार्यं वा विकार्यमुपपद्यते । (भा० ) न वै किञ्चिद्विरुद्धं कार्यकारणभावाभ्युपगमादित्यनालोचितसिद्धान्तं, कार्यस्य सदसत्त्वविकल्पद्वयानतिक्रमात् ॥३८॥ तत्र यदि सत्सर्वथा कार्यं पुंवन्नोत्पत्तुमर्हति । परिणामप्रक्लृप्तिश्च नित्यत्वैकान्तबाधिनी ॥३९॥ (भा०) न तावत्सतः कार्यत्वं चैतन्यवत् । न हि चैतन्यं कार्यं, तत्स्वरूपस्य पुंसोऽपि कार्यत्वप्रसङ्गात्, यतस्तद्वन्महदादेः सत एव कार्यत्वं सिद्ध्येत् । (भा०) नाप्यसतः, सिद्धान्तविरोधाद् गगनकुसुमादिवत् । - अष्टसहस्रीतात्पर्यविवरणम् क्रान्तस्य ते इति द्विवचनान्ततच्छब्देन परामर्शायोगात्, किन्तु प्रमाणकारकव्यक्तमिति समस्तपाठ एव युक्तः, वृत्तौ बहुवचनान्तपाठस्य तात्पर्यविवरणरूपत्वेनाप्युपपत्तेरिति ध्येयम् । भगवतः साधुत्वेनाभिधानं तच्छासनबहिष्ठानामसाधुत्वेन तदुत्प्रेक्षामात्रकल्पितप्रवचने विचारसम्मर्दासहिष्णुत्वमभिव्यनक्ति । न किञ्चिद् व्यक्त्यर्थं न किञ्चिदभिव्यक्तिप्रयोजनम्, तदेकान्तविरोधात्=नित्यत्वैकान्तविरोधात् ॥३८॥ सूत्रेऽवतरणिकोक्तद्वितीयविकल्पोत्तरन्यूनतां परिजिहीर्षुराह भाष्यकृत्-नाप्यसत Page #67 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि० ३-का. ४०] ४६९ असदकरणादुपादानग्रहणात्सर्वस्य सम्भवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ॥ [साङ्ख्यकारिका-९] इति हि साङ्ख्यानां सिद्धान्तः । स चासतः कार्यत्वे विरुद्ध्यते एव । तथा यत्सर्वथाप्यसत् तन्नोत्पद्यते । यथा गगनकुसुमम् । सर्वथाप्यसच्च कार्य कस्यचिद् इत्यनुमानविरोधश्च प्रत्येयः । (भा०) नापरमेकान्तप्रकारान्तरमस्ति । [साङ्ख्यः प्रधानस्य विवर्त एव मन्यते तस्य निराकरणम् ] तत एव न किञ्चित्कार्यं, केवलं वस्तुविवर्त एवेत्येकान्तोऽस्तीति चेत्, न तस्याप्यसम्भवात् । (भा०) विवर्तादेः पूर्वोत्तरस्वभावप्रध्वंसोत्पत्तिलक्षणत्वात् । तथोपगमे परिणामसिद्धेरनेकान्ताश्रयणप्रसङ्गात् । (भा०) तदेतत् त्रैलोक्यं व्यक्तेरपैति नित्यत्वप्रतिषेधात्, अपेतमप्यस्ति विनाशप्रतिषेधादित्यनेकान्तोक्तिरन्धसर्पबिलप्रवेशन्यायमनुसरति । स्वदर्शनानपेक्षं यथोपलम्भमाश्रयस्वीकरणात् । तदेवं नित्यत्वैकान्तवादिनांपुण्यपापक्रिया न स्यात् प्रेत्यभावः फलं कुतः । बन्धमोक्षौ च तेषां न येषां त्वं नासि नायकः ॥४०॥ पुण्यपापक्रिया कायवाङ्मनःकर्मलक्षणा शुभाशुभा । सा प्रधाने तावन्नास्ति, सर्वथा नित्यत्वात्पुरुषवत् । तदभावे पुण्यपापयोः क्रिया उत्पत्तिलक्षणा नास्ति, कारणाभावे कार्यानुदयात् । ततः प्रेत्यभावो जन्मान्तरलक्षणस्तत्फलं च सुखाद्यनुभवलक्षणं कुतः स्यात् ? ततो बन्धमोक्षौ च यथोक्तलक्षणौ न स्तस्तेषां येषां त्वमनेकान्तवादी नायको नासि इति तात्पर्यार्थः । ततो नित्यत्वैकान्तदर्शनं, (भा० ) नैतत् प्रेक्षापूर्वकारिभिराश्रयणीयं, पुण्यपापप्रेत्यभावबन्धमोक्ष - अष्टसहस्रीतात्पर्यविवरणम् इत्यादि । परिणामसिद्धेरिति तथा च सूत्रे प्रक्तृप्तिपदार्थः प्रसिद्धिरित्यर्थः ॥३९।। Page #68 -------------------------------------------------------------------------- ________________ ४७० अष्टसहस्त्रीतात्पर्यविवरणम् विकल्परहितत्वान्नैरात्म्यादिवत् । न चैतत् क्वचिदेकान्ते सम्भवति । कुशलाकुशलं कर्मेत्यत्र तदसम्भवस्य समर्थितत्वात् ॥४०॥ सत्यमेतन्नित्यत्वैकान्ते दूषणं क्षणक्षयैकान्तस्यैव प्रातीतिकत्वादिति वदन्तं वादिनं प्रत्याहुः क्षणिकैकान्तपक्षेऽपि प्रेत्यभावाद्यसम्भवः । प्रत्यभिज्ञाद्यभावान्न कार्यारम्भः कुतः फलम् ? ॥४१॥ क्षणिकैकान्तपक्षे चेतसः कार्यारम्भो नास्ति, प्रत्यभिज्ञानस्मृतीच्छादेरभावात् सन्तानान्तरचित्तवत् । तदभावश्च प्रत्यभिज्ञातुरेकस्यान्वितस्याभावात् । सन्तानः कार्यमारभते इत्यपि मिथ्या, तस्यावस्तुत्वविरोधात् कार्यारम्भकस्य वस्तुत्वात् । चित्तक्षणानां चावस्तुतापत्तिरकार्यारम्भकत्वात् । न च तत्कार्यारम्भकत्वाभावे फलं पुण्यपापलक्षणं सम्भवति । तदभावे न प्रेत्यभावो न बन्धो न च मोक्षः स्यात् । इति (भा०) क्षणक्षयैकान्तदर्शनमहितम्, असम्भवत्प्रेत्यभावादित्वादुच्छेदैकान्तवद् ध्रौव्यैकान्ताभ्युपगमवद्वा ।। न हि सर्वथोच्छेदैकान्ते शून्यतालक्षणे नित्यत्वैकान्ते वा प्रेत्यभावादिः सम्भवति, यतोऽयं दृष्टान्तः साधनधर्मविधुरः स्यात् । नापि प्रेक्षावतां तदाश्रयणं हितत्वेन मतं, येन साध्यविकल: स्यात् । अथ मतमेतत्, क्षणिकत्वेऽपि चित्तक्षणानां वासनावशात्प्रत्यभिज्ञानं तदेवेदं सुखसाधनमिति स्मरणपुरस्सरमुत्पद्यते । ततोऽभिलाषात्तत्साधनाय प्रवृत्तिरिति कार्यारम्भात्पुण्यपापक्रियासिद्धेः प्रेत्यभावादिसम्भवादसम्भवत्प्रेत्यभावादित्वादिति हेतुरसिद्धो न साध्यसाधनायालमिति, तदसत्, (भा०) भिन्नकालक्षणानामसम्भवद्वासनत्वादकार्यकारणवत् । - अष्टसहस्त्रीतात्पर्यविवरणम् तस्यावस्तुत्वविरोधादिति सन्तानात्कार्यारम्भस्वीकारे तस्यावस्तुत्वं यत्सौगतैः प्रतिपाद्यते तद्विरुध्यत इत्यर्थः । भिन्नकालेति स्याद्वादिनां तु कारणक्षणस्य द्रव्यप्रत्यासत्त्या Page #69 -------------------------------------------------------------------------- ________________ ४७१ द्वितीयो भागः [ परि० ३-का० ४१] पूर्वमेव चित्तमुत्तरोत्पत्तौ वासना तत्कारणत्वादिति चेत्, न, निरन्वयक्षणिकत्वे कारणस्यैवासम्भवात् । तथा हि [विनष्टं कारणं कथं कार्यं कुर्यात् यथा कारणमिति नाम लभेत ।] (भा०) न विनष्टं कारणमसत्त्वाच्चिरतरातीतवत् । समनन्तरातीतं कारणमिति चेत्, न, (भा०) समनन्तरत्वेऽप्यभावाविशेषात् । न च पूर्वस्योत्तरं कार्य, तदसत्येव हि भावाद्वस्त्वन्तरवदतिक्रान्ततमवद्वा यतः पूर्वस्य कारणत्वनिर्णयः स्यात् । तदन्वयव्यतिरेकानुविधानादुत्तरं तत्कार्यमिति चेत्, न तस्यासिद्धेः । (भा०) न हि समर्थे ऽस्मिन् सति स्वयमनुत्पित्सोः पश्चाद्भवतस्तत्कार्यत्वं समनन्तरत्वं वा नित्यवत् । तद्भावे स्वयमभवतस्तदभावे एव भवतस्तदन्वयव्यतिरेकानुविधानविरोधात् । क्षणिकैकान्ते (भा०) कारणाभावाविशेषेऽपि कार्योत्पत्तिसमयनियमावक्लृप्तौ कस्यचित्कौटस्थ्येऽपि तत्करणसमर्थसद्भावाभेदेऽपि कार्यजन्मनः कालनियमः किन्न स्यात् ? विशेषाभावात् । यथैव हि स्वदेशवत्स्वकाले सति कारणे समर्थे कार्य जायते, नासतीति तदन्वयव्यतिरेकानुविधायीष्यते तथा स्वकालेऽनाद्यनन्ते सति समर्थे नित्ये स्वसमये कार्यमुपजायमानमन्यदानुपजायमानं तदन्वयव्यतिरेकानुविधायि कथं नानुमन्यते ? - अष्टसहस्रीतात्पर्यविवरणम् कार्यकालेऽपि सत्त्वान्न सर्वथा भिन्नकालत्वमिति नोभयोरस्य दोषस्य तुल्ययोगक्षेमत्वम् । न च स्वाभिन्नद्रव्यसामान्याभिन्नत्वादिना अतिप्रसङ्गः, अनन्तधर्मात्मके वस्तुनि द्रव्यप्रत्यासत्तेविशिष्य भेदेऽनुपपत्त्यभावात्, यथा चास्माभिरुपादेयोत्पत्तावुपादानस्य स्वध्वंसत्वसम्बन्धेन नियामकत्वमुक्तं तथासमर्थने न दोषलेशोऽपि, स्वध्वंसत्वस्यापि द्रव्यपरिणतिप्रयुक्तत्वेन द्रव्यप्रत्यासत्तिताया अक्षतत्वादिति मन्यव्यम् । तदसत्येव हीति भावप्रधाननिर्देशात्तदसत्त्व एव हीत्यर्थः । स्वदेशवत् स्वकाल इति कार्याधिकरण Page #70 -------------------------------------------------------------------------- ________________ ४७२ अष्टसहस्त्रीतात्पर्यविवरणम् सर्वदा समर्थे नित्ये कारणे सति स्वकाले एव कार्यं भवत्कथं तदन्वयव्यतिरेकानुविधायीति चेत्, तहि कारणक्षणात्पूर्वं पश्चाच्चानाद्यनन्ते तदभावे विशेषशून्येऽपि क्वचिदेव तदभावसमये भवत्कार्यं कथं तदन्वयव्यतिरेकानुविधायि ? इति न कश्चिद्विशेषः । तदेवमन्वयव्यतिरेकानुविधानाभावाविशेषेऽपि क्षणिकैकान्ते एव कार्यजन्मेति वचनमभिनिवेशमात्रनिबन्धनम् । [कारणस्य निरन्वयविनाशानन्तरमेव यदि कार्यं भवेत्तर्हि तत्कार्यं निर्हेतुकं भविष्यतीति जैनाचार्याः कथयन्ति ।] (भा०) तथा चाकस्मिकत्वं स्यात् । समर्थं कारणमनपेक्ष्य स्वयमभिमतसमये भवतः कार्यस्य निर्हेतुकत्वप्रसक्तेनित्यकार्यवत् । (भा०) उभयत्राविशेषेण कथञ्चिदनुपयोगेऽपि क्वचिद्व्यपदेशकल्पनायामन्यत्रापि किं न भवेत् ? क्षणिकस्य कारणस्य सर्वथा कार्यं प्रत्युपयोगाभावेऽपि तस्येदं कार्यमिति व्यपदिश्यते, न पुननित्यस्य तादृश इति न किञ्चिन्निबन्धनमन्यत्र महामोहात् । नित्यस्य प्रतिक्षणमनेककार्यकारित्वे क्रमशोऽनेकस्वभावत्वसिद्धेः कथमेकत्वं स्यादिति चेत्, क्षणिकस्य कथमिति समः पर्यनुयोगः । [क्षणिकेऽनेकस्वभावो नास्त्यतः कथं क्षणिकनित्ययोः साम्यमित्याशङ्कायामाचार्याः समादधते] स हि - अष्टसहस्त्रीतात्पर्यविवरणम् देशावच्छिन्नकार्यकाल इत्यर्थः । न कश्चिद्विशेष इति यदा कारणं तदव्यवहितोत्तरसमये कार्योत्पत्तिरिति व्याप्तौ अव्यवहितत्वप्रवेशे बीजाभावात्, अव्यवहितत्वस्य द्वित्रादिक्षणसाधारण्येन विनिगमकाभावाच्चेत्यर्थः, व्यवहितजन्मनि कार्यत्वबुद्ध्यनुदयादव्यवहितत्वप्रवेशे तु कार्याभावकालोत्पत्तिकेऽपि तदनुदयात् कथञ्चित्कार्यसहभावोऽपि कारणस्य कार्योत्पत्तिनियामक आस्थीयतामिति भावः । तादृशो अनुपयुक्तस्य, क्षणिकस्येति वक्ष्यमाणरीत्या क्षणिकस्याप्यनेककार्यकारित्वात्, कथमेकत्वमिति पर्यनुयोगः सम इत्यर्थः, क्षणिकस्येत्यत्र प्रतिक्षणमित्यादि प्राक्तनं सर्वं योजनीयम् । यत्त्वत्र स्वाभावकाले Page #71 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि०३-का० ४१] ४७३ (भा०) क्षणस्थितिरेकोऽपि भावोऽनेकस्वभावश्चित्रकार्यत्वान्नानार्थवत् । न हि कारणशक्तिभेदमन्तरेण कार्यनानात्वं युक्तं रूपादिज्ञानवत् । यथैव हि कर्कटिकादौ रूपादिज्ञानानि रूपादिस्वभावभेदनिबन्धनानि तथा क्षणस्थितेरेकस्मादपि भावात् प्रदीपादेवर्तिकामुखदाहतैलशोषादिविचित्रकार्याणि शक्तिभेदनिमित्तकानि व्यवतिष्ठन्ते ।। (भा० ) अन्यथा रूपादेर्नानात्वं न सिद्धयेत्, चक्षुरादिसामग्रीभेदात्तज्ज्ञाननि सभेदोऽवकल्प्येत । कर्कटिकादिद्रव्यं तु रूपादिस्वभावभेदरहितमेकमनंशमिति वदतोऽपि निवारयितुमशक्तेः । चक्षुरादिबुद्धौ रूपादिव्यतिरिक्तस्य द्रव्यस्याप्रतिभासनाद्रूपादयो नानैवेति चेत्, तर्हि वर्तिकामुखदाहादिकार्यानुमानबुद्धिषु विचित्रतच्छक्तिव्यतिरेकेण प्रदीपक्षणस्यैकस्याप्रतिभासनान्नानाशक्तय एव किं न स्युः ? । [शक्तिमतः पदार्थात् शक्तयो भिन्ना अभिन्ना वा ? इत्युभयत्र दोषारोपणे सति जैनाचार्याः उत्तरयन्ति ।] ननु च 'शक्तिशक्तिमतोरर्थान्तरानर्थान्तरभावपक्षयोः शक्तीनामघटनान्न ताः परमार्थसत्यः सम्भाव्यन्ते । ततस्तासामर्थान्तरभावे व्यपदेशानुपपत्तिः सम्बन्धाभावात् । तेन तासामुपकार्योपकारकभावसम्बन्धकल्पनायां यदि शक्तिमता शक्त्यन्तरैः शक्तय उपक्रियन्ते तदानवस्था, अपरापरार्थान्तरशक्तिपरिकल्पनात् । तस्य शक्तिभिरुपकारेऽनेकोपकार्यरूपतापत्तिः । तदुपकार्यरूपाणां ततो भेदे तस्यानुपकारात्तद्व्यपदेशानुपपत्तिस्तदवस्था । तैस्तस्योपकारकरणेऽनवस्थितिरेव परापरोपकार्यरूपपरिकल्पनात् । शक्तिमतः शक्तीनामनर्थान्तरभावे शक्तिमानेव, न शक्तयो नाम अन्यत्रातव्यावृत्तिभ्यः कल्पिताभ्यः इति चेत्, न रूपादीनामपि द्रव्यादर्थान्तरानर्थान्तरभावविकल्पयोरघटनात् परमार्थसत्त्वाभावानुषङ्गात् प्रकृतदोषोपनिपाताविशेषात्, प्रत्यक्षबुद्धौ प्रतिभासमाना रूपादयः परमार्थसन्तो न पुनरनुमानबुद्धौ प्रतिभासमानाः शक्तयः इति वक्तुमशक्तेः क्षणक्षयस्वर्गप्रापणशक्त्यादीनामपरमार्थ - अष्टसहस्त्रीतात्पर्यविवरणम् कार्यजननाविशेषादिति कस्यचिद्धत्वभिधानं तत् स हीत्यादिसमर्थनग्रन्थसन्दर्भविरुद्धम् । नानार्थवत्=सम्प्रतिपन्ननानाप्रयोजनवत् । अतद्व्यावृत्तिभ्यो =अशक्तिव्यावृत्तिभ्यः, Page #72 -------------------------------------------------------------------------- ________________ ४७४ अष्टसहस्त्रीतात्पर्यविवरणम् सत्त्वप्रसङ्गात् । क्षणक्षयादीनां प्रत्यक्षे प्रतिभातानामेव विपरीतारोपव्यवच्छेदेऽनुमानव्यापाराददोष इति चेत्, तर्हि नानाकार्यजननशक्तीनामपि प्रत्यक्षेऽवभातानामेव समारोपव्यवच्छेदे कार्यानुमानव्यापारात्कश्चिदपि दोषो मा भूत् । नानाकार्यदर्शनातज्जननशक्तिरेका तादृश्यनुमीयते, न पुनर्नानाशक्तय इति चेत्, तर्हि नानारूपादिज्ञाननि सभेदात्तादृशैकस्वभावो द्रव्यस्य व्यवस्थाप्येत, न पुनर्नानारूपादय इति समः समाधिः । प्रदीपक्षणस्यैकस्य वर्तिकामुखादिसहकारिसामग्रीभेदात् तद्दाहादिविचित्रकार्यजननं न पुनः स्वभावभेदादिति चेत्, तर्हि कर्कटिकादिद्रव्ये चक्षुरादिसहकारिसामग्रीभेदादूपादिज्ञाननि सभेदो न पुना रूपाद्यनेकस्वभावभेदादिति निश्चीयते । (भा०) युगपदेकार्थोपनिबद्धदृष्टीनामपि भवितव्यमेव प्रतिभासभेदेन, कारणसामग्रीभेदात् । अन्यथा दर्शनभेदोऽपि मा भूत् । न चैवं, (भा०) प्रत्यासन्नेतरयोर्वैशद्येतरनिर्भासोपलब्धेः । सेयमुभयतः पाशारज्जुः सौगतानां, रूपादिज्ञाननिर्भासभेदाद्रूपादिभेदं व्यवस्थापयतः प्रदीपक्षणस्यैकस्य कार्यवैचित्र्यात् स्वभावभेदप्रसङ्गात्, तस्यैकस्वभावत्वं व्यवस्थापयतो रूपादिनानात्वाव्यवस्थापनात् । [कारणस्वभावभेदमन्तरेण कार्यनानात्वं न सम्भवतीति जैनाचार्या सुतरां साधयन्ति ।] (भा०) सकृत् कारणस्वभावभेदमन्तरेण यदि कार्यनानात्वं, क्रमशो - अष्टसहस्त्रीतात्पर्यविवरणम् कल्पिताभ्यो वासनाविशेषोत्थविकल्पज्ञानविषयीकृताभ्यः । विपरीतारोपव्यवच्छेदे = अक्षणिकत्वभ्रान्तिव्यवच्छेदे, समारोपव्यवच्छेदे =नानाकार्यजनकशक्त्यभावभ्रमव्यवच्छेदे । नर्तक्यादिक्षणे कार्यभेदेऽपि कारणभेदाभावमाशङ्क्याह भाष्यकृत् युगपदित्यादि तत्र दर्शनभेदाभावेष्टापत्तावनुभवबाधमाह वृत्तिकृत्-न चैवमित्यादिना । क्षणिके नानाकार्यजनकस्वभावभेदानभ्युपगमे तत्त्वसाधकमूलयुक्तिबाधः स्यादित्याह भाष्यकृत्सकृदित्यादिना । क्षणक्षयवदिति धर्मनिर्देशस्य धर्मिपरत्वात् क्षणक्षयवति स्वलक्षण Page #73 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि० ३-का० ४१] ४७५ ऽपि कस्यचिदपेक्षितसहकारिणः कार्यसन्ततिः किं न स्यात् ? सहकारिणस्तद्धेतुस्वभावमभेदयन्तोऽपि कार्यहेतवः स्युः क्षणक्षयवत् । __यथैव हि क्षणिकस्वलक्षणस्य नानाकार्याणि युगपदुपजनयतः सहकारिकारणानि न कञ्चिदतिशयं ततो भिन्नमभिन्नं वा समुपजनयन्ति । किं तहि ? कार्याण्येव भिन्नस्वभावानि विदधति । तथैव नित्यस्यापि (भा०) न हि कादाचित्कानि तत्तत्कर्तुं समर्थानीति स्थिरोऽर्थस्तत्करणस्वभावं जहाति तद्बुद्धिपूर्वकत्वाभावात् क्षणिकसामग्रीसन्निपतितैककारणान्तरवत् । न हि क्षणिकक्षित्युदकादिसामग्र्यामन्त्यक्षणप्राप्तायामङ्करजननसमर्थायां सत्यां तत्सन्निपतितं बीजं कारणान्तरमङ्करजननस्वभावं जहाति, तस्य तदकार्यत्वप्रसङ्गात् । न हि हेतवः परस्परमावलिप्ताः क्वचिदेकत्र कार्ये येनैकस्य तत्र व्यापारेऽपरे निवर्तेरन् । क्षणिकोऽर्थः स्वान्त्यकारणसामग्रीसन्निपतितः स्वकार्यकारी तादृशस्वहेतुस्वभावादुत्पन्नत्वात्, न पुनर्नित्य इति । (भा०) कल्पयित्वापि स्वहेतुप्रकृतिं भावानां स्वप्रकृतिरवश्यमन्वेष्या, तत्स्वभाववशात् तत्कारणप्रकृतिव्यवस्थापनात् । तदयमकारणोऽपि स्वभावनियतोऽर्थः स्यात् । [एकक्षणानन्तरं वस्तुनोऽस्थानमेव क्षणिकस्य स्वभावोऽस्ति इत्यादिना बौद्धः स्वपक्षं पुष्णाति ।] ननु च क्षणिकस्य क्षणादूर्ध्वमस्थानं स्वप्रकृतिविनश्वरत्वादन्विष्यते । विनाशस्वभावनियतत्वं च विनश्वरत्वं, न पुनः कालान्तरावस्थायिनः कदाचिन्नाशित्वमहेतुकत्वाद्विनाशस्य । तथा हि - अष्टसहस्त्रीतात्पर्यविवरणम् इवेत्यर्थः । तथा च व्याचष्टे वृत्तिकृत्-यथैव हीत्यादि । क्रमिकसहकारिभिरेव कार्यस्य कृतत्वात् स्थिरमकिञ्चित्करमित्याशङ्कायामाह भाष्यकृत्-न हीत्यादि । तबुद्धिपूर्वकत्वाभावात् अन्यतः कार्यसम्भवेऽहं न कुर्यामिति स्थिरसम्बन्धिबुद्धिपूर्वकत्वाभावात् कार्यस्येत्यर्थः, तथा च सहकारिवत् स्थिरस्य हेतोर्नियतपूर्ववर्त्तित्वादेव कारणत्वमवर्जनीयम् त्वदभिमतसामग्रीप्रविष्टहेत्वन्तरवदित्यर्थः । तदाह-क्षणिकेति । न तत्काले Page #74 -------------------------------------------------------------------------- ________________ ४७६ अष्टसहस्त्रीतात्पर्यविवरणम् (भा० ) यद्यद्भावं प्रत्यनपेक्षं तत् तद्भावनियतम् । यथान्त्यकारणसामग्री स्वकार्योत्पादनं प्रत्यनपेक्षा तत्स्वभावनियता, विनाशं प्रत्यनपेक्षश्च भावः, इति स्वभावहेतुः, न तावदयमसिद्धः, कलशादेविनाशस्य मुद्गरादिहेतुभिर्व्यतिरिक्तस्याव्यतिरिक्तस्य वा करणासम्भवात्, तं प्रति तदनपेक्षत्वसिद्धेः । घटादेर्व्यतिरिक्तस्य विनाशस्य कारणे तदवस्थत्वप्रसङ्गाद्विनष्ट इति प्रत्ययो न स्यात् । विनाशसम्बन्धाद्विनष्ट इति प्रत्ययोत्पत्तौ विनाशतद्वतो: कश्चित्सम्बन्धो वक्तव्यः । स च न तावत्तादात्म्यलक्षणस्तयोर्भेदोपगमात् । नापि तदुत्पत्तिलक्षणो घटादेस्तदकारणत्वात् तस्य मुद्गरादिनिमित्तकत्ववचनात् । तदुभयनिमित्तत्वाददोष इत्यप्यसारं, मुद्गरादिवद्विनाशोत्तरकालमपि कुम्भादेरुपलम्भप्रसङ्गात् । कुटादेः स्वविनाशं परिणामान्तरं लक्षणं प्रत्युपादानकारणत्वान्न तत्काले दर्शनमित्यपि न युक्तं, परिणामान्तरस्यैव हेत्वपेक्षत्वसिद्धेः, विनाशस्य तद्व्यतिरिक्तहेत्वनपेक्षत्वव्यवस्थितेः सुगतमतसिद्धिप्रसक्तेः । सुगतमतं हि न सर्वथा विनाशस्य निर्हेतुकत्वम्, किं तर्हि ? कार्यजनकहेतुव्यतिरिक्तहेत्वनपेक्षत्वमिति वादावसानं स्यात् । विनाशतद्वतोविशेषणविशेष्यभावः सम्बन्ध इत्यपि मिथ्याभिधानं परस्परमसम्बद्धयोस्तदनुपलब्धेः । प्रागभावतद्वतोविशेषणविशेष्यभावोऽनेनैव निरस्तः । कार्यकारणयोरस्येदं कार्यमिति विशेषणविशेष्यभावः कथमित्यपि न चोद्यं, तत्र तद्व्यवहारस्य कार्यकारणभावनिबन्धनत्वात्, तद्व्यतिरेकेण भिन्नयोविशेषणविशेष्यभावासम्भवात् । ततोऽनन्तरं विनाशः कारणैः क्रियते इति पक्षान्तरमपि न सम्यक्, स्वकारणादुत्पन्नस्य कुटात्मनो विनाशस्य कारणान्तराणां वैयर्थ्यात् । अन्यथा परापरकारणानुपरमः स्यात् । अष्टसहस्त्रीतात्पर्यविवरणम् दर्शनमिति उपादेयस्योपादाननाशत्वान्नाशस्य च दर्शनायोग्यरूपत्वात् 'नश् अदर्शन' इति धात्वनुसारादित्यर्थः । तद्व्यतिरिक्तेति तच्छब्देन परिणामान्तरस्य कपालादेर्हेतुः समनन्तरो घटादिलक्षणो गृह्यते, ततो व्यतिरिक्तो हेतुर्मुद्गरादिस्तदनपेक्षत्वव्यवस्थितेरित्यर्थः । सुगतमते हि घटादे शकाले मुद्गरादिना न किञ्चिज्जन्यते, तुच्छस्य ध्वंसस्य जनयितुमशक्यत्वात्, कपालादिजनने च तस्याव्यापारात्, केवलं मुद्गरादिसहकृता समनन्तरसामग्री सजातीयकार्यं न जनयतीत्यर्थात् कपालादेरुत्पत्तिरिति भावः । साधयेदिति तच्चानिष्टं Page #75 -------------------------------------------------------------------------- ________________ ४७७ द्वितीयो भागः [ परि०३-का० ४१] [जैनाचार्या बौद्धस्य मन्तव्यं निराकुर्वन्तः स्थितेनिहेतुकत्वं साधयन्ति] इति भावानां विनाशस्वभावत्वं साधनं स्थितेरपि निर्निमित्तत्वं साधयेत् । तथा हि- यद्यद्भावं प्रत्यनपेक्षं तत्तद्भावनियतम् । (भा०) यथा विनाशं प्रत्यन्यानपेक्षं विनश्वरम् । तथैव स्थिति प्रत्यनपेक्षं स्थास्नु वस्तु इति स्वभावहेतुः । न चायमसिद्धः, (भा०) तद्धेतोरकिञ्चित्करत्वात् तद्व्यतिरिक्ताव्यतिरिक्ताकरणात् इत्यादि सर्वं समानम् । न हि वस्तुनो व्यतिरिक्ता स्थितिस्तद्धेतुना क्रियते तस्यास्थास्नुत्वापत्तेः । स्थितिसम्बन्धात्तस्य स्थास्नुतेति चेत्, न स्थितितद्वतोः कार्यकारणभावासम्भवात् सहभावात्तयोः, असहभावे स्थितेः पूर्वं तत्कारणस्यास्थितिप्रसक्तेः, स्थितेरपि स्वकारणादुत्तरकालमनाश्रयत्वानुषङ्गात् । तयोराश्रयाश्रयिभावः सम्बन्ध इति चेत्, न अर्थान्तरभूतयोः कार्यकारणभावाभावे तदभावाभ्युपगमात् कुण्डबदरवत् । तदव्यतिरिक्ता स्थितिस्तद्धेतुना विधीयते इत्ययमपि पक्षो न श्रेयान्, तद्वैयर्थ्यात्, स्थितिस्वभावस्यापि स्थितिकरणे तत्कारणानामनुपरमप्रसङ्गात्, स्वयमस्थितिस्वभावस्य स्थितिकरणायोगादनुत्पत्तिस्वभावस्योत्पत्तिकरणायोगवत् । ततः स्थितिस्वभावनियतोऽर्थः स्यात् सर्वदा स्थितेरहेतुकत्वात् । __ [वस्तुनो स्थित्युपादानवत् तदन्तेऽपि स्थितिः स्वीकर्तव्या ।] तदेवम् अष्टसहस्त्रीतात्पर्यविवरणम् सौगतस्येति तं प्रत्यनिष्टापादनमेतज्जैनेन क्रियत इति बोध्यम् । कुण्डबदरवदिति यद्यपि कुण्डबदरयोराश्रयाश्रयिभावे कार्यकारणभावस्य नियामकत्वमप्रातीतिकमनभ्युपगमदोषदुष्टं च, तथापि स्वतोऽवयवावयविभावेन कार्यकारणतया निष्पन्नयोरेव तयोर्यथाश्रयाश्रयिभावस्तथात्र नास्तीत्ययुक्तोऽयं पक्ष इति केचिद् व्याचक्षते । वयं तु जगदवगाहनाहेतुगगनदृष्टान्तेन बदराधारतापर्याये कुण्डस्य हेतुत्वात् कार्यकारणभावाभावे स्थितितद्वतोराश्रयाअयिभावानुपपत्तिमुपपादयामः । बदरप्रतियोगिकसंयोगरूपबदराधारतायां कुण्डस्य ताद्रूप्येण Page #76 -------------------------------------------------------------------------- ________________ अष्टसहस्त्रीतात्पर्यविवरणम् ( भा० ) आदौ स्थितिदर्शनाच्छब्दविद्युत्प्रदीपादेरन्तेऽपि स्थितेरनुमानं युक्तम् । अन्यथाऽन्ते क्षयदर्शनादादौ तत्प्रतिपत्तिरसमञ्जसैव । तादृशः कारणादर्शनेऽपि कथञ्चिदुपादानानुमानवत् तत्कार्यसन्तानस्थितिरदृष्टाप्यनुमीयेत । ४७८ शब्दविद्युदादेः साक्षादनुपलब्धमुपादानमनुमीयते निर्निबन्धनोत्पादप्रसङ्गभयान्न पुनस्तदुत्तरकार्यमवस्तुत्वानुषङ्गभयादिति किमपि महामोहविलसितम् । शब्दादेरुत्तरकार्याकरणेऽपि योगिज्ञानस्य करणान्नावस्तुत्वप्रसक्तिरिति चेत्, न आस्वाद्यमानरससमानकालरूपोपादानस्य रूपाकरणेऽपि रससहकारित्वप्रसङ्गात्, ततो रसाद्रूपानुमानानुपपत्तेरनिष्टप्रसङ्गात् । तथा दृष्टत्वान्नेहानिष्टप्रसङ्ग इति चेत्, किं पुनः शब्दादेव शब्दस्योत्पत्तिरुपलब्धा कदाचित् ? शङ्खादिशब्दसन्ततौ मध्यावस्थायां शब्दादेव शब्दस्योत्पत्तिर्दृष्टेति चेत्, कथमुत्तरशब्दोत्पत्तिरदृष्टा ? तथैव तद्दृष्टेरिति शब्दादेर्योगिज्ञानकरणवदुत्तरशब्दादिकरणमनुमीयतां, रूपोपादानाद्रूपोत्पत्तिवत् । (भा० ) तस्मात् कथञ्चन स्थितिमतः प्रतिक्षणं विवर्तोऽपि नान्यथा गगनकुसुमवत् । यदि पुनः परमार्थतः कार्यकारणभावस्याभावतद्विरोध्यविरोधकभावादिवत् प्रतिक्षणं विवर्तोऽपि नेष्यते संविदद्वैताभ्युपगमादिति मतिस्तदा अष्टसहस्त्रीतात्पर्यविवरणम् हेतुत्वमिति अपरे । तादृशः = आदौ स्थितिमत: । 'अनुमीयत इति आद्यशब्दस्य कार्यत्वेन सोपादानत्वादन्त्यशब्दस्य कारणत्वेन सोपादेयत्वस्यानुमानाविशेषादिति भावः । अवस्तुत्वानुषङ्गभयादिति शब्दविद्युदादेरुत्तरकार्यानभ्युपगमे हि स्यादेव कार्याविच्छेदरूपसत्त्वाभावादवस्तुत्वापत्तेर्भयमिति भावनीयम् । ननु वस्तुत्वमर्थक्रियाकारित्वमात्रनियतमित्यन्त्यशब्दादेर्योगिज्ञानजनकत्वेनैव तत्त्वोपपत्तेर्नैकद्रव्यकार्याविच्छेदसिद्धिरित्याशङ्कायाम् आहशब्दादेरित्यादिना । ततो रसादिति परस्परोपादेयपरस्परसहकारित्वादेव हि तदनुमानं व्यवस्थितं नियतोपादानोपादेयभावविच्छेदे तु व्यभिचारशङ्कया तन्न स्यादित्यर्थः । कथञ्चन स्थितिमत इति कथञ्चनेत्यनेनैकद्रव्यतयैव कार्याविच्छेदरूपस्थित्यभ्यनुज्ञानादन्त्यशब्दाद्युत्तरं न सदृशकार्यानुपलम्भानुपपत्तिः । संविदद्वैताभ्युपगमादिति मध्यमक्षणसंविन्मात्रस्वीकारादन्यक्षणानां तत्कालाज्ञातानां तत्कालसत्त्वे मानाभावादित्यर्थः । प्रभवादेः = कार्यारम्भादेः, १. अनुमीयेत इति अष्टसहस्रीसम्मतः पाठः । Page #77 -------------------------------------------------------------------------- ________________ ४७९ द्वितीयो भागः [ परि०३-का० ४१] (भा० ) प्रभवादेरयोगात् कुतः प्रेत्यभावादिः ? । [संवेदनाद्वैतस्य निराकरणम्] स्याद्वादिभिरापाद्यस्य प्रेत्यभावपुण्यपापक्रियाबन्धमोक्षतत्फलाभावस्य स्वयमेवाभ्युपगमादतिभीतप्रलापमात्रमेतदालक्ष्यते, संविदद्वैतस्य साधनासम्भवात्, संविन्मात्रस्य स्वकार्याकरणेऽनर्थक्रियाकारिणो वस्तुत्वविरोधान्नित्यत्ववत्, तस्य स्वकार्यकरणे कार्यकारणस्वभावसिद्धेः । [संवेदनाद्वैतं भेदभ्रान्ति बाधते न वा ? उभयपक्षे दोषानाहुः ।] संविदद्वैतेन भेदभ्रान्तिबाधने बाध्यबाधकभावः, तदबाधने तस्याव्यवस्थितः, प्रतिपक्षव्यवच्छेदाभावात् । [कार्यकारणयोः सर्वथा भेदे सति जैनाचार्या दोषानवतारयन्ति ।] संवृतिमात्रेण (भा०) सत्यपि हेतुफलभावेऽकारणकार्यान्तरवत्सन्ततिर्न स्यादतादात्म्याविशेषात् । न हि कार्यकारणक्षणानामकार्यकारणक्षणेभ्यस्तादात्म्याभावैकान्ते कश्चिद्विशेषो नैरन्तर्यादिः सम्भवति, तस्य भिन्नसन्तानकार्यकारणक्षणेष्वपि भावात् । (भा०) तत्स्वभावविशेषावक्लृप्तौ तादात्म्ये कोऽपरितोषः ? । कथञ्चित्तादात्म्यस्यैवैकसन्तानक्षणानां स्वभावविशेषस्य व्यवस्थितेर व्यभिचारिणः कार्यकारणभावस्य सुगतेतरक्षणेषु भिन्नसन्तानेष्वपि भावात्, भेदतादात्म्ययोर्हि - अष्टसहस्त्रीतात्पर्यविवरणम् तत् स्वभावविशेषावक्लृप्ताविति एकसन्ततिपतितकार्यकारणक्षणेषु तदीयत्वनियामकस्वभावविशेषकल्पन इत्यर्थः । कार्यकारणभावमात्रस्यैकसन्ताननियामकत्वेऽतिप्रसङ्गमुपदर्शयति-अव्यभिचारिण इत्यनेन । ननु एकसन्तानेऽपि क्षणानां भिन्नत्वात् कथं तादात्म्यमुपपत्स्यत इत्यत आह-भेदेत्यादि भेदतादात्म्ययोविरोधस्यापि हि सर्वथाऽपरिहार्यत्वात् कथञ्चित्पक्षे तु द्रव्यपर्यायविधया परिहार्यत्वादेवेति चूर्णकसहितभाष्यप्रतीकार्थः । Page #78 -------------------------------------------------------------------------- ________________ ४८० अष्टसहस्त्रीतात्पर्यविवरणम् ( भा० ) विरोधस्य सर्वथाप्यपरिहार्यत्वात् । संविदि वेद्यवेदकाकारभेदेऽपि तादात्म्योपगमादन्यथैकज्ञानत्वविरोधात् संविदाकारवेद्याद्याकारविवेकयोः प्रत्यक्षपरोक्षयोर्भेदेऽपि संविदेकत्वाङ्गीकरणात्, कथञ्चित्तादात्म्याभावे सन्ताननियमनिबन्धनस्य स्वभावविशेषस्यानुपलब्धेः । ( भा० ) तत्सन्तानपेक्षया प्रेत्यभावादि मा मस्त, क्षणक्षयैकान्ते सन्तानस्यैव साधयितुं दुःशक्यत्वात् । ( भा० ) ज्ञानज्ञेययोः प्रतिक्षणं विलक्षणत्वात् । स एवाहं तदेवेदमिति प्रत्यभिज्ञानादनुस्मरणादभिलाषादेश्च सन्ताननियमसिद्धिरिति चेत्, न तस्यैवासम्भवात् । सर्वथा वैलक्षण्ये पुंसोऽर्थस्य च । (भा०) न वै प्रत्यभिज्ञानादिः पुरुषान्तरवदर्थान्तरवच्च । ततः कर्मफलसम्बन्धोऽपि नाना सन्तानवदनियमान्न युक्तिमवतरति । तदनादिवासनावशात्तन्नियम इति चेत्, न कथञ्चिदप्यतादात्म्ये कार्यकारणक्षणयोस्तदघटनात्तद्वत् । ( भा० ) तत्सूक्तं क्षणिकपक्षो बुद्धिमद्भिरनादरणीयः सर्वथार्थक्रियाविरोधान्नित्यत्वैकान्तवत् । न चार्थक्रिया कार्यकारणरूपा सत्येव कारणे स्यादसत्येव वा । ( भा० ) सत्येव कारणे यदि कार्यं, त्रैलोक्यमेकक्षणवर्त्ति स्यात् कारणक्षणकाले एव सर्वस्योत्तरोत्तरक्षणसन्तानस्य भावात् । I ( भा० ) ततः सन्तानाभावात्पक्षान्तरासम्भवाच्च इति स्थितमेव अष्टसहस्त्रीतात्पर्यविवरणम् उक्तप्रकारमेव समर्थयति वृत्तिकृत् संविदीत्यादिना । तदनादीति उत्तरचित्तोत्पत्तिकारणीभूतप्राक्तनचित्तक्षणाख्यवासनावशात्तस्य प्रत्यभिज्ञानादेर्नियम इत्यर्थः । तद्वत्= नानासन्तानवत् पक्षान्तरासम्भवाच्चेति असति कारण इति पक्षान्तरस्य चासम्भवादित्यर्थः । तेन न द्वितीयोत्तराभावान्यूनत्वं, यदि पुनरसत्येव कारण इत्यादिना वृत्तौ तु Page #79 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि०३-का० ४२] ४८१ साधनं सर्वथार्थक्रियाविरोधादिति, साध्यं च क्षणिकपक्षो बुद्धिमद्भिरनादरणीय इति, प्रत्यभिज्ञाद्यभावात्प्रेत्यभावाद्यसम्भव इति च, अस्मिन्पक्षे प्रयासाभावात् । यदि पुनरसत्येव कारणे कार्यं तदा कारणक्षणात्पूर्वं पश्चाच्चानादिरनन्तश्च कालः कार्यसहितः स्यात् कारणाभावाविशेषात् । तदविशेषेऽपि कार्यस्य स्वयं नियतकालत्वे नित्यस्य सर्वदा भावाविशेषेऽपि तत्स्यादित्युक्तम् ॥४१॥ किं च क्षणिकपक्षे न तावत्सदेव कार्यमुत्पद्यते स्वमतविरोधादुत्पत्त्यनुपरमप्रसङ्गाच्च यद्यसत् सर्वथा कार्यं तन्मा जनि खपुष्पवत् । मोपादाननियमो भून्माश्वासः कार्यजन्मनि ॥४२॥ पर्यायाकारेणेव द्रव्याकारेणापि सर्वथा यद्यसत्कार्यं तदा तन्मा जनिष्ट, खपुष्पमिव । तथा हि-यत् सर्वथाप्यसत् तन्न जायमानं दृष्टं, यथा खपुष्पम् । तथा च परस्य कार्यम्, इति व्यापकविरुद्धोपलब्धिः । कार्यत्वं हि कथञ्चित्सत्त्वेन व्याप्तम् तद्विरुद्धं सर्वथाप्यसत्त्वम् । प्रतीतं हि लोके (भा०) कथञ्चित्सतः कार्यत्वमुपादानस्योत्तरीभवनात् । सदेव कथमसत् स्याद्विरोधादिति न चोद्यं, (भा०) असकृदपि विरुद्धधर्माध्यासानिराकृतेः, चित्रवेदनवदित्युक्तप्रायम् । अष्टसहस्रीतात्पर्यविवरणम् भाष्योक्तपक्षान्तरस्यैव स्फुटीकारान्न पौनरुक्त्यम् ॥४१॥ 'उपादानस्योत्तरोद्भवनात् मृत्पिण्डादेर्घटादिकार्यत्वेन परिणमनादित्यर्थः । भाष्ये सकृदपीति अपिरेवकारार्थः, सकृदेव विरुद्धधर्माध्यासस्यानिराकरणात्, तथा च वारंवारं तन्निराकरणादित्यर्थः । चित्रवेदनवदिति चित्रवेदने ह्येकत्वानेकत्वयोविरोधो वारंवारमेव १. उपादानस्योत्तरीभवनाद् इति अष्टसहस्रीसम्मतः पाठः । Page #80 -------------------------------------------------------------------------- ________________ ४८२ अष्टसहस्त्रीतात्पर्यविवरणम् (भा० ) तथा चान्वयव्यतिरेकप्रतीतेर्भावस्वभावनिबन्धनायाः किं फलमपलापेन ? तदन्यतरनिराकृतावुभयनिराकृतिरभेदात् । ___ कथमन्वयव्यतिरेकयोरभेद इति चेत्, कारणस्य भावे भावस्यैव तदभावेऽभावरूपत्वात् । न हि कारणस्याभावेऽभाव एव भावे भावो न प्रतीयते यतस्तदभेदो न स्यात् । कथं भावस्वभावनिबन्धनान्वयव्यतिरेकप्रतीतिस्तस्या भावाभावस्वभावनिबन्धनत्वादित्यप्यनाशङ्कनीयं, स्वभावान्तरस्यैवाभावव्यवहारार्हत्वात् । [व्यतिरेकज्ञानं भावस्वभावनिमित्तकं कथं भवेत् ? ] पावकविविक्तप्रदेशविशेषस्यैव पावकाभावस्य धूमरहितदेशस्य च धूमाभावस्य प्रतीतिगोचरत्वात्, पावकाभावे धूमाभावस्य च व्यतिरेकलक्षणत्वात् सिद्धं व्यतिरेकप्रतीतेर्भावस्वभावनिबन्धत्वमन्वयप्रतीतेरिव इति निरारेकं, नीरूपस्याभावस्य प्रतिक्षेपात् । [सर्वथासदेव कार्यरूपेण भवतीति मान्यतायां का हानिः ? तत्स्पष्टयन्ति ।] न च सर्वथाप्यसत: कार्यत्वेऽन्वयव्यतिरेकप्रतीति: कार्यकारणभावव्यवस्थाहेतुः कारणाभावे एव कार्यस्य भावाद्भावे चाभावात् इति निवेदितप्रायम् । (भा०) तन्नासत्कार्यं, सर्वथाप्यनुत्पादप्रसङ्गात्, खकुसुमवद् । इति व्यवतिष्ठते, कार्यत्वकथञ्चित्सत्त्वयोरेव व्याप्यव्यापकभावस्य प्रसिद्धेस्तथाप्रतीतेः । तत एव (भा०) न तादृक्कारणवत्, सर्वथाऽभूतत्वाद्वन्ध्यासुतवत् कथञ्चिदस्थितानुत्पन्नत्वादिति योज्यम् । न हि सर्वथाप्यसत्कार्यमभूतं न भवति, यतः कथञ्चिदप्यस्थितमनुत्पन्नं च न स्यात्, कथञ्चित्सत एव स्थितत्वोत्पन्नत्वघटनाद्विनाशघटनवत् सत उत्पादव्ययध्रौव्ययुक्तत्वलक्षणत्वात् । न चोत्पादादित्रयरहितं वस्तु समस्ति यतः कारण अष्टसहस्रीतात्पर्यविवरणम् निराकृतः, सैव रीतिः सत्त्वासत्त्वयोः प्रतीयतामित्यनेनोक्तम्, तत एव कार्यत्वकथञ्चित्सत्त्वयोर्व्याप्तेरेव । भाष्ये न तादृक्=सर्वथाऽसत्, कारणवत्=कारणा Page #81 -------------------------------------------------------------------------- ________________ ४८३ द्वितीयो भागः [ परि०३-का. ४२] वत्स्यात् निरन्वयविनाशे तत्कारणस्य तद्भावायोगात् कार्यस्य तद्भावायोगवत् । [असत्कार्ये यदि उत्पादादित्रयं न घटते तहि सत्यपि प्रभवलक्षणे उत्पादादित्रयं कथं सिद्धमिति प्रश्ने सति जैनाचार्याः समादधते ] (भा०) सत्यपि प्रभवलक्षणे पूर्वपूर्वस्योत्तरीभवनं मृत्पिण्डस्थासकोशकुशूलादिषु सकललोकसाक्षिकं सिद्धम् । तन्न, (भा०) स्वमनीषिकाभिः सदृशापरापरोत्पत्तिविप्रलम्भानवधारणावक्तृप्तिमारचयतां मोपादाननियमो भूत्, कारणान्तरवत् तदन्वयाभावाविशेषात् , सर्वथा वैलक्षण्यात् । न हि मृत्पिण्डस्थासादीनां तन्तुपटादीनां च सर्वथा वैलक्षण्येनान्वयाभावाविशेषेऽपि मृत्पिण्ड एवोपादानं स्थासस्य, स्थास एव कोशस्य, कोश एव कशलस्य, कशल एव घटस्य, न पनस्तन्त्वादयः स्थासादीनामिति नियमनिबन्धनं किमप्यस्ति, यतः पूर्वपूर्वस्योत्तरीभवनं मृत्पिण्डस्थासादिषु सकललोकसाक्षिकं न भवेत् । वैलक्षण्यानवधारणं निबन्धनमिति चेत्, तद्यदि सदृशापरापरोत्पत्तिविप्रलम्भात्प्रतिपत्तृणामिष्यते तदा समसमयवतितिलादीनां सन्तत्योत्पद्यमानानां वैलक्षण्यानवधारणं स्यात् । ततश्च परस्परभिन्नसन्ततीनामप्युपादानत्वं प्रसज्येत विशेषाभावात् । [बौद्धमते एकसन्ताने कार्यकारणभावो यदि घटेत तहि भिन्नसन्तानेष्वपि भविष्यति उभयत्रान्वयाभावसमानत्वात् ।] यथैव ह्येकसन्तानवर्तिनः सदृशस्यापरापरस्योत्पत्तिः सादृश्यमभावाव्यवधानं च बाह्यं, विप्रलम्भस्त्वनाद्यभेदवासनाहितमभेदज्ञानमन्तरङ्गं वैलक्षण्यानवधारणस्य कारणं - अष्टसहस्रीतात्पर्यविवरणम् पेक्षोत्पत्तिकं। वैलक्षण्यानवधारणं निबन्धनमिति मृत्पिण्डस्थासकोशकुशूलादिनियतोपादानप्रवृत्तिनिबन्धनं नान्वयः, किन्तु वैलक्षण्यस्य भेदस्यानवधारणमिति सौगताशङ्का । तत्राह-इति चेत् तद् यदीत्यादि सदृशापरापरोत्पत्तिविप्रलम्भात्=सदृशापरापरोत्पत्तिदोषसध्रीचीनानादिवासनाप्रसूताभेदज्ञानादित्यर्थः । उपादानत्वं प्रसज्येतेति कार्यागृहीतभेदक्षणस्योपादानत्वादित्यर्थः, अभावाव्यवधानं चेति अन्तराविसदृशक्षणोत्पत्ति Page #82 -------------------------------------------------------------------------- ________________ ४८४ अष्टसहस्त्रीतात्पर्यविवरणम् तथा भिन्नसन्ततीनामपि तिलादीनामिति न विशेषः । ननु भिन्नदेशानां तेषां सत्यामपि सादृश्योत्पत्तौ नाभावेनाव्यवधानमन्तराले परस्परमभावस्य व्यवधायकस्य भावादिति न मन्तव्यं, मृत्पिण्डस्थासादीनामेकसन्तानवर्तिनामपि भिन्नदेशत्वसम्भवादभावव्यवधानप्रसङ्गात् । न हि तेषां काल एव भिद्यते न पुनर्देशस्तस्य नित्यत्वप्रसङ्गात् । सर्वस्वलक्षणानां स्वरूपमात्रदेशतया देशाभावाददोष इति चेत्, कथमेवं भिन्नसन्ततितिलादीनां भिन्नदेशता ? । स्वरूपलक्षणदेशभेदादिति चेन्मृत्पिण्डादीनामपि तत एव सास्तु, न चान्यत्रापीत्यविशेष एव । सादृश्यविशेषाद्विशेष इत्यपि मिथ्या, सादृश्यस्यापि परमार्थतः क्वचिदभावात्सामान्यवत् । अतत्कार्यकारणव्यावृत्त्या कल्पितस्य तु सादृश्यस्य को विशेष इति चिन्त्यम् । वैलक्षण्यानवधारणहेतुत्वमिति चेत्, कृष्णतिलादिषु भिन्नसन्तानेष्वपि समानम् । परस्पराश्रयत्वानुषङ्गश्चैवम् । सति सादृश्यविशेषे मृत्पिण्डादिषु वैलक्षण्यानवधारणं तस्मिन् सति सादृश्यविशेषनिश्चयः इति नैकस्यापि निर्णयः स्यात् । नन्वनिश्चितादेव सादृश्यविशेषादभेदाध्यवसायरूपं वैलक्षण्यानवधारणं निश्चीयते । ततः सादृश्यविशेषानुमानान्नेतरेतराश्रयत्वं तयोरिति चेत्, न एवं यमलकादिष्वपि तदनुमानप्रसङ्गादन्वयस्यापि तद्वत्प्रसक्तेः । [निरन्वयकारणमपि स्वकार्यं करोति न पुनः भिन्नकार्यमिति मान्यतायां दोषानाहुः जैनाः ।] ननु च - अष्टसहस्त्रीतात्पर्यविवरणम् व्यवधानाभावश्चेत्यर्थः । अपि न विशेष इति न विशेष इत्यर्थः । अन्तराले सादृश्यप्रतियोगिनां मध्ये, अभावस्य दैशिकाभावस्य, न पुनर्देश इति तथा च स्थासदेशे मृत्पिण्डाभावसत्त्वादेशिकाभावेन तत्रापि व्यवधानादुपादानत्वं न स्यादित्यर्थः । अतिरिक्तदेशेन भिन्नदेशत्वाभाव उपादानतानिमित्तमित्याशङ्कते-सर्वस्वलक्षणानामिति भिन्नसन्ततिक्षणेष्वतिप्रसङ्गान्न किञ्चिदेतदिति समाधत्ते-कथमेवमित्यादि । विशेषः= क्षणानामुपादानताऽनुपादानतयोर्भेदः, सति सादृश्यविशेष इति निश्चिते सादृश्यविशेष इत्यर्थः, अन्यथा वक्ष्यमाणाविशेषेण पौनरुक्त्यप्रसङ्गात्, तदनुमानप्रसङ्गा=अभेदाध्यवसायेनोपादानोपादेयभावनियामकसादृश्यविशेषानुमानप्रसङ्गात्, तद्वत् = सम्प्रति १. इति न विशेषः इति अष्टसहस्रीसम्मतः पाठः । Page #83 -------------------------------------------------------------------------- ________________ ४८५ द्वितीयो भागः [ परि०३-का० ४२] (भा०) निरन्वयस्यापि तादृशो प्रकृतिरात्मानं कारणान्तरेभ्यो यथा विशेषयतीति चेत्, न, अत्यन्तविशेषानुपलब्धेः । तदविशेषादर्शने सर्वथान्ध्यं स्यात्, विशेषाविशेषयोरदृष्टौ तद्रहितवस्तुरूपोपलम्भाभावात् । (भा०) तस्मादियमस्य प्रकृतिर्यया पूर्वोत्तरस्वभावहानोपादानाधिकरणस्थिति प्रतिक्षणं बिभर्ति यतोऽयमुपादाननियमः सिद्धः । पूर्वोत्तरस्वभावहानोपादानमात्रे तदसिद्धेः स्थितिमात्रवत् । (भा०) अथापि कथञ्चिदुपादाननियमः कल्प्येत, कार्यजन्मनि कथमाश्वासः ? । संवृतिमात्रेणोपकल्पितादुपादाननियमात्कार्योत्पत्तावनाश्वासदर्शनात्, स्वप्नवत् । (भा०) तदत्यन्तासतः कार्यस्योत्पत्तेस्तन्तुभ्यः पटादिरेव न पुनः कुटादिरिति निर्हेतुको नियमः स्यात् । पूर्वपूर्वविशेषादुत्तरोत्तरनियमकल्पनायामनुपादानेऽपि स्यात् । ___ तन्नियमकल्पना । तथादर्शनमहेतुरत्रैव विचारात् । न हि यत्रैव विवादस्तदेव नियमहेतुरिति युक्तं वक्तुमविचारकत्वप्रसङ्गात् । [तन्तुसामान्यमातानवितानादिरूपेण तन्तुविशेषश्च परस्पनिरपेक्षौ उभौ पटकार्यं कर्तुं न शक्नुतः ।] यथादर्शनं नियमकल्पनायां हेतावपि (भा०) कथञ्चिदाहितविशेषतन्तूनां पटस्वभावप्रतिलम्भोपलम्भात् - अष्टसहस्रीतात्पर्यविवरणम् - पन्नैकसन्तानवत् । यतः=उक्तहेतोस्त्रैलक्षण्यात्, अयं प्रत्यक्षसिद्धः । अविचारकत्वप्रसङ्गादिति यदेव पृष्टं तस्यैवोत्तरत्वप्रदानादित्यर्थः । ननु तन्तुभ्यः पटादिरिवेत्यादिनियमः कुतो दृश्यत ? इति न पृष्टं, येन तत्र तथा दर्शनस्य हेतुत्वोक्तावविचारकत्वम्, किन्तु तन्नियमहेतप्रश्न एव सः, तत्र चान्वयव्यतिरेकशालित्वमेव, तद्धेतरित्युत्तरं, तत्सिद्धिश्च तथा दर्शनादिति न प्रश्नोत्तरवैयधिकरण्यमित्याशक्य तदपि सामान्यविशेषरूपत्वे तन्त्वादेरित्यूर्ध्वतासामान्येनान्वयात् नाऽत्यन्तासत्त्वं कार्यस्येत्यागतमित्याशयेन आह-यथा Page #84 -------------------------------------------------------------------------- ________________ ४८६ अष्टसहस्त्रीतात्पर्यविवरणम तदन्यतरविधिप्रतिषेधनियमनिमित्तात्ययात् प्रतीतेरलमपलापेन । न हि तन्तुतद्विशेषयोरन्यतरस्य विधौ निषेधे च नियमनिमित्तमस्ति । न हि तन्तव एवातानादिविशेषनिरपेक्षाः पटस्वभावं प्रतिलभमानाः समुपलभ्यन्ते, येन तन्तुमात्रस्यैव विधिनियमो विशेषप्रतिषेधनियमो वा स्यात् नापि तन्तुनिरपेक्षो विशेष एव पटस्वभावं स्वीकुर्वन्नुपलभ्यते यतो विशेषविधिनियमस्तन्तुप्रतिषेधनियमो वावतिष्ठेत । न चोपलब्ध्यनुपब्धी मुक्त्वान्यन्निमित्तं तद्विधिप्रतिषेधयोनियमोऽस्ति येन तदत्ययेऽपि तदुभयप्रतीतेरपलापः शोभेत । ननु च नास्ति तन्त्वाद्यन्वय उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति स्वभावानुपलब्धिस्तत्प्रतिषेधनियमनिमित्तं, विशेषमात्रस्यैवोपलब्धेस्तद्विधिनियमहेतुत्वादिति चेत्, न, तन्त्वाद्यन्वयवत्तद्विशेषस्यापि निरपेक्षस्योपलब्धिलक्षणप्राप्तस्यानुपलब्धेरविशेषात् प्रतिषेधनियमप्रसङ्गात् । (भा०) तस्मादुपलब्धिलक्षणप्राप्तानुपलब्धिरनन्वयस्यैव न पुनरुभयरूपस्य । इत्यलं प्रसङ्गेन । सर्वथान्वयविशेषयोरेव प्रतिषेधनियमस्य निमित्ताभावात् तदुभयरूपजात्यन्तरस्यैव विधिनियमस्य निमित्तसद्भावात् तन्निमित्तस्यार्थक्रियाकारित्वस्य सकलप्रमाणोपलम्भस्य च प्रसिद्धेविरोधाद्यसम्भवाच्च ॥४२।। तदेवं क्षणिकैकान्तपक्षे न हेतुफलभावादिरन्यभावादनन्वयात् । सन्तानान्तरवन्नैकः सन्तानस्तद्वतः पृथक् ॥४३॥ क्षणिकैकान्तपक्षेऽपीति विवर्तते । तेन पूर्वोत्तररक्षणानां न हेतुफलभावो अष्टसहस्त्रीतात्पर्यविवरणम् दर्शनमित्यादिना शोभेतेत्यन्तेन, एतेन शक्तेनियामकत्वमपि व्याख्यातं, द्रव्यार्थतया सत्त्वस्यैव तदर्थत्वात् । विशेषैकान्तवादी सामान्यानुपलब्धिमादाय शङ्कते-ननु चेत्यादिना । सिद्धान्तवादी विशेषानुपलब्धिमादायोत्तरयति नेत्यादि, हृदे वह्निर्ने त्यत्रैव तर्कितप्रतियोगिसत्त्वप्रसञ्जितप्रतियोगिकत्वेन योग्यानुपलब्ध्या निरपेक्षान्यतराभावसिद्धरुभयैकरूपतामुपसंहरति-तस्मादित्यादिना भाष्यकृत्, अनन्वयस्यैवेति न विद्यतेऽन्वयः सामान्यस्य Page #85 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० ३ - का० ४३ ] वास्यवासकभावकर्मफलसम्बन्धः प्रवृत्त्यादिर्वास्ति, सर्वथानन्वये सत्यन्यभावात् सन्तानान्तरवत् । तेषामेकसन्तानत्वात्सोऽस्तीति चेत्, न, एकसन्तानस्य तद्वत: पृथगसत्त्वात्, सन्तानिन एवापरामृष्टभेदाः सन्तान इति स्वयमभ्युपगमात् सर्वेषां वैलक्षण्याविशेषात् । सन्तानसङ्करप्रसङ्गश्चाविशेषेणापरामृष्टभेदत्वस्य सम्भवात् एते एवाभेदपरामर्शविषया न पुनरन्ये इति विशेषनिबन्धनस्याभावात् । [स्वभावतो पृथक्-पृथक् सन्ततयः कर्मतत्फलादिसम्बन्धे हेतुरिति मान्यतायां जैनाचार्याः संबोधयन्ति । ] ( भा० ) विलक्षणानामत्यन्तभेदेऽपि स्वभावतः किलासङ्कीर्णाः सन्ततयः कर्मफलसम्बन्धादिनिबन्धनं शशविषाणस्येव वर्तुलत्वमारचितं कश्चेतनः श्रद्दधीत ?, प्रत्यक्षेणाप्रतीतेऽर्थे स्वभावस्याश्रयितुमशक्यत्वात् । प्रत्यक्षेण प्रतीतेऽर्थे यदि पर्यनुयुज्यते । स्वभावैरुत्तरं वाच्यं दृष्टे कानुपपन्नता ? ॥ [ ४८७ ] अष्टसहस्त्रीतात्पर्यविवरणम् इति स्वयमभिधानात् । न च परस्परं विलक्षणानामेव क्षणानामत्यन्तमन्वयासत्त्वेऽप्यन्तर्बहिर्वा सन्ततयोऽसङ्कीर्णा एव प्रत्यक्षतः प्रतीताः, तस्यैकक्षणगोचरतया सन्तानाविषयत्वात् । नाप्यनुमानतः, स्वभावस्य कार्यस्य वा तल्लिङ्गस्य प्रतिबद्धस्यानवधारणात् । प्रत्यभिज्ञानादि तदनुमाने लिङ्गमिति चेत्, न तस्य क्वचिदन्वयासिद्धेर्व्यतिरेकानिश्चयाच्च । तत एव नान्यथानुपपत्तिः, प्रत्यभिज्ञानादेः सन्तानाभावेऽसम्भवनियमनिश्चयायोगात्, तत्रैकद्रव्यप्रत्यासत्तेरेव ततः प्रसिद्धेविरुद्धत्वनिर्णयात् । ततो न सन्तानोऽस्ति स्वभावत एवासङ्कीर्णाः सन्तानान्तरैरिति सूक्तम् ॥४३॥ स्यान्मतम् विशेषेण सह यत्रेत्यर्थान्निरपेक्षान्यतरपरिग्रहः ||४३|| कर्मफलसम्बन्धादिनिबन्धनमित्यनन्तरमिति वचनमिति शेषः । आरचितमितिउक्तमित्यर्थः । कः श्रद्दधीतेति एकद्रव्यातिरिक्तासु तासु प्रमाणाप्रसरादित्यर्थः ॥४३॥ स्यान्मतमिति अशङ्कावचनं, वक्ष्यमाणकारिकापेक्षया तत्रैव तदभिव्यञ्जकस्य Page #86 -------------------------------------------------------------------------- ________________ ४८८ अष्टसहस्त्रीतात्पर्यविवरणम् अन्येष्वनन्यशब्दोऽयं संवृतिर्न मृषा कथम् ? । मुख्यार्थः संवृतिर्न स्याद्विना मुख्यान्न संवृतिः ॥४४॥ (भा०) सन्तानिभ्योऽनन्यः सन्तानः, अन्यथात्मनो नामान्तरकरणात् । आत्मा सन्तान इति, सुखादिपरिणामेभ्यो भिन्नस्य वस्तुनो व्यापकस्यात्मत्वादर्थभेदाभावात् । तथा नामान्तरकरणे च [सन्तानो नित्योऽनित्यो वेति विकल्प्योभयपक्षे दूषणमवतारयन्ति ।] (भा०) नित्यानित्यविकल्पानुपपतेः नान्यः सन्तानो वास्तवः स्यात् । नित्यविकल्पे तस्य सन्तानिव्यापकत्वाभावोऽनेकस्वभावेन तद्व्यापकत्वे तस्य नित्यैकरूपत्वविरोधात् । एकस्वभावेन तद्व्यापकत्वे सन्तानिनामेकरूपत्वापत्तेः कुतः सन्तानः ? अनेकव्यापिनः क्रमशः सन्तानत्वात् । तदनित्ये विकल्पेऽपि न सन्तानः, सन्तानिवद्भेदादेकप्रत्यवमर्शाविषयत्वात् । [भिन्नेष्वभिन्न इति व्यवहारः संवृतिः स एव सन्तानः इति कथने सति जैनाचार्यास्तत्सन्तानलक्षणं निराकुर्वन्ति ।] (भा०) अपि तु संवृत्याऽन्येष्वनन्यव्यवहारात् । अनन्य इति शब्दविकल्पलक्षणत्वाद् । (भा०) एकत्वमुपचरितमिति । अन्येष्वनन्यशब्दोऽयं संवृतिः सौगतैरभिधीयते सन्तानः । सोऽपि कथं मृषा न स्यात् ? । अस्तु व्यलीकोऽयं व्यवहारस्तथेष्टत्वादिति चेत्, तर्हि, (भा०) व्यलीकव्यवहारेऽपि विशेषानुपपत्तेः सम्बन्धनियमाभाव - अष्टसहस्रीतात्पर्यविवरणम् चेच्छब्दस्य श्रुतेः, प्रस्तुतकारिकायां तु पराभिमतसन्तानवचनमृषात्वस्य मुख्यस्य द्रव्यार्थस्य चोद्देश्यत्वाद्विप्रतिपत्तिधर्म्यभिधानेन परमस्याः कारिकाया उत्तरकारिकाया सहैकवाक्यत्वादिति द्रष्टव्यम् । सोऽपि कथं मृषा न स्यादिति संवृतिशब्देनैव मृषात्वस्य स्फुटमभिधानादिति भावः । व्यवहार:=सन्तानव्यवहारः, सम्बन्धनियमाभावः= पूर्वोत्तरक्षणानां नियत Page #87 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० ३ - का० ४५ ] स्तदवस्थः । सकलसन्तानिनां साङ्कर्यस्यापरिहृतत्वात्, उपचरितेनैकसन्तानेन केषाञ्चिदेव स्वेष्टसन्तानिनां व्याप्तेर्नियमयितुमशक्तेः । यदि तु मुख्यार्थ एव सन्तानः स्यात्तदा न संवृतिः । संवृतिरेव सन्तानस्तथोपचारादिति चेत्, न, तस्य मुख्यप्रयोजनत्वविरोधात् । मुख्यप्रयोजनश्चायं, प्रत्यभिज्ञानादेर्मुख्यस्य कार्यस्य करणात् । ४८९ ( भा० ) उपचारस्तु नर्ते मुख्यात् यथाग्निर्माणवकः इति स्खलति तत्रानन्यप्रत्ययः, परीक्षाक्षमत्वात् । अत एवामुख्यार्थः प्रस्तुतासाधनम् । न ह्यग्निर्माणवक इत्युपचारात्पाकादावादीयते । तथा सन्तानोऽप्युपचरितः सन्तानिनियमहेतुर्न स्याद् इति तदवस्थं सन्तानिसाङ्कर्यं सन्तानस्यैकस्य सन्तानिभ्यो भिन्नस्याभिन्नस्योभयरूपस्यानुभयरूपस्य चासम्भवात् ॥४४॥ तत एव चतुष्कोटेर्विकल्पस्य सर्वान्तेषूक्त्ययोगतः । तत्त्वान्यत्वमवाच्यं चेत्तयोः सन्तानतद्वतोः ॥४५ ॥ यो यो धर्मस्तत्र तत्र चतुष्कोटेर्विकल्पस्य वचनायोगः । यथा सत्त्वैकत्वादिधर्मेषु । धर्मश्च सन्तानतद्वतोस्तत्त्वमन्यत्वं च इति तत्रावाच्यत्वसिद्धिः । [प्रत्येकवस्तुनि चतुर्धा विकल्पो न शक्यते इति बौद्ध: स्वपक्षं समर्थयति] प्रसिद्धं हि ( भा०) सत्त्वैकत्वादिषु सर्वधर्मेषु सदसदुभयादिचतुष्कोटेरभिधातुमशक्तत्वात् सन्तानतद्वतोरपि भेदाभेदोभयानुभयचतुष्कोटेरनभिलाप्यत्वम् । सर्वो हि वस्तुधर्मः सन् वा स्यादसन् वा उभयो वानुभयो वा । ( भा०) सत्त्वे तदुत्पत्तिविरोधादसत्त्वे पुनरुच्छेदपक्षोपक्षिप्तदोषादुभये अष्टसहस्त्रीतात्पर्यविवरणम् कार्यकारणभावसम्बन्धाभाव:, स्खलति हि = बाधते हि तत्र पूर्वोत्तरक्षणेषु, अनन्यप्रत्यय: = एकत्वावसायः ॥४४|| तत एव=उक्तासम्भवादेव चतुः कोटेरित्यादिकारिकाप्यग्रिमकारिकया सम्बध्यते Page #88 -------------------------------------------------------------------------- ________________ ४९० अष्टसहस्त्रीतात्पर्यविवरणम् चोभयदोषप्रसङ्गादनुभयपक्षेऽपि विकल्पानुपपत्तेरित्यादि योज्यम् । तथा हि-वस्तुनो धर्मस्यानन्यत्वे वस्तुमात्रप्रसक्तेरन्यत्वे व्यपदेशासिद्धरसम्बन्धात्, उभये चोभयपक्षभाविदोषोऽनुभयपक्षे निरुपाख्यत्वमिति ॥४५।। तथानभिधेयत्वं प्रसिध्यत् सर्वत्र सन्तानसन्तानिनोरपि तत्त्वान्यत्वाभ्यामवाच्यत्वं प्रसाधयति विशेषाभावात् ॥४५॥ इति येषामाकूतं तैरपि अवक्तव्यचतुष्कोटिविकल्पोऽपि न कथ्यताम् । असर्वान्तमवस्तु स्यादविशेष्यविशेषणम् ॥४६॥ [सर्वथावक्तव्यं वस्तु अवक्तव्यमितिशब्देनापि न वक्तुं युज्यते ।] (भा० ) न हि सर्वथानभिलाप्यत्वेऽनभिलाप्यचतुष्कोटेरभिधेयत्वं युक्तं, कथञ्चिदभिलाप्यत्वप्रसङ्गात् । ___ ततो भवद्भिरवक्तव्यचतुष्कोटिविकल्पोऽपि न कथनीयः, इति न परप्रत्यायनं नाम । (भा० ) अपि चैवं सति सर्वविकल्पातीतमवस्त्वेव स्यादन्यत्र वाचोयुक्तेः । जात्यन्तरमेव ह्यनेकान्तात्मकं सर्वथैकान्तविकल्पातीतत्वात् । सर्वविकल्पातीतमिति वाचोयुक्तावेव वस्तूक्तं स्यान्नान्यथा, तस्याविशेषणत्वात् खपुष्पवत् । न हि सर्वथाप्यसदनभिलाप्यमवस्त्विति वा विशेषणं स्वीकुरुते यतो विशेष्यं स्यात् । न अष्टसहस्रीतात्पर्यविवरणम् साकाङ्क्षत्वात् । सर्वान्तेषु सर्वभेदेषु । तत्त्वान्यत्वमिति समाहारापेक्षयैकवचनं तत्त्वमन्यत्वं चेत्यर्थः । तयो प्रकृतयोः ॥४५॥ एवमवाच्यत्वं सर्वथा सन्तानसन्तानिनोः प्रसक्तं, तत्कथञ्चिद्भावेन नियमयितुमाहअवक्तव्येत्यादि । न कथ्यतामिति कथ्यते चेत्कथञ्चिदवक्तव्यतैव पर्यवसन्ना, एवम्, असर्वान्तं सर्वभेदरहितम्, अवस्त्वेव स्यात् यतो न कस्यचिद्विशेष्यं न वा विशेषणं, वाचो युक्तावेव प्रतियोगिविशेषपरतया भङ्ग्यन्तरभाजि वचन एव । अनभिला Page #89 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० ३ - का० ४७ ] चाविशेष्यमविशेषणं च किञ्चिदध्यक्षसंविदि प्रतिभासते, स्वसंवेदनस्यापि सत्त्वविशेषणविशिष्टतया विशेष्यस्यैवावभासनात् । तदुत्तरविकल्पबुद्धौ स्वस्य संवेदनमिति विशेषणविशेष्यभावोऽवभासते, न तु स्वरूपे तस्येति चेत्, तर्हि किमविशेष्यविशेषणं संवेदनमिति स्वतः प्रतिभासते ? तथोपगमे सिद्धो विशेषणविशेष्यभावः संविदि, तत्राविशेषणविशेष्यत्वस्यैव विशेषणत्वात् सर्वथाप्यसतो विशेषणविशेष्यत्वस्य प्रतिषेधायोगात् ॥ ४६ ॥ तथा हि द्रव्याद्यन्तरभावेन निषेधः सञ्ज्ञिनः सतः । असद्भेदो न भावस्तु स्थानं विधिनिषेधयोः ॥४७॥ [सद्वस्तुन्येव विधिनिषेधौ घटेते न पुनः असद्वस्तुनि ।] ( भा० ) द्रव्यक्षेत्रकालभावान्तरैः प्रतिषेधः सञ्ज्ञिनः सतः क्रियते स्वद्रव्यक्षेत्रकालभावैर्न ४९१ ( भा० ) पुनरसतः, तद्विधिप्रतिषेधाविषयत्वात् । द्रव्याद्यन्तरभावेनेव स्वद्रव्यादिभावेनाप्यसत्त्वे कुतो विधिर्नाम ? । तदभावे न प्रतिषेधस्तस्य कथञ्चिद्विधिपूर्वकत्वात् । ततः कथञ्चिदभिलाप्यस्य सतः प्रतिषेधादनभिलाप्यत्वं युक्तम् । कथञ्चिद्विशेषणविशेष्यात्मनश्च सतोऽविशेष्यविशेषणत्वम् । इति नैकान्ततः किञ्चिदनभिलाप्यमविशेष्यविशेषणं वाभ्युपज्ञातव्यम् । [बौद्धैः स्वयमेवेति कथितं यत् "स्वलक्षणमनिर्देश्यं प्रत्यक्षकल्पनारहितं" तदपि एकान्ते न सम्भवति अनेकान्तमते एव सम्भवति ।] ( भा० ) न चैतद्विरुद्धं स्वलक्षणमनिर्देश्यमित्यादिवत् । अष्टसहस्त्रीतात्पर्यविवरणम् प्यमवस्त्विति वेति इतेर्द्विधान्वयादनभिलाप्यमित्यवस्त्विति वा विशेषणं न स्वीकुरुत इत्यर्थः । यतो विशेष्यं स्यादिति एवं च विशेष्यस्य विशेषणसापेक्षत्वाद्विशेषणाभावादविशेष्यं विशेष्याभावाच्चाविशेषणं जातमित्यर्थः । तादृशि च प्रत्यक्षविरोध इत्याह-न चाविशेष्यमित्यादि ॥४६॥ न चैतद्विरुद्धमिति एतदभिलाप्यस्यैवानभिलाप्यत्वं विशेषणविशेष्यरूपस्यैव Page #90 -------------------------------------------------------------------------- ________________ ४९२ अष्टसहस्त्रीतात्पर्यविवरणम् स्वलक्षणं हि स्वरूपेणासाधारणेनानिर्देश्यं नानिर्देश्यमिति शब्देन तथा निर्देश्यत्वादन्यथा वचनविरोधात् । तथा प्रत्यक्षं कल्पनापोढमपि स्वरूपेण कल्पनापोढमेव, न कल्पनापोढमिति कल्पनापेक्षया तस्यान्यथा कल्पनापोढत्वेन कल्पनाविरोधात्, सकलविकल्पवाग्गोचरातीतस्य निरुपाख्यत्वप्रसङ्गात् । तद्वत्स्याद्वादिनां न किञ्चिद्विप्रतिषिद्धम् । (भा० ) अभावोऽनभिलाप्य इत्यपि भावाभिधानादेकान्तवृत्तावेवदोषोद्भावाभिधानैरपि कथञ्चिदभावाभिधानात् । यथैव ह्यभाव इति भावान्तरमभिधीयतेऽनभिलाप्य इति चाभिलाप्यान्तरं तथा भावोऽभिलाप्य इत्यपि भावान्तराभिलाप्यान्तराभावः कथ्यते, तथा प्रतीतेः । अभावशब्दैर्भावशब्दैश्चाभावस्य भावस्य चैकान्ततोऽभिधाने शाब्दव्यवहारविरोधात्, तस्य प्रधानगुणभावेन विधिनिषेधयोरुपलम्भात्, तथैव प्रवृत्तिनिवृत्त्योरविसंवादसिद्धेरन्यथा विसंवादात् । ततः सूक्तमिदम् असतेंदो न भावस्तु स्थानं विधिनिषेधयोः इति कथञ्चित्सद्विशेषस्यैव पदार्थस्य विधिनिषेधाधिकरणत्वसमर्थनात् ॥४७॥ तथा च पराभ्युपगतमेव तत्त्वं सर्वथानभिलाप्यमायातमित्यभिधीयते अवस्त्वनभिलाप्यं स्यात्सर्वान्तैः परिवर्जितम् । वस्त्वेवावस्तुतां याति प्रक्रियाया विपर्ययात् ॥४८॥ सकलधर्मविधुरमर्मिस्वभावं तावदवस्त्वेव सकलप्रमाणाविषयत्वात् । तदेवानभिलाप्यं युक्तं, न पुनर्वस्तु प्रमाणपरिनिष्ठितम् । तदपि सर्वान्तैः परिवर्जितमवस्तु परपरिकल्पनामात्रादभिधीयते न पुनः प्रमाणसामर्थ्यात्, कस्यचिद्वस्तुन एव स्वद्रव्याद्यपेक्षालक्षणप्रक्रियाया विपर्यासादवस्तुत्वव्यवस्थितेः, स्वरूपसिद्धस्य - अष्टसहस्त्रीतात्पर्यविवरणम् चाविशेष्यविशेषणत्वम् । ननु भावाभावोभयकरम्बितैकवस्त्वभ्युपगमात् कथञ्चिदनभिलाप्यत्वादेरप्युभयाश्रयत्वादेको द्वावितिवदभावोऽनभिलाप्य इत्यादि कथं न विप्रतिषिद्धमिति चेत्, उभयत्वादेः पर्याप्त्यनवच्छेदकत्वात् पर्याप्त्यन्यसम्बन्धस्य विशेषणसंसर्गत्वाद्वेत्याशयवानाह भाष्यकृत्-अभावोऽनभिलाप्य इत्यादिना । तदेव विवृणोति वृत्तिकृत्-यथैव ह्यभाव इतीत्यादिना । असद्भेद इति असदन्तरम् ॥४७॥ Page #91 -------------------------------------------------------------------------- ________________ ४९३ द्वितीयो भाग: [ परि०३-का० ४८] घटस्य घटान्तररूपेणाघटत्ववत् कस्यचिद्वस्तुनो वस्त्वन्तररूपेणावस्तुत्वप्रतीतेः । ननु परस्परविरुद्धमिदमभिहितं वस्तुत्वेतरयोरन्योन्यपरिहारस्थितत्वादिति चेद् (भा०) भावव्यतिरेकवाचिभिरपि वाक्यतामापन्नैर्भावाभिधानान्नात्र किञ्चिद्विरुद्धम् । न ह्यब्राह्मणमानयेत्यादिशब्दैर्वाक्यत्वमुपगतैाह्मणादिपदार्थाभाववाचिभिस्तदन्यक्षत्रियादिभावाभिधानमसिद्धं येनावस्त्वनभिलाप्यं स्यादिति शब्देन वाक्यतामुपगतेन वस्तुशून्यत्ववाचिना वस्त्वन्तराभिधानं विरुद्ध्यते । (भा० ) अतः सूक्तं 'यदवस्तु तदनभिलाप्यं यथा न किञ्चित् । यत्पुनरभिलाप्यं तद्वस्त्वेव यथा खपुष्पाभावः' इति । नात्र साध्यविकलमुदाहरणं खे पुष्पाभावस्य खस्वरूपत्वात् । सुप्रतीतं हि लोके (भा० ) अन्यस्य कैवल्यमितरस्य वैकल्यं, स्वभावपरभावाभ्यां भावाभावव्यवस्थितेर्भावस्य । [एकत्रैव वस्तुनि भावाभावधर्मों वर्तेते किन्तु केन प्रकारेणेयं मान्यता सृष्ठ ? तस्य स्पष्टीकरणं क्रियते ।] न हि वस्तुनः सर्वथा भाव एव, स्वरूपेणेव पररूपेणापि भावप्रसङ्गात् । नाप्यभाव एव, पररूपेणेव स्वरूपेणाप्यभावप्रसङ्गात् । न च स्वरूपेण भाव एव पररूपेणाभावः, परात्मना चाभाव एव स्वात्मना भाव इति वक्तुं युक्तं, तदपेक्षणीयनिमित्तभेदात् । स्वात्मानं हि निमित्तमपेक्ष्य भावप्रत्ययमुपजनयति सर्वोऽर्थः, परात्मानं त्वपेक्ष्याभावप्रत्ययम् इति एकत्वद्वित्वादिसङ्ख्यावदेकत्र वस्तुनि भावाभावयोर्भेदो व्यवतिष्ठते । - अष्टसहस्रीतात्पर्यविवरणम् अवस्तुत्वप्रतीतेरिति तथा च वैज्ञानिकसम्बन्धेनावस्तुत्ववति तेन सम्बन्धेन सर्वथानभिलाप्यत्वाद्यभिधानमविरुद्धं मिथ्यारजतमरजतमितिवदिति भावः । भावाभिधानादिति शक्तिलक्षणाभ्यामुभयोपपत्तेरेकपदशक्ययोः परस्परमन्वयो व्युत्पत्तिविशेषादिति नव्यमताश्रयणादिति भावः । तद्वतो भिन्नैवेति तद्वतः=एकत्वसङ्ख्यावतः, एकत्वविशिष्टाभेदसिद्धौ च द्वित्वे सङ्ख्यात्वेनैकत्वाभेदः सिद्ध एवेति भावः ॥४८॥ Page #92 -------------------------------------------------------------------------- ________________ ४९४ अष्टसहस्त्रीतात्पर्यविवरणम् [एकत्र वस्तुनि एकत्वद्वित्वादिसङ्ख्या निर्बाधं सम्भवन्तीति स्पष्टयन्ति ।] न ह्येकत्र द्रव्ये द्रव्यान्तरमपेक्ष्य द्वित्वादिसङ्ख्या प्रकाशमाना स्वात्ममात्रापेक्षैकत्वसङ्ख्यातोऽनन्या प्रतीयते । नापि सोभयी तद्वतो भिन्नैव, तस्यासङ्ख्येयत्वप्रसङ्गात्, सङ्ख्यासमवायादपि तथात्वासिद्धेः, समवायस्य तदसम्बन्धात् तस्य स्वसमवायिसम्बन्धकल्पनायामप्यनवस्थानुषङ्गात् कथञ्चित्तादात्म्यमन्तरेण समवायासम्भवाच्च । तद्वन्न भावाभावौ वस्तुनोऽन्यावेव, निःस्वभावत्वप्रसक्तेः । अथ सत्त्वासत्त्वाभ्यामन्यस्यापि वस्तुनो द्रव्यत्वादिस्वभावसद्भावान्न नि:स्वभावत्वमिति मतं तदप्यसाधीयो, द्रव्यत्वाद्र व्यत्वाभ्यामपि तस्यान्यत्वात् । ताभ्यामनन्यत्वे कथञ्चिद्भावाभावाभ्यामप्यनन्यत्वसिद्धेः स्वभावपरभावाभ्यां वस्तुनो भावाभावव्यवस्थितिः किं न स्याद्यतः खे पुष्पाभावोऽभिलाप्यो वस्त्वेव न भवेत् ? इति निरवद्यमुदाहरणम् ॥४८।। किं च क्षणिकैकान्तवादिनाम् सर्वान्ताश्चेदवक्तव्यास्तेषां किं वचनं पुनः ? । संवृतिश्चेन्मृषैवैषा परमार्थविपर्ययात् ॥४९॥ परेषां सर्वे धर्मा यद्यवक्तव्या एव तदा तेषां किं पुनर्वचनं धर्मदेशनारूपं परार्थानुमानलक्षणं साधनदूषणवचनं वा ? न किञ्चित् स्यादिति मौनमेव शरणम् । यदि पुनः संवृतिरूपं वचनमुपगम्यते तदापि मृषैव संवृतिरेषाभ्युपगन्तव्या, परमार्थविपर्ययरूपत्वात्तस्याः इति तत्त्वतः किं वचनं स्यात् ? (भा०) पुनरप्यवक्तव्यवादिनं पर्यनुयुज्महे, सर्वे धर्मा यदि वाग्गोचरातीताः कथमिमेऽभिलप्यन्ते ? इति स्ववचनविरोधानुषङ्गात् सर्वदा मौनव्रतिकोऽहमिति प्रतिपादयत इव परान् । - अष्टसहस्रीतात्पर्यविवरणम् सर्वदा मौनव्रतिकोऽहमितीति इत्येतत्प्रकारं, तेन यावज्जीवमहं मौनी ब्रह्मचारी तु मत्पिता । मम माता च वन्ध्या च स्मराभोऽनुपमो महान् ॥१॥ [ Page #93 -------------------------------------------------------------------------- ________________ ४९५ द्वितीयो भागः [परि० ३-का. ४९] संवृत्या चेत्सर्वे धर्मा इत्यवक्तव्या इति चाभिलप्यन्ते भवद्भिर्न (भा०) विकल्पानुपपत्तेः । [संवृतिशब्दस्य कोऽर्थः ?] संवृत्येति हि स्वरूपेण पररूपेणोभयरूपेण वा तत्त्वेन मृषात्वेनेति वा विकल्पेषु नोपपद्यते । तत्र संवृत्या वक्तव्या इति (भा०) स्वरूपेण चेत्कथमनभिलाप्याः ?, स्वरूपेणाभिलाप्यानामनभिलाप्यत्वविरोधात् । (भा०) पररूपेण चेत्तेषां स्वरूपं स्याद्, येनाभिलाप्याः । (भा०) केवलं वाचः स्खलनं गम्येत । गोत्रस्खलनवत् । स्वरूपेणेति वक्तव्ये पररूपेणेति वचनात्, विशेषरूपवत् सामान्यरूपस्यापि वक्तव्यतयाङ्गीक्रियमाणस्य स्वरूपत्वात्, तस्यास्वरूपत्वे विशेषरूपस्याप्यस्वरूपत्वापत्तेः स्वयं नि:स्वरूपत्वप्रसङ्गात् । (भा०) उभयपक्षेऽप्युभयदोषानुषङ्गः । तत्त्वेन चेत्कथमवक्तव्याः ? । केवलं वचःस्खलनं गम्येत, तत्त्वेन वक्तव्या इति वचने प्रस्तुते संवृत्या वक्तव्या इति वचनप्रवृत्तेः । (भा०) मृषात्वेन चेत्कथमुक्ताः ?, सर्वथा मृषोक्तानामनुक्तसमत्वात् । ( भा० ) तदलमप्रतिष्ठितमिथ्याविकल्पौधैः । - अष्टसहस्त्रीतात्पर्यविवरणम् इति श्लोकः स्मर्त्तव्यः । परानिति परान् प्रतीति प्रतिपादयत इवेति योजना कर्त्तव्या । ननु स्वरूपं विशेषरूपमेव पररूपं तु सामान्यरूपं ततश्च सामान्यरूपेणाभिलाप्यत्वे सत्यपि विशेषरूपेणावक्तव्यत्वसद्भावात् कथं वाचः स्खलनं गम्यतेत्याशङ्कायाम् आह-विशेषरूपवदिति ॥४९।। Page #94 -------------------------------------------------------------------------- ________________ अष्टसहस्त्रीतात्पर्यविवरणम् सर्वथानभिलाप्यानां सर्वधर्माणामनभिलाप्या इति वचनेनाप्यभिलाप्यत्वासम्भवात्तथा परप्रत्यायनायोगात् ॥४९॥ किञ्चेदं तत्त्वम् अशक्यत्वादवाच्यं किमभावात्किमबोधतः । आद्यन्तोक्तिद्वयं न स्यात् किं व्याजेनोच्यतां स्फुटम् ॥५०॥ ४९६ [तत्त्वमवाच्यं कथम् ? ] ( भा० ) अर्थस्यानभिलाप्यत्वमभावाद्वक्तुरशक्तेरनवबोधाद्वा ? प्रकारान्तरासम्भवात् । ननु च मौनव्रतात्प्रयोजनाभावाद्भयाल्लज्जादेर्वाऽनभिलाप्यत्वसिद्धेः कथं प्रकारान्तरासम्भव इति चेत्, न मौनव्रतादीनामशक्यत्वेऽन्तर्भावात् तेषां करणव्यापारशक्तिनिमित्तत्वाच्च । न चैवमनवबोधस्ततः प्रकारान्तरं न स्यात्, तत्त्वावबोधे सति करणव्यापाराशक्तावप्यन्तर्जल्पसम्भवात् । तत्त्वावबोधाभावेऽपि च करणव्यापारशक्तिसद्भावात् । अनवबोधाशक्यत्वयोरिह ( भा० ) बुद्धिकरणपाटवापेक्षत्वात् प्रकारान्तरत्वमेव । अष्टसहस्त्रीतात्पर्यविवरणम् मौनव्रतादीनामशक्यत्वेऽन्तर्भावादिति वचनजनककरणवीर्याविषयत्वस्यैवाशक्यपदार्थत्वात् सिद्धैर्वक्तुमशक्यत्वस्येत्थमेवोपपत्तेरिति भावः । उक्तमेव हेतुना विशदीकरोति - तेषामिति । तथा वचने यथा तात्पर्यं नियामकमनुगतत्वान्न तु तदुत्थापकानि प्रकरणादीन्यननुगतत्वात्, तथाऽवचनेऽशक्यत्वमेव नियामकमनुगतत्वात् न तु तदुत्थापकानि मौनव्रतादीन्यननुगतत्वादिति भावः । न चैवमिति एवं मौनव्रतादीनामशक्यत्वेऽन्तर्भावे, अन्तर्जल्पसम्भवादिति बहिः स्पष्टोच्चाराभावेऽप्यन्तर्वचनजनककरणवीर्यसत्त्वादन्यथाऽन्तर्जल्पाप्रत्यक्षापत्तेर्मध्यमावैखर्योर्भेदानापत्तेश्चेति भावः । तत्त्वावबोधाभावेऽपि चेति तथा च तद्भावाभावयोर्भावादनवबोधव्यभिचारित्वमशक्यत्वस्येति न तत्रानवबोधोऽन्तर्भावयितुं Page #95 -------------------------------------------------------------------------- ________________ ४९७ द्वितीयो भागः [ परि०३-का० ५०] (भा०) न च सर्वत्र तदभावो युक्तः । कस्यचित्क्वचिदवबोधसद्भावात् सुगतस्य प्रज्ञापारमितत्वात् क्षमामैत्रीध्यानदानवीर्यशीलप्रज्ञाकरुणोपायप्रमोदलक्षणदशबलत्वोपगमाच्च कस्यचिदेव करणापाटवात् । तदनेनाशक्यत्वानवबोधवचनलक्षणस्याद्यन्तोक्तिद्वयस्यासम्भवो व्याख्यातः । सामर्थ्यादर्थस्याभावादेवावाच्यत्वमिति किं व्याजेनावक्तव्यं तत्त्वमिति वचनरूपेण ? स्फुटमभिधीयतां सर्वथार्थाभाव इति, तथा वचने वञ्चकत्वायोगादन्यथानाप्तत्वप्रसक्तेः । [तत्त्वस्याभावत्वादवाच्यत्वं तर्हि शून्यवाद एव सिद्ध्यति ।] (भा०) ततो नैरात्म्यान्न विशेष्येत, मध्यमपक्षावलम्बनात् । को ह्यत्र विशेषोऽर्थस्याभावादवाच्यत्वं नैरात्म्यमिति च ? । (भा० ) अशक्यसमयत्वादनभिलाप्यमर्थरूपमिति चेत्, न कथञ्चिच्छक्यसङ्केतत्वाद् । दृश्यविकल्पस्वभावत्वात्परमार्थस्य प्रतिभासभेदेऽपीत्युक्तम् । न हि दृश्यस्वभाव एव परमार्थो न पुनर्विकल्प्यस्वभावः सामान्यं, विशेषवत्सामान्यस्यापि वस्तुरूपत्वसाधनादन्यथा प्रतीत्यभावात्, सामान्यविशेषात्मनो जात्यन्तरस्य प्रत्यक्षादौ प्रतिभासनाच्च । न चैवं दृश्यलक्षणेषु सङ्केतकरणाशक्तावपि विकल्प्ये सामान्ये क्वचिदशक्यसङ्केतत्वं येनाशक्यसमत्वादनभिलाप्यमर्थरूपं भवेत्, कथञ्चिच्छक्यसङ्केतत्वसिद्धेः । स्यान्मतं-'सङ्केतितार्थस्य शब्दविषयस्य व्यवहारकालेऽननुगमनाद्विषयिणः शब्दस्य न तद्वाचकत्वमन्यथातिप्रसङ्गात्' इति, तदेतद् (भा०) विषयिणोभिन्नकालत्वं प्रत्यक्षेऽपि समानं, - अष्टसहस्त्रीतात्पर्यविवरणम् शक्य इत्यर्थः । तदभावो=अवबोधाभावः । आद्यन्तोक्तिद्वयस्येति कारिकाक्रमापेक्षया । को 'ह्यर्थविशेष इति, अर्यत इत्यर्थः, इति व्युत्पत्त्या को हि प्रकारभेद इत्यर्थः । अवाच्यत्वं नैरात्म्यमिति अवाच्यत्वं नैरात्म्यं चेति पक्षयोरित्यर्थः । अर्थरूपमिति तथा च १. को पत्र विशेषः इति अष्टसहस्रीसम्मतः पाठः । Page #96 -------------------------------------------------------------------------- ________________ ४९८ अष्टसहस्त्रीतात्पर्यविवरणम् शब्दविकल्पकालवत् प्रत्यक्षप्रतिभासकालेऽपि विषयस्यासम्भवात्, सम्भवे वा क्षणिकत्वविरोधाद्वैद्यवेदकयोः समानसमयत्वप्रसङ्गाच्च । अथ भिन्नकालत्वेऽपि विषयात्प्रत्यक्षस्य (भा०) अविपरीतप्रतिपत्तिः, अन्यत्रापि सास्त्येव । न हि शब्दादर्थं परिच्छेद्य प्रवर्तमानो विपरीतं प्रतिपद्यते प्रत्यक्षादिव प्रतिपत्ता, येन दर्शने एवाविपरीतप्रतिपत्तिर्भवति न पुनः शाब्देऽपीति बुध्यामहे । क्वचिद्विकल्पे विपरीतप्रतिपत्तिमुपलभ्य सर्वत्र विपरीतप्रतिपत्तिकल्पनायां क्वचिद्दर्शनेऽपि विपरीतप्रतिपत्तिं समीक्ष्य सर्वत्र तत्कल्पनास्तु, विशेषाभावात् । (भा०) दर्शनविकल्पयोः परमार्थेकतानत्वाभावे न किञ्चित्सिद्धम् । दृष्टस्यानिर्णयाददृष्टकल्पनाददृष्टनिर्णयस्य प्रधानादिविकल्पाविशेषात् कुतो दर्शनस्य कल्पनापोढस्यापि परमार्थंकतानत्वम् ? न हि दृष्टे स्वलक्षणे निर्णयः सम्भवति, तस्य तदविषयत्वात् । अदृष्टे तु सामान्यलक्षणे निर्णयः प्रवर्तमानो न प्रधानादिविकल्पाद्विशेष्यते, इति सकलप्रमाणाभावात्प्रमेयाभावसिद्धेरवक्तव्यतैकान्तवादिनां नैरात्म्यमेवायातं, सर्वथाप्यशक्यसमयत्वेनाप्यशक्यत्वपक्षस्यासम्भवादनवबोधपक्षवदभावस्यैव निर्व्याजत्वसिद्धेः । ततः क्षणक्षयैकान्तपक्षे कृतनाशाकृताभ्यागमप्रसङ्गः, स चोपहासास्पदमेव स्यात् ॥५०॥ तथा हि हिनस्त्यनभिसन्धातृ न हिनस्त्यभिसन्धिमत् । बध्यते तद्वयापेतं चित्तं बद्धं न मुच्यते ॥५१॥ हिंसाभिसन्धिमच्चित्तं न हिनस्त्येव प्राणिनं, तस्य निरन्वयनाशात् सन्तानस्य अष्टसहस्त्रीतात्पर्यविवरणम् । भावाभावविषयत्वाद्विशेष इत्यर्थः । समानसमयत्वप्रसङ्गादिति क्षणिकत्वविरोधे हेतुत्वेनान्वेति, प्रत्यक्षकालवृत्तेविषयस्य तद्धेतुत्वरक्षायै प्राक्कालवृत्तित्वस्याप्यभ्युपगमे क्षणिकत्वविरोधस्य स्पष्टत्वात् । द्वितीयक्षणवृत्तिध्वंसप्रतियोगित्वस्यैव क्षणिकलक्षण Page #97 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि०३-का० ५२] ४९९ वासनायाश्चासम्भवात् । अनभिसन्धिमदेवोत्तरं चित्तं हिनस्ति । तत एव हिंसाभिसन्धिहिंसाचित्तद्वयादपेतं चित्तं बध्यते । यच्च बद्धं तन्न मुच्यते, ततोऽन्यस्य मुक्तेः । इति कोऽन्यः प्रकाशयेन्निरन्वयात् तस्यैवम् ? (भा०) सन्तानादेरयोगादितिकर्तव्यतासु चिकीर्षोविनाशात् कर्तुरचिकीर्घत्वात् तदुभयविनिर्मुक्तस्य बन्धात्तदविनिर्मुक्तेश्च यमनिमादेरविधेयत्वं, कुर्वतो वा यत्किञ्चनकारित्वं प्रत्येतव्यम् । न चैवमनेकान्तवादिनः, प्रतिक्षणं परिणामान्यत्वेऽपि जीवद्रव्यस्यान्वयात् चिकीर्पोरेवेतिकर्तव्यतासु कर्तृत्वात्कतुरेव च कर्मबन्धाद् बद्धस्यैव विनिर्मुक्तेः सर्वथा विरोधाभावात् । क्षणिकवादिनामपि सन्तानस्यैकत्वात्पूर्वपूर्ववासनोपहितोत्तरोत्तरचित्तविशेषस्योत्पत्तेरनुपालम्भ इति चेत्, न सन्तानस्यावास्तवत्वाद्वास्यवासकभावस्याप्यसम्भवादव्यभिचारकार्यकारणाभावस्यापि तन्नियमहेतुत्वायोगात् सुगतेतरचित्तसन्तानेष्वपि भावादिति निरूपितत्वाच्च ॥५१॥ क्षणिकैकान्तवादिनाम् अहेतुकत्वान्नाशस्य हिंसाहेतुर्न हिंसकः । चित्तसन्ततिनाशश्च मोक्षो नाष्टाङ्गहेतुकः ॥५२॥ सर्वथापि अष्टसहस्त्रीतात्पर्यविवरणम् त्वादितरस्याऽविनिगम्यत्वात् ॥५०॥ निरन्वयादिति निरन्वयशब्दो निर्वंशत्वाध्यवसायेनान्वयाभाववादिनं सौगतं लक्षयंस्तस्य निन्द्यतामभिव्यनक्ति । इतिकर्तव्यतासुक्रमनियतासु क्रियासु, अचिकीर्षत्वादिति न विद्यते चिकीर्षा यस्य क्षणस्य तत्त्वादित्यर्थः तदुभयेति चिकीर्षाकर्तृक्षणविनिर्मुक्तस्य तृतीयस्य बद्धत्वादित्यर्थः । तदविनिर्मुक्तेः बद्धक्षणस्याऽमोक्षात्, अभिधेयत्वम् अभिधामात्रेणात्मन आश्वासः, कुर्वतो वा यत्किञ्चनकारित्वम् अबुद्धिपूर्वकप्रयासमात्रम्, पूर्वपूर्वक्षणानामुत्तरत्रानन्वयेन कार्यकारणसामानाधिकरण्याद्यभावादित्यर्थः ॥५१॥ Page #98 -------------------------------------------------------------------------- ________________ अष्टसहस्त्रीतात्पर्यविवरणम् ( भा० ) अहेतुं विनाशमभ्युपगम्य कस्यचिद्यदि हिंसकत्वं ब्रूयात् कथमविक्लवः ? तथा निर्वाणं सन्तानासमूलतलप्रहाणलक्षणं सम्यक्त्वसञ्ज्ञासञ्ज्ञिवाक्कायकर्मान्तर्व्यायामाजीवस्मृतिसमाधिलक्षणाष्टाङ्गहेतुकं ५०० यदि ब्रूयात्तदापि कथं स्वस्थः ? तयोरहेतुकविनाशाभ्युपगमहिंसकत्वयोरष्टाङ्गहेतुकत्वनिर्वाणवचनयोः ( भा० ) चान्योन्यं विप्रतिषेधात् । सुगतस्य सर्वज्ञत्वेतरवत् ॥५२॥ विरूपकार्यारम्भाय यदि हेतुसमागमः । आश्रयिभ्यामनन्योऽसावविशेषादयुक्तवत् ॥५३॥ विसदृशरूपं विरूपं कार्यम् । तदारम्भाय हिंसाहेतुर्बन्धकस्य मोक्षहेतोश्चाष्टाङ्गस्य सम्यक्त्वादेः समागमो व्यापारो यदि ताथागतैरिष्यते तदासौ हेतुसमागम एवाश्रयो, नाशोत्पादयोः कारणत्वात् । स चाश्रयिभ्यां कार्यरूपाभ्यां नाशोत्पादाभ्यामनन्य एव, न पुनर्भिन्नः, तयोरविशेषादयुक्तवत् । यथैव हि शिंशपात्ववृक्षत्वयोश्चित्रज्ञाननीलादिनिर्भासयोर्वा तादात्म्यमापन्नयोरयुक्तयोः कारणसन्निपातो न भिन्नः सम्भवत्येककारणकलापादेवात्मलाभादन्यथा तादात्म्यविरोधात् । तथैव पूर्वाकारविनाशोत्तराकारोत्पादयोरपि, नीरूपस्य विनाशस्यानिष्टेरुत्तरोत्पादरूपत्वाभ्युपगमात् तयोर्भिन्नकारणत्वे तद्विरोधान्ततान्तरप्रवेशानुषङ्गाच्च । सोऽयं विसदृशकार्योत्पाद अष्टसहस्त्रीतात्पर्यविवरणम् सम्यक्त्वेत्यादि (१) सम्यक्त्वं = बुद्धधर्मश्रद्धा, (२) सञ्ज्ञा = स्त्र्याद्यभिधानं (३) सञ्ज्ञी स्त्र्यादिरेव (४) वाक्कायव्यापारस्तत्कर्म (५) अन्तर्व्यायामो वायुनिरोध: (६) अजीवो जीवाभावो नैरात्म्यमिति यावत् (७) स्मृतिः = पिटकत्रयार्थानुचिन्तनं (८) ध्यानं =समाधिः एतान्यौचित्येन प्रवृत्तिनिवृत्तिद्वाराऽष्टौ निवार्णाङ्गानि सौगतानाम् ॥५२॥ हेतुसमागमः समागतो हेतुः स्वेतरसकलकारणसंभृतमुपादानकारणमिति यावत् । आश्रयिभ्यां=उपादेयत्वेनाधेयाभ्याम्, अनन्यः प्राप्नोतीति शेषः, अयुक्तवद्= Page #99 -------------------------------------------------------------------------- ________________ ५०१ द्वितीयो भागः [ परि० ३-का० ५३] हेतुव्यतिरिक्तहेत्वभावात् पूर्वाकारविनाशस्याहेतुकत्वमुपयन्नाशहेतुव्यतिरिक्तहेत्वभावादुत्तरोत्पादस्याहेतुकत्वं नानुमन्यते इति कथमनाकुलः ? । [विनाशः स्वभावतः एवेति मन्यमाने जैनाचार्या नाशोत्पादौ एकहेतुकौ एव मन्यन्ते ।] (भा०) विसभागसन्तानोत्पादनाय हेतुसन्निधिर्न प्रध्वंसाय, पूर्वस्य स्वरसतो निवृत्तेरिति चेत्, स पुनरुत्तरोत्पादः स्वरसतः किन्न स्यात् ? । तद्धेतोरप्यकिञ्चित्करत्वसमर्थनाद्, (भा०) विनाशहेतुवत् । स्वरसोत्पन्नमपि तदनन्तरभावित्वात्तेन व्यपदिश्यते इति चेदितरत्र समानम् ।। कार्यक्षणवत्पूर्वक्षणप्रध्वंसस्यापि हेत्वनन्तरभावित्वाविशेषात्तेन व्यपदेशोऽस्तु, न वा, कार्यस्यापीत्यविशेषः । __ (भा०) परमार्थतस्तदहेतुकत्वे प्रतिपत्त्रभिप्रायाविशेषेऽपि स्वतःप्रहाणवादी न शक्नोत्यात्मानं न्यायमार्गमनुकारयितुं, तथा वदतस्तस्य न्यायातिक्रमात् । न च निरन्वयविनाशवादिनः सभागविसभागविवेकः श्रेयान्, (भा०) सर्वदा विरूपकार्यत्वात् । कारणस्य कथञ्चिदन्वयापाये सभागप्रत्ययायोगात् । (भा०) सभागविसभागावक्तृप्ति प्रतिपत्त्रभिप्रायवशात्समनुगच्छन् सहेतुकं विनाशं ततः किं नानुजानीयात् ? न च समनन्तरक्षणयोर्नाशोत्पादौ पृथग्भूतौ मिथः स्वाश्रयतो वा यौ समं सहेतुकेतरौ स्तां, प्रतिपत्त्यभिधानभेदेऽपि ग्राह्यग्राहकाकारवत्, स्वभावप्रतिबन्धात् । न हि तयोमिथः कार्यकारणभावः प्रतिबन्धः, समसमयत्वात् नाशोत्पादौ समं यद्वन्नामोन्नामौ तुलान्तयोः इति वचनात् [ ] । - अष्टसहस्त्रीतात्पर्यविवरणम् अपृथक्सिद्धयोर्द्वयोरिव, ततः किं नानुजानीयादिति, ततः प्रतिपत्रभिप्रायवशात्, समनन्तरक्षणयोः=अव्यवहितपूर्वोत्तरक्षणयोः, प्रतिपत्त्यभिधानभेदेऽपीति अयमुत्पादोऽयं च Page #100 -------------------------------------------------------------------------- ________________ ५०२ अष्टसहस्त्रीतात्पर्यविवरणम् नापि स्वाश्रयेण सह कार्यकारणभावः, समनन्तरस्वलक्षणक्षणाभ्यां नाशोत्पादयोरर्थान्तरत्वप्रसङ्गात् । तयोस्तद्धर्मत्वाद्विशेषणविशेष्यभावसम्बन्ध इति चेत्, न, वैशेषिकमतसिद्धेः । कल्पनारोपितत्वात्तयोर्न तत्सिद्धिरिति चेत्, तर्हि पूर्वक्षणविनाशोऽनन्तरक्षणस्वभावस्तदुत्पादश्चेति सिद्धः स्वभावप्रतिबन्धः । न चैवं प्रतिपत्त्यभिधानभेदो विरुद्ध्यते संविदि ग्राह्यग्राहकाकारयोरपि तद्विरोधप्रसङ्गात् । ततस्तद्वत्तयोरभेद एव । (भा०) सञ्ज्ञाच्छन्दमतिस्मृत्यादिवत् सत्यपि भेदे समकालभाविनः कथं सहकारी पुनरन्यतरस्यैव हेतुरहेतुर्वा स्यात्, कार्यरूपादेरिव कारणम् । सञ्ज्ञा हि प्रत्यभिज्ञा, छन्द इच्छा । तेनादिशब्दस्योभयत्र सम्बन्धान्निदर्शनद्वयं वादिद्वयापेक्षयोच्यते । सञ्ज्ञाछन्दादिवन्मतिस्मृत्यादिवच्च क्रमभाविनो शोत्पादयोः सत्यपि भेदे समकालभाविनोस्तयोर्घटकपालाश्रययोरिव सहकारी मुद्गरादिः कथं कपालोत्पादस्यैव हेतुर्न पुनर्घटविनाशस्य, तस्यैव वासौ हेतुर्न तु कपालोत्पादस्य स्यात् ? कार्यरूपादिस्तबकस्यैकसामग्र्यधीनस्य कारणरूपादिस्तबकवत् । यतश्चैवं, (भा० ) तस्मात्कार्यकारणयोरुत्पादविनाशौ न सहेतुकाहेतुको सहभावाद्रसादिवत् । न हि कारणरसादिकलापः कार्यस्य रसस्यैव हेतुर्न पुना रूपादेरिति प्रतीतिरस्ति, यतः साध्यशून्यो दृष्टान्तः स्यात् । नाप्यसहभावो रसादीनां, येन साधनविकलः । पुरुषधिषणाभ्यामनेकान्त इति चेत्, न सौगतानां पुरुषासिद्धेः । – अष्टसहस्रीतात्पर्यविवरणम् - विनाश इति प्रतिपत्तिभेदः, एतदाकार एव चाभिधानभेदः, अर्थाभिधानप्रत्ययास्तुल्यनामधेया इति वचनादिति स्मर्त्तव्यम् । स त्यादि भाष्ये वतिरिवार्थः, तेनायमर्थः सञ्जाछन्दाद्योर्मतिस्मृत्याद्योरिव क्रमभाविनोरुदासीननाशोत्पादयोः सत्यपि भेदे प्रकृतयोः समकालभाविनोर्घटकपालनाशोत्पादयोः रूपरसादिवत्कथञ्चिदभेदात्कथमुपादानसहकारी मुद्गरादिरन्यतरस्य कपालजातस्य हेतुरेवान्यतरस्य घटनाशस्याहेतुरेव च स्यात् ? कारणरूपादिस्तोमाधीनकार्यरूपादिस्तोमवदेकसामग्रयधीनत्वात्तयोः । न च रूपादौ रूपादेरेव हेतुत्वं रसादेस्तु सहभाविनोऽप्यन्यथासिद्धत्वादेवाहेतुत्वं तद्वदत्रापि कपालोत्पाद एव मुद्गरादेर्हेतुत्वं न तु घटनाशेऽन्यथासिद्धत्वादित्यपि वक्तुं शक्यम्, रसादौ नियतोपस्थिति Page #101 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि०३-का० ५३] ५०३ स्याद्वादिनां तु तस्यापि सहेतुकत्वात् पर्यायार्थतो धिषणावत्, द्रव्यार्थतोऽहेतुकत्वाच्च धिषणायाः पुरुषवन्न ताभ्यां हेतोर्व्यभिचारिता कारणानन्तरं सहभावात् इति प्रकरणसामर्थ्यात्सविशेषणस्य सहभावस्य हेतुत्वाद्वा न व्यभिचार: स्यात् । न चैवमसिद्धं साधनं, मुद्गरादिव्यापारानन्तरं कार्योत्पादवत् कारणविनाशस्यापि प्रतीतेः, विनष्टो घट उत्पन्नानि कपालानीति व्यवहारद्वयसद्भावात् । ततः कार्योत्पादवत्कारणविनाशः सहेतुक एवाभ्युपेयः । ननु हेतोर्न (भा०) तस्य किञ्चिद्भवति, न भवत्येव केवलमिति चेत् तर्हि कारणात्कार्यस्य न किञ्चिद्भवति । (भा०) भवत्येव केवलमिति समानं, विनाशवदुत्पादस्यापि निर्हेतुकत्वापत्तेः । (भा० ) तस्मादयं विनाशहेतुर्भावमभावीकरोतीति न पुनरकिञ्चित्करः । कार्योत्पत्तिरहेतुर्वा यद्यभावं न भावीकुर्याद् भावं करोतीति कृतस्य करणायोगादकिञ्चित्करः स्यात्, सर्वथा भावं भावीकुर्वतो व्यापारवैफल्यात् । (भा०) तदतत्करणादिविकल्पसंहतिरुभयत्र सदृशी । [विनाशोत्पादौ घटाद् भिन्नौ अभिन्नौ वेति विचार्यते] यथैव हि विनाशहेतोः कुटस्य तदभिन्नविनाशकरणे तत्करणादकिञ्चित्करत्वं, तद्भिन्नविनाशकरणे च तदुपलम्भप्रसक्तिः । तथोत्पादहेतो वादभिन्नोत्पादकरणेऽप्यकिञ्चित्करता, सतः करणायोगात् । सर्वथाप्यसतो भावादभिन्नस्योत्पादस्य करणेऽपि न किञ्चित् कृतं स्यात् खपुष्पसौरभवत् । सतोऽसतो वार्थान्तरस्य जन्मनः करणे तु न सदसद्वा कृतं स्यात् । एतेन प्रागसतोऽनर्थान्तरस्यार्थान्तरस्य चोत्पादस्य अष्टसहस्रीतात्पर्यविवरणम् करूपादिनाऽन्यथासिद्धिसम्भवेऽप्यत्राविनिगमेन तदसम्भवात् । कारणानन्तरं सहभावादितीति इतिः प्रयोगाकारोपदर्शनार्थः अनेन प्रयोगेणेत्यर्थः । सविशेषणस्य कारणानन्तर्यविशेषणविशिष्टस्य, हेतुत्वात् =हेतुत्वेनोपन्यासात्, कार्योत्पत्तिहेतुर्वेति यथा Page #102 -------------------------------------------------------------------------- ________________ ५०४ अष्टसहस्त्रीतात्पर्यविवरणम् हेतुना करणे तस्याकिञ्चित्करत्वमुपदर्शितं प्रतिपत्तव्यं, प्रागसतोऽनन्यस्य सत्त्वायोगात्, ततोऽन्यस्य सत एव करणे वैफल्यात् । ततो यदि न विनाशार्थो हेतुसमागमस्तदोत्पादार्थोऽपि मा भूत्, सर्वथा विशेषाभावात् ॥५३॥ किञ्च क्षणिकैकान्तवादिनां परमाणवः क्षणा उत्पद्यन्ते स्कन्धसन्ततयो वा ? प्रथमपक्षे स्थाप्यस्थापकविनाश्यविनाशकभाववद्धेतुफलभावविरोधात्कुतः सहेतुको - त्पत्तिरहेतुका वा ? स्थितिविनाशवत् । द्वितीयपक्षे तु स्कन्धसन्ततयश्चैव संवृतित्वादसंस्कृताः । स्थित्युत्पत्तिव्ययास्तेषां न स्युः खरविषाणवत् ॥५४॥ साध्याभावासम्भूष्णुताविरहाद्धेतोरन्यथानुपपत्तिरनिश्चितेति न मन्तव्यं, साध्याभावे तदभावप्रसिद्धेः सौगतस्य । तथा हि [बौद्धाभिमतपञ्चस्कन्धाः अवास्तविका एव ।] (भा०) रूपवेदनाविज्ञानसञ्ज्ञासंस्कारस्कन्धसन्ततयोऽसंस्कृताः संवृतित्वात्, यत्पुनः संस्कृतं तत्परमार्थसत्, यथा स्वलक्षणं, न तथा स्कन्ध सन्ततयः इति साध्यव्यावृत्तौ हेतोर्व्यावृत्तिनिश्चयात् । खरविषाणादौ सांवृतत्वस्यासंस्कृतत्वेन व्याप्तस्य प्रतिपत्तेः सिद्धान्यथानुपपत्तिः । [अवास्तविकस्कन्धेषु उत्पादादित्रयं न घटते ] (भा०) ततः स्थित्युत्पत्तिविपत्तिरहिताः प्रतिपाद्यन्ते । तथा हि-स्कन्धसन्ततयः स्थित्युत्पत्तिविपत्तिरहिता एवासंस्कृतत्वात् खरविषाणवत् । क्षणं स्थित्युत्पत्तिविपत्तिसहितस्य स्वलक्षणस्य संस्कृतत्वोपगमादन्यथानुपपत्तिसिद्धिः साधनस्य प्रत्येया । स्याद्वादिनामपि अष्टसहस्त्रीतात्पर्यविवरणम् कार्योत्पत्तिहेतुरभावं भावीकरोति न पुनरकिञ्चित्करस्तथा विनाशहेतुर्भावमभावीकरोति न पुनरकिञ्चित्कर इत्यर्थः । इदं तु ध्येयम् भेदाभेदनियतश्चिप्रत्ययार्थः स्याद्वाद एव युज्यते Page #103 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि० ३-का० ५५] ५०५ स्थित्युत्पत्तिविपत्तिमतः कथञ्चित् संस्कृतत्वसिद्धेर्न व्यभिचारः । सर्वथा स्थितिमतोऽसंस्कृतस्य च कस्यचिद्वस्तुनोऽनुपपत्तेश्च निरवद्योऽयं हेतुः । (भा०) ततो विसभागसन्तानोत्पत्तये विनाशहेतुरिति पोप्लूयते । रूपादिस्कन्धसन्ततेरुत्पत्तिनिषेधात् तद्विनाशस्यापि खरविषाणवदसम्भवात् । तथा हि-स्कन्धसन्ततयो विनाशरहिताः स्थित्युत्पत्तिरहितत्वात् । यत् पुनर्विनाशसहितं तन्न स्थित्युत्पत्तिरहितं, यथा स्वलक्षणम् । न तथा स्कन्धसन्ततयः । इति स्थित्युत्पत्तिव्यया न स्युस्तेषां स्कन्धानां खरविषाणवत् । तदभावे विरूपकार्यारम्भाय हेतुसमागम इति कथं न सुतरां प्लवते ? ततो न क्षणिकैकान्तः श्रेयान्नित्यैकान्तवत्सर्वथा विचारासहत्वात् ॥५४॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥५५॥ (भा०) नित्यत्वेतरैकान्तद्वयमप्ययुक्तमङ्गीकर्तुं, विरोधाद्युगपज्जीवितमरणवत् । तादात्म्ये हि नित्यत्वानित्यत्वयोनित्यत्वमेव स्यादनित्यत्वमेव वा । तथा च - अष्टसहस्त्रीतात्पर्यविवरणम् नान्यथेति ॥५३॥ स्थाप्यस्थापकेत्यादि यथा परमाणूनां स्थाप्यस्थापकभावादिविरुध्यते तथा हेतुफलभावोऽप्यनन्वयेन कल्पनामात्रे विश्रामात्, तच्चेदं पूर्वक्षणः स्थापक उत्तरक्षणः स्थाप्य उत्तरक्षणो विनाशक: पूर्वक्षणो विनाश्य इति । असंस्कृता उत्पत्तिरहिताः । रूपेत्यादि रूपरसगन्धस्पर्शपरमाणवः सजातीयव्यावृत्ताः परस्परासम्बद्धा रूपस्कन्धाः, सुखदुःखादयो वेदनास्कन्धाः, सविकल्पनिर्विकल्पज्ञानादयो विज्ञानस्कन्धाः, वृक्षादिनामानि सज्ञास्कन्धाः, ज्ञानपुण्यपापवासनाः संस्कारस्कन्धाः । स्कन्धसन्ततय इत्यादि न चेदमनुमान कारिकाऽसूचितत्वेनाधिकम्, परार्द्धनास्य प्रसङ्गानुमानतया व्यक्तमुक्तत्वादित्यवधेयम् ॥५४|| विरोधान्नोभयैकात्म्यमित्यादि प्रागुक्तदिशा व्यक्तार्थम् ॥५५॥ Page #104 -------------------------------------------------------------------------- ________________ ५०६ अष्टसहस्त्रीतात्पर्यविवरणम् नोभयैकात्म्यं, विप्रतिषेधात् । (भा०) नित्यत्वानित्यत्वाभ्यामत एवानभिलाप्यमित्ययुक्तं, तदेकान्तेऽनभिलाप्योक्तेरनुपपत्तेः । सर्वथानभिलाप्यं तत्त्वमित्यभिलपत एव वचनविरोधात् सदा मौनव्रतिकोऽहमित्यादिवत् ॥५५॥ तदेवं नित्यत्वाद्येकान्तानुपपत्तौ सामर्थ्यात्तदनेकान्तसिद्धिप्रतिपादनेऽपि तत्त्वोपप्लववादिदुराशयविनाशनाय तत्प्रतिपत्तिदाढाय च स्याद्वादिवादन्यायानुसरणेन नित्यत्वाद्यनेकान्तमुपदर्शयन्ति सूरयः - नित्यं तत्प्रत्यभिज्ञानान्नाकस्मात्तदविच्छिदा । क्षणिकं कालभेदात्ते बुद्ध्यसञ्चरदोषतः ॥५६॥ ते भगवतोऽर्हतः स्याद्वादन्यायनायकस्य सर्वं जीवादितत्त्वं स्यान्नित्यमेव प्रत्यभिज्ञायमानत्वात् । नाकस्मात्तत्प्रत्यभिज्ञानं तस्याविच्छेदेनानुभवात् । निर्विषयं हि प्रत्यभिज्ञानमकस्मादिति प्रसिद्धम् । यथा तादृशे तदेवेतदिति, तत्रैव वा तादृशमिदमिति भ्रान्तं प्रत्यभिज्ञानम् । न चैवं जीवादितत्त्वे प्रत्यभिज्ञानं, बाधकभावात्तदविच्छेदात् । प्रत्यक्षं बाधकमिति चेत्, न तस्य वर्तमानपर्यायात्मक अष्टसहस्त्रीतात्पर्यविवरणम् नित्यमित्यादि ते=तव मते, तज्जीवाजीवाद्यधिकृतं वस्तु, नित्यं स्यान्नित्यमेव, कस्मात् ? प्रत्यभिज्ञानात् तदेवेदमिति प्रत्यभिज्ञायमानत्वात् । न च ध्वंसाप्रतियोगित्वे साध्ये घटादौ व्यभिचारोऽक्षणिकत्वे साध्ये चोद्देश्यासिद्धिरिति वाच्यम्, तदेतत्कालवृत्तिध्वंसाप्रतियोगित्वस्य साध्यत्वे दोषाभावात्, स्यान्नित्यत्वस्य तद्धर्मावच्छिन्नस्यात्रैव पर्यवसानादिति बोध्यम् । तत्=प्रत्यभिज्ञानम्, अकस्मान्निविषयं न, कुतः ? तदविच्छिदा विच्छेदनं विच्छित्, न विच्छिदविच्छित् तया, अभेदरूपाविच्छेदानुभवादित्यर्थः । विपर्यये इत्यध्याहार्यम् । विपर्यये स्यान्नित्यत्वाऽभावे, बुद्ध्यसञ्चरदोषतो अनुभवपरिणतस्यात्मनः स्मृतिपरिणामरूपैकत्वगमनानापत्तेः, क्षणिकस्य क्रमिकोभयपरिणामानाधारत्वादिति भावः । Page #105 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि०३-का. ५६] ५०७ वस्तुविषयत्वात्, पूर्वापरपर्यायव्याप्येकत्वलक्षणे प्रत्यभिज्ञानविषये प्रवृत्त्यभावात् । न च स्वस्याविषये किञ्चिद् बाधकं साधकं वा श्रोत्रज्ञानविषये चक्षुर्ज्ञानवत् । तत एव नानुमानं, तस्यान्यापोहमात्रगोचरत्वात्तत्रैव साधकबाधकत्वोपपत्तेः । प्रमाणान्तरं तु नानुमानादप्रत्यक्षमिष्यते क्षणिकवादिभिर्यत्प्रत्यभिज्ञानस्य बाधकं स्यात् इति सत्यप्रत्यभिज्ञानमेव वितथप्रत्यभिज्ञानस्य बाधकम् । [बौद्ध एकत्वप्रत्यभिज्ञानं न मन्यते किन्तु जैनाचार्याः तत् साधयन्ति ।] सादृश्यप्रत्यभिज्ञानं सम्यगेवास्य जीवादावेकत्वप्रत्यभिज्ञानस्यानाद्यविद्योदयापादितस्य भ्रान्तस्य बाधकमिति चेत्, न अस्य भ्रान्तत्वासिद्धेः, सदृशापरापरोत्पत्त्यनिश्चात् । ननु च यत्सत्तत्सर्वं क्षणिकमक्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधात्सत्त्वानुपपत्तेरित्यनुमानान्निरन्वयविनाशित्वसिद्धर्जीवादिक्षणानामेकत्वासम्भवात् । सादृश्यप्रत्यभिज्ञानविषयत्वोपपत्ते भ्रन्तिमेव तत्रैकत्वप्रत्यभिज्ञानं सिद्धमविसंवादाभावादिति चेत्, न, अस्यानुमानस्य विरुद्धत्वात् । तथा हि यत्सत् तत्सर्वं कथञ्चिन्नित्यं, सर्वथा क्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधात्सत्त्वानुपपत्तेरिति । अत्र न तावद्धतोरनैकान्तिकत्वं, सर्वथा नित्यत्वे सत्त्वस्याभावात् सर्वथा क्षणिकत्ववत् । तदभावश्च क्रमाक्रमानुपपत्तेः । तदनुपपत्तिश्च पूर्वापरस्वभावत्यागोपादानान्वितरूपाभावात् सकृदनेकशक्त्यात्मकत्वाभावाच्च । न हि अष्टसहस्रीतात्पर्यविवरणम् एवं तत्तेदन्तापरिणतबुद्धिविषयैक्यानुपपत्तेविपर्यये विषयतोऽपि बुद्ध्यसञ्चरदोषापत्ति र्व्याख्येया । तथा ते तव मते, जीवाजीवादिवस्तु कथञ्चित् क्षणिकं प्रत्यभिज्ञायमानत्वात्, न च प्रत्यभिज्ञानमाकस्मिकं, तत्तेदन्तापरिणामद्वयोपरागेणाविच्छेदानुभवात्, सर्वथैक्यस्य विषयत्वे स स इत्यापत्तेः, स्थूलकालभिन्नाभेदभाने च क्षणभिन्नधर्माभेदभानस्याप्यर्थतः सिद्धत्वात्, भिन्नकालयोर्धर्मयोरेकत्र धर्मिणि तादात्म्येन भाने तयोमिथोऽपि स्वावच्छेदककालान्यकालवृत्तित्वसम्बन्धेनान्वयादिति भावः । न चात्राप्रयोजकत्वं, कथञ्चित्क्षणिकत्वाभावे दर्शनस्मरणबुद्ध्योः पूर्वोत्तरपर्यायाप्रवृत्त्याऽसञ्चरणदोषापत्तेः । क्षणिकधर्माभिन्नत्वाच्च धर्मिणोऽपि क्षणिकत्वं कथञ्चिदविरुद्धमेव । वस्तुतः क्षणसम्बन्धस्य क्षणे वस्तुनि च लाघवादेकस्यैव कल्पनात् सिद्धमनायासेन सर्वत्र क्षणिकत्वमिति पत्रावलम्बने प्रदर्शयिष्यामः । प्रमाणान्तरं नानुमानादप्रत्यक्षमिष्यते क्षणिकवादिभिरिति अनुमानभिन्न Page #106 -------------------------------------------------------------------------- ________________ ५०८ अष्टसहस्त्रीतात्पर्यविवरणम् कूटस्थेऽर्थे पूर्वोत्तरस्वभावत्यागोपादाने स्तः, क्षणिके वान्वितं रूपमस्ति, यतः क्रमः कालकृतो देशकृतो वा स्यात् । नापि युगपदनेकस्वभावत्वं, यतो यौगपद्यं, कौटस्थ्यविरोधान्निरन्वयक्षणिकत्वव्याघाताच्च । सहकारिक्रमाक्रमापेक्षया तत्र क्रमयोगपद्यकल्पनापि न साधीयसी स्वयं तदपेक्षा, क्रमेतरस्वभावत्वाभावे तदनुपपत्तेः । तत्कार्याणां तदपेक्षा, न पुननित्यस्य क्षणिकस्य वेत्यपि न श्रेयान्, तेषां तदकार्यत्वप्रसङ्गात् । तत्सहितेभ्यः सहकारिभ्यः कार्याणामुत्पत्तेरन्यथानुत्पत्तेस्तत्कार्यत्वनिर्णय इति चेत्, तर्हि येन स्वभावेनैकेन सहकारिणा सहभावस्तेनैव सर्वसहकारिणा यदि तस्य स्यात्तदैककार्यकरणे सर्वकार्यकरणात्क्रमकार्यानुपपत्तिः, सहकार्यन्तराभावेऽपि च तत्सहभावात्सकृदेव सकलकार्योत्पत्तिः प्रसज्येत । स्वभावान्तरैः सह कार्यान्तरसहभावे तस्य क्रमाक्रमवृत्त्यनेकस्वभावत्वसिद्धेः कुतो नित्यमेकस्वभावं क्षणिकं वा वस्तु क्रमयोगपद्ययोर्व्यापकं स्यात् ? कथञ्चिन्नित्यस्यैव क्रमाक्रमानेकस्वभावस्य तद्व्यापकत्वप्रतीतेः । एतेन विपक्षे हेतोर्बाधकस्य व्यापकानुपलम्भस्य व्यतिरेकनिश्चयः कथञ्चिन्नित्ये प्रत्यक्षप्रवृत्तेः प्रदर्शितः प्रत्येयः । ततः सत्त्वं कथञ्चिन्नित्यमेव साधयतीति विरुद्धत्वान्न प्रत्यभिज्ञानविषयस्यैकत्वस्यापहारकं, येन सादृश्यविषयत्वात्तस्य बाधकं सिद्ध्यद् भ्रान्ततां साधयेत् । [बौद्धः प्रत्यभिज्ञानं पृथक् प्रमाणं न मन्यते किन्तु जैनाचार्याः तत्साधयन्ति ।] ननु चेदं प्रत्यभिज्ञानं नैकं प्रमाणं, तदित्युल्लेखस्य प्रत्ययस्य स्मरणत्वादिदमित्युल्लेखस्य च प्रत्यक्षत्वात् । न चैताभ्यां प्रत्ययविशेषाभ्यामतीतवर्तमानविशेषमात्रगोचराभ्यामन्यत् संवेदनमेकत्वपरामर्शि समनुभूयते, यत्प्रत्यभिज्ञानं नाम - अष्टसहस्त्रीतात्पर्यविवरणम् - प्रमाणन्त्वप्रत्यक्षं क्षणिकवादिभिर्नेष्यते इत्यर्थः । यद्यपि प्रमाणान्तरमित्यत एव प्रकृतबुद्धिविषयतावच्छेदकावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन प्रमाणप्रतियोगिकभेदवत्प्रमाणमित्युक्तार्थो लभ्यत एव, न तदर्थं विशिष्य प्रतियोगितावच्छेदकावच्छिन्नवाचकपदमपेक्ष्यते, नीलो घटोऽस्ति न घटान्तरमित्यादौ तथा दर्शनात्, तथापि अनुमानादिति स्पष्टार्थमिति मन्तव्यम् । नापि युगपदनेकस्वभावत्वमिति नित्ये क्षणिके चेति गम्यम् । यतो यौगपद्यमित्यनन्तरं स्यादिति शेषः । कौटस्थ्यविरोधादिति, यद्यपि क्रमभाविपूर्वापरस्वभावत्यागोपादाननियतः कोटस्थ्यविरोधो न युगपदनेकस्वभावत्वे, तथापि युगपदेकस्यानेक Page #107 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० ३ - का० ५६ ] ५०९ प्रमाणं स्यान्नित्यत्वस्य साधकम् अतः स्वरूपासिद्धो हेतुरिति कश्चित् सोऽपि प्रतीत्यपलापी, पूर्वोत्तरविवर्तस्मरणदर्शनाभ्यामुपजनितस्य तदेकत्वसङ्कलनज्ञानस्य प्रत्यभिज्ञानत्वेन संवेद्यमानस्य सुप्रतीतत्वात् । न हि स्मरणमेव पूर्वोत्तरविवर्तयोरेकत्वं सङ्कलयितुमलम् । नापि दर्शनमेव । तदुभयसंस्कारजनितं विकल्पज्ञानं तत् सङ्कलयतीति चेत्, तदेव प्रत्यभिज्ञानं सिद्धम् । न च तदकस्मादेव भवतीति निर्विषयं, बुद्ध्यसञ्चरदोषात् । न हि प्रत्यभिज्ञानविषयस्याविच्छिन्नस्य नित्यत्वस्याभावो बुद्धेः सञ्चरणं नाम, निरन्वयविनाशाद् बुद्ध्यन्तरजननानुपपत्तेः, यदेवाहमद्राक्षं तदेव स्पृशामीति पूर्वोत्तरपरिणामयोरेकद्रव्यात्मकत्वेन गमनासम्भवात्, ततोऽन्यस्य बुद्धिसञ्चरणस्येहाप्रस्तुतत्वात् । तथाविधैकत्ववासनावशाद् बुद्धिसञ्चरणं न पुनः कथञ्चिन्नित्यत्वादिति चेत्, न कथञ्चिन्नित्यत्वाभावे संवेदनयोर्वास्यवासकभावायोगात्कार्यकारणभावविरोधात् । ततो बुद्धिसञ्चरणान्यथानुपपत्तेर्नाकस्मिकं प्रत्यभिज्ञानं विच्छेदाभावाच्च । इति कथञ्चिन्नित्यं वस्तु प्रसाधयति । तथा सर्वं जीवादि वस्तु कथञ्चिद् क्षणिकं, प्रत्यभिज्ञानात् । न चैतत् क्षणिकत्वमन्तरेण भवतीत्यकस्मादुपजायते, तद्विषयस्य कथञ्चित्क्षणिकस्य विच्छिदभावात् । न च तदविच्छिदसिद्धा, कालभेदात्, कालभेदस्य च पूर्वोत्तरपर्यायप्रवृत्तिहेतोरसिद्धौ बुद्ध्यसञ्चरणदोषात् । न च तदिदमिति स्मरणदर्शनबुद्ध्योः सञ्चरणापाये प्रत्यभिज्ञानमुदियात्, तस्य पूर्वापरपर्यायबुद्धिसञ्चरणनिबन्धनत्वात् । [ साङ्ख्यः सर्वथा नित्यपक्षे एव प्रत्यभिज्ञानं मन्यते किन्तु जैनाचार्याः कथञ्चित्क्षणिके मन्यते ।] ननु च सर्वं नित्यं सत्त्वात् क्षणिके स्वसदसत्समयेऽर्थक्रियानुपपत्तेः सत्त्वविरोधाद्, इत्यनुमानात् क्षणिकत्वस्य निराकृतेर्न प्रत्यभिज्ञानं तत्साधकं, अष्टसहस्त्रीतात्पर्यविवरणम् स्वभावव्यापित्वाविरोधवत् क्रमेणापि तस्य तत्प्राप्तौ कौटस्थ्यं विरुध्यत एवेति द्रष्टव्यम् । इयमेव दिग् निरन्वयक्षणिकत्वव्याघातेऽपि । तदुभयसंस्कारजनितमिति न च संस्कारजन्यत्वे प्रत्यभिज्ञानस्य ततस्तत्तोल्लेख एव स्यान्नेदन्तोल्लेख इति शङ्कनीयम्, उल्लेखविशेषे विषयताविशेषस्यैव प्रयोजकत्वाद् वह्निपर्वतयोरनुमिनोमि नानुमिनोमीतिवदिति द्रष्टव्यम् । Page #108 -------------------------------------------------------------------------- ________________ ५१० अष्टसहस्त्रीतात्पर्यविवरणम् प्रधानलक्षणविषयाविच्छेदसद्भावात् कालभेदासिद्धेर्बुद्ध्यसञ्चरणदोषानवकाशाद् बुद्धेरेकत्वगमनस्य सञ्चरणस्य सिद्धेरिति चेत्, न, सर्वथा क्षणिकत्वस्यैव बाधनात. कथञ्चित्क्षणिकस्य स्वसत्समये स्वासत्समये चार्थक्रियोपलब्धेः । सुवर्णस्य हि प्रतिविशिष्टस्य सुवर्णद्रव्यतया सत एव, कार्याकारतया चासत एव पूर्वपर्यायाविशिष्टस्योत्तरपरिणामविशेषात्मनोत्पद्यमानस्य प्रतीतिः परीक्षकेतरजनसाक्षिका, स्वसत्समये कार्यकारणं सव्यगोविषाणस्येतरविषाणकरणवन्निरस्यमानं, स्वासत्समये च मृतस्य शिखिनः केकायितकरणवदपाक्रियमाणं स्वयमेव व्यवस्थापयति, इति किं नश्चिन्तया ? विरोधादिदूषणस्यापि तयैवापसारितत्वात् । सोऽयमात्मादीनां स्वसत्समये एव कर्मादीनां च स्वासत्समये एव ज्ञानसंयोगादिकारणत्वमनुमन्यमानस्तथा सम्प्रत्ययादेकस्य स्वसदसत्समये एवैककार्यकरणं विरोधादिभिरभिद्रवतीति कथं सम्प्रत्ययोपाध्यायः ? सम्यक्प्रतीयमानेऽपि विरोधमनुरुध्यमानः क्व पुनरविरोधं बुध्येत ? द्रव्यपर्याययोरभेदैकान्तप्रतीतिं स्वसमयानुरागमात्रेणाननुभूयमानामप्यविरुद्धविषयां परिभाषते इति किमन्यत्कारणं महतोऽभिनिवेशात् ? तदेवं कथञ्चित् क्षणिकत्वसाधने प्रत्यभिज्ञानं नानुमानविरुद्धम् । नापि प्रत्यक्षविरुद्धं सर्वस्येदानीन्ततया प्रत्यक्षेणानुभवात्, तेन तस्यातीतानागततयानुभवनेऽनाद्यनन्तपरिणामात्मकस्यानुभवप्रसङ्गाद्योगित्वापत्तेः, साम्प्रतिकतयानुभवस्यैव क्षणिकत्वानुभवरूपत्वात्, क्षणमात्रस्यैव साम्प्रतिकत्वोपपत्तेः, पूर्वोत्तरक्षणयोः साम्प्रतिकत्वेऽनाद्यनन्तक्षणसन्ततेरपि साम्प्रतिकत्वानुषङ्गादतीतानागतव्यवहारविलोपात् । न चैवं क्षणिकैकान्तस्य प्रत्यक्षतः प्रसिद्धः कथञ्चिदक्षणिकत्वविरोधः, पर्यायाकारतयार्थस्येदानीन्तनतयानुभवविच्छेदेऽपि द्रव्यतया तदविच्छेदात्, तद्विच्छेदे द्रव्यत्वविरोधात् । शश्वदविच्छिन्नेदानीन्तनत्वस्य द्रव्यत्वादनित्यत्वैकान्तस्याव्यवस्थितेनित्यत्वैकान्तवत् । (भा०) तदेकान्तद्वयेऽपि परामर्शप्रत्ययानुपपत्तेरनेकान्तः । – अष्टसहस्त्रीतात्पर्यविवरणम् कथं सम्प्रत्ययोपाध्यायः कथं विश्वासगुरुः ? न कथञ्चित्, प्रत्येकाविरोधवत् समुदायाविरोधस्यानुभवसाक्षित्वादिति भावः । इदानीन्तनतयेति, न च क्षणस्यायोग्यतया प्रत्यक्षे भानायोगः, सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना (मीमांसाश्लोकवार्तिक-८४) इति वचनादिति वाच्यम्, योग्योपसर्जनतयाऽयोग्यस्यापि वर्तमानक्षणस्य क्षयोपशमोपनीतस्य प्रत्यक्षे भानाविरोधात्, संसर्गतया वाऽस्तु तद्भानाविरोध इति दिग् । योगित्वापत्तिः तत्प्रत्यक्षस्य Page #109 -------------------------------------------------------------------------- ________________ ५११ द्वितीयो भागः [परि०३-का० ५६] स्यान्नित्यमेव सर्वं स्यादनित्यमेवेति सिद्धः । [स्थित्यभावे प्रत्यभिज्ञानं न सम्भवति ।] (भा०) स्थित्यभावे हि प्रमातुरन्येन दृष्टं नापरः प्रत्यभिज्ञातुमर्हति । पूर्वोत्तरप्रमातृक्षणयोः कार्यकारणभावलक्षणे (भा०) सम्बन्धविशेषेऽपि पित्रेव दृष्टं पुत्रो न प्रत्यभिज्ञातुमर्हति । तयोरुपादानोपादेयलक्षणः (भा०) सन्नप्यतिशयः पृथक्त्वं न निराकरोति पृथक्त्वे च पूर्वापरक्षणयोः प्रत्यवमर्शो न स्यात् । यदेव हि पृथक्त्वं (भा०) तदेवान्यत्रापि प्रत्यवमर्शाभावनिबन्धनं, सर्वत्र तदविशेषात् । यदि पुनरेकसन्ततिपतितेषु प्रत्यवमर्शो न पुनर्नानासन्ततिपतितेषु पृथक्त्वाविशेषेऽपि वासनाविशेषसद्भावादिति मतं तदा सैवैकसन्ततिः क्वचिदेव कुतः सिद्धा ? प्रत्यभिज्ञानादिति चेत्, तहि । (भा० ) एकसन्तत्या प्रत्यभिज्ञानं प्रत्यभिज्ञानबलाच्चैकसन्ततिरिति व्यक्तमितरेतराश्रयणमेतत् । न च पक्षान्तरे समानं, स्थितेरनुभवनात् । न ह्येकद्रव्यसिद्धेः प्रत्यभिज्ञानं प्रत्यभिज्ञानाच्चैकद्रव्यसिद्धिः स्याद्वादिभिरिष्यते, येन तत्पक्षेऽपि परस्पराश्रयणं, भेदज्ञानाद् भेदसिद्धिवदभेदज्ञानात् स्थितेरनुभवाभ्युपगमात् ।। (भा०) तद्विभ्रमकल्पनायामुत्पादविनाशयोरनाश्वासः, तथानुभवनिर्णयानुपलब्धेर्यथा स्वलक्षणं परिगीयते । सोऽयं प्रतिक्षणमुत्पादविनाशौ सर्वथा स्थितिरहितौ सकृदप्यनिश्चिन्वन्नेव स्थित्यनुभवनिर्णयं विभ्रान्तं कल्पयतीति कथं न निरात्मक एव ? [नित्यैकान्तपक्षेऽपि प्रत्यभिज्ञानं न सम्भवति] (भा० ) तत्रैतस्त्यात् स्वभावाविनिर्भागेऽपि न सङ्कलनं दर्शनक्षणान्तरवत् । Page #110 -------------------------------------------------------------------------- ________________ ५१२ अष्टसहस्त्रीतात्पर्यविवरणम् न ह्येकस्मिन्दर्शनविषये क्षणेऽविनिर्भागेऽपि प्रत्यभिज्ञानमस्तीति । (भा०) सत्यमेकान्ते एवायं दोषः, सर्वथा नित्ये पौर्वापर्यायोगात् प्रत्यभिज्ञानासम्भवात् । (भा० ) ततः क्षणिकं कालभेदात् । न चायमसिद्धः, (भा०) दर्शनप्रत्यभिज्ञानसमययोरभेदे तदुभयाभावप्रसङ्गात् । दर्शनसमयस्याभेदे तन्निर्णयानुपपत्तेः, प्रत्यभिज्ञानसमयस्याभेदे पूर्वापरपर्यायव्याप्येकद्रव्यप्रत्यवमर्शासम्भवात् । ततो दर्शनकालोऽवग्रहेहावायधारणात्मकनिर्णयहेतुर्भिन्न एव, प्रत्यभिज्ञानकालश्च पुनस्तदर्शनस्मरणसङ्कलनहेतुरिति प्रतिपत्तव्यम् । (भा०) किञ्च पक्षद्वयेऽपि ज्ञानासञ्चारानुषङ्गादनेकान्तसिद्धिः । न हि नित्यत्वैकान्तपक्षवत्क्षणिकैकान्तपक्षेऽपि ज्ञानसञ्चारोऽस्ति, तस्यानेकान्ते एव प्रतीतेः । केवलम् (भा०) अपोद्धारकल्पनया कथञ्चिज्जात्यन्तरेऽपि वस्तुनि प्रत्यभिज्ञानादिनिबन्धने स्थित्यादयो व्यवस्थाप्येरन् । सर्वथा जात्यन्तरे तदपोद्धारकल्पनानुपपत्तेः स्थित्यादिस्वभावभेदव्यवस्थानाघटनात्, सर्वथा तदजात्यन्तरवत् । - अष्टसहस्त्रीतात्पर्यविवरणम् योगिप्रत्यक्षत्वापत्तिः । ततः क्षणिकं कालभेदादिति नानाक्षणसम्बन्धभेदादित्यर्थः । अपोद्धारकल्पनयेति अपोद्धारकल्पना तत्तन्निमित्तभेदविवेचनं, कथञ्चिज्जात्यन्तरे= सखण्डधर्मतादात्म्यसहिष्णावखण्डपदार्थे । सर्वथा जात्यन्तरे सर्वथा नित्ये सर्वथाऽनित्ये च परस्परनिरपेक्षे । अशक्यविवेचनत्वस्यैकत्वनिबन्धनत्वेऽतिप्रसङ्गमाशङ्कते-न चेत्यादिना Page #111 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि. ३-का. ५६] ५१३ [एकस्मिन् वस्तुनि उत्पादादित्रयेण स्वभावभेदे सत्यपि नानात्वविरोधादिदोषा न सम्भवन्ति ।] (भा०) न च स्वभावभेदोपलम्भेऽपि नानात्वविरोधसङ्करानवस्थानुषङ्गश्चेतसि ग्राह्यग्राहकाकारवत् । न ह्येकस्य वस्तुनः सकृदनेकस्वभावोपलम्भे नानात्वप्रसङ्गः, संविद्वेद्यवेदकाकाराणां नानाज्ञानत्वप्रसङ्गात् । तेषामशक्यविवेचनत्वादेकज्ञानत्वे स्थितिजन्मविनाशानामपि क्वचिदेकवस्तुत्वमस्तु, तदविशेषात् । क्वचिदेकत्र रूपरसादीनामप्यशक्यविवेचनानामेकवस्तुत्वापत्तिर्नानिष्टकारिणी, तेषां नानावस्तुत्वानिष्टेः । न चात्माकाशादीनां देशाभेदेऽप्यशक्यविवेचनत्वं, तेषां परैकद्रव्यतादात्म्याभावात् । सत्तैकद्रव्यतादात्म्ये पुनरेकवस्तुत्वमिष्टमेव स्याद्वादिनाम् । ___ एकं द्रव्यमनन्तपर्यायम् इति वचनात् [ ] । ततो न वैयधिकरण्यम् । एतेनोभयदोषप्रसङ्गोऽपास्तो, वेद्याद्याकारात्मबोधवदुत्पादाद्यात्मवस्तुनो जात्यन्तरत्वात्, अचौरपारदारिकवच्चौरपारदारिकाभ्याम् । न चैवं विरोधप्रसङ्गः, तस्यानुपलम्भसाधनादेकत्रैकदा शीतोष्णस्पर्शवत्, स्थित्यादिषु चोपलम्भसद्भावादेकवस्तुन्येकदानुपलम्भासिद्धेः संविदि वेद्याद्याकारवत् । एतेन संशयप्रसङ्गः प्रत्युक्तः, अष्टसहस्त्रीतात्पर्यविवरणम् - अशक्यविवेचनत्वं तत्रासिद्धम्, आश्रयभेदेन विवेचनशक्तेरित्युत्तरयति-तेषामित्यादिना तत्रैकद्रव्यमित्यन्तेन । सदाद्यात्मनाऽऽकाशादीनां तादात्म्याश्रयणे तु सङ्ग्रहनयार्पणया देशाभेदेनैकद्रव्यत्वमिष्टमेवेत्याह-तादात्म्ये पुनरित्यादिना इदं तु ध्येयम्, सत्त्वादिनात्माकाशादीनामेकत्वं यद्यपि एकजातीयत्वव्यवहारनिबन्धनं, न त्वेकद्रव्यत्वव्यवहारनिबन्धनं, घटादिपर्याये मृदादौ सत्त्वादिनैकद्रव्यत्वानिष्टेः, तथापि सत्त्वादिपर्याये द्रव्यत्वेनैवोर्ध्वतासामान्यत्वात्सदात्मनैकद्रव्यत्वं सर्वत्राविरुद्धं, तथा व्यवहारश्च सत्त्वादिपर्याप्त्याश्रयतावच्छेदकावच्छेदेनैव, तेन सर्वमेकं द्रव्यं सदविशेषादितिवत् घट एक द्रव्यमित्यादिर्न प्रयोग इति सूक्ष्ममीक्षितव्यम् । उभयदोषप्रसङ्ग एकत्वानेकत्वपक्षयोः सौगताद्वैतवाद्यापादितदोषापत्तिः । अचौरेति चौरात्पारदारिकाच्च यथाऽचौरापारदारिको जात्यन्तरं, तथा केवलादुत्पादादेस्त्रयात्मकं वस्तु इति भावः । अनुपलम्भ साधनत्वादिति, एकग्रहप्रतिबन्धकग्रहविषयत्वस्यैवान्यत्र विरोधपदार्थत्वोक्ते रिति भावः । १. साधनादिति अष्टसहस्रीसम्मतः पाठः । Page #112 -------------------------------------------------------------------------- ________________ ५१४ अष्टसहस्त्रीतात्पर्यविवरणम् स्थित्याधुपलम्भस्य चलनाभावात् । तत एव न सङ्करप्रसङ्गः, स्थित्यात्मन्युत्पादविनाशानुपलम्भादुत्पादविनाशयोश्च स्थित्यनुपलब्धेः । एकवस्तुनि युगपत्स्थित्याधुपलम्भात्सङ्कर इति चेत्, न परस्परमसङ्करादुत्पादादीनाम् । तद्वति तु सङ्करो वस्तुलक्षणमेव । एतेन व्यतिकरप्रसङ्गो व्युदस्तः, स्थित्यादीनां परस्परगमनाभावात् संविदि वेद्याद्याकारवत् । तत एव नानवस्था, स्थित्यात्मनि जन्मविनाशानिष्टेर्जन्मात्मनि स्थितिविनाशानुपगमाद्विनाशे स्थितिजन्मानवकाशात् प्रत्येकं तेषां त्रयात्मकत्वानुपगमात् । न चैवमेकान्ताभ्युपगमादनेकान्ताभावः, सम्यगेकान्तस्यानेकान्तेन विरोधाभावात्, नयार्पणादेकान्तस्य प्रमाणार्पणादनेकान्तस्यैवोपदेशात् तथैव दृष्टाभ्यामविरुद्धस्य तस्य व्यवस्थितेः ॥५६॥ के न पुनरात्मनाऽनुत्पादविनाशात्मकत्वात्स्थितिमात्रं ? के न चात्मना विनाशोत्पादावेव ? कथं च तत् त्रयात्मकमेव वस्तु सिद्धम् ? इति भगवता पर्यनुयुक्ता इवाचार्याः प्राहु: न सामान्यात्मनोदेति न व्येति व्यक्तमन्वयात् । व्येत्युदेति विशेषात्ते सहैकत्रोदयादि सत् ॥५७॥ पूर्वोत्तरपरिणामयोः साधारणः स्वभावः सामान्यात्मा द्रव्यात्मा । तेन सर्वं वस्तु नोत्पद्यते न विनश्यति च व्यक्तमन्वयदर्शनात् । गुनपुनर्जातनखादिष्वन्वयदर्शनेन व्यभिचार इति चेत्, न व्यक्त मिति विशेषणात्, प्रमाणेन बाध्यमानस्यैकत्वान्वयस्याव्यक्तत्वात् । न चात्रान्वयः प्रमाणविरुद्धः, सत्यप्रत्यभिज्ञानसिद्धत्वात् । ततोऽन्वितात्मना स्थितिरेव । तथा विनश्यत्युत्पद्यते च सर्वं वस्तु विशेषानुभवात् । भ्रान्तविशेषदर्शनेन शुक्ले शो पीताद्याकारज्ञानलक्षणेन व्यभिचार इति चेत्, न व्यक्तमिति विशेषणस्यानुवृत्तेः । न हि भ्रान्तं विशेषदर्शनं व्यक्तं येन तदपि पूर्वाकारविनाशाजहवृत्तोत्तराकाराविनाभावि स्यात् । न च प्रकृते विशेषदर्शनं व्यक्तं बाधकाभावात् । नित्यैकान्तग्राहि प्रमाणं बाधकमिति चेत्, न तस्य निरस्तत्वात् । न चैवं भिन्नप्रत्ययविषयत्वादुत्पादविनाशमात्रं स्थितिमात्रं च पदार्थान्तरतयावतिष्ठते, तस्य वस्त्वेकदेशत्वान्नयप्रत्ययविषयत्वात्, स्थित्यादित्रयस्य समुदितस्य वस्तुत्वव्यवस्थितेः, तस्य प्रमाणप्रत्ययगोचरत्वात्, सहैकत्रोदयादि सदिति Page #113 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि० ३-का० ५७] ५१५ प्रतिपादनात्, तथैव उत्पादव्ययध्रौव्ययुक्तं सत् इति सूत्रकारवचनात् तत्त्वा० ५.३० ] । न चेदं युक्तिरहितं, तथा युक्तिसद्भावात् । [प्रत्येकं वस्तु चलाचलस्वरूपमित्यस्य समर्थनम् ।] (भा०) चलाचलात्मकं वस्तु कृतकाकृतकात्मकत्वादिति । न चात्र हेतुरसिद्धः, पूर्वरूपत्यागाविनाभाविपररूपोत्पादस्यापेक्षितपरव्यापारत्वेन कृतकत्वसिद्धः, सदा स्थास्नुस्वभावस्यानपेक्षितपरव्यापारत्वेनाकृतकत्वनिश्चयात् । (भा०) न हि चेतनस्यान्यस्य वा सर्वथोत्पत्तिः, सदादिसामान्यस्वभावेन सत एवातिशयान्तरोपलम्भाद् घटवत् कथञ्चिदुत्पादविगमात्मकत्वादित्यादि योज्यम् । नापि विनाश एव, तत एव तद्वत् । न च स्थितिरेव, विशेषाकारेणोत्पादविनाशवत एव सदादिसामान्येन स्थित्युपलम्भाद् द्रव्यघटवत् । इति हि पृथगुपपत्तिर्योज्यते । सदादिसामान्येन सतस्तन्त्वादेर्घटाकारातिशयान्तरोपलम्भप्रसङ्ग इति चेत्, न, स्वभावग्रहणात् । सदादिसामान्यं हि यत्स्वभावभूतं घटस्योपादानद्रव्यमसाधारणं तद्भावेन परिणमदुपलभ्यते । तेनैव सतोऽतिशयान्तराधानं घटो यथा प्रतिविशिष्टघटयोग्यमृद्रव्यादिस्वरूपेण, न पुनः साधारणेन तन्त्वादिगतसामान्येन, अष्टसहस्त्रीतात्पर्यविवरणम् चलनाभावादिति चलितप्रतिपत्तेरेव संशयलक्षणत्वात्, चलितत्वं चैकधर्मिकविरुद्धनानाकोटिकज्ञानत्वमिति विरोधाभावे ज्ञाने तदसिद्धेरिति भावः ॥५६॥ भाष्ये चलाचलात्मकमिति उत्पादव्ययात्मना चलात्मकं ध्रौव्यात्मना चाऽचलात्मकमित्यर्थः । घटयोग्यमृद्रव्यादिस्वरूपेणेति, तच्च स्वरूपं घटोपादानकारणतावच्छेदको घटसामग्रीनाश्यतावच्छेदकश्च धर्मविशेषः तदुभयैक्यकल्पनायां लाघवात्, एतेन कपालत्वादिना घटाधुपादानकारणत्वं नैयायिकाद्यभिमतं अपास्तम् कपालादिनाशे घटादिसामग्र्या अहेतुत्वात्, एकस्मादेव मृत्पिण्डाच्चक्रादिव्यापारेण घटोत्पत्तिदर्शनात्, सङ्घातभेदाभ्यां घटादेव घटान्तरोत्पत्तेश्च, कपालत्वघटत्वादिना हेतुत्वे मानाभावाच्च । न पुनः साधारणेनेति व्याप्यधर्मावच्छिन्नेन व्यापकधर्मावच्छिन्नस्यान्यथासिद्धिनिरूपणादित्यर्थः । Page #114 -------------------------------------------------------------------------- ________________ ५१६ अष्टसहस्त्रीतात्पर्यविवरणम् नापि साधारणासाधारणेन पार्थिवत्वादिसामान्येनाविशिष्टघटोपादानमृदादिसामान्येन वा प्राक्सतोऽतिशयान्तरोपलब्धिर्येन तन्त्वादेरपि घटपरिणतिप्रसङ्गः । नापि घटविनाशोत्तरकालमप्यसाधारणमृदादिसामान्यस्वभावेन सत्त्वाविशेषाद् घटोत्पत्तिः प्रसज्यते, तत्प्रागभावात्मकस्य सतस्तद्भावेनोत्पत्तिदर्शनात्, पश्चादभावात्मकस्य सतोऽपि तददर्शनात् । न चैवं प्रागसत एवोत्पत्तिनियमाद् घटस्य कथञ्चित्प्रागसत्त्वमयुक्तं, प्रागभावस्य भावस्वभावस्य पूर्वं व्यवस्थापनात् । तस्याभावस्वभावत्वे सव्येतरगोविषाणादीनां सहोत्पत्तिनियमवतामुपादानसङ्करप्रसङ्गः, प्रागभावाविशेषात् । ततो यथा स्वोपादानात्सव्यविषाणस्योत्पत्तिस्तथा दक्षिणविषाणोपादानादपि तत्र तस्योत्पत्तेः प्रागभावसिद्धेः, यत्र यदा यस्य प्रागभावस्तत्र तदा तस्योत्पत्तिरिति नियमकल्पनाया अपि तत्र भावात् । स्वोपादानेतरनियमश्च कुतः स्यात् ? प्रागभावनियमादिति चेत्समानसमयजन्मनां स एव कुतः ? तदुत्पत्तिनियमादिति चेत्, सोऽपि कुतः ? स्वोपादाननियमादिति चेत्, स्वोपादानेतरनियमः कुतः स्यात् ? इत्यादि पुनरावर्तते इति चक्रकम् । सव्यविषाणस्योत्पत्तिरिति प्रत्ययविशेषादुत्पत्तिनियमोऽपि न श्रेयान्, कारकपक्षस्य विचारयितुमारब्धत्वात् । ज्ञापकपक्षे तु प्रागभावनियमोऽपि तत्प्रत्ययविशेषादेवेति नोत्पत्त्या प्रागभावावगतिः, प्रागभावादप्युत्पत्तिनियमनिश्चयप्रसक्तेरितरेतराश्रयस्य दुर्निवारत्वात् । ततो नोत्पत्तेः प्रागभावः कार्यस्याभावात्मकस्तस्य भावस्वभावस्यैवाबाधितप्रतीतिविषयत्वात् । प्रागभावाभावस्य कार्योत्पादरूपत्वात् ॥५७॥ तथा हि कार्योत्पादः क्षयो हेतोर्नियमाल्लक्षणात्पृथक् । न तौ जात्याद्यवस्थानादनपेक्षाः खपुष्पवत् ॥५८॥ - अष्टसहस्रीतात्पर्यविवरणम् प्रागभावसिद्धिरिति' तत्तद्व्यक्त्युपादानरूपप्रागभावसिद्धिरित्यर्थः । तत्र भावादिति कार्यभेदप्रयोजकभेदप्रतियोग्युपादानात्मकप्रागभावविश्रान्तत्वादिति भावः । प्रतियोगिभेदेनाभावभेदे त्वङ्गीक्रियमाणे एकप्रतियोगिकाभावचतुष्टयस्यैक्यापतिः, तत्तत्कालसंसर्गावच्छिन्नप्रतियोगित्वादिनाऽभावाभ्युपगमे तु तत्तदाधेयत्वादिना घटसत्त्वादेरपि भेदापत्तिरित्याधुक्तं कार्यद्रव्यमनादि स्याद् इत्यादिकारिकाव्याख्याने प्रथमपरिच्छेद एव ॥५७|| १. सिद्धेः इति अष्टसहस्रीसम्मतः पाठः । Page #115 -------------------------------------------------------------------------- ________________ ५१७ द्वितीयो भागः [ परि०३-का० ५८] __उपादानस्य पूर्वाकारेण क्षयः कार्योत्पाद एव हेतोनियमात् । यस्तु ततोऽन्यस्तस्य न हेतोर्नियमो दृष्टो यथानुपादानक्षयस्यानुपादेयोत्पादस्य च । नियमश्च हेतोरुपादानक्षयस्योपादेयोत्पादस्य च । तस्मादुपादानक्षय एवोपादेयोत्पादः । न तावदत्रासिद्धो हेतुः कार्यकारणजन्मविनाशयोरेकहेतुकत्वनियमस्य सुप्रतीतत्वात्, तयोरन्यतरस्यैव सहेतुकत्वाहेतुकत्वनियमवचनस्य निरस्तत्वात् । [यौगोऽपि उत्पादविनाशौ एकहेतुकौ न मन्यते तस्य निराकरणम्] ननूपादानघटविनाशस्य बलवत्पुरुषप्रेरितमुद्गराधभिघातादवयवक्रियोत्पत्तेरवयवविभागात्संयोगविनाशादेव प्रतीतेरुपादेयकपालोत्पादस्य तु स्वारम्भकावयवकर्मसंयोगविशेषादेरेव सम्प्रत्ययात् तयोरेकस्माद्धे तोनियमासम्भवादसिद्धमेव साधनमिति चेत्, न अस्य विनाशोत्पादकारणप्रक्रियोद्घोषणस्याप्रातीतिकत्वाद् बलवत्पुरुषप्रेरितमुद्गरादिव्यापारादेव घटविनाशकपालोत्पादयोरवलोकनात् । ततो घटावयवेषु कपालेषु क्रियैवोत्पद्यते इति चेत्, सैवैको हेतुस्तयोरस्तु । क्रियातोऽवयवविभागस्यैवोत्पत्तिरिति चेत्, स एवैकं कारणमनयोरस्तु । विभागात्तदवयवसंयोगविनाश एव दृश्यते इति चेत्, स एव तयोरेकं निमित्तमस्तु । तदवयवसंयोगविनाशादवयविनो घटस्य विनाश इति चेत्, स एव कपालानां तदवयवानां प्रादुर्भावः, इति कथं नैकहेतुनियमः सिद्धयेत् ? महास्कन्धावयवसंयोगविनाशादपि लघुस्कन्धोत्पत्तिदर्शनात् भेदसङ्घातेभ्य उत्पद्यन्ते इति वचनात् [तत्त्वा० ५.२६] । मिथ्यैवेदं दर्शनं सूत्रकारवचनं च बाधकसद्भावादिति चेत्, किं तद्बाधकम् ? स्वपरिमाणादणुपरिमाणकारणारब्धानि कपालानि कार्यत्वात्पटवदित्यनुमानं - अष्टसहस्त्रीतात्पर्यविवरणम् यस्तु ततोऽन्य इति यस्तु तत उपादानक्षयादन्यक्षयस्तस्य नोपादेयोत्पादहेत्वन्वयव्यतिरेकप्रयुक्तान्वयव्यतिरेकप्रतियोगित्वमित्यर्थः । भेदसङ्घातेभ्य इति अत्रास्मदीयाः श्लोकाः संयोगाच्च विभागाच्च द्रव्यमुत्पद्यते द्वयात् । वैजात्यं वापि वैशिष्ट्यं कार्ये तत्र प्रकल्प्यते ॥१॥ Page #116 -------------------------------------------------------------------------- ________________ ५१८ अष्टसहस्त्रीतात्पर्यविवरणम् बाधकमिति चेत्, न एतदुदाहरणस्य साध्यविकलत्वात् । तन्तवो हि किमपटाकारपरिणताः पटस्य समवायिनः पटाकारपरिणता वा ? न तावदाद्यः पक्षः पटाकारापरिणतेषु तन्तुष्विह पट इति प्रत्ययासम्भवात् । द्वितीयपक्षे तु न पटपरिमाणादणुपरिमाणास्तन्तवः पटस्य कारणं, तेषां पटसमानपरिमाणतया प्रतीतेः समुदितानामेवातानवितानाकाराणां पटपरिणामाश्रयत्वादन्यथातिप्रसङ्गात् । न हि तथापरिणतं तद्भवति तद्भावः परिणामः इति वचनात् [तत्त्वा० ५.४१] । न चैवं परिणामपरिणामिनोरभेदः स्यात्, प्रत्ययभेदात्कथञ्चिद् भेदसिद्धेः परस्यापि तद्भेदे विवादाभावात, तन्तद्रव्यपटपर्याययोरन्वयव्यतिरेकप्रत्ययविषयत्वाच्च । तन्तद्रव्यं हि प्राच्यापटाकारपरित्यागेन तन्तुत्वापरित्यागेन चापूर्वपटाकारतया परिणमदुपलभ्यते - अष्टसहस्त्रीतात्पर्यविवरणम् अणुव्यणुकसंयोगा अणुकोत्पत्तिमिच्छताम् । तद्विभागादणूत्पत्तौ प्रद्वेषः किंनिबन्धनः ॥२॥ केयूरकुण्डलीभावे तत्र स्वर्णवदिष्यताम् । साधारणमुपादानं क्ष्मादि किं चिन्तयाऽत्र नः ॥३॥ तादात्म्यनियताधाराधेयभावनिबन्धनम् । कारणं प्रत्युपादेयं विभिन्नं परिणामि वा ॥४॥ तावत् सङ्घातभेदा वा हेतुस्तच्छालि वस्तु वा । गच्छत्यविनिगम्यत्वमप्यत्रैतत् सहायताम् ॥५॥ जात्यन्तरात्मके वस्तुन्येवं किञ्चिन्न दुष्यति । कार्याकार्यभिदाभेदव्यवसायव्यवस्थितेः ॥६॥ संयोगवद्विभागेऽपि वैजात्यस्य व्यवस्थितौ । एकस्य हेतुताऽन्यस्य नेति मोहविजृम्भितम् ॥७॥ संयोगे समवायश्चेद्धेतुताया नियामकः । मृद्रव्ये सविभागे स्तादंशांशो वा विभज्यताम् ॥८॥ स्वध्वंसत्वेन योगेनोपादानं हेतुरस्तु वा ।। तद्र्व्यव्याप्तिरत्र स्यान्नभोव्याप्तिवदार्थिकी ॥९॥ संयोगजन्यता जन्यद्रव्ये हि भवतोच्यते । मया तत्र विजातीय इति गौरवभी: कुतः ? ॥१०॥ Page #117 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि०३-का० ५८] पटाकारस्तु पूर्वाकाराद् व्यतिरिक्त इति सिद्धं, सर्वथा त्यक्तरूपस्यापूर्वरूपवर्तिन एवोपादानत्वायोगादपरित्यक्तात्मपूर्वरूपवर्तिवत् तथाप्रतीतेन॒व्यभावप्रत्यासत्तिनिबन्धनत्वादुपादानोपादेयभावस्य । भावप्रत्यासत्तिमात्रात्तद्भावे समानाकाराणामखिलार्थानां तत्प्रसङ्गात्, कालप्रत्यासत्तेस्तद्भावे पूर्वोत्तरसमनन्तरक्षणवर्तिनामशेषार्थानां तत्प्रसक्तेः देशप्रत्यासत्तेस्तद्भावे समानदेशानामशेषतस्तद्भावापत्तेः सद्दव्यत्वादिसाधारणद्रव्यप्रत्यासत्तेरपि तद्भावानियमात् । असाधारणद्रव्यप्रत्यासत्तिः पूर्वाकारभावविशेषप्रत्यासत्तिरेव च निबन्धनमुपादानत्वस्य स्वोपादेयं परिणामं प्रति निश्चीयते । तदुक्तं त्यक्तात्यक्तात्मरूपं यत्पूर्वापूर्वेण वर्तते । कालत्रयेऽपि तद्र्व्यमुपादानमिति स्मृतम् ॥ [ यत्स्वरूपं त्यजत्येव यन्न त्यजति सर्वथा । तन्नोपादानमर्थस्य क्षणिकं शाश्वतं यथा ॥ [ ] इति । ततो न तन्तुविशेषाकारः पटस्योपादानं येनाल्पपरिमाणादेव कारणान्महापरिमाणस्य पटस्योत्पत्तेरुदाहरणं साध्यशून्यं न भवेत् । हेतुश्चानैकान्तिकः, प्रशिथिलावयवमहापरिमाणकार्पासपिण्डादल्पपरिमाणनिबिडावयवकार्पासपिण्डोत्पत्तिदर्शनात् । विरुद्धश्चायं हेतुः, पुद्गलादिद्रव्यस्य महापरिमाणस्य यथासम्भवं सक्ष्मरूपेण स्थलरूपेण वा पर्यायेण वर्तमानस्य स्वकार्यारम्भकत्वदर्शनात कार्यत्वस्य महापरिमाणकारणारब्धत्वेन व्याप्तिसिद्धेः स्वपरिमाणादल्पपरिमाणकारणारब्धत्वविपरीतसाधनात् । ततो नेदमनुमानं बाधकं कपालोत्पादस्य घटविनाशस्य चैकहेतुत्वनियमप्रतीतेरेकस्मादेव मृदाधुपादानात्तद्भावस्य सिद्धेरेकस्माच्च मुद्गरादिसहकारिकलापात्तत्सम्प्रत्ययात्, इति सिद्ध्यत्येव हेतोनियमात्कार्योत्पाद एव पूर्वाकारविनाशः । [उत्पादविनाशयोः सर्वथा अभेदो नास्ति ।] न चैवं सर्वथोत्पादविनाशयोरभेद एव, लक्षणात्पृथक्त्वसिद्धेः । तथा हि(भा०) कार्यकारणयोरुत्पादविनाशौ कथञ्चिद्भिन्नौ भिन्नलक्षण - अष्टसहस्त्रीतात्पर्यविवरणम् - तथाऽप्रतीतेरिति त्यक्तात्यक्तात्मरूपतयाऽप्रतीतेरित्यर्थः । असाधारणेत्यादि आता Page #118 -------------------------------------------------------------------------- ________________ ५२० अष्टसहस्त्रीतात्पर्यविवरणम् सम्बन्धित्वात्सुखदुःखवत् । नात्रासिद्धं साधनं, कार्योत्पादस्य स्वरूपलाभलक्षणत्वात्कारणविनाशस्य च स्वभावप्रच्युतिलक्षणत्वात्तयोर्भिन्नलक्षणसम्बन्धित्वसिद्धेः । नाप्यनैकान्तिकं विरुद्धं वा, क्वचिदेकद्रव्येऽपि परिणामयोः कथञ्चिद्भेदमन्तरेण भिन्नलक्षणसम्बन्धित्वस्यासम्भवात् । न च तयोर्भेद एव, कथञ्चिदभेदग्राहकप्रमाणसद्भावात् । तथा हिउत्पादविनाशौ प्रकृतौ ( भा० ) स्यादभिन्नौ, तदभेदस्थितजातिसङ्ख्याद्यात्मकत्वात्पुरुषवत् । नात्रासिद्धो हेतु:, मृदादिद्रव्यव्यतिरेकेण नाशोत्पादयोरभावात् । पर्यायापेक्षया नाशोत्पादौ भिन्नलक्षणसम्बन्धिनौ न तौ, जात्याद्यवस्थानात्, सद्द्रव्यपृथिवीत्वादिजात्यात्मनैकत्वसङ्ख्यात्मना शक्तिविशेषान्वयात्मना च तदभेदात् तथैव प्रत्यभिज्ञानात्, तदेव मृद्द्रव्यमसाधारणं घटाकारतया नष्टं कपालाकारतयोत्पन्नमिति प्रतीतेः सकलबाधकरहितत्वात्, य एवाहं सुख्यासं स एव च दुःखी सम्प्रतीत्येकपुरुषप्रतीतिवत् । नन्वेवमुत्पादव्ययध्रौव्याणामभेदात् कथं त्रयात्मकवस्तुसिद्धिः ? तत्सिद्धौ वा कथं तत्तादात्म्यम् ? विरोधादिति चेत्, न सर्वथा तत्तादात्म्यासिद्धेः कथञ्चिल्लक्षणभेदात् । तथा हि ( भा० ) उत्पादविगमध्रौव्यलक्षणं स्याद्भिन्नमस्खलन्नानाप्रतीतेः रूपादिवत् । सर्वस्य वस्तुनो नित्यत्वसिद्धेरुत्पादविनाशप्रतीतेरस्खलत्वविशेषणमसिद्धमिति चेत्, न, कथञ्चित्क्षणिकत्वसाधनात् । तत एव ध्रौव्यप्रतीतेरस्खलत्वं सिद्धं, सर्वथा क्षणिकत्वनिराकरणात् । न चोत्पादादीनां कथञ्चिद्भिन्नलक्षणत्वं विरुद्धं तदात्मनो वस्तुनो जात्यन्तरत्वेन कथञ्चिद्भिन्नलक्षणत्वादन्यथा तदवस्तुत्वप्रसङ्गात् । उत्पादादयो हि परस्परमनपेक्षाः खपुष्पवन्न सन्त्येव । तथा हि ( भा० ) उत्पादः केवलो नास्ति स्थितिविगमरहितत्वाद्वियत्कुसुमवत् । तथा स्थितिविनाशौ प्रतिपत्तव्यौ । अष्टसहस्त्रीतात्पर्यविवरणम् नवितानरूपभावप्रत्यासत्तिमत्तन्तुद्रव्यप्रत्यासत्तिः पटोपादानत्वनिबन्धनमित्यर्थः ॥५८॥ Page #119 -------------------------------------------------------------------------- ________________ ५२१ द्वितीयो भागः [परि० ३-का. ५९] स्थितिः केवला नास्ति, विनाशोत्पादरहितत्वात् तद्वत् । विनाशः केवलो नास्ति, स्थित्युत्पत्तिरहितत्वात् तद्वदेव, इति योजनात् सामर्थ्यादुत्पादव्ययध्रौव्ययुक्तं सदिति प्रकाशितं भवति, तदन्यतमापाये सत्त्वानुपपत्तेः । प्रत्येकमुत्पादादीनां सत्त्वे त्रयात्मकत्वप्रसङ्गादनवस्थेत्यपि दूरीकृतमनेन, तेषां परस्परमनपेक्षाणामेकशः सत्त्वनिराकरणात् ॥५८॥ किञ्च घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥५९॥ (भा०) प्रतीतिभेदमित्थं समर्थयते । सकललौकिकजनस्याचार्याः स हि (भा०) घटं भङ्क्त्वा मौलिनिर्वर्तने घटमौलिसुवर्णार्थी तन्नाशोत्पादस्थितिषु विषादह|दासीन्यस्थितिमयं जनः प्रतिपद्यते इति ।। अष्टसहस्त्रीतात्पर्यविवरणम् ॥ स्याद्वादसिद्धिवादः ॥ उत्पादादीनां त्रयाणामेकर्मिण्येककालवृत्तित्वं व्यवस्थापयितुं युक्तिमाह-घटमौलीत्यादि पयोव्रत इत्यादिकारिकाद्वयेन, एकस्यैककालीनकार्यत्रयजनकत्वाद् व्रतत्रयव्यवस्थापकत्वाच्च त्रयात्मकत्वमित्येतदुभयसक्षेपार्थः । अत्रास्माभिः स्तम्भतीर्थनगरे गोपालसरस्वत्याद्येकान्तवादिपण्डितचक्रवालं प्रत्यवलम्बितं पत्रं, यथा ऐन्द्री श्रीर्यत्पदाम्भोजसेवाहेवाकिताफलम् । महतां महनीयं तं महावीरमुपास्महे ॥ इह हि बहवः प्राणिनः साहजिकाभिसंस्कारिकानेकसङ्कल्पविकल्पकल्लोलाकुलितचेतस उत्पादव्ययध्रौव्यात्मकं सर्वं वस्त्वनुभवन्तोऽपि सम्यग्दर्शनजीवातुतथा विधक्षयोपशमाभावात्तथात्वेन न प्रतिपद्यन्ते, प्रत्युत परिज्ञातप्रवचनोपनिषदस्तथात्वेन प्रतिपद्यमानान् प्रति प्रत्यवतिष्ठन्ते, तान् प्रतीदमाचक्ष्महे । सर्वं खल्वादीपमाव्योमपदार्थजातं न सर्वथाऽनित्यं, नापि सर्वथा नित्यं, प्रदीपादेरपि सर्वथाऽनित्यत्वे पुद्गलपरमाणुत्वादिनाऽपि ध्वंसप्रसङ्गात् । अवयवावयविभावस्य समवायादिसम्बन्धनिबन्धनत्वे तत्रापि सम्बन्धान्तरान्वेषणेऽनवस्थानात्तादात्म्येनैव तत्त्वव्यवस्थितौ परमाणुपर्यन्तमपि कथञ्चिदवय Page #120 -------------------------------------------------------------------------- ________________ ५२२ अष्टसहस्रीतात्पर्यविवरणम् ___ घटार्थिनः शोकस्य घटनाशनिबन्धनत्वात्, मौल्यर्थिनः प्रमोदस्य मौल्युत्पादनिमित्तत्वात्, सुवर्णार्थिनो माध्यस्थ्यस्य सुवर्णस्थितिहेतुकत्वात्, तद्विषादादीनां (भा०) निर्हेतुकत्वे तदनुपपत्तेः । पूर्वतद्वासनामात्रनिमित्तत्वेऽपि तन्नियमासम्भवात् । तद्वासनायाः प्रबोधकप्रत्ययनियमान्नियतत्वाद्विषादादिनियम इति चेत्, तर्हि नाशोत्पादान्वया एव वासनाप्रबोधप्रत्यया इति पारम्पर्यात्त एव शोकादिहेतवो बहिरङ्गाः । अन्तरङ्गास्तु मोहनीयप्रकृतिविशेषोदया इति तेषां वासनेति नाममात्रं भिद्येत, नार्थः, स्याद्वादिभिर्भावमोहविशेषाणां वासनास्वभावतोपगमात् । ततः सिद्धं लौकिकानामुत्पादादित्रयात्मकं वस्तु, तत्प्रतीतेर्भेदसिद्धेः ॥५९॥ किञ्च अष्टसहस्त्रीतात्पर्यविवरणम् व्यभेदसिद्धेः, आकाशादेरपि सर्वथा नित्यत्वे संयोगादिस्वभावपरित्यागेन 'विभागादिस्वभावोपादानानुपपत्तेः, पूर्वरूपपरित्यागस्यैवानित्यत्वलक्षणत्वात् । (शङ्का) संयोगविभागादिक्रमिकनानाकार्यजननैकस्वभावमेवाकाशादिकमिति न स्वभावभेद इति चेत्, अयमेवैकानेकस्वभावसंवलनवादः, अन्यथा येन स्वभावेन संयोगजनकमाकाशं तेनैव विभागजनकमित्यभ्युपगमे संयोगविभागयोरेकत्वप्रसङ्गः । किं च जनकत्वं शक्तिरेवेति कार्यभेदेन तद्भेदावश्यकत्वे स्वभावभेदो दुष्परिहरः, शक्तिशक्तिमतोरपि तादात्म्यातिरिक्तसम्बन्धाभावात् । तथा च वस्तुनः कथञ्चिन्नित्यानित्यत्वसिद्धौ येन रूपेण नित्यत्वं तेन रूपेण ध्रौव्यं, येन चानित्यत्वं तेनोत्पादव्ययावित्येवं त्रिलक्षणं जगदिति प्राचीनः परिष्कृतः पन्थाः । वस्तुतः क्षणसम्बन्धः क्षणे तादात्म्यरूपः क्षणविशिष्टपदार्थे च परैविशेषणताविशेषरूप: कल्पनीय इति गौरवं, मया च सर्वत्र तादात्म्यरूप एव कल्पनीय इति लाघवाच्छुद्धर्जुसूत्रनयादेशेन सर्वस्य क्षणपर्यायात्मकत्वसिद्धिः, अशुद्धर्जुसूत्रनयादेशेऽपि प्रतीतिव्यवहाराद्यनुरोधेन विशिष्टाविशिष्टयोर्भेदध्रौव्ये क्षणविशिष्टपदार्थरूपपर्यायभेदस्तावदावश्यकः । न च विशिष्टभेदेऽनन्तपदार्थकल्पनापत्ति गौरवं, परस्यापि विशिष्टनिरूपिताधिकरणतानन्त्यकल्पनेन तौल्यात् । न च द्रव्यत्वादेरेव गुणकर्मान्यत्वविशिष्टसत्ताधारतात्वकल्पनात्परस्य नाधिककल्पनमिति वाच्यम्, तथापि पटत्वाभावविशिष्टसत्ताधारतात्वस्य घटत्वादिनानास्वरूपत्वकल्पने गौरवस्य पटत्वाभावस्वरूपत्वकल्पने चातिप्रसङ्गस्य दुरुद्धरत्वात् । न च १. विभावादि इति ह० प्र० पाठः । Page #121 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० ३ - का० ६० ] पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः । अगोरसव्रतो नोभे तस्मात्तत्त्वं त्रयात्मकम् ॥६०॥ ५२३ ( भा० ) लोकोत्तरदृष्टान्तेनापि तत्र प्रतीतिनानात्वं विनाशोत्पादस्थितिसाधनं प्रत्याययति, दधिपयोऽगोरसव्रतानां क्षीरदध्युभयवर्जनात् क्षीरात्मना नश्यद्दध्यात्मनोत्पद्यमानं गोरसस्वभावेन तिष्ठतीति । अष्टसहस्त्रीतात्पर्यविवरणम् विशिष्टाविशिष्टभेदे विशिष्टसत्तानिश्चयेऽपि सत्तासंशयः स्यादिति वाच्यम्, तवापि विशिष्टाभावस्यातिरिक्ततया सत्तानिश्चयत्वस्य विशिष्टसत्तासंशयव्यावृत्तत्वाभावात् विशिष्टसत्तानिश्चयत्वेन पृथक्प्रतिबन्धकत्वकल्पनध्रौव्ये मयाऽपि तथात्वस्य व्यावर्त्तकतयैव वा प्रतिबन्धकत्वस्य वाच्यत्वादिति दिग् । T एवं शुद्धपर्यायात्मना प्रतिक्षणमुत्पादव्ययौ प्रत्यभिज्ञाद्यनुरोधेन च द्रव्यात्मना ध्रौव्यं ध्रुवमिति सिद्ध्यति सर्वत्र त्रैलक्षण्यम् । एतेन यदुच्यते परैर्विशिष्टभेदाभ्युपगमे तत्तेदन्ताविशिष्टयोरपि भेदे प्रत्यभिज्ञामात्राप्रामाण्ये स्थैर्योच्छेद इति, तदपास्तं द्रष्टव्यम्, प्रत्यभिज्ञाया भेदाभेदसंसर्गकत्वस्य स्थैर्यस्य चोत्पादव्ययसंवलितस्यैव प्रामाणिकत्वात् । एतेनैव च सोऽयं देवदत्त इति वाक्ये तत्कालविशिष्टैतत्कालविशिष्टयोरभेदस्य विरोधाद्विशेषणविशेष्यभावानुपपत्तेः शुद्धदेवदत्तव्यक्तौ लक्षणा स्वीकर्त्तव्येत्येतद्दृष्टान्तबलेन तत्त्वमसीत्यादिवाक्येऽपि परोक्षत्वविशिष्टचैतन्यस्य तत्पदार्थस्य प्रत्यक्षत्वविशिष्टचैतन्यरूपत्वं पदार्थेन सहाभेदविरोधादखण्डब्रह्मणि जहदजहल्लक्षणा स्वीकर्त्तव्येति तत्त्वं पदार्थशोधनं कुर्वद्भिर्वेदान्तिभिर्यदुच्यते, तदपास्तं द्रष्टव्यम्, सोऽयं देवदत्त इति वाक्ये लक्षणाभ्युपगमे बीजाभावात्तत्तेदन्ताविशिष्टयोर्भेदाभेदस्य सार्वजनीनत्वेन विरोधाभावात्, न हि प्रत्यक्षसिद्धेऽर्थे विरोधो नाम, न चापरार्थप्रत्यक्षात्मकं वाक्यं न प्रत्यक्षाभम् । न च शुद्धब्रह्मणि शक्यसम्बन्धरूपा बोध्यसम्बन्धरूपा वा लक्षणाऽपि सङ्गच्छते, तात्त्विकेऽर्थेऽनिर्वचनीयसंसर्गस्य युक्त्यसहत्वात्, मायिकसंसर्गस्यापि मायिकत्वात् । (शङ्का) तत्र युक्त्यसहत्वं भूषणं न तु दूषणमिति चेत्, तर्ह्यधिष्ठानपर्यन्तमपि मायिकत्वमेव युक्तं, मायोपमं वै सकलं जगत् [ ] इति श्रुत्यवलम्बनस्य सत्त्वादिति माध्यमिकमतमेव स्वीक्रियतां, मुच्यतां वेदान्ताश्रयेणार्द्धजरतीयन्याय इति किमतिविस्तरेण । तत्त्वमसीत्यादिवाक्यार्थस्तु केवलज्ञानादिपरिणतिविशिष्टपरमात्मरूपतत्पदार्थेन सह सम्यग्दर्शनादिपरिणतिविशिष्टान्तरात्म' त्वं' पदार्थस्य भेदाभेदतात्पर्येण समाधेयः स्वसमयाविरोधिभिः सम्यग्दृष्टिभिरिति किमप्रकृतेन । ' Page #122 -------------------------------------------------------------------------- ________________ ५२४ अष्टसहस्त्रीतात्पर्यविवरणम् पय एव मयाद्य भोक्तव्यमिति व्रतमभ्युपगच्छतो दध्युत्पादेऽपि पयसः सत्त्वे दधिवर्जनानुपपत्तेः दध्येव मयाद्य भोक्तव्यमिति व्रतं स्वीकुर्वतः पयस्यपि दनः सत्त्वे पयोवर्जनायोगात्, अगोरसं मयाद्य भोक्तव्यमिति व्रतमङ्गीकुर्वतोऽनुस्यूतप्रत्ययविषयगोरसे दधिपयसोरभावे तदुभयवर्जनाघटनात्, प्रतीयते च तत्तव्रतस्य तत्तद्वर्जनम् । (भा०) ततस्तत्त्वं त्रयात्मकम् । [वस्तु त्रयात्मकमेव पुनः अनन्तधर्मात्मकं कथं सिद्ध्येत् ?] न चैवमनन्तात्मकत्वं वस्तुनो विरुद्ध्यते, प्रत्येकमुत्पादादीनामनन्तेभ्य उत्पद्यमानविनश्यत्तिष्ठद्भ्यः कालत्रयापेक्षेभ्योऽर्थेभ्यो भिद्यमानानां विवक्षितवस्तुनि तत्त्वतोऽनन्तभेदोपपत्तेः, पररूपव्यावृत्तीनामपि वस्तुस्वभावत्वसाधनात्, तदवस्तुस्वभावत्वे सकलार्थसार्यप्रसङ्गात् । तथा तत्त्वस्य त्रयात्मकत्वसाधनेऽनन्तात्मकत्वसाधने च नित्यानित्यो भयात्मकत्वसाधनमपि प्रकृतं न विरुद्धयते, स्थित्यात्मकत्वव्यवस्थापनेन कथञ्चिन्नित्यत्वस्य विनाशोत्पादात्मकत्वप्रतिष्ठापनेन चानित्यत्वस्य साधनात् । ततः सूक्तं-सर्वं वस्तु स्यान्नित्यमेव, स्यादनित्यमेवेति । - अष्टसहस्त्रीतात्पर्यविवरणम् किञ्च भावाभावयोः प्रतियोग्यनुयोगिभावस्य विशेषणविशेष्यभावस्य च स्वरूपसम्बन्धतयैव विश्राम इति सर्वं सर्वात्मकं जगत् आसत्तिपाटवाभ्यासप्रयोजनादिना च प्रतिनियतपर्यायग्रह इति नातिप्रसङ्गः । अत एवैकज्ञत्वसर्वज्ञत्वयोर्नान्तरीयकत्वं सिद्धान्तसिद्धम्, तथा चानुवृत्तिव्यावृत्तिद्वारा स्वपरपर्यायोत्पादव्ययावच्छिन्नं ध्रौव्यं सर्वत्राऽनायाससिद्धमिति द्रष्टव्यम् । न च विरोधः, पर्यायत्वावच्छेदेनोत्पादव्यययोर्द्रव्यत्वावच्छेदेन ध्रौव्यस्य चाविरोधात्, अन्यथा गोत्वावच्छेदेन गव्यश्वभेदस्य ब्रह्मत्वावच्छेदेन तदभेदस्य चाविरोध औपनिषदाभिमतोऽपि कथं स्याद् ? इत्युपरम्यते । स्यान्नित्यमेवेत्यादि अत्र च नित्यत्वानित्यत्वादिव्यवहारे आकाशघटादौ द्रव्यार्थत्वपर्यायार्थत्वयोस्तुल्यवदाकाशत्वघटत्वादीनां च स्यात्पदद्योतनमर्यादया प्रतिस्वं ग्रहान्नातिप्रसङ्गः, नयवाक्येऽपि यद्धर्मविशिष्टविशेष्यवाचकपदसमभिव्याहारेण नित्यत्वादिविशिष्टवाचकं पदं प्रयुज्यते तद्धर्मावच्छेदेन तत्र नित्यत्वादिबोधने एव तत्साकाङ्क्षमित्याकाशमनित्यं घटो नित्य इत्यादेर्नयवाक्यस्य न प्रयोग: व्यापकसामानाधिरण्यरूपव्याप्तिपक्षे Page #123 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि० ३-का० ६०] ५२५ एवं स्यादुभयमेव, स्यादवक्तव्यमेव, स्यान्नित्यावक्तव्यमेव, स्यादनित्यावक्तव्यमेव, स्यादुभयावक्तव्यमेवेत्यपि योजनीयम् । यथायोगमेतत्सप्तभङ्गीव्यवस्थापनप्रक्रियामपि योजयेन्नयप्रमाणापेक्षया सदायेकत्वादिसप्तभङ्गीप्रक्रियावत् ॥६०॥ नित्यायेकान्तगर्तप्रपतनविवशान्प्राणिनोऽनर्थसार्थादुद्धर्तुं नेतुमुच्चैः पदममलमलं मङ्गलानामलद्व्यम् । स्याद्वादन्यायवर्ती प्रथयदवितथार्थं वचः स्वामिनोऽदः प्रेक्षावत्त्वात्प्रवृत्तं जयतु विघटिताशेषमिथ्याप्रवादम् ॥१॥ [स्रग्धरा] इत्याप्तमीमांसालङ्कृतौ तृतीयः परिच्छेदः ॥३॥ - अष्टसहस्त्रीतात्पर्यविवरणम् धूमो वह्निव्याप्यो न रासभस्तथेत्यादेरित्थमेव न्यायाभियुक्तैरूपपादितत्वादिति शिवम् ॥६०॥ जगज्जैत्रं पत्रं शुचिनयपवित्रं किल मया, यमालम्ब्य न्यस्तं कुमतशतमस्तंगमयति । असौ नित्यानित्याद्यखिलगमभङ्गप्रणयने, पटिष्ठः स्याद्वादो दिशतु मुदमुज्जागरधियाम् ॥१॥ पवित्रं पत्रं मे विशदशतपत्रं श्रुतसुरी करक्रीडापात्रं प्रमदमतिमात्रं जनयतु । सुवाल्लभ्याः सभ्या इदमगुरुमाज्ञासिषुरितः प्रकृष्टं कल्पद्रोरपि फलमभ्यं कृतधियाम् ॥२॥ कृत्वा यत्नमनेकपण्डितवतीमध्यास्य काशीमभूद्भट्टाचार्यपुरन्दरेभ्य इह यस्तर्केष्वधीती भृशम् । तत्स्पर्द्धा वितनोति कोऽपि जटिलो यद्यल्पपाठस्मयी, तत्कि कुम्भकृता भविष्यति कलिः सार्द्धं त्रिलोकीकृतः ॥३॥ [शार्दूल०] अधीतास्तर्काः श्रीनयविजयविज्ञांहिभजनप्रसादाद् ये तेषां परिणतिफलं शासनरुचिः । इहांशेनाप्युच्चैरवगमफला या स्फुरति मे, तया धन्यं मन्ये जनुरखिलमन्यत् किमधिकम् ॥४॥ इति श्रीमदकब्बरसुरत्राणप्रदत्तजगद्गुरुबिरुदधारकभट्टारकश्रीहीरविजयसूरीश्वरशिष्य मुख्यमहोपाध्यायश्रीकल्याणविजयगणिशिष्यावतंसपण्डितश्रीलाभविजयगणि शिष्याग्रेसरपण्डितश्रीजितविजयगणिसतीर्थ्यालङ्कार पण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकेण पण्डितश्रीपद्मविजयगणिसहोदरेण महोपाध्यायश्रीयशोविजयगणिना विरचितेऽष्टसहस्त्रीतात्पर्यविवरणे तृतीयः परिच्छेदः सम्पूर्णः ॥ Page #124 -------------------------------------------------------------------------- ________________ ॥ चतुर्थः परिच्छेदः ॥ कार्यकारणनानात्वं गुणगुण्यन्यतापि च । सामान्यतद्वदन्यत्वं चैकान्तेन यदीष्यते ॥ ६१॥ जीयादष्टसहस्त्री देवागमसङ्गतार्थमकलङ्कम् । गमयन्ती सन्नयतः प्रसन्नगम्भीरपदपदवी ॥ १ ॥ कार्यग्रहणात्कर्मणोऽवयविनोऽनित्यस्य गुणस्य प्रध्वंसाभावस्य च ग्रहणं, कारणवचनात् समवायिनस्तद्वतः प्रध्वंसनिमित्तस्य च । गुणशब्दान्नित्यगुणप्रतिपत्तिः, गुणिवचनात्तदाश्रयस्य । सामान्याभिधानात्परापरजातिप्रत्ययः । तद्वद्वचनादर्थप्रत्यय इति । क्रियातद्वतोरवयवावयविनोर्गुणगुणिनोविशेषतद्वतो: सामान्यतद्वतोरभावतद्विशेष्ययोश्चान्यतैव, भिन्नप्रतिभासत्वात् सह्यविन्ध्यवदित्युक्तं भवति । न चात्रासिद्धो हेतु:, साध्यधर्मिणि भिन्नप्रतिभासत्वस्य सद्भावनिश्चयात् । तत एव न सन्दिग्धासिद्धोऽज्ञातासिद्धो वा । नाप्यन्यतरासिद्धो, वादिप्रतिवादिनोरविवादात् । अष्टसहस्त्रीतात्पर्यविवरणम् यदीयं नामापि स्मृतिमुपगतं विघ्नपटलीं, महामन्त्रप्रायं प्रशमयति दोषामिव रविः । मुदोऽसङ्ख्याः शङ्खश्वरविभुरसौ यच्छतु पराः । जरासन्धक्षिप्ताच्युतबलजरातङ्कहरणः ॥१॥ [शिखरिणीवृत्तम्] चतुर्थे कार्यकारणादिभेदाभेदस्याद्वादसाधनार्थमुपक्रमः कार्यकारणेत्यादिकारिकया । तद्भेदैकान्ताभ्युपगमप्रदर्शनं तदूषणमग्रिमकारिकायाम् । गुणशब्दान्नित्यगुणप्रतिपत्तिरिति अनित्यगुणस्य कार्यपदेन पूर्वमेव ग्रहणादत्र गुणपदस्य विशेषपरत्वादिति भावः । अर्थप्रत्यय इति अर्थपदस्य वैशेषिकपरिभाषया द्रव्यादित्रयार्थत्वात्तत्त्रयप्रतीतिरित्यर्थः । Page #125 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि०४-का. ६१] ५२७ [केचित्तटस्था जैनादयः शङ्कन्ते वैशेषिकाः स्वपक्षं पोषयन्तः समादधते ।] भिन्नपुरुषप्रतिभासविषयेणाभिन्नेनार्थेन व्यभिचार इति चेत्, नैकपुरुषापेक्षया भिन्नप्रतिभासत्वस्य हेतुत्वात् । तथापि क्रमेणैकप्रतिपत्तृभिन्नप्रतिभासविषयेणैकेन वस्तुनानेकान्त इति चेत्, न, भिन्नलक्षणत्वस्य भिन्नप्रतिभासत्वस्य हेतुत्वात् । भिन्नं हि लक्षणं कार्यकारणयोर्गुणगुणिनोः सामान्यतद्वतोश्च प्रतिभासते । न चैकस्य वस्तुनो भिन्नलक्षणत्वेन प्रतिभासोऽस्ति, येन व्यभिचारः । तत एव न विरुद्धो हेतुः साकल्येनैकदेशेन वा विपक्षे वृत्त्यभावात् । नापि कालात्ययापदिष्टः, पक्षस्य प्रत्यक्षागमबाधाभावात् । कार्यकारणयोर्गुणगुणिनोः सामान्यतद्वतोस्तादात्म्यमभिन्नदेशत्वात् । ययोरतादात्म्यं न तयोरभिन्नदेशत्वम् । यथा सह्यविन्ध्ययोः अभिन्नदेशत्वं च प्रकतयोः तस्मात्तादात्म्यम इत्यनमानेन पक्षस्य बाधेति चेत. न शास्त्रीयदेशाभेदस्यासिद्धत्वात्, कार्यस्य स्वकारणदेशत्वात् कारणस्यापि स्वान्यकारणदेशत्वात् । एतेन गुणगुणिनोः सामान्यतद्वतोश्च देशभेदस्य प्रतिपादनात् लौकिकदेशाभेदस्य तु व्योमात्मादिभिर्व्यभिचारादस्यानुमानस्यासमीचीनत्वात् प्रकृतपक्षबाधकत्वासम्भवात् । कथञ्चित्तादात्म्यस्य प्रत्यक्षतः प्रतीतेः सर्वथा भेदपक्षस्य बाधेति चेत्, न, तद्विरोधात् । तत एव भेदो मा भूदिति चेत्, न, भेदस्य पूर्वसिद्धत्वात् तादात्म्यस्य पूर्वसिद्धरसिद्धेः । सिद्धौ वा कार्यकारणादिविरोधात् धर्मधर्मित्वाधिकरणाधेयतादिविरोधात् क्रियाव्यपदेशादिभेदविरोधाच्च तयोर्न तादात्म्यं, भेदतादात्म्ययोर्वैयधिकरण्याच्च परस्परविरोधाच्छीतोष्णस्पर्शवत् । तयोरैकाधिकरण्ये सङ्कव्यतिकरापत्तिः । तदनापत्तौ पक्षद्वयोक्तदोषानुषङ्गः । प्रत्येकं तद्विरूपत्वोपगमे वानवस्थानादप्रतिपत्तिरभावश्च, इति वैशेषिकस्य अष्टसहस्त्रीतात्पर्यविवरणम् क्रमेणेति एकत्रैव वस्तुनि देशसन्निकर्षविप्रकर्षाभ्यामेकस्यापि प्रतिपत्तुः कालभेदेन भिन्नप्रतिभाससम्भवादित्यर्थः । भिन्नलक्षणत्वस्येति भिन्नलक्षणत्वप्रयुक्तभिन्नप्रतिभासविषयत्वादित्यर्थः । न च भिन्नलक्षणत्वस्यैव गमकत्वे इतरभागवैयर्थ्य, धूमप्रागभावादिहेताविव यन्निष्ठेत्यादिन्यायेन तद्वैयर्थ्याभावादिति द्रष्टव्यम् । पूर्वसिद्धत्वादिति कार्यकारणादिभेदस्य सर्वैः स्वीकृतत्वेन पूर्वप्रसिद्धत्वादित्यर्थः । असिद्धेरिति तत्प्रत्यक्षस्य विवादापन्नत्वेन तादात्म्ये साध्ये हेतौ सन्दिग्धासिद्धरित्यर्थः ॥ Page #126 -------------------------------------------------------------------------- ________________ ५२८ अष्टसहस्त्रीतात्पर्यविवरणम् __ (भा० ) अवयवगुणसामान्यतद्वतां व्यतिरेकैकान्तमाशङ्क्य प्रतिविधत्ते । एकस्यानेकवृत्तिर्न भागाभावाद् बहूनि वा । भागित्वाद्वास्य नैकत्वं दोषो वृत्तेरनार्हते ॥६२॥ कार्यकारणयोर्गुणगुणिनोः सामान्यतद्वतोश्चान्यत्वमेकान्तेन यदीष्यते तदैकस्य कार्यद्रव्यादेरनेकस्मिन् कारणादौ वृत्तिरेषितव्या, तदनिष्टौ कार्यकारणभावादिविरोधादकार्यकारणादिवत् । तद्वृत्तिश्चाभ्युपगम्यमाना प्रत्याश्रयमेकदेशेन सर्वात्मना वा स्यात् ? ___ (भा०) तत्र एकमनेकत्र वर्तमानं प्रत्यधिकरणं न तावदेकदेशेन, निष्प्रदेशत्वात् । नापि सर्वात्मना, अवयव्यादिबहुत्वप्रसङ्गात् । यावन्तो ह्यवयवास्तावन्तोऽवयविनः स्युस्तस्य प्रत्येकं सर्वात्मना वृत्तत्वात् । यावन्तश्च संयोग्यादयो गुणिनस्तावन्तः संयोगादयोऽनेकस्था गुणाः प्रसज्यन्ते । यावन्तः सामान्यवन्तोऽस्तावन्ति सामान्यानि भवेयुस्तत एव । (भा०) अथापि कथञ्चित्प्रदेशवत्त्वं मन्येतावयव्यादीनां, (भा०) तत्रापि वृत्तिविकल्पोऽनवस्था च । तथात्रावयव्यादि सर्वं (भा० ) तदेकमेव न स्यादिति । वृत्तेर्दोषोऽनार्हते मते दुर्निवारः । नैकदेशेन वर्तते, नापि सर्वात्मना । किं अष्टसहस्त्रीतात्पर्यविवरणम् एकस्येति एकस्य अवयव्यादेः भागाभावाद्=देशाभावादनेकत्रावयवादौ वृत्तिर्न भवति । भवति चेत्तदा प्रत्येकमनेकावयवादिपर्याप्तवृत्तित्वाद् बहुन्यवयव्यादीनि स्युः, देशतो वृत्तिश्च तत्र नावयव्यादीनां, तद्देशानभ्युपगमात्, अभ्युपगमेऽनवस्थाद्यापत्तेः । भागित्वात् कथाञ्चिद्देशित्वाद्वाऽस्यावयव्यादेर्नैकत्वं स्यादित्ययं वृत्तेर्दोषो नार्हते मते Page #127 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि. ४-का० ६२] ५२९ तर्हि ? वर्तते एवेति चायुक्तं, प्रकारान्तराभावात् । [वैशेषिक: समवायेनावयविनं स्वावयवेषु मन्यते तस्य निराकरणम् ।] ननु च समवाय एव प्रकारान्तरं वर्तते, समवैतीति सम्प्रत्ययात्, तद्व्यतिरेकेण वृत्यर्थासम्भवादिति चेत्, न, तत्रैव विवादात् । एतदेव हि विचार्यते, किमेकदेशेन समवैति प्रत्याश्रयं सर्वात्मना वाऽवयवादिष्ववयव्यादिः ? गत्यन्तराभावादिति । तत्र च निगदितो दोषः । तदेवं कार्यगुणसामान्यानां स्वाश्रयेभ्यो विवादापन्नेभ्यो नैकान्तेनान्यत्वं, तत्र वृत्त्युपलब्धेः । यस्य तु यतोऽन्यत्वैकान्तस्तस्य तत्र न वृत्त्युपलब्धिः । यथा हिमवति विन्ध्यस्य । वृत्त्युपलब्धिश्चावयव्यादेः स्वाश्रयेषु । तस्मान्नैकान्तेनान्यत्वम् इत्यनुमानेन तन्नानात्वपक्षस्य बाधितत्वात् कालात्ययापदिष्टो भिन्नप्रतिभासत्वादिति हेतुः । नन्विदमनुमानमसम्यक्, स्थाल्यां दध्नानै कान्तिकत्वात् ततोऽन्यस्यापि दध्नस्तत्र वृत्त्युपलब्धेः संयोगो हि वृत्तिरर्थान्तरभूतयोरेव प्रतीयते नान्यथेति न मन्तव्यं, संयोगिनोः संयोगपरिणामात्मनोः सर्वथान्यत्वासिद्धेरन्यथा तदभावप्रसङ्गात् । ताभ्यां भिन्नस्य संयोगस्योत्पत्तौ हि कथमेकस्यान्यत्र संयोग इति व्यपदेशो, यतः स एव वृत्तिः स्यात् ? । ताभ्यां तस्य जननात्तथा व्यपदेश इति चेत्, न, कर्मणा कालादिना च तज्जननात्तथा व्यपदेशप्रसङ्गात् । तयोः समवायिकारणत्वात्तस्य तथा व्यपदेश इति चेत्, कुतः समवायिकारणत्वं तयोरेव न पुनः कर्मादेरिति नियमः ? इह संयोगिनोः संयोग इति प्रत्ययात्तत्र तस्य समवायसिद्धेरिति चेत्, स तहि समवायः पदार्थान्तरं अष्टसहस्रीतात्पर्यविवरणम् भवतीति कारिकासक्षेपार्थः । प्रकारान्तराभावादिति संयोगवृत्तौ देशकात्या॑न्यतरप्रकारस्यैव दर्शनात् प्रकारद्धयविशेषनिषेधे वृत्तिसामान्यनिषेधपर्यवसानादित्यर्थः । प्रकारान्तरमिति देशकात्य॑विनिर्मुक्तः सम्बन्धप्रकार इत्यर्थः । एतदेव हि विचार्यत इति समवायोऽपि हि घटे घटत्वस्य कात्स्येन तन्तष च पटस्य देशाद्यवच्छेदेनाभावाद्देशेनाभ्युपगम्यत इति तत्रापि प्रकारद्वयावकाशेन विचारस्य बद्धास्पदत्वादिति भावः । वस्तुत एकत्र तन्तौ न पट: किन्तु यावत्सु इति प्रतीतेः प्रत्येकावृत्तेरित्यादिन्यायाच्च प्रकारद्वयं समवायवृत्तौ प्रसिद्धस्थल एवौपढौकत इति तदविरोधो भेदाभेदाभ्युपगमं विना दुरुपपाद इत्यायुक्तं Tवादमालायामस्माभिः । सर्वथाऽन्यत्वासिद्धेरिति तत्काले तत्परिणामेन Page #128 -------------------------------------------------------------------------- ________________ ५३० अष्टसहस्त्रीतात्पर्यविवरणम् कथमत्रैवेहेदमिति प्रत्ययं कुर्यात् न पुनः कर्मादिषु भेदाविशेषेऽपीति न बुद्ध्यामहे । तैरेव समवायिभिर्विशेषणविशेष्यभावसिद्धेः समवायस्य तत्रैवेहेदमिति प्रत्ययोत्पत्तिर्न तु कर्मादिषु, तदसिद्धेरिति चेत्, स एव कुतः सर्वत्र न स्यात् ? तागदृष्टविशेषनियमादिति चेत्, किं विशेषणविशेष्यभावेन समवायेन संयोगेन वा ? तादृगदृष्टविशेषादेव समवायविशिष्टाः समवायिन इति प्रत्यस्येहेदमिति विज्ञानस्यात्रेदं संयुक्तमिति बुद्धेश्च जननप्रसङ्गात् । सर्वस्य वा प्रत्ययविशेषस्यादृष्टविशेषवशवर्तित्वसिद्धेः किं पदार्थभेदप्रभेदपरिकल्पनया ? इति विज्ञानवादप्रवेश: स्यात्, तस्यैवादृष्टविशेषत्वसिद्धेः, चेतना कर्मेति विज्ञानवादिभिरपि प्रतिपादनात् । तेषां वासनाविशेष एव ह्यदृष्टम्, स च पूर्वविज्ञानविशेषः इति न विज्ञानमात्राददृष्टमन्यत् स्यात् । ननु च नाप्रबुद्धा वासना प्रत्ययविशेषं प्रसूते सकृत्सर्वप्रत्ययविशेषप्रसङ्गात् । प्रबुद्धा तु तमुपजनयन्ती प्रबोधहेतूनपेक्षते । ते च बहिर्भूता एवार्थाः इति न विज्ञानमात्रं तत्त्वमनुषज्यते इति चेत्, न विज्ञानविशेषादेव वासनाप्रबोधस्य सिद्धेः तदभावे बहिरर्थस्य सत्तामात्रेण तदहेतत्वादन्यथातिप्रसङ्गात । न च नीलादिविज्ञानादेव तद्वासनाप्रबोधस्तत्प्रबोधादेव नीलादिज्ञानमिष्यते, यतः परस्पराश्रयः स्यात्, तदधिपतिसमनन्तरादिविज्ञानानामेव नीलादिज्ञानजनकानां तद्वासनाप्रबोधकत्वात् तद्वासनानामपि तत्कारणविज्ञानेभ्यः प्रबोधोपगमात् इत्यनादिरयं वासनासरित्परिपतितस्तत्प्रबोधप्रत्ययसार्थस्तद्विज्ञानप्रवाहश्च इति किं बहिरथैः ? कल्पयित्वाप्येतान्विज्ञानानि प्रतिपत्तव्यानि, तैर्विना तद्व्यवहाराप्रसिद्धः सत्सु च तेषु बहिरर्थाभावेऽपि स्वप्नादिषु तद्व्यवहारप्रतीतेरलं बाह्यार्थाभिनिवेशेन । ततो बहिरर्थं व्यवस्थापयितुमनसा नादृष्टमात्रनिमित्तो विशेषणविशेष्यत्वप्रत्ययोऽनुमन्तव्यः, तस्य द्रव्यादिप्रत्ययवद् बहिरर्थविशेषविषयत्वस्यावश्यमाश्रयणीयत्वात् । तथा चानवस्थानात् कुतः संयोगिभ्यां संयोगोऽर्थान्तरभूतः समवायवृत्त्या तयोरिति व्यपदिश्येत ? स एव च स्थाल्यां दध्नो वृत्तिरिति न तेनानैकान्तिको हेतुः स्यात् । तत एव न विरुद्धः, सर्वथार्थान्तरभूतस्य क्वचिद् वृत्त्युपलब्धेरभावात् । ततो निरवद्यमिदमनुमानं - अष्टसहस्रीतात्पर्यविवरणम् तदात्मकत्वेन विरोधादतिप्रसङ्गस्य च कालघटितसम्बन्धेन निरासादित्यर्थः । तथा चानवस्थानादिति संयोगतत्सम्बन्धतत्सम्बन्धादिचिन्तयाऽनिष्टापत्तेरित्यर्थः । कत इति Page #129 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि० ४-का० ६२] ५३१ भेदपक्षस्य बाधकम् इति तत्र प्रवर्तमानो हेतुः कालात्ययापदिष्ट एव, प्रत्यक्षविरुद्धत्वाच्च पक्षस्यावयवावयव्यादीनां कथञ्चित्तादात्म्यस्यैव साक्षात्करणात् । नन्वेवमपि वृत्तेर्दोषो यथोपवर्णितः स्याद्वादिनां प्रसज्यते इति चेत्, (भा०) नायं प्रसङ्गोऽनेकान्ते, कथञ्चित्तादात्म्यावेद्यवेदकाकारज्ञानवत् । यथैव हि ज्ञानस्य वेद्यवेदकाकाराभ्यां तादात्म्यमशक्यविवेचनत्वात् किमेकदेशेन सर्वात्मना वेति विकल्पयोर्न विज्ञानस्य सावयवत्वं बहुत्वं वा प्रसज्यतेऽनवस्था वा, तथावयव्यादेरप्यवयवादिभ्यस्तादात्म्यमशक्यविवेचनत्वादेव नैकदेशेन प्रत्येकं सर्वात्मना वा यतस्ताथागतः सर्वथा भेदे इवावयवावयव्यादीनां कथञ्चित्तादात्म्येऽपि वृत्तिं दूषयेत् । [वैशेषिकोऽपि जैनस्य कथञ्चित्तादात्म्ये दोषारोपणं कर्तुं न शक्नोति ।] एतेन वैशेषिकोऽपि न कथञ्चित्तादात्म्ये वृत्तिविकल्पादिदूषणमापादयितुमीशः, सामान्यविशेषवत्तत्र तदनवकाशात् । न ह्यपरसामान्यं व्यावृत्तिबुद्धिहेतुत्वाद्विशेषाख्यामपि लभमानमपह्नोतुं शक्यं, तस्य सामान्यैकरूपत्वेऽपरविशेषाभावप्रसङ्गात्, तदपरविशेषरूपत्वेऽपरसामान्याभावापत्तेः, तदुभयरूपत्वे सामान्यविशेषरूपयोः - अष्टसहस्रीतात्पर्यविवरणम् निरन्तरोभयद्रव्यनिमित्तादेव संयोगव्यवहारोपपत्तेरनन्तरपरम्परसंयोगभेदस्य चान्यथानुपपत्तेरिति भावः । ननु वृत्तिविकल्पदोषः स्याद्वादेऽपि किं न स्यादित्याशक्य भेदाभेदशबलैकवस्तुस्वरूपत्वे देशकात्य॑वृत्तिव्यवहारस्य चित्रज्ञानसामान्यविशेषदृष्टान्तेन यथाविवक्षं सम्मिलितस्यैवोपपत्तेर्न तदोषावकाश इति समाधित्सुराह-नन्वेवमपीत्यादिना । ॥ विशेषवादः॥ तदुभयरूपत्व इति न च पारिभाषिकमुभयरूपत्वमुभयपदार्थतादात्म्यमापादयितुमनीश्वरमिति शङ्कनीयम्, अनुवृत्तिव्यावृत्तिबुद्धिहेतुतया सिद्धस्य पदार्थद्वयस्याऽर्थतस्तादात्म्यापादनाविरोधात्, अन्त्यविशेषस्य तु विशेषोऽपि न पदार्थान्तरं मानाभावाद्विनापि व्यावर्त्तकधर्मं विशेषाणामिव नित्यानामपि द्रव्याणां स्वत एव व्यावृत्तत्वात्, योगिनो विशेषमीक्षन्ते प्रत्यक्षत एवेति चेत्, त एव तर्हि संशयपथं पृच्छ्यन्तां किमु तेऽतिरिक्तं विशेषमीक्षन्ते न वा ? इति' [ ] ग्रन्थेन पदार्थतत्त्वविवेके शिरोमणिभद्राचार्यैरेव निराकरणात् । अथ समवायित्वे सति समवायियव्यक्तेर्यव्यावृत्तं यन्नित्यं तत्परस्परासमवेत Page #130 -------------------------------------------------------------------------- ________________ ५३२ अष्टसहस्त्रीतात्पर्यविवरणम् कथञ्चित्तादात्म्यस्यैवाभ्युपगमनीयत्वात्, तदेकार्थसमवायस्य कथञ्चिदेकद्रव्यतादात्म्यादपरस्यासम्भवात्, सामान्यस्यैवानुवृत्तव्यावृत्तप्रत्ययहेतुत्वेन सामान्यविशेषोभयाकारस्येष्टत्वाच्च । न तयोराकारयोरन्यत्रैकार्थे समवायः परस्परं वा शक्यो वक्तुं, यतस्तद्वदवयवावयव्यादीनां कथञ्चित्तादात्म्यं वृत्तिः प्रकृतदूषणोपद्रुता स्यात् । किञ्चावयवादिभ्योऽवयव्यादीनामत्यन्तभेदे देशकालाभ्यामपि भेदः स्यात् ॥६१-६२॥ अष्टसहस्त्रीतात्पर्यविवरणम् समवेतशून्यधर्मसमवायीति व्याप्तिरात्मत्वमादाय घटपटादिव्यावृत्तात्मादाववधारिता । अत्र सत्तादिकमादाय सिद्धसाधनवारणाय परस्परासमवेतेति, एकत्वादिकमादाय तद्वारणाय समवेतशून्येति, प्रमेयत्वादिकमादाय तद्वारणाय समवायीति, अभावे व्यभिचारवारणाय हेतौ समवायित्वे सतीति, घटादावभावव्यावृत्तिसत्त्वेनाभावसमवेतत्वाप्रसिद्ध्या तदभावाप्रसिद्धाप्यत्वासिद्धिः स्यादिति तद्वारणाय हेतौ समवायित्वं यद्व्यक्ते विशेषणम्, अनुपादेयमेव वा तत्, साध्ये परस्परासमेतत्वं परित्यज्य तत्स्थाने स्वासमवायितत्वेत्यस्य वक्तव्यत्वात् । साध्ये समवायित्वं स्वाश्रयसमवेतत्वादिपरंपरासाधारणं, नातः सजातीयघटद्वये व्यभिचारः, विशेषमादाय तत्रापि साध्यसत्त्वात् समवायित्वे सतीत्यपहाय नित्यद्रव्यत्वे सतीति वा वक्तव्यं, तथा च तादृशव्याप्तिबलात् सजातीयनित्यद्रव्ययोः परस्परासमवेतसमवेतशून्यधर्मसिद्धावर्थादतिरिक्तविशेषसिद्धिरिति चेत्, न, अप्रयोजकत्वेनैतव्याप्त्यसिद्धेः, अन्यथा विशेषान्यत्वमपि साध्ये निवेश्य पदार्थान्तरमपि साधयतो मुखमुद्रणस्याशक्यत्वापत्तेः । कथं चैवं नित्यगुणव्यक्तीनां परस्परव्यावृत्तत्वं ? तासु विशेषानभ्युपगमात्, आश्रयविशेषात्तद्विशेषाभ्युपगमे तु नित्यगुणाश्रित एव विशेषपदार्थोऽस्तु आश्रितविशेषाच्चाश्रयविशेष, इत्येव किं न स्यात् ? स्वाश्रयसमवेतत्वेन विशेषस्य व्यावर्त्तकत्वे च परमाण्वादिगतसत्तासामान्यस्यापि स स्वभावं त्याजयेत् । अपि चैवं चित्रज्ञानादावांशिकभेदनिर्वाहार्थमेकव्यक्तावपि विशेषः सिद्ध्येत्, स च सिद्ध्यन् विशेषपदोक्तां पर्यायमर्यादां नातिक्रामतीति द्रव्यपर्यायतया स्वतोऽनुवृत्तिव्यावृत्तिस्वभावं वस्त्वकामेनापि प्रतिपत्तव्यं । नित्यद्रव्यदृष्टान्तेन सर्वत्र स्वतोव्यावृत्तत्वं स्वीकुर्वन् शिरोमणिः पुनरेकदृगेव, अन्यथा विशेषमिव सामान्यमतिरिक्तमपश्यन् स्वतोऽनुवृत्तत्वमपि कथं न स्वीकुर्याद् ? इति सुस्वीकारितमाचार्येण सामान्यविशेषयोः कथञ्चित्तादात्म्यमिति भावनीयम् । भेदः स्यादिति अवयव्यादयोऽवयवादिभ्यो भिन्नाः स्युर्देशकालाभ्यामत्यन्तभिन्नत्वात्, घटपटवदित्यत्रापादनं बोध्यम् ॥६१-६२।। Page #131 -------------------------------------------------------------------------- ________________ ५३३ द्वितीयो भागः [ परि. ४-का० ६३] देशकालविशेषेऽपि स्याद् वृत्तिर्युतसिद्धवत् । समानदेशता न स्यान्मूर्तकारणकार्ययोः ॥६३॥ नन्वात्माकाशयोरत्यन्तभेदेऽपि देशकालाभ्यां भेदाभावान्न ततः कार्यकारणादीनां तद्भेदः सिद्ध्यति, यतो युतसिद्धवद् वृत्तिः स्यादिति चेत्, न, तयोरपि सद्दव्यत्वादिना भेदाभावादत्यन्तभेदासिद्धरभिन्नदेशकालत्वाविरोधात् । परस्यापि सर्वमूर्तिमद्रव्येषु युगपत्संयोगवृत्तेरभ्युपगमात् तयोरत्यन्तभेदानिष्टेर्देशकालाभ्यामभेदाविरोधे तथैवावयवावयव्यादेस्ताभ्यामभेदोऽस्त्वविरुद्धः । स च कथञ्चिदभेदसाधनः स्यात्, न चासाविष्यते, अपसिद्धान्तप्रसङ्गात् । (भा० ) तस्मादङ्गाङ्ग्यादेरत्यन्तभेदात् तद्देशकालविशेषेणापि वृत्तिः प्रसज्येत घटवृक्षवत् । वर्णादिभिरनैकान्तिकत्वमित्ययुक्तं, तद्व्यतिरेकैकान्तानभ्युपगमात् । यथैव हि वर्णरसगन्धस्पर्शानां स्वाश्रयादत्यन्तभेदो नेष्टो दृष्टो वा तथा परस्परतोऽपीति । नाप्येतैः पक्षकदेशात्मभिर्व्यभिचारो नामातिप्रसङ्गात् । यदि पुनः कार्यकारणादीनां समानदेशकालत्वमुररीक्रियते तथैव सिद्धान्तावधारणादिति मतं तदापि (भा० ) अवयवावयविनोः समानदेशे वृत्तिर्न भवेत्, मूर्तिमत्त्वात्खरकरभवत् । मूर्तयोः समानदेशत्वविरोधात् । वातातपयोः समानदेशत्वदर्शनादविरोध इति चेत्, न, तयोः स्वावयवदेशयोरवयविनोरभ्युपगमात् । तन्तुपटयोरपि स्वावयवदेशत्वात्समानदेशत्वाभावो न दोष इति चेत्, न, परमाणुव्यणुकयोभिन्नदेशत्वा अष्टसहस्त्रीतात्पर्यविवरणम् तथैव युगपत्संयोगवृत्त्यादिनैव, अभेदसाधनो=अभेदव्यवहारसाधनः तथा उक्तवदभ्युपगमे । एकत्वपरिणामनिरुत्सुकानामिति, यद्यपि द्रव्यत एकत्वपरिणामनिरुत्सुकानामप्यानुपूर्व्यनानुपूर्व्यवक्तव्यद्रव्याणामनन्तानामेकाकाशप्रदेशावस्थितिरिष्यते, तथापि एकप्रदेशावगाढानां तावतां तेषां क्षेत्रकृतमेकत्वमादायोक्ताविरोधो भावनीयः । युक्तं चैतत्, एकप्रदेशावगाढानामेव क्षेत्रतोऽनानुपूर्वीद्रव्यत्वात् तेषां चासङ्ख्येयानामेव सिद्धान्त Page #132 -------------------------------------------------------------------------- ________________ ५३४ अष्टसहस्त्रीतात्पर्यविवरणम् भावात्समानदेशत्वमपि न भवेदिति दोषोद्भावनात् । व्यणुकस्य परमाणुदेशत्वात्परमाणोरनंशस्याप्याश्रयान्तरस्थत्वात्तयोरसमानदेशतैवेति चेत्, न, तथा लौकिकदेशापेक्षया समानदेशत्वोपगमस्य प्रसङ्गात् । स च मूर्तयोर्न भवेदिति सूक्तमेव दूषणम् । कथमेवमनेकान्तवादिनामेकाकाशप्रदेशेऽसङ्ख्येयादिपरमाणूनामवस्थानं न विरुद्ध्यते इति चेत्, तथावगाहनविशेषादेकत्वपरिणामादिति ब्रूमहे । नोकं मूर्तिमद्रव्यमेकत्र देशेऽवतिष्ठमानं विरुद्ध नाम, अतिप्रसङ्गात् । संयोगमात्रेण तु स्थितानामेकत्वपरिणामनिरुत्सुकानां नैकाकाशप्रदेशेऽवस्थानमवगाहनविशेषाभावादनेकाकाशप्रदेशवृत्तित्वसिद्धेः इति स्याद्वादिनां न किञ्चिद्विरुद्धम् ॥६३॥ स्यान्मतम् आश्रयाश्रयिभावान्न स्वातन्त्र्यं समवायिनाम् । इत्ययुक्तः स सम्बन्धो न युक्तः समवायिभिः ॥६४॥ समवायेन (भा०) कार्यकारणादीनां परस्परं प्रतिबन्धात् कुतः स्वातन्त्र्यं यतो देशकालिभेदेन वृत्तिरिति चेत्, स तर्हि समवायिषु समवायान्तरेण वर्तते स्वतो वा ? (भा०) समवायस्य समवायान्तरेण वृत्तावनवस्थाप्रसङ्गात्, स्वतो वृत्तौ द्रव्यादेस्तथोपपत्तेः । समवायवैयर्थ्यात् कार्यकारणादीनां कुतः प्रतिबन्धः ? यदि पुनरनाश्रितत्वात् प्रतिबन्धान्तरानपेक्ष इष्यते तदापि (भा० ) असम्बद्धः समवायः कथं द्रव्यादिभिः सह वर्तेत, यतः पृथक्सिद्धिर्न स्यात् ? तस्मादयुक्तः सम्बन्धो न युक्तः समवायिभिः । न ह्यप्रतिबद्ध एव - अष्टसहस्त्रीतात्पर्यविवरणम् - प्रतिपादनात् सर्वपुद्गलद्रव्याणां चानन्तत्वादित्यालोचनीयं स्वसमयरहस्यविद्भिः ॥६३।। आश्रयेत्यादि उत्तरार्द्ध इतिस्तथापीत्यर्थे, तथा च तथापि स सम्बन्धः सम Page #133 -------------------------------------------------------------------------- ________________ ५३५ द्वितीयो भागः [ परि० ४-का० ६५] समवायिभिः समवायः सम्बन्धो युक्तिमान्, कालादेरपि सम्बन्धत्वप्रसङ्गात् । सम्बद्ध एव हि स्वसम्बन्धिभिः संयोगः सम्बन्धो दृष्टस्तस्य तैः कथञ्चित्तादात्म्यसम्बन्धात् । समवायोऽपि विशेषणविशेष्यभावसम्बन्धात्समवायिभिः सम्बद्ध इति चेत्, न, तस्यापि विशेषणविशेष्यभावान्तरेण स्वसम्बन्धिभिः सम्बन्धेऽनवस्थाप्रसङ्गात्, अन्यथा सम्बन्धत्वविरोधात् । तस्य सम्बन्धिभिः कथञ्चित्तादात्म्ये कार्यकारणादीनामपि तदेवास्तु । किं समवायेन पदार्थान्तरभूतेन सत्तासामान्येनेव कल्पितेन ? फलाभावात् प्रागसतः सत्तासमवायात् कार्यस्योत्पत्तेः सफलमेव तत्परिकल्पनमिति चेत्, नानुत्पन्नस्य सत्तासमवायासम्भवात्, उत्पन्नस्यापि तद्वैयर्थ्यात्, स्वरूपलाभस्यैव स्वरूपसत्तात्मकत्वात्, स्वरूपेणासतः सत्तासम्बन्धेऽतिप्रसङ्गात् ॥६४॥ यदि पुनरुत्पद्यमानमेव कार्यं सत्तासमवायीष्यते, प्रागसतः सत्तासमवाय उत्पाद इति वचनात् [ ] केवलस्य समवायस्य सत्तासामान्यवन्नित्यत्वादुत्पाद इति ज्ञानाभिधानाहेतुत्वादिति मतं तदा सामान्यं समवायश्चाप्येकैकत्र समाप्तितः । अन्तरेणाश्रयं न स्यान्नाशोत्पादिषु को विधिः ॥६५॥ [यौगाभिमतसामान्यसमवाययोनिराकरणम्] येषां परमार्थतः सामान्यस्याश्रितत्वमुपचारात्समवायस्य समवायिषु तत्राप्रति अष्टसहस्त्रीतात्पर्यविवरणम् वायाख्यः समवायिभिरयुक्तोऽसम्बद्ध इति न युक्तो=न घटमानक इति, समवास्यैवाभावाद्दूरे समवायिनां स्वातन्त्र्यपारतन्त्र्यचर्चेति भावः । एवं च स्यान्मतमिति शङ्काया अनुपमर्दान्नासंलग्नकत्वमिति द्रष्टव्यम । स्वरूपलाभस्यैव स्वरूपसत्तात्मकत्वादिति, तदिदमाहः-न हि देशकालयोः सत्त्वं विहायान्यत सत्त्वम, अभावेऽपि स्वकालदेशकतं सत्त्वमभ्युपगम्यत एव, इदानीं भूतले घटाभावोऽस्तीति प्रतीतेः, अभावव्यावृत्तसद्व्यवहारस्तु भावत्वनिबन्धन एव इति, [ ] । अतिप्रसङ्गादिति परम्परासम्बन्धेन सामान्यादाविवाभावेऽपि सद्व्यवहारप्रसङ्गादित्यर्थः । स्वरूपसत्तयैव सद्व्यवहारोपपत्तौ चालं पदार्थान्तरपरिकल्पनयेति रहस्यम् ॥६४॥ येषामिति येषां वैशेषिकाणां सामान्यस्य समवायसम्बन्धेन सम्बद्धत्वात् पर Page #134 -------------------------------------------------------------------------- ________________ ५३६ अष्टसहस्त्रीतात्पर्यविवरणम् बद्धत्वादसम्बद्धत्वं, तदुपचारनिमित्तं तु समवायिषु सत्सु तस्येहेदमिति प्रत्ययकारित्वमिति मतं, तेषां (भा०) प्रत्येकं परिसमाप्तेराश्रयाभावे सामान्यसमवायोरसम्भवादुत्पत्तिविपत्तिमत्सु कथं वृत्तिः ? । क्वचिदेकत्र नित्यात्मन्याश्रये सर्वात्मना वृत्तं सामान्यं समवायश्च तावत् । (भा०) उत्पित्सुप्रदेशे प्राङ्नासीद्, अनाश्रितत्वप्रसङ्गात् । (भा०) नान्यतो याति, सर्वात्मना पूर्वाधारापरित्यागादन्यथा तदभावप्रसङ्गात्, नाप्येकदेशेन, सांशत्वाभावात् । (भा०) स्वयमेव पश्चाद्भवति, स्वप्रत्ययकारित्वात् । (भा०) आश्रयविनाशे च न नश्यति, नित्यत्वात् । (भा० ) प्रत्येकं परिसमाप्तं च इति व्याहतमेतत् । स्यान्मतं-'सत्तासामान्यं तावद् द्रव्यादिषु प्रत्येकं परिसमाप्तं, सत्प्रत्ययाविशेषात् । सर्वत्रास्ति च, सत्यप्रत्ययाविच्छेदात् । समवायोऽपि सर्वत्र विद्यते, समवायिनां शश्वदविच्छेदान्नित्यानां, जन्मविनाशवतां तु केषाञ्चिदुत्पित्सुदेशेषूत्पद्यमानानामेव सत्तासमवायित्वसिद्धेः निष्ठासम्बन्धयोरेककालत्वात् [ ] इति वचनात् । प्रकृतदूषणानवकाशः, सत्तासमवाययोः प्रागसत्त्वाभावात् तत्रान्यतश्चागमनस्य सर्वात्म - अष्टसहस्त्रीतात्पर्यविवरणम् मार्थतोऽनुपचारादन्वितत्वं समवायस्य तु समवायान्तराभावादुपचारात्, तथा च समवायिषु तथा सामान्यवदप्रतिबद्धत्वाद् असम्बद्धत्वमिति योजना । 'नान्वितो यातीति १. नान्यतो इति अष्टसहस्रीसम्मतः पाठः । Page #135 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि० ४-का० ६५] ५३७ नैकदेशेन वानभ्युपगमात् पश्चाद्भवनानिष्टेः शाश्वतिकत्वाच्च' इति तदेतदपि व्याहततरं, सर्वगतस्य सामान्यस्य समवायस्य चैकस्य स्वाश्रयेषु प्रत्येकं परिसमाप्तेरसम्भवात् तबहुत्वापत्तेराश्रयस्वरूपवत् । न च सर्वत्राविच्छेदात्तदेकत्वं, तदसिद्धेः प्रागभावादिषु सत्तासमवायासम्भवाद्विच्छेदोपलम्भात् । [सामान्यसमवायचर्चाप्रसङ्गे प्रागभावादीनां विचारः ।] प्रागभावादीनां सर्वदा भावविशेषणत्वान्न तत्र तद्विच्छेद इति चेत्, नैवमभावस्यापि सर्वगतत्वैकत्वप्रसङ्गात्, सर्वत्रासत्प्रत्ययाविशेषादविच्छेदाविशेषाच्च । यथैव हि द्रव्यादिषु सत्प्रत्ययोऽविशिष्टस्तथा पररूपतोऽसत्प्रत्ययश्च । यथा चाभावस्य शश्वद्भावपरतन्त्रत्वं तथा भावस्याभावपरतन्त्रत्वमपि तदविच्छेदसाधनं, पररूपेणासत एव भावस्य प्रतीतेरन्यथा सर्वसाधैर्यप्रसङ्गाद्भावविशेषव्यवस्थितिविरोधात् । नन्वभावस्यैकत्वे कार्यस्य जन्मनि प्रागभावाभावे प्रध्वंसेतरेतरात्यन्ताभावानामप्यभावप्रसङ्गादनन्तत्वसर्वात्मकत्वात्यन्ताभावापत्तिः । प्रध्वंसस्य चाभावेऽनुत्पन्नस्य कार्यस्य प्रागभावस्याप्यभावादनादित्वप्रसङ्गः प्राक् पश्चादितरेतरात्यन्त विशेषणानुपपत्तिश्च तदभेदाद् इति कश्चित्, तस्यापि कथं सत्त्वैकत्वे समवायैकत्वे च कस्यचित्सत्तासमवाये सर्वस्य स न भवेत् ? तथा सति भावस्योत्पत्तेः प्रागपि प्रध्वंससमयेऽप्यभावान्तरेऽपि चात्यन्तसत्त्वसिद्धः कुतः प्रागभावादिभेदस्य व्यवस्था स्यात् ? प्रत्ययविशेषात्तद्व्यवस्थायां सत्तासमवायस्य भेदव्यवस्थास्तु तत एव । न हि प्रध्वंसात्प्राक्कार्यस्य सत्तासमवायः प्रागभावात् पश्चादितरस्मादितरत्रेत्यादि - अष्टसहस्त्रीतात्पर्यविवरणम् - अनु पश्चात्, इतः सकाशान्न यातीत्यर्थः । भावविशेषणत्वाद्= भावविनिर्मुक्तबुद्ध्यविषयत्वात्, भावपरतन्त्रत्वं उक्तभावविशेषणत्वमेव, एवमग्रेऽभावपरतन्त्रत्वमपि व्याख्येयम् । सत्तैकत्वेऽसत्तैकत्वमपि स्यादित्युक्तं तत्रासत्तैकत्वे बाधकमाशङ्कते-नन्वभावस्यैकत्व इत्यादिना । एवं वादिनः सत्तैकत्वेऽपि बाधकं तुल्यमित्याह-तस्यापीत्यादिना, प्रत्ययविशेषात्=प्राङ् नासीदित्यादिप्रतीतिभेदात्, तद्व्यवस्थायां प्रागभावादिभेदव्यवस्थायां, तत एव प्रत्ययविशेषादेव, न हीत्यादिना प्रागासीत् पश्चाद्भविष्यतीत्येवं कालभेदात्, इतरस्माद् देशादितरत्रास्ति इत्यनेन च देशभेदात् प्रतीतिसाक्षिकः सत्तासमवायभेद उपदर्शितः । यदि च तत्तत्कालदेशरूपविशेषणभेदेऽपि सत्ताया न भेदः, तर्हि तद्वदेवाऽभावस्यापि स मा भूत्, विरुद्धधर्माध्यासेनासत्ताभेदे च सत्ताभेदोऽपि तद्वदेवा Page #136 -------------------------------------------------------------------------- ________________ अष्टसहस्त्रीतात्पर्यविवरणम् प्रत्ययविशेषोऽसिद्धः परीक्षकाणां यत सत्तासमवाययोरनेकत्वं न स्यात् । यदि पुनः प्राक्कालादिविशेषणान्येव भिद्यन्ते समवायिनश्च न पुनः सत्ता समवायश्चेति मतं तदा कथमभावोऽपि भिद्येत ? तद्विशेषणानामेव भेदात् । विरुद्धधर्माध्यासात्तद्भेदे सत्तासमवायभेदोऽपि तत एव । ततो विश्वरूपा सत्तास्तु असत्तावत् । तथा समवायोऽपि । न चैवमेकत्वविरोधः सत्तायाः सम्भावनीयो, विशेषतोऽनेकत्वेऽपि सामान्यार्पणादेकत्वाविरोधात्, सद्विशेषेष्वेव सत्सामान्यप्रतीतेरसद्विशेषेष्वसत्सामान्य प्रतीतिवत् । समवायविशेषेषु समवायसामान्यप्रतीतिश्च न विरुद्धा, संयोगविशेषेषु तत्सामान्यप्रतीतिवद् इति सर्वं सामान्यविशेषात्मकं सिद्धम् । न च सामान्यस्य विशेषस्य चैकशः सामान्यविशेषात्मकत्वेऽनवस्थानमन्यथा सर्वं सामान्यविशेषात्मकमिति प्रतिज्ञा हीयते, तयोरन्योन्यात्मकत्वसिद्धेर्द्रव्यार्थार्पणया परस्परतो भेदाच्च पर्यायार्थार्पणया सापेक्षत्वमात्रस्य तयोरिष्टेः सामान्यस्य हि स्वविशेषादपोद्धृतस्य विशेषान्तरात्मकत्वे विशेषस्य च स्वसामान्यान्निर्धारितस्य सामान्यानन्तरात्मकत्वेऽनवस्था स्यान्नान्यथा । भिन्नस्य च सामान्यस्य विशेषाद्विशेषस्य च सामान्यादितरनिरपेक्षत्वे प्रतिज्ञाहानिः प्रसज्यते, न पुनरितरथा इति स्याद्वादिनां सर्वं सुस्थम् वैशेषिकाणां तु तदुभयप्रकारानभ्युपगमादुक्तदोषानुषङ्ग एव ॥६५॥ तेषां हि ५३८ सर्वथानभिसम्बन्धः सामान्यसमवाययोः । ताभ्यामर्थो न सम्बद्धस्तानि त्रीणि खपुष्पवत् ॥६६॥ [सामान्यसमवायपदार्थस्त्रयोऽपि न सिद्ध्यन्ति वैशेषिकमते । ] समनुषज्यन्ते इति शेषः तथा हि (भा०) सामान्यसमवाययोः परस्परतः सम्बन्धासम्भवात् ताभ्या अष्टसहस्त्रीतात्पर्यविवरणम् स्त्विति सिद्धं द्वयोस्तुल्यकक्षतया विश्वरूपत्वम् । भावत्वाऽभावत्वयोरेवैक्यं न तु भावभावयोरिति तु मन्दं, विशेषणांश इव विशेष्यांशेऽप्यनुगतप्रतीतेस्तौल्याद्विशेषणभेदेन भेदस्य चोभयत्राविशेषात् सामान्यविशेषोपयोगाभ्यां वैश्वरूप्यस्यैव सिद्धेरित्यभिप्रायवानाह-यदि पुनरित्यादिना ॥६५॥ Page #137 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० ४ - का० ६६ ] मर्थोऽपि न सम्बद्धः । कुतस्तयोरनभिसम्बन्ध इति चेत्, संयोगस्य समवायस्य चानभ्युपगमात्, सामान्यं समवायीति विशेषणविशेष्यभावस्य चासम्भवादनवस्थाप्रसङ्गाच्च । तथैकार्थसमवायस्य चानवकाशात् समवायस्य क्वचिदसमवायात् सम्बन्धान्तरानिष्टेः सर्वथानभिसम्बन्धस्तावत्सिद्ध एव । तत: परस्परतोऽनभिसम्बन्धाभ्यां सामान्यसमवायाभ्यामर्थोऽपि द्रव्यगुणकर्मलक्षणो न सम्बद्धः शक्यते वक्तुं यतस्तत्र सत्तासमवायः स्यात् । ५३९ ( भा० ) ततस्त्रीण्यपि नात्मानं बिभृयुः कूर्मरोमादिवत् । परस्परमसम्बद्धानि ह्यर्थसमवायसामान्यानि न सन्त्येव । न चासतां कर्तृत्वम् । नापि कश्चिदात्मा सम्भवति यस्य कर्मत्वम् । न च कर्तृकर्मत्वाभावे तान्यात्मानं बिभृयुरिति शक्यं वक्तुं कर्तरि लिडो विधानात्कर्मणि विभक्तिनिर्देशाच्च । स्यान्मतं- 'परस्परमसम्बद्धानामपि स्वरूपसत्त्वप्रसिद्धेर्नार्थसमवायसामान्यानामसत्त्वम् । कूर्मरोमादीनां स्वरूपसत्त्वाभावाच्च विषमोऽयमुपन्यासः' इति तदयुक्तं, द्रव्यगुणकर्मणां स्वरूपसत्त्वोपगमे सत्तासमवायस्य वैयर्थ्यात्सामान्यादिवत्, सामान्यादीनां वा सत्तासम्बन्धप्रसङ्गाद् द्रव्यादिवत्, तेषां स्वरूपसत्त्वानुपगमे कूर्मरोमादिभ्यो विशेषाभावात् सम एवोपन्यास इति निरूपणात् कथं चार्थान्तरभूतायां सत्तायां समवायवत्सर्वथानभिसम्बद्धायां द्रव्यगुणकर्मणां सत्त्वं न पुनः कूर्मरोमादीनाम् ? इति चिन्त्यम् । कथं च सत्तासामान्यं सर्वथा समवायासम्बद्धं द्रव्यादिषु समवायि न पुनः समवायस्तत्र समवायी समवायान्तरेणासम्बद्ध इति अष्टसहस्त्रीतात्पर्यविवरणम् ततः परस्परत इत्यादि, युक्तं चैतत्, न ह्यसम्बद्धाभ्यां घटसंयोगाभ्यां कृत्वा भूतलं घटसम्बद्धं भवति, पटसंयोगेन घटवद्भूतलमित्यस्याप्यापत्तेः न च सामान्यनिरूपितत्वं समवायैक्ये किञ्चिदतिप्रसङ्गवारकं नाम, तन्नानात्वे स्वरूपतः सामान्यनिरूपितत्वं व्यवहारे स्वीक्रियतां, किमन्तर्गडुना समवायेन ? तत्र सत्तानिरूपितत्वस्य खपुष्प इवासम्भवादिति । कथं चेत्यादि अनभिसम्बद्धायामित्यनन्तरमङ्गीक्रियमाणायामिति शेषः । अत्र यत् यत्सम्बन्धाभाववत् तत्तेन सम्बन्धेन तदभाववदिति व्याप्तेरर्थसमवायाभाववत्याः सत्ताया अर्थेऽभावात् कूर्मरोमतुल्यत्वमर्थानां पराभिमतानामिति बोध्यम् । उक्तयुक्तिमेवोत्तेजयति कथं Page #138 -------------------------------------------------------------------------- ________________ ५४० अष्टसहस्रीतात्पर्यविवरणम् बुद्ध्यामहे ? समवायसम्बद्धत्वाभावाविशेषात्, सतापि हि समवायेन सामान्यस्यासम्बद्धत्वं समवायान्तरेण पुनरसत्ता समवायस्येति तत्सदसत्त्वाभ्यामसम्बद्धत्वस्य विशेषयितुमशक्तेः । न च कश्चित्सम्बन्धः स्वसम्बन्धिभ्यामसम्बद्ध एव तौ घटयितुमलं, संयोगस्यापि स्वसंयोगिभ्यामसम्बद्धस्यैव तयोर्घटकत्वप्रसङ्गात् । न चैवमिष्यते सिद्धान्तविरोधात् । ततो न कार्यकारणयोर्गुणगुणिनोः सामान्यतद्वतोर्वान्यतैकान्ते तद्भावो युक्तोऽकार्यकारणादिवत्, समवायादर्थान्तरभावनियमाच्च । तद्वत्समवायोऽपि न तेषां परस्परं घटनकारी सर्वथानभिसम्बद्धत्वात् तादृगर्थान्तरवत् । ततश्चासन् समवायोऽनर्थक्रियाकारित्वात् कूर्मरोमादिवत् । सामान्यं चासत् तत एव तद्वत् । न हि तदर्थैरसम्बद्धं स्वविषयज्ञानोत्पादनलक्षणामप्यर्थक्रियां कर्तुं प्रभवति यतोऽसिद्धो हेतुः स्यात् । तथा न सन्ति द्रव्यादीनि सत्तासमवायरहितत्वात्तद्वत् । सामान्यादिभिर्व्यभिचार इति चेत्, न, तेषामपि परमार्थतः सत्त्वानभ्युपगमात् । न चोपचरितसद्भिर्व्यभिचारचोदनोपपत्तिमती, परमार्थसत्त्वाभावसाधनस्यातिप्रसङ्गाद् इति न कार्यकारणादीनामन्यतैकान्तः श्रेयान्, प्रमाणाभावादनन्यतैकान्तवत् ॥६६॥ अष्टसहस्त्रीतात्पर्यविवरणम् च सत्तासामान्यमित्यादिना । ततश्चासत्समवाय' इति । ॥ समवायनिराकरणवैशिष्ट्यस्वीकारवादः ॥ ननु समवायो यदि सत्तया सर्वथाऽनभिसम्बद्धः स्यात्तदाऽर्थे सत्तां न सङ्कटयेदिति तर्कः, समवायासिद्धावाश्रयासिद्धत्वेन प्रशिथिलमूलस्तत्सिद्धौ च किं तेन ? उदिते सूर्ये चौरादिशापवत्तस्य व्यर्थत्वात् । केवलं ततः समवायस्य स्वभावविशेष कल्पयेत् प्राज्ञो येन सत्तायामसन्नप्यसौ तामर्थेन सङ्घटयेदित्ययुतसिद्धानामिहेति प्रत्ययहेतुरनुगतः समवायो दुरपह्नव इति चेद्, दुरन्तेयं नैयायिकसमयवासनानुबद्धा लाघवधीर्देवानांप्रियस्य, हन्तैवं जलादौ वह्याद्यभावप्रमायाः सम्बन्धनियतत्वात्तत्राप्यनुगतं वैशिष्ट्यसम्बन्धं लाघवप्रियः किं नाभ्युपैषि ? (शङ्का) स्वरूपसम्बन्धेनैव तत्प्रमोपपत्तेरतिरिक्तवैशिष्ट्येऽपि वैशिष्ट्यान्तरस्वीकारेऽनवस्थापत्तेरिति चेत्, समवायेऽपीदृशी दीयतां दृष्टिः । (शङ्का) गुणगुण्यादिस्वरूपद्वये सम्बन्धत्वमतिरिक्तसमवाये वेति विनिगमकाभावादपि समवायसिद्धिः, प्रकृते तु १. असन् इति अष्टसहस्रीसम्मतः पाठः । Page #139 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० ४ - का० ६७ ] ५४१ अपरः प्राह-मा भूत्कार्यकारणादीनामन्यतैकान्तः परमाणूनां तु नित्यत्वात् सर्वास्ववस्थास्वन्यत्वाभावादनन्यतैकान्त इति तं प्रति सम्प्रत्यभिधीयते अनन्यतैकान्तेऽणूनां सङ्घातेऽपि विभागवत् । असंहतत्वं स्याद् भूतचतुष्कं भ्रान्तिरेव सा ॥६७॥ [परमाणवः पररूपं न परिणमन्ते इति मन्यमाने दोषानाह । ] यथैव हि विभागे सति परमाणवोऽसंहतात्मानस्तथा सङ्घातकालेऽपि स्युः, सर्वथान्यत्वाभावादन्यत्वे तेषामनित्यत्वप्रसङ्गात् । सङ्घातकाले कार्यस्योत्पत्तेस्तदसमवायिकारणस्वसंयोगस्वभावं संहतत्वं भवत्येवेति चेत्, न तेषामतिशयानुत्पत्तौ संयोगस्यैवासम्भवात् पृथिव्यादिभूतचतुष्कस्यावयविलक्षणस्य भ्रान्तत्वप्रसङ्गात् । कर्मणोऽतिशयस्य प्रसूतेः संयोगः परमाणूनामिति चेत्, न कथञ्चिदन्यत्वाभावे तदयोगात् । क्षणिकत्वात्परमाणूनामदोष इति चेत्, तथापि अष्टसहस्त्रीतात्पर्यविवरणम् नैवम्, अभावस्यानुगतत्वेन स्वरूपसम्बद्धत्वौचित्यादित्यपि रिक्तं वचः, जातिव्यक्तिस्थले जातेरेवानुगतत्वेन सम्बन्धत्वौचित्यात् समवायोच्छेदापत्तेः, अस्मद्द्द्दष्ट्या सर्वस्यैव कथञ्चिदनुगतत्वाच्च । न च समवायेन संयोगत्वाद्यवच्छिन्ने द्रव्यत्वादिना हेतुत्वात् समवायसिद्धिः, स्वरूपाणामानन्त्येन गौरवात्, कालिकादिस्वरूपेण स्पन्दादेरपि जन्यभाववत्त्वाच्चेत्यपि वाच्यम्, तथापि कालिकविशेषणतादिभिन्नस्य पदार्थमात्राधारतानियामकस्य कस्यचिद्वैशिष्ट्यस्य संयोगादिनिष्ठकार्यतावच्छेदकसम्बद्धत्वेनाविरोधात् । अथ प्रतियोगितया घटादिसमवेतनाशे कालावच्छिन्नस्वप्रतियोगिसमवेतत्वसम्बन्धेन घटादिनाशस्य हेतुत्वात्समवायसिद्धिः, जात्यादौ नाशापत्तिवारणाय कालावच्छिन्नेति, स्वप्रतियोगिवृत्तित्वेन हेतुत्वे तु घटादिवृत्तिध्वंसध्वंसापत्तिः । न च घटादिकालीनतद्वृत्तिक्रियासंयोगविभागद्वित्वादिनाशे व्यभिचारात्, घटादिनाशक्षणवृत्तितत्समवेतनाशे हेतुत्वोक्तौ क्षणानामानन्त्येन विशिष्य नाश्यनाशक भावविश्रान्तौ गौरवात्, कालिकेन घटादिनाशवृत्तिघटादिवृत्तिनाशे तेन घटादिनाशस्य हेतुत्वकल्पनात्, प्रतिक्षणं तादृशस्य कस्यचिन्नाशेनाऽनुपपत्त्यभावान्न समवायसिद्धिरिति वाच्यम्, तथापि लाघवात्प्रतियोगितया Page #140 -------------------------------------------------------------------------- ________________ अष्टसहस्त्रीतात्पर्यविवरणम् ( भा० ) कार्यकारणादेरभेदैकान्ते धारणाकर्षणादयः परमाणूनां सङ्घातोऽपि मा भूवन्विभागवत् । ५४२ विभक्तेभ्यः परमाणुभ्यः संहतपरमाणूनां विशेषस्योत्पत्तेर्धारणाकर्षणादयः सङ्गच्छन्ते एवाधोमुखसोदककमण्डलुवद्वंशरज्ज्वादिवच्चेति चेत्, स तर्हि तेषां ( भा० ) नाहितोऽपि विशेषो विभागकान्तं निराकरोति, तन्निराकरणे परमाणुत्वविरोधादेकत्वपरिणामात्मकस्कन्धस्योत्पत्तेः । प्रविभक्तपरमाणुभ्यः संहतपरमाणूनामविशिष्टत्वलक्षणानन्यत्वासम्भवात् संहतानां धारणाकर्षणादिसामर्थ्यं विशेषो न पुनरपरमाणुत्वं, येनाविशेषः कार्यकारणपरमाणूनां न भवेदिति चेत्, न, सर्वथा तदविशेषे तत्सामर्थ्यस्यैवायोगात् प्रविभक्तपरमाणूनामपि तत्प्रसङ्गात् । प्रविभक्तत्वादेव न तेषां तत्सामर्थ्यमिति चेत्, अष्टसहस्त्रीतात्पर्यविवरणम् स्वप्रतियोगिसमवेतत्वस्वाधिकरणत्वो भयसम्बन्धेन नाशवन्नाशत्वावच्छिन्ने स्वप्रतियोगिसमवेतत्वेन नाशत्वावच्छिन्नस्य हेतुत्वेन समवायसिद्धेरप्रतिरोधादिति चेत्, न, परमाणुरूपशब्दकर्मवेगद्वित्त्वादिनाशधारावारणाय प्रतियोगिनो विशिष्य हेतुत्वाद् ध्वंसे ध्वंसापत्त्यभावात् कालावच्छिन्नस्वप्रतियोगिसमवेतत्वमपहाय तत्स्थाने सन्निष्ठस्वप्रतियोगिवृत्तित्वस्य स्वप्रतियोगिवृत्तिसत्त्वस्यैव वा सम्बन्धस्याभिषेके लाघवादनतिप्रसङ्गाच्च । एतेन आश्रयनाशजन्ये नाशे प्रतियोगिनो विशिष्याहेतुत्वाद् ध्वंसे तदापत्तिर्दुवरित्यादि अपास्तम् । अपि च रूपाभावान्यमहद्वृत्तिचाक्षुषे चक्षुः संयुक्तमहदुद्भूतरूपद्वैशिष्ट्यस्य हेतुत्वाद्वैशिष्ट्यसिद्धिर्जायमाना समवायमपाकुरुते । न च एवमपि महत्त्व - भावरूपाभावयोश्चाक्षुषे कार्यकारणभावद्वयान्तरावश्यकत्वे रूपाभावान्यद्रव्यवृत्त्यभावचाक्षुषे चक्षुःसंयुक्तोद्भूतरूपवद्विशेषणतामहत्त्वाभावान्यद्रव्यवृत्त्यभावचाक्षुषे च चक्षुः संयुक्तमहदुद्भूतरूपवत्समवायो हेतुरित्येव कल्पयितुं युक्तम्, अत एव जातिसाधारणसमवायसिद्धिरिति भट्टाचार्योक्तमपि श्रद्धेयं द्रव्यसमवेतत्रुटिचाक्षुषे व्यभिचारवारणाय द्रव्यान्यत्वविशेषणदाने रूपाभावमहत्त्वाभावचाक्षुषनिष्ठकार्यतावच्छेदकपर्यालोचने च गौरवात्, वैशिष्ट्यवादिनो रूपाभावान्यमहद्वृत्तिचाक्षुषत्वं महत्त्वाभावान्यरूपवद्वृत्तिचाक्षुषत्वं वा कार्यतावच्छेदकमिति विनिगमनाविरहस्फूर्तौ तु तेन वस्तुतो रूपाभावान्यमहद्वृत्तिनिष्ठा या विषयता तया चाक्षुषत्वमेव कार्यतावच्छेदकं वाच्यम्, अपि च Page #141 -------------------------------------------------------------------------- ________________ ५४३ द्वितीयो भागः [परि० ४-का० ६७] ( भा० ) तत एवान्यत्रापि तन्नेष्यते । केनचिदपि विशेषान्तरेण तद्विभक्तत्वानिराकरणात् । (भा०) पृथिव्यादिभूतचतुष्टयस्थितिरेवं विभ्रममात्रं प्राप्नोति । सर्वदा परमाणुत्वाविशेषात् । (भा०) इष्टत्वाददोष इति चेत्, न प्रत्यक्षादिविरोधात् । प्रत्यक्षं हि बहिर्वर्णसंस्थानाद्यात्मकं स्थवीयांसमाकारमन्तश्च हर्षाद्यनेकविवर्तात्मकमात्मानं साक्षात्कुर्वद् भ्रान्तं चेत्किमन्यदभ्रान्तं यत्प्रत्यक्षलक्षणं बिभृयात् ? प्रत्यक्षाभावे च कुतोऽनुमानं न विरुद्ध्यते ? न च प्रत्यक्षादिविरोधे स्वसंवेदनमात्रमपि सिद्धयेत्, सर्वदा संवित्परमाणुमात्रस्यासंवेदनात् । न च कार्यस्य भ्रान्तौ परमाणुसिद्धिस्तत्त्वतः स्यादित्युच्यते । अष्टसहस्त्रीतात्पर्यविवरणम् - समवायवादिनः कार्यकारणभावत्रये प्रथमद्वितीयाभ्यामेव कार्यतावच्छेदके चरमाभावत्वाप्रवेशे द्वितीये द्रव्यभेदप्रवेशे च वैशिष्ट्यवादिनो निर्वाहान्नान्त्यस्य हेतुतेति लाघवं । न च एवं पार्थिवाणुघ्राणमात्रेन्द्रियसन्निकर्षे पृथिवीत्वादि प्रत्यक्षापत्तिः, परस्यापि तन्मात्रसन्निकर्षाज्जलत्वाभावादिप्रत्यक्षतापत्तेस्तद्वारणाय रूपाभावप्रत्यक्षे चक्षुःसंयुक्तमहत्त्ववद्विशेषणता महत्त्वाभावचाक्षुषे चक्षुःसंयुक्तोद्भूतरूपवद्विशेषणता रूपमहत्त्ववद्वत्ते रूपाभावमहत्त्वाभावभिन्नस्य चाभावस्य चाक्षुषे चक्षुःसंयुक्तमहदुद्भूतरूपवद्विशेषणता हेतुरित्यभावप्रत्यक्ष एव परेण कार्यकारणभावत्रयं वाच्यम्, भावप्रत्यक्षे चान्यत्, तथा च तृतीये कार्यतावच्छेदकेऽभावत्वाप्रवेशाद्भावप्रत्यक्षेऽपि वैशिष्ट्यवादिनस्तत एव निर्वाहः, एवं च चक्षुःसंयुक्तसमवायादेरप्यस्वीकाराल्लाघवम् । न च परेणापि व्यासज्यवृत्तिधर्मप्रत्यक्षानुरोधेन तत्तद्रव्यचाक्षुषादौ चक्षुःसंयोगादिहेतुत्वेनैव तत्तवृत्तिगुणकर्माभावादिप्रत्यक्षनिर्वाहे चक्षुः संयुक्तसमवायादिप्रत्यासत्तेरेवास्वीकारान्नोक्तलाघवावतार इति वाच्यम्, यदवच्छेदेन घटपटयोः संयोगस्तद्भिन्नावच्छेदेन चक्षुःसंयोगवशात्तदुभयप्रत्यक्षेऽपि तदुभयसंयोगाप्रत्यक्षात्तत्प्रत्यक्षस्य तदुभयविषयकत्वनियमाभावाद् व्यासज्यवृत्तिधर्मप्रत्यक्षे पृथक्सामग्र्या आवश्यकत्वादुक्तहेतुत्वेन न निर्वाह इत्यादेः प्रथमपरिच्छेद एव विवेचितत्वात्, यत्र च न व्यासज्यवृत्तिधर्मप्रत्यक्षानुरुद्धा हेतुता तत्र घ्राणादिप्रत्यासत्तौ लाघवाद्वैशिष्ट्यसिद्धर्ब्रह्मणाऽपि दुर्वारत्वाच्च । न च गन्धग्राहकं घ्राणसंयुक्तमहत्त्वोद्भूतगन्धवद्वैशिष्ट्यं गन्धाभावग्राहकं Page #142 -------------------------------------------------------------------------- ________________ ५४४ अष्टसहस्त्रीतात्पर्यविवरणम् कार्यभ्रान्तेरणुभ्रान्तिः कार्यलिङ्गं हि कारणम् । उभयाभावतस्तत्स्थं गुणजातीतरच्च न ॥ ६८ ॥ [कार्यस्य भ्रान्तौ परमाणुरूपं कारणमपि भ्रान्तमेव ] प्रत्यक्षतः परमाणूनां प्रसिद्धेर्नाणुभ्रान्तिरिति चेत्, न, तेषामप्रत्यक्षत्वात् । तथा हि ( भा० ) चक्षुरादिबुद्धौ स्थूलैकाकारः प्रतिभासमानः परमाणुभेदैकान्तवादं प्रतिहन्ति तद्विपरीतानुपलब्धिर्वा । तत्रैतत्स्याद् भ्रान्तैकत्वादिप्रतिपत्तिरिति तन्न, परमाणूनां चक्षुरादिबुद्धौ स्वभावमनर्पयतां कार्यलिङ्गाभावात्तत्स्वभावाभ्युपगमानुपपत्तेः । अष्टसहस्त्रीतात्पर्यविवरणम् तूद्भूतगन्धाघटितमिति न तयोरैक्यसम्भव इति शङ्कनीयम्, अनुद्भूतगन्धभेदस्य गन्धसाक्षात्कारहेतुतयोद्भूतगन्धस्य सन्निकर्षाघटकत्वादिति परेषामेव नव्यनयप्रसादमारोहतां विचारनिःश्रेणी । अपि च जातिसाधारणसमवायसिद्धौ जातेरर्थवत्त्वापत्तिः, यत्र यत्सम्बन्धवत्त्वं तत्र तद्वत्त्वमिति नियमस्य ग्रन्थकृतैव पूर्वं सूचितत्वात् । (शङ्का) तत्र तस्य तद्वृत्तित्त्वानियामकत्वान्नेयमिति चेत्, तदपि कुत: ? (शङ्का) तथाविशिष्टबुद्धयभावादिति चेद्, व्यक्त इतरेतराश्रयः, तत्र तद्वृत्तितानियामकसम्बन्धाभावे तथाविशिष्टबुद्धयभावस्तदभावाच्च स इति । तस्माद् व्यक्तिस्वरूपस्य जातौ वृत्त्यनियामकत्वमित्यस्मन्मतमेव श्रेय इति । यदपि द्रव्यजात्यन्यचाक्षुषे महदुद्भूतरूपवद्भिन्नसमवेतत्वेन प्रतिबन्धकत्वात् समवायसिद्धिरिति कैश्चिदुच्यते, तदपि तुच्छं, द्रव्यान्यसच्चाक्षुषत्वावच्छिन्ने महदुद्भूतरूपवद्भिन्नवृत्तित्वेन प्रतिबन्धकत्वकल्पनाया एवौचित्यात्, तदेवं लाघवादेकः समवायो यैः साध्यते तेषामितोऽपि लाघवाद्वैशिष्ट्यमेकं बलादापतेदिति निर्व्यूढम् । यः पुनराह - नेत्याकारकाभावप्रत्यक्षापत्तेरयोग्याभावप्रत्यक्षापत्त्या च प्रतियोगिविशिष्टतत्तदभावप्रत्यक्षे तत्तदभावविशेषणता हेतुरतो नाभावमात्रस्य वैशिष्ट्यसिद्धिरिति, सोऽपि न प्रेक्षापूर्वकारी, भावाभावसाधारण्येन लाघवादेकवैशिष्ट्यसिद्धौ विशिष्यप्रत्यासत्तौ तन्निवेशस्याबाधकत्वात्, अन्यथा समवायैक्येऽप्यगतेः, तस्यापि व्याप्यवृत्त्य - Page #143 -------------------------------------------------------------------------- ________________ ५४५ द्वितीयो भागः [ परि. ४-का० ६८] प्रविरलबकुलतिलकादीनां जातुचित्प्रत्यक्षतोऽप्रतिपत्तावनेकाकारप्रतिभासस्य च भ्रान्तत्वे तत्स्वभावाभ्युपगमानुपपत्तिवत् । कार्यलिङ्गं हि कारणं परमाणुरूपम् । तत्कथं कार्यस्य भ्रान्तौ भ्रान्तं न भवेत् ? परमाणूनां कार्यस्य चानभ्युपगमे । (भा०) तवयाभावात्तवृत्तयो जातिगुणक्रियादयो न स्युर्योमकुसुमसौरभवत् । तद्धि गुणजातिरूपादिसत्तादिस्वभावमितरच्च क्रियाविशेषसमवायाख्यं परमाणुवृत्ति वा स्यात् कार्यद्रव्यवृत्ति वा । न च तदुभयासम्भवेऽभ्यपगन्तुं युक्तं, गगनकुसुमस्याभावेऽपि तवृत्तिसौरभाभ्युपगमप्रसङ्गात् । ततस्तदभ्युपगच्छता अष्टसहस्त्रीतात्पर्यविवरणम् व्याप्यवृत्त्यादिगुणप्रत्यक्षानुरोधेन विशिष्यापि प्रत्यासत्तिघटकत्वात्, प्रतियोगिज्ञानादिकारणतयोक्तापत्तिनिरासेनाभावप्रत्यक्षे विशेषणतायाः सामान्यतः प्रत्यासत्तिताया एव युक्तत्वाच्च । वस्तुतः सत्तापि सामान्यत एका विशेषणभेदाच्च भिन्नेत्युक्तं, समवायोऽपि च त्वया लाघवादेको रूपिनीरूपव्यवस्थानुरोधेन च गलेपादिकया नाना स्वीकार्यः, तद्वत् वैशिष्ट्यमप्येकानेकरूपत्वेन वैश्वरूप्यं बिभ्रत् केन प्रत्याख्यातुं शक्यम् ? । ततश्च एकं स्वीकुरु वैशिष्ट्यं, समवायं विमुञ्च वा । क्रीडाकान्दुकतां नेय इति नैयायिको बुधैः ॥१॥ नाशस्य प्रागभावत्वं, प्रागभावस्य नाशता । घटादौ तस्य सम्बन्धं, वैशिष्ट्याख्यं विना कथम् ? ॥२॥ अभावाभावरूपत्वात्, सर्वस्य प्रतियोगिनः । तत्सम्बन्धेषु वैशिष्ट्यरूपत्वं चेन्न मन्यते ॥३॥ नेति धीस्तत्र तन्न स्यान्न हि सा कालिकादिना । वैशिष्ट्यत्वे तु तेष्विष्टे संसर्गाकारगौरवम् ॥४॥ धर्मातिरेके तद्धर्मः स्पर्द्धयैवातिरिच्यते । जात्यन्तरात्मके तत्त्वे किमसाध्यं विवक्षया ? ॥५॥ विशिष्ट लक्षणाऽन्येषामविशिष्टे च कस्यचित् । जात्यन्तरं त्वखण्डं वा, खण्डशो वा प्रतीयताम् ॥६॥ Page #144 -------------------------------------------------------------------------- ________________ ५४६ अष्टसहस्त्रीतात्पर्यविवरणम् कार्यद्रव्यमभ्रान्तमभ्युपगन्तव्यम् । तच्च परमाणूनां परमाणुरूपतापरित्यागेनावयवि - अष्टसहस्त्रीतात्पर्यविवरणम् - इतीह वैशिष्ट्यमनेकमेकं, समर्थितं न्यायविशारदेन । स्वरूपविश्रान्तिजुषा च तेन भग्ना परेषां समवायवृत्तिः ॥७॥ ॥६६।। ॥ अणूनामवयविप्रदेशतयान्यत्ववादः ॥ तच्च परमाणूनामिति ननु कथमेतत्, आरब्धकार्याणामपि परमाणूनामवयविसमवायित्वेऽपि तद्रूपस्वीकारस्य परमाणुरूपतापरित्यागस्य चायुक्तत्वादिति चेत्, न, आरब्धकार्याणामणूनां स्कन्धस्थानामपि प्रदेशत्वस्वीकारे परमाणुत्वपरित्यागस्य कथञ्चिदवयवित्वापत्तेश्चावश्यकत्वात्, सर्वथाऽवयवावयविभेदे शतमाषकारब्धेऽवयविनि माषकशताद् गुरुत्वाधिक्यादवनतिविशेषप्रसङ्गात् । न च गुरुतरद्रव्ययोः समयोरुत्तोलने एकत्र संलग्नतृणादिगुरुत्वाधिक्यादवनतिवदुपपत्तिः अवयविन्यत्यन्तापकृष्टगुरुत्वस्वीकारादिति वाच्यम्, एवं सति तत्तदवयवित्वेन तत्तदवयवगुरुत्वात्यन्तापकृष्टगुरुत्वहेतुत्वकल्पने महागौरवात् । (शङ्का) स्वाश्रयसमवेतत्वसम्बन्धेनोत्कृष्टगुरुत्वस्य समवायेनात्यन्तापकृष्टगुरुत्वहेतुत्वस्वीकारे चात्यन्तापकृष्टगुरुत्ववदण्वारब्धस्थले व्यभिचारात् (शङ्का) परमाणावत्यन्तापकृष्टगुरुत्वं पाकजमेवापाकजे च तत्रोक्तहेतुत्वान्न दोष इति चेत्, न, अत्यन्तापकृष्टगुरुत्ववदण्वारब्धेऽपि ततोऽत्यन्तापकृष्टगुरुत्वस्वीकारेऽत्यन्तत्वाविवेचनात् । (शङ्का) स्वजन्यावनतिविशेषोत्कृष्टावनतिविशेषप्रयोजकरूपाभाव एवात्यन्तत्वं तादृशात्यन्तापकृष्टगुरुत्वे च गुरुत्वमात्रस्यैवोक्तसम्बन्धेन हेतुत्वान्न दोष इति चेत्, न, तथापि परमाणावेवोत्कृष्टगुरुत्वविश्रामापत्तेः । न च तस्यापि युक्तत्वं, पाषाणारम्भकपरमाण्वारब्धतद्भस्मद्रव्ये पाषाणतुल्यगुरुत्वप्रसङ्गात्, स्वैरं परिभ्रमद्भिस्तत्परमाणुभिर्जगदाक्रमणप्रसङ्गाच्च, तस्मादारब्धकार्यैरणुभिः कथञ्चिदसदेवावयवित्ववद् गुरुत्वं स्वीक्रियते ततस्तेषु नानन्यतैकान्त इति युक्तम् । एतेन अस्तु वा परमाणावेव गुरुत्वं व्यणुकादेरध:संयोगस्तु गुरुत्वसापेक्षपातजन्यावयववेगजवेगाधीनक्रियया, पातव्यवहारस्तु वर्तिस्थदीपपातव्यवहारवद् गौणः, न चैवं महावयविपाते बहुविलम्ब प्रसङः, मिथो विष्टब्धावयवानां विष्टम्भाधीनक्रियाजन्यवेगेनान्त्यावयविनि द्रुतवेगसम्भवात् पातव्यवहारवत्परम्परया सम्बन्धविशेषेण वा परमाणुगुरुत्वमेव वा पतननियामकमिति अपास्तम्, अध:संयोगे गुरुत्वस्य सामानाधिरण्येनैव हेतुत्वात्, परमाणुगतगुरुत्वेन परम्परयाऽवयविनिष्ठकार्योत्पत्तौ तद्गतरूपादिनापि चाक्षुषादिकार्यनिर्वाहेऽवयविरूपादेरप्युच्छेदप्रसङ्गात्, सम्बन्धविशेषस्य च प्रदेशस्कन्ध Page #145 -------------------------------------------------------------------------- ________________ ५४७ द्वितीयो भागः [ परि. ४-का० ६८] रूपतोपादाने सति सम्भाव्यते नान्यथा । तन्न तेषामनन्यतैकान्तः, कार्योत्पत्तौ कथञ्चिदन्यत्वोपपत्तेः । ततः सौगतवन्न वैशेषिकाणां स्वमतसिद्धिः । अष्टसहस्त्रीतात्पर्यविवरणम् भावाख्यतादात्म्यातिरिक्तस्य दुर्वचत्वात्तत्स्वीकारे चाणूनां कथञ्चिदवयविरूपतापत्ताव(न)न्यत्वस्यानायाससिद्धत्वात् । यदप्युच्यते भट्टाचार्यैर्गुरुत्वे एव वा मानाभावो, वायुतेजसोस्तिर्यगूर्ध्वगमनवत् पाथः पृथिव्योरधोगमनस्यासति प्रतिबन्धके ऽदृष्टवदात्मसंयोगादिनैवोपपत्तेः, पतनप्रकर्षस्त्ववयवाधिक्यात्, अवयविनि गुरुत्वापकर्षवादिनापि तथैव वाच्यत्वादिति, तदपि चिन्त्यम्, अवयवाधिक्येन पतनप्रकर्षे महाधूमस्यापि तत्प्रसङ्गात्, स्पर्शविशेषवदवयवाधिक्यस्य तत्प्रयोजकत्वे च स्पर्शविशेषस्यैव तत्त्वौचित्याद्, गुरुत्वस्य च तद्गतजातिविशेषस्यैव कल्पयितुं युक्तत्वात्, एवं हि पतनहेतुतावच्छेदकं गुरुत्वं स्यादिति लाघवम्, परमते तु गुरुत्वत्वमिति गौरवमित्यस्मदेकपरिशीलितः पन्थाः । तदेवं गुरुत्वादिमत्कार्यद्रव्यभेदेन कथञ्चिदन्यत्वमणूनां सिद्धम् । एतेन नित्यत्वात् कार्यद्रव्यानारम्भकत्वाच्चाणूनां नान्यत्वं लौकिकविषयतया द्रव्यसाक्षात्कारत्वावच्छिन्ने त्र्यणुकत्वादिघटकसंयोगानां पिशाचत्वादिघटकसंयोगभिन्नानां वैजात्येन कारणत्वान्न केवलाणुद्व्यणुकप्रत्यक्षापत्तिः, तादृशसंयोगविशिष्टवृत्तित्वादिकं च गुणादिप्रत्यक्षे तन्त्रमिति केवलाणुव्यणुकादिगुणाप्रत्यक्षत्वेऽपि न त्र्यणुकादिगुणाप्रत्यक्षत्वम् । न च एवं तन्तूनामेव पटत्वे तन्तुषु पट इति धीन स्यात्, स्याद्वा तन्तुषु तन्तुरित्यादिकमपीति वाच्यम्, फलबलेन विलक्षणसंयोगवत्त्वरूपतन्तुत्वादेरेव विलक्षणसंयोगवत्त्वरूपपटत्वादिविशिष्टाधारतावच्छेदकत्वस्वीकारात्, पट उत्पन्नः पटो नष्ट इत्यादिधीस्तु विशेषणोत्पादनाशविषया, एक: पट इति प्रतीतिश्चैकं वनमित्यादिवत् समूहैकत्वविषया, पटो महानिति धीरप्यणूनां महत्त्वासम्भवान्महान् धान्यराशिरितिवत् संयोगाविशेषरूपं महत्त्वमवगाहत इत्यादि नव्यनास्तिकमतम् अपास्तम् । विलक्षणसंयोगवत्तावदणुत्वस्य पटत्वरूपत्वे तावत्त्वाप्रत्यये तदप्रत्ययापत्तेः । न च विलक्षणसंयोगत्वादिकमेव पटत्वादिकं, तन्तुसंयोगात्पट उत्पन्न इत्यादिव्यवहारायाथार्थ्यांपत्तेः, तन्त्वाद्यग्रहे तत्संयोगाग्रहेऽपि पटत्वादिप्रतीतेश्च । किञ्च विलक्षणसंस्थानावच्छेदेन सन्निकर्षाद् यद्रव्यगतघटत्वादिग्रहस्तस्योत्पादविनाशभेदादिप्रत्ययानुपपत्त्या पृथगवयविसिद्धिस्तस्य चैकस्याप्यावृतानावृतत्वरक्तारक्तत्वसकम्पनिष्कम्पत्वादिना भेदाद्देशप्रदेशरूपतासिद्धौ कथं नाणूनामवयविप्रदेशतयाऽन्यत्वं? तेन कथञ्चिन्नित्यत्वस्याव्याहतेः, सर्वथा नित्यत्वस्य च क्वाप्यनभ्युपगमात् । किञ्च विभागजातोत्पत्त्याऽप्यणूनामन्यत्वं साधनीयम्, अन्यथा कपालादीनामपि तदुच्छेदापत्त्या सत्कार्यवादापत्तेरिति Page #146 -------------------------------------------------------------------------- ________________ ५४८ अष्टसहस्त्रीतात्पर्यविवरणम् साङ्ख्यानां च कार्यकारणयोः एकत्वेऽन्यतराभावः शेषाभावोऽविनाभुवः । द्वित्वसङ्ख्याविरोधश्च संवृतिश्चेन्मृषैव सा ॥६९॥ [साङ्ख्यः कार्यकारणयोः सर्वथा तादात्म्यं मन्यते तस्य निराकरणम् ] कार्यस्य हि महदादेः कारणस्य च प्रधानस्य परस्परमेकत्वं तादात्म्यम् । तस्मिन्नभ्युपगम्यमानेऽन्यतरस्याभावः स्यात् । ततः शेषास्याप्यविनाभुवोऽभावः । इति सर्वाभावः प्रसज्यते । यदि पुनः कार्यस्य कारणेऽनुप्रवेशात्पृथगभावेऽपि कारणमेकमास्ते एव नित्यत्वादिति मतं तदा द्वित्वसङ्ख्याविरोधोऽपि, सर्वथैकत्वे तदसम्भवात् कार्यकारणभावादिवत् । संवृतिरेव द्वित्वसङ्ख्या तत्रेति चेत्, तर्हि मृषैव सा तद्वदेव प्रसक्ता । तथा च कुतः प्रधानस्याधिगति: ? न तावत्प्रत्यक्षात्, तस्य तदविषयत्वात् । नाप्यनुमानात्, अभ्रान्तस्य लिङ्गस्याभावात् । न चागमात्, शब्दस्यापि भ्रान्तत्वोपगमात् । न च भ्रान्ताल्लिङ्गादेरभ्रान्तसाध्यसिद्धिरतिप्रसङ्गात् । एवं पुरुषचैतन्ययोः ( भा० ) आश्रयाश्रयिणोरेकत्वे तदन्यतराभावः । पुरुषे चैतन्यानुप्रवेशे पुरुषमात्रस्य तस्य वा चैतन्यानुप्रवेशे चैतन्यमात्रस्य प्रसक्तेः सिद्धस्तावत्तदन्यतरस्याभावः परेषाम् । ( भा० ) ततः शेषाभावस्तत्स्वभावाविनाभावित्वाद् वन्ध्यासुतरूपसंस्थानवत् । यथैव हि वन्ध्यासुतरूपस्याभावे न तस्य संस्थानं संस्थानिस्वभावाअष्टसहस्त्रीतात्पर्यविवरणम् दिग् ॥६८॥ एकत्व इति अस्यां कारिकायामविनाभुपदम् अविनाभाविकार्यकारणद्वयेऽर्थान्तरसङ्क्रमितवाच्यं, तच्च षष्ठ्यन्तमेकत्व इत्यनेनान्वेति ततश्चाविनाभाविकार्यकारणद्वयस्यैकत्वेऽभ्युपगम्यमानेऽन्यतराभावः स्यात्तस्मिश्चापन्ने शेषस्याभाव आपद्यत इत्यर्थः, तेन शेषस्याप्यविनाभुवोऽभाव इति व्याख्यास्यमानमार्थेन योगेन, न तु सौत्रेण, अभावा Page #147 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० ४ - का० ७०] विनाभावित्वात् । तथा पुरुषस्याश्रयस्याभावे चैतन्यस्याश्रयिणोऽप्यभावस्तदभावे पुरुषस्याप्यभावः, तत्स्वभावाविनाभावात् । ( भा० ) तथा सति द्वित्वसङ्ख्यापि न स्यात् । पुरुषचैतन्ययोरेकत्वमिति । (भा०) संवृतिकल्पना शून्यत्वं नातिवर्तते, परमार्थविपर्ययाद्व्यलीकवचनार्थवत् । ५४९ परमार्थतः सङ्ख्यापाये सङ्ख्येयाव्यवस्थानात् सकलधर्मशून्यस्य कस्यचिद्वस्तुनोऽसम्भवात् । तन्न कार्यकारणादीनामनन्यतैकान्तः सम्भवत्यन्यतैकान्त वत् ॥६९॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥७०॥ ( भा० ) अवयवेतरादीनां व्यतिरेकाव्यतिरेकैकान्तौ न वै यौगपद्येन सम्भविनौ विरोधात् । तथानभिलाप्यतैकान्ते स्ववचनविरोधस्तदभिलाप्यत्वात् । अनभिलाप्यतैकान्तस्याप्यनभिलाप्यत्वे कुतः परप्रतिपादनम् ? तद्वचनाच्चेत्, कथमनभिलाप्यतैकान्तः ? परमार्थतो न कश्चिद्वचनात्प्रतिपाद्यते इति चेत्स्वयमवाच्यताप्रतिपत्तिः कथम् ? वस्तुनि वाच्यतानुपलब्धेश्चेत्, सा यदि दृश्यानुपलब्धिस्तदा सिद्धा क्वचिद्वाच्यता । नो चेत्, नास्ति तदभावनिश्चयोऽतिप्रसङ्गात् । विकल्पप्रतिभासिन्यन्यापोहे प्रतिपन्नाया एव वाच्यतायाः स्वलक्षणे प्रतिषेधाददोष इति चेत्, न, वस्तुवाच्यतायाः प्रतिषेधायोगात्, तदन्यापोहमात्रवाच्यताया एव प्रतिषेधात् । न चान्यापोहवाच्यतैव वस्तुवाच्यता तत्प्रतिषेधाविरोधात् । निरस्तप्रायश्चायमवाच्यतैकान्त इत्यलं प्रसङ्गेन । ( भा० ) स्याद्वादाभ्युपगमे तु न दोषः, कथञ्चित् तथाभावोपलब्धेः । अष्टसहस्त्रीतात्पर्यविवरणम् न्वितस्य शेषपदार्थस्याविनाभुपदार्थेऽन्वयासम्भवादिति बोध्यम् ॥६९॥ Page #148 -------------------------------------------------------------------------- ________________ ५५० अष्टसहस्त्रीतात्पर्यविवरणम् सर्वं हि वस्तु व्यञ्जनपर्यायात्मकतया वाच्यमर्थपर्यायात्मकत्वेनावाच्यमिति स्याद्वादिभिर्व्यवस्थाप्यते, अन्यथा प्रमाणाभावात् ॥७०॥ तदेवमवयवावयव्यादीनामन्यत्वाद्येकान्तं निराकृत्याधुना तदनेकान्तं सामर्थ्यसिद्धमपि दुराशङ्कापनोदार्थं दृढतरं निश्चिचीषवः सूरयः प्राहु: द्रव्यपर्याययोरैक्यं तयोरव्यतिरेकतः । परिणामविशेषाच्च शक्तिमच्छक्तिभावतः ॥७१॥ सज्ञासङ्ख्याविशेषाच्च स्वलक्षणविशेषतः । प्रयोजनादिभेदाच्च तन्नानात्वं न सर्वथा ॥७२॥ [द्रव्यपर्याययोः कथञ्चित् भेदाभेदौ स्तः] गुणिसामान्योपादानकारणानां द्रव्यशब्दाद् ग्रहणम् । गुणव्यक्तिकार्यद्रव्याणां पर्यायशब्दात् । तदेव द्रव्यपर्यायावेकं वस्तु, प्रतिभासभेदेऽप्यव्यतिरिक्तत्वात् । (भा०) यत्प्रतिभासभेदेऽप्यव्यतिरिक्तं तदेकं, यथा वेद्यवेदकज्ञानं रूपादिद्रव्यं वा मेचकज्ञानं वा । तथा च द्रव्यपर्यायौ न व्यतिरिच्यते । ___ तस्मादेकं वस्त्विति मन्तव्यम् । पर्यायादवास्तवाद् व्यतिरिक्तमेव द्रव्यं वास्तवमेकेषाम् । द्रव्यादवास्तवाद् व्यतिरिक्त एव पर्यायो वास्तवः परेषाम् । ततोऽसिद्धो हेतुरिति न मन्तव्यं, (भा०) तदन्यतरापायेऽर्थस्यानुपपत्तेः । अष्टसहस्त्रीतात्पर्यविवरणम् व्यञ्जनपर्यायात्मकतया वाच्यमिति अभिलाप्यपर्यायात्मना वाच्यमित्यर्थः । अर्थपर्यायात्मकत्वेनावाच्यमिति घटादेरपि षड्गुणहानिवृद्धिरूपागुरुलघुपर्यायात्मनाऽवाच्यत्वव्यवस्थितिरित्यर्थः । एवं गौर्गोत्वेन गोपदशक्यो न पशुत्वेनेत्यादिप्रतीत्यापि वाच्यावाच्यत्वानेकान्तो भावनीयः ॥७०॥ कार्यकारणादीनामनन्यतैकान्तदूषणेन तदनेकान्तस्य प्रक्रान्तत्वात् द्रव्यपर्याययोस्तदुपसंहारे उपक्रमोपसंहारविरोधः स्यादित्यालोच्य व्याचष्टे-गुणीत्यादि । ततो नासिद्धो Page #149 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि० ४-का. ७१-७२] ५५१ तथा हि न द्रव्यं केवलमर्थक्रियानिमित्तं क्रमयोगपद्यविरोधात् केवलपर्यायवत् । पर्यायो वा न केवलोऽर्थक्रियाहेतुस्तत एव केवलद्रव्यवत् । क्रमयोगपद्यविरोधस्तत्रासिद्ध इति चेत्, न द्रव्यस्य पर्यायस्य वा सर्वथैकस्वभावस्य क्रमयोगपद्यादर्शनात्, अनेकपर्यायात्मन एव द्रव्यस्य तदुपलम्भात् । [यौगो द्रव्यपर्याययोः सर्वथा भेदं मन्यते किन्तु जैनाचार्याः कथञ्चित् तयोरभेदं साधयन्ति ] वास्तवत्वेऽपि द्रव्यपर्याययोरव्यतिरेकोऽसिद्धः, कुटादिद्रव्याद्रूपादिपर्यायाणां ज्ञानप्रतिभासभेदाद् घटपटादिवदिति चेत्, न, तस्यैकत्वाविरोधित्वात् । (भा० ) उपयोगविशेषाद्रूपादिज्ञाननिर्भासभेदः स्वविषयैकत्वं न वै निराकरोति, सामग्रीभेदे युगपदेकार्थोपनिबद्धविशदेतरज्ञानवत् । ततो नासिद्धो हेतुः । नापि विशेषणविरुद्धः, प्रतिभासभेदस्य विशेषणस्याव्यतिरिक्तहेतुना विरोधासिद्धेः । स्यान्मतम्- 'अव्यतिरिक्तमैक्यमेवोच्यते, ततोऽयं साध्याविशिष्टो हेतुरनित्यः शब्दो निरोधधर्मकत्वादिति यथा, ततो न गमक' इति तदसत्, कथञ्चिदप्यशक्यविवेचनत्वस्याव्यतिरिक्तस्य हेतुत्वेन प्रयोगात् । व्यतिरेचनं व्यतिरिक्तं विवेचनमिति यावत् । न विद्यते व्यतिरिक्तमनयोरित्यव्यतिरिक्तौ । तयोर्भावोऽव्यतिरिक्तत्वमशक्यविवेचनत्वम्, इति व्युत्पादनात्तयोरैक्यमेव वस्तुत्वमिति साध्यस्येष्टत्वान्न साध्यमेव हेतुर्यतो न गमकः स्यात् । न चैतदसिद्धमशक्यविवेचनत्वं, विवक्षितद्रव्यपर्यायाणां द्रव्यान्तरं नेतुमशक्यत्वस्य सुप्रतीतत्वाद्वेद्यवेदकाकारज्ञानवत् तदाकारयोर्ज्ञानान्तरं नेतुमशक्यत्वस्यैव तस्याभिमतत्वात् । तयोरयुतसिद्धत्वादेवमिति चेत्, किमिदमयुतसिद्धत्वं नाम ? न तावद्देशाभेदः, पवनातपयोस्तत्प्रसङ्गात् । नापि कालाभेदस्तत एव । स्वभावाभेद इति चेत्, न सर्वथासौ युक्तो विरोधात् । कथञ्चिच्चेत्तदेवाशक्यविवेचनत्वम् । स एवाविष्वग्भाव: समवाय इति परमतसिद्धिः, अन्यथा तस्याघटनात् । पृथगनाश्रया श्रयित्वं - अष्टसहस्त्रीतात्पर्यविवरणम् हेतुरिति, ततः=उक्तकारणात्, द्रव्यपर्याययोरैक्ये साध्ये प्रतिभासभेदेऽप्यव्यतिरिक्तत्वादिति मूलोक्तो हेतु सिद्ध इत्यर्थः । नित्यनिरोधधर्मकत्वादिति' अनित्यधर्मत्वादित्यर्थः । १. अनित्यः शब्दो निरोधधर्मकत्वात् इति अष्टसहस्रीसम्मतः पाठः । Page #150 -------------------------------------------------------------------------- ________________ ५५२ अष्टसहस्त्रीतात्पर्यविवरणम् पृथगगतिमत्त्वं चायुतसिद्धत्वमित्यपि नाशक्यविवेचनत्वादन्यत्प्रतिभाति । ततो न साध्यसाधनशून्यमुदाहरणमपि । रूपादिद्रव्यं वेत्यप्युदाहरणमुपपन्नं, प्रतीतिसिद्धत्वात्, रूपादिद्रव्ययोः समवायस्याशक्यविवेचनत्वस्यैवाव्यतिरिक्तत्वस्य साधनस्य सद्भावादैक्यस्य चैकवस्तुत्वस्य साध्यस्य निर्णीतेः । धर्मिग्राहकप्रमाणेन बाधनात्कालात्ययापदिष्टो हेतुरित्यपि न सत्यं, तेन धर्मिणोः कथञ्चिद्भिन्नयोरेव ग्रहणात्, सर्वथा भिन्नयोर्द्रव्यपर्यायत्वासम्भवात सह्यविन्ध्यवत् । ननु द्रव्यपर्याययोभिन्नयोः कथमभेदो विरोधादिप्रसङ्गादिति चेत्, न, तथोपलम्भान्मेचकज्ञानवत् सामान्यविशेषवद्वा । न हि तत्र विरोधवैयधिकरण्यसंशयव्यतिकरसरानवस्थाप्रतिपत्त्यभावाः प्रसज्यन्ते. तेषां तथा प्रतीत्यापसारितत्वात् । न च प्रकृतयोस्तथा प्रतीतिरसत्या सर्वदान्यथा प्रतीत्यभावात् । (भा०) तदेवं सति विरोधाधुपालम्भश्चतुरस्रधियां मनो मनागपि न प्रीणयति वर्णादेरप्यभावप्रसङ्गात् । द्रव्यमेवैकं, न वर्णादयो, विचारासहत्वाद्वर्णाद्येव वानेकं, न द्रव्यं नाम, तस्य विचार्यमाणस्य सर्वथानुपपत्तेरिति (भा०) एकत्वानेकत्वैकान्तौ नान्योऽन्यं विजयेते, दूषणसमाधानयोः समानत्वात्, द्वयोरपि (भा० ) भावस्वभावप्रतिबन्धात् । द्रव्यैकत्वस्य भावस्वभावस्यैकान्तिकस्य प्रत्यक्षादिविरोधात् वर्णादिपर्यायैकान्तस्वभावस्य चाबाधितप्रत्यभिज्ञाननिराकृतत्वात् सिद्धं द्रव्यपर्याययोः कथञ्चिदैक्यम् । [द्रव्यपर्यायोः कथञ्चित् भेदोऽपि वर्तते इति जैनाचार्याः साधयन्ति ।] भेदः कथं सिद्धः ? इत्युच्यते । - अष्टसहस्त्रीतात्पर्यविवरणम् अत्राह-साध्यहेत्वोः शब्दभेद एव न त्वर्थभेदस्तद्वत्प्रकृतानुमानेऽपीति साध्याविशेषदोषप्रसङ्गो युक्त इत्यर्थः । प्रतीतिसिद्धत्वादिति अस्याव्यतिरिक्तत्वस्येत्यनेनान्वयः । धर्मिग्राहकप्रमाणेनेति धर्मिणोहिकप्रमाणेनेत्यर्थः । कथञ्चिद्भिन्नयोरेवेति अभेदसंवलित Page #151 -------------------------------------------------------------------------- ________________ ५५३ द्वितीयो भागः [परि० ४-का० ७१-७२] (भा०) यत्परस्परविविक्तस्वभावपरिणामसञ्ज्ञासङ्ख्याप्रयोजनादिकं तद्भिन्नलक्षणं, यथा रूपादि, तथा च द्रव्यपर्यायौ, तस्माद्भिन्नलक्षणावित्यनुमानात् परस्परविविक्तस्वभावपरिणामौ हि द्रव्यपर्यायौ, द्रव्यस्यानाद्यनन्तैकस्वभाववैश्रसिकपरिणामत्वात् पर्यायस्य च साधन्तानेकस्वभावपरिणामत्वात् । ततो नासिद्धः परिणामविशेषादिति हेतुः । एतेन शक्तिमच्छक्तिभावः सिद्धः कथितः । परस्परविविक्तस्वभावसज्ञासङ्ख्याविशेषौ च द्रव्यपर्यायौ, द्रव्ये द्रव्यमिति, पर्याये पर्याय इत्यन्वर्थसज्ञायाः प्रसिद्धः, एकं द्रव्यमित्येकत्वसङ्ख्यायाः, पर्याया बहव इति बहुत्वसङ्ख्यायाश्चनुपचरितायाः प्रसाधनात् । ततः सञ्ज्ञासङ्ख्याविशेषाच्चेत्यपि नासिद्धं साधनम् । द्रव्यस्यैकत्वान्वयज्ञानादिकार्यत्वात् पर्यायस्यानेकत्वव्यावृत्तिप्रत्ययादिकार्यत्वान्न तयोः परस्परविविक्तस्वभावप्रयोजनत्वमसिद्धम् । द्रव्यस्य त्रिकालगोचरत्वात् पर्यायस्य वर्तमानकालत्वाद्भिन्नकालत्वमपि न तयोरसिद्धं भिन्नप्रतिभासवत् । ततः प्रसिद्धाद्धेतोभिन्नलक्षणत्वं तयोः सिद्ध्यत्येव. इति स्वलक्षणविशेषतस्तन्नानात्वं सिद्धम । स्वमसाधारणं लक्षणं स्वलक्षणम्, तस्य विशेषो लक्ष्याविनाभावित्वं, तत एव तस्य लक्षणत्वोपपत्तेः । [वस्तुनो लक्षणमसाधारणरूपमिति साधयन्ति जैनाचार्याः ।] नन्वसाधारणं रूपं वस्तुनो लक्षणमित्युच्यमाने सर्वं भिन्नं प्रमेयत्वादित्यनुपसंहार्यस्यापि लक्षणत्वप्रसङ्ग इति चेत्, न कर्मतया प्रमितिजनकत्वस्य प्रमेयत्वस्यानुपसंहार्यस्यापि लक्षणत्वाविरोधात् सत्त्ववत् । सद्वस्तुलक्षणम्, उत्पादव्ययध्रौव्ययुक्तं सत् इति वचनात् [तत्त्वा० ५-३०] । ननु च यन्न सन्न तद्वस्तु, यथा शशविषाणमिति विपक्षस्यासतः सिद्धेर्नानुपसंहार्यं सत्त्वं सपक्षविपक्षरहितस्य पक्षव्यापिनोऽनुपसंहार्यत्वादिति चेत्, तत एव प्रमेयत्वमप्यनुपसंहार्यं मा भूत्, खरविषाणस्यासतो भिन्नत्वानाश्रयस्य कर्मत्वेन प्रमित्यजनकस्याप्रमेयस्य विपक्षस्य - अष्टसहस्त्रीतात्पर्यविवरणम् भेदवतोरित्यर्थः । द्रव्यस्यैकत्वान्वयेत्यादि एकत्वान्वयज्ञानादि कार्यं यस्येति बहुव्रीयुत्तरस्त्वप्रत्ययो द्रष्टव्यः एवं पर्यायस्यानेकत्वेत्यादावपि । कर्मतयेति लक्ष्यतावच्छेदकसमनियतधर्मवचनत्वस्यैव लक्षणत्वादसङ्कीर्णव्यवहारस्यैव च तत्प्रयोजनत्वादिति Page #152 -------------------------------------------------------------------------- ________________ ५५४ अष्टसहस्त्रीतात्पर्यविवरणम् भावात् । सर्वशब्देन सतोऽसतश्च ग्रहणान्न तस्य विपक्षत्वमिति चेत्, तर्हि सद्ग्रहणेन भावस्य भावान्तरस्वभावप्रागभावादेश्च स्वीकरणात् कस्यचित् तद्विपक्षत्वं मा भूत् । पराभ्युपगतस्यानुत्पादव्ययध्रौव्ययुक्तस्य विकल्पबुद्धिप्रतिभासिनो विपक्षत्वे सदसद्वर्गाभावस्य पराभ्युपगतस्याप्रमाणविषयस्य विपक्षत्वमस्तु सर्वथा विशेषाभावात् इति नानुपसंहार्यस्य सम्भवो, यतः पक्षव्यापिन एवासाधारणस्य वस्तुलक्षणत्वं न स्यात्, विद्यमानयोरविद्यमानयोर्वा सपक्षविपक्षयोरसतः पक्षव्यापिनोऽसाधारणत्ववचनात् । एतेन पक्षाव्यापकस्यासाधारणत्वं प्रत्युक्तं, तस्यासाधारणैकदेशत्वाल्लक्षणत्वायोगादग्नेरुष्णत्ववत् । न हि तत् सकलाग्निव्यक्तिष्वस्ति प्रदीपप्रभादिष्वनुद्भूतोष्णस्पर्शेष्वभावात् । न चानुद्भूतमपि लक्षणं युक्तमप्रसिद्धत्वात् । यदि पुनरुष्णस्पर्शयोग्यत्वं पावकस्य लक्षणं स्यान्न कश्चिद्दोषः पक्षव्यापिनोऽसाधारणत्वसिद्धेः । एतेनाविद्यमाने विपक्षेऽसतोऽसम्भवत्वसपक्षस्यासाधारणत्वमुपदर्शितं प्रत्येयम् । विद्यमाने च सपक्षेऽसतोऽसम्भवद्विपक्षस्य पक्षव्यापिनोऽसाधारणस्य लक्षणत्वमविरुद्धं शब्दस्यानित्यत्वे श्रावणत्ववत् । न हि तद् घटादावनित्ये सपक्षे विद्यमानेऽप्यस्ति । नाप्यस्य विपक्षो नित्यैकान्तः सम्भवति, शब्दत्वस्यापि सदृशपरिणामलक्षणस्य कथञ्चिदनित्यत्वात्, शब्दाभावस्य च शब्दान्तरस्वभावस्येतरेतराभावप्रध्वंसाभावरूपस्यानित्यत्वात् पक्षादन्यत्वानुपपत्तेः । अशब्दात्मनोऽश्रावणत्वात् साधीय एव श्रावणत्वं शब्दस्य लक्षणं, शब्दात्मकत्वाभावेऽनुपपद्यमानत्वाद्, इत्यन्यथानुपपद्यमानरूपं पक्षव्यापि लक्षणमनवद्यत्वात् । [द्रव्यपर्याययोर्लक्षणं भिन्नमेवेति स्पष्टयन्ति जैनाचार्याः ।] तत्र द्रव्यस्य लक्षणं गुणपर्ययवत्त्वं, गुणपर्ययवद् द्रव्यम् इति वचनात् [तत्त्वा० ५.३८] क्रमाक्रमभाविविचित्रपरिणामाभावे द्रव्यस्य लक्षयितुमशक्तेः, अष्टसहस्त्रीतात्पर्यविवरणम् भावः । एतेन = पक्षव्यापिन एवासाधारणस्य वस्तुलक्षणत्वप्रतिपादनेन, तस्य= पक्षैकदेशवर्त्तिनोऽसाधारणस्य, उपदर्शितं प्रत्येयमिति अग्निमात्रस्योष्णस्पर्शयोगित्वलक्षण इति गम्यम् । शब्दस्यानित्यत्वे श्रावणत्ववदिति अत्र हि श्रावणत्वं लक्ष्यतावच्छदेकसमनियतत्वेन लक्षणं भवदनुगतानतिप्रसक्तव्यवहार इवानित्यत्वसाधनेऽपि प्रत्यलमिति तत्र सपक्षावृत्तित्वमबाधकमिति भावः । पक्षव्यापि लक्षणमिति Page #153 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि. ४-का० ७१-७२] द्रव्यस्यापाये गुणपर्ययवत्त्वस्यानुपपत्तेः कार्यद्रव्ये घटादिविशेषे गुणवत्त्वस्य भावानवपुराणादिपर्याययोगित्वस्य च भावान्नाव्याप्तिर्लक्षणस्य, नाप्यतिव्याप्तिः, स्पर्शादिविशेषेषु क्रमजन्मसु पर्यायेषु स्पर्शादिसामान्येषु सहभाविषु गुणेषु चाभावात् । तथा पर्यायस्य तद्भावो लक्षणं, तद्भावः परिणाम इति वचनात् [तत्त्वा० ५-४१] । तेन तेन प्रतिविशिष्टेन रूपेण भवनं हि परिणामः, सहक्रमभाविष्वशेषपर्यायेषु तस्य भावादव्याप्त्यसम्भवात्, तदभावे च द्रव्ये तदनुपपत्तेः, इति प्रमाणसिद्धं भिन्नलक्षणत्वं द्रव्यपर्याययोः कथञ्चिन्नानात्वं साधयति, रूपाद्युदाहरणस्यापि साध्यसाधनवैकल्याभावात्, कथञ्चिन्नानात्वेन व्याप्तस्य भिन्नलक्षणत्वस्य परस्परविविक्तस्वभावपरिणामादित्वेन साधनात । रूपादेहि लक्षणं रूपादिबद्धिप्रतिभासयोग्यत्वं भिन्नं प्रसिद्धं कथञ्चित्तन्नानात्वं चेति निरवद्यमुदाहरणम् । ननु च भिन्नलक्षणत्वं स्यान्नानात्वं च न स्याद्विरोधाभावात् । ततः सन्दिग्धविपक्षव्यावृत्तिको हेतुरिति न शङ्कनीयं, (भा०) विरुद्धधर्माध्यासास्खलबुद्धिप्रतिभासभेदाभ्यां च वस्तुस्वभावभेदसिद्धेः । अन्यथाऽनानैकं जगत्स्यात्, तदभ्युपगमे पक्षान्तरासम्भवादिति । विपक्षे बाधकप्रमाणसद्भावान्निश्चितव्यतिरेकित्वात् साधनस्य द्रव्यपर्याययोः सर्वथैकत्वे विरुद्धधर्माध्यासस्यास्खलबुद्धिप्रतिभासभेदस्य चायोगाद्भिन्नलक्षणत्वस्यानपपत्तेः, व्यापकस्य ग्राहकस्य चाभावे व्याप्यस्य विषयस्य चाव्यवस्थितेः । व्यवस्थितौ वा भिन्नलक्षणत्वस्य न किञ्चिदेकं जगति स्यात् । नापि नाना, विरुद्धधर्माध्यासाद्यभावेऽपि नानात्वस्य सिद्धौ तस्य तत्साधनत्वायोगात्, न चासाधना कस्यचित्सिद्धिरतिप्रसङ्गात् । न च नानात्वैकत्वाभ्युपगमे प्रकारान्तरमस्ति, यतो जगदनानैकं न स्यात् । न हि विरुद्धधर्माध्यासेतराभ्यामन्यन्नानात्वैकत्वस्वरूपम् । अष्टसहस्त्रीतात्पर्यविवरणम् उक्ततत्त्वमेतत्, न च वयुष्णस्पर्शी प्रमेयावित्यत्र वह्निलक्षणवाक्यत्वप्रसङ्गः, तत्र लक्ष्ये लक्ष्यतावच्छेदकसमनियतत्वसंसर्गेण तद्धर्मबोधकवचनत्वं तत्र तल्लक्षणवाक्यत्वमित्युक्तौ दोषाभावादिति दिग् । भाष्ये अनानैकं जगत् स्यादिति नानात्वरहितं जगत् स्यादित्यर्थः । तदभ्युपगमे =नानात्वाभ्युपगमे, पक्षान्तरासम्भवाद् विरुद्धधर्माध्यासाऽस्खलबुद्धि Page #154 -------------------------------------------------------------------------- ________________ अष्टसहस्त्रीतात्पर्यविवरणम् नाप्यस्खलबुद्धिप्रतिभासभेदाभेदाभ्यामन्यत्तत्साधनं, यत्प्रकारान्तरं स्यात् । (भा०) ततः कारिकाद्वयेन सामान्यविशेषात्मानमर्थं संहृत्य तत्रापेक्षानपेक्षकान्तप्रतिक्षेपायाह भगवान् वास्तवमेव इति । स्यान्नानात्वमेव स्वलक्षणभेदात् । स्यादेकत्वमेवाशक्यविवेचनत्वात् । स्यादुभयमेव क्रमार्पितद्वयात् । स्यादवक्तव्यमेव सहार्पितद्वयाद्वक्तुमशक्यत्वात् । स्यान्नानात्वावक्तव्यमेव विरुद्धधर्माध्याससहार्पितद्वयात् । स्यादेकत्वावक्तव्यमेव, अशक्यविवेचनसहार्पितद्वयात् । स्यादुभयावक्तव्यमेव क्रमाक्रमार्पितद्वयात् । इति सप्तभङ्गीप्रक्रिया दृष्टेष्टाविरुद्धावबोद्धव्या पूर्ववत् । कार्यादेर्भेद एव स्फुटमिह नियतः सर्वथा कारणादेरित्यायेकान्तवादोद्धततरमतयः शान्ततामाश्रयन्ति । प्रायो यस्योपदेशादविघटितनयान्मानमूलादलझ्यात्, स्वामी जीयात् स शश्वत्प्रथिततरयतीशोऽकलङ्कोरुकीर्तिः ॥ [स्रग्धरा] इत्याप्तमीमांसालङ्कृतौ चतुर्थः परिच्छेदः ॥४॥ अष्टसहस्रीतात्पर्यविवरणम् । प्रतिभासभेदातिरिक्तप्रकाराभावादित्यर्थः । शिष्टं स्पष्टम् ॥७१-७२।। कार्योपादानयोर्वा ननु गुणगुणिनोर्व्यक्तिजात्योरनन्यान्यत्वैकान्तान्धकारैर्जगदिदमखिलं नीतमान्ध्यं समन्तात् । व्यक्तस्याद्वादमार्गाः प्रतिहतकुमतोलूकनेत्रप्रचारास्तत्प्रध्वंसाय सज्जा भुवनगुरुगिरः सूर्यभासो जयन्ति ॥१॥ (स्रग्धरा) इति श्रीमदकब्बरसुरत्राणप्रदत्तजगद्गुरुबिरुदधारकभट्टारकश्रीहीरविजयसूरीश्वरशिष्य मुख्यमहोपाध्यायश्रीकल्याणविजयगणिशिष्यावतंसपण्डितश्रीलाभविजयगणि शिष्याग्रेसरपण्डितश्रीजितविजयगणिसतीर्थ्यालङ्कार पण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकेण पण्डितश्रीपद्मविजयगणिसहोदरेण महोपाध्यायश्रीयशोविजयगणिना विरचितेऽष्टसहस्त्रीतात्पर्यविवरणे ॥ चतुर्थः परिच्छेदः सम्पूर्णः ॥ Page #155 -------------------------------------------------------------------------- ________________ ॥ पञ्चमः परिच्छेदः ॥ यद्यापेक्षिकसिद्धिः स्यान्न द्वयं व्यवतिष्ठते । अनापेक्षिकसिद्धौ च न सामान्यविशेषता ॥७३॥ स्फुटमकलङ्कपदं या प्रकटयति पटिष्ठचेतसामसमम् । दर्शितसमन्तभद्रं साष्टसहस्त्री सदा जयतु ॥१॥ [ बौद्ध धर्मधर्मिणौ अपेक्षाकृतौ एव मन्यते तस्य पूर्वपक्ष: ।] ( भा० ) धर्मधर्मिणोरापेक्षिकी सिद्धिः, प्रत्यक्षबुद्धौ तदनवभासनाद् दूरादिवत् । न हि प्रत्यक्षबुद्धौ धर्मो धर्मी वा प्रतिभासते, तत्पृष्ठभाविविकल्पोपकल्पितत्वात्, तस्य स्वलक्षणस्यैव तत्र प्रतिभासनात्, शब्दापेक्षया सत्त्वादे अष्टसहस्त्रीतात्पर्यविवरणम् सहेलं खेलन्तं शिशुषु बहुवेलं धृतजयस्पृहेलं वेताले तनुविजितताले प्रददतम् । पविप्रायां मुष्टिं जनितजनतुष्टिं स्वहृदये, महावीरं धीरं गुणगणगभीरं प्रणिदधे ॥ अहीन्द्रः पाताले स्वफणतनुसङ्कोचमकरोद्, ययुर्दिङ्नागास्ते क्वचन गिरयः पेतुरभितः । यदंः सङ्घट्टाच्चलति सुरशैले परमिला, स्थिता यन्माहात्म्यात्तमिह जिनवीरं प्रणिदधे ॥ [ शिखरिणी] Page #156 -------------------------------------------------------------------------- ________________ ५५८ अष्टसहस्त्रीतात्पर्यविवरणम् धर्मत्वेऽपि ज्ञेयत्वापेक्षायां धर्मित्वव्यवहरणात्, तदपेक्षया ज्ञेयत्वस्य धर्मत्वेऽप्यभिधेयत्वापेक्षायां धर्मित्वव्यवहारात्, तदपेक्षया चाभिधेयत्वस्य धर्मत्वे प्रमेयत्वापेक्षायां धर्मित्वप्रसिद्धः, इति न क्वचिद्धर्मो धर्मी वा व्यवतिष्ठते । ततो न तात्त्विकोऽसौ । न हि नीलस्वलक्षणं संवित्स्वलक्षणं वा प्रत्यक्षमवभासमानं किञ्चिदपेक्ष्यान्यथाभावमनुभवदुपलब्धम् । केवलमपेक्षाबुद्धौ विशेषणविशेष्यत्वं सामान्यविशेषत्वं गुणगुणित्वं क्रियाक्रियावत्त्वं कार्यकारणत्वं साध्यसाधनत्वं ग्राह्यग्राहकत्वं वा प्रकल्प्यते दूरेतरत्वादिवत् । [जैनाचार्याः बौद्धस्यापेक्षिकैकान्तं निराकुर्वन्ति ।] इति यद्यापेक्षिकसिद्धिः स्यात्तदा न द्वयं व्यवतिष्ठते नीलस्वलक्षणं तत्संवेदनं चेति, तयोरप्यापेक्षिकत्वाद्विशेषणविशेष्यत्वादिवत् । तथा हि-ययोः सर्वथा परस्परापेक्षाकृता सिद्धिस्तयोर्न व्यवस्था । यथा परस्पराश्रययोः सरिति प्लवमानयोः । तथा च नीलतद्वेदनयोः सर्वथापेक्षाकृता सिद्धिः, इति तद्वयमपि न व्यवतिष्ठते । न हि नीलं नीलवेदनानपेक्षं सिद्धयति, तस्यावेद्यत्वप्रसङ्गात् संविन्निष्ठत्वाच्च वस्तुव्यवस्थानस्य । नापि नीलानपेक्षं नीलवेदनं, तस्य तस्मादात्मलाभोपगमादन्यथा निर्विषयत्वापत्तेः, इत्यन्यतराभावे शेषस्याप्यभावाद् द्वयस्याव्यवस्थानं स्यात् । एतेन नीलवासनातो नीलवेदनमित्यस्मिन्नपि दर्शने द्वयाव्यवस्थितिरुक्ता, (भा०) तयोरन्योन्यापेक्षैकान्ते स्वभावतः प्रतिष्ठितस्यैकतरस्याप्यभावेऽन्यतराभावादुभयं न प्रकल्प्येत । नीलवेदनाभावे तद्वासनाविशेषस्याव्यवस्थितेरन्यथातिप्रसक्तेः, तद्वासनाविशेषमन्तरेण नीलवेदनस्याव्यवस्थितेरन्यथा निनिमित्तत्वापत्तेः । स्यान्मतं - अष्टसहस्त्रीतात्पर्यविवरणम् पञ्चमे सापेक्षत्वाऽनपेक्षत्वस्याद्वादसिद्ध्यर्थमुपक्रमः । अपेक्षाबुद्धाविति व्यावर्तकव्यावर्त्यत्वाद्यपेक्षाजनितविकल्पबुद्धावित्यर्थः । यद्यापेक्षिकसिद्धिः स्यादिति सर्वत्रेति शेषः । नीलस्वलक्षणं तत्संवेदनं चेति तयोरपि सर्वकुक्षिप्रविष्टत्वादिति भावः । तयोरप्यापेक्षिकत्वादिति आपेक्षिकत्वप्रसङ्गादित्यर्थः । न हि नीलमित्यादि, यद्यपि एवमेकस्योत्पत्तावन्यस्य च ज्ञप्तावपेक्षेति नैकरूपेणापेक्षाविषयत्वं द्वयोः, तथापि निश्चयापेक्षया Page #157 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि०५-का० ७३] ५५९ 'नीलवेदनस्य स्वतः प्रकाशनान्नायं दोष इति तदसत्, परस्परापेक्षैकान्तविरोधात्, दण्डादेविशेषणस्य स्वबुद्धौ स्वतः सिद्धेः सामान्यादेरपि स्वग्राहिणि ज्ञानेऽन्यानपेक्षस्य प्रतिभासनाद्विशेष्यविशेषणादेरपि तथा प्रसिद्धेर्द्वयाभावानवकाशात् । तत एव दूरेतरादिदृष्टान्तोऽपि साध्यसाधनधर्मविकलः स्यात् । __(भा०) दूरासन्नभावयोरपि स्वभावविवर्तविशेषाभावे समानदेशादेरपि प्रसङ्गात् । न च समानदेशकालस्वभावयोरन्योन्यापेक्षयापि दूरासन्नभावव्यवहारः, खरविषाणयोरिव तत्स्वभावशून्ययोस्तदयोगात् । (भा०) तदिमौ स्वभावतः स्तामन्यथेतरेतराश्रयदोषानुषङ्गात् । एतेन स्वाश्रयशब्दाद्यपेक्षया सत्त्वादेर्धर्मत्वेन स्वधर्मापेक्षायां धर्मित्वं नाव्यवस्थाकारित्वेनायुक्तमिति प्रकाशितं, तथाविधस्वभावविशेषाभावे परापेक्षयापि धर्मधर्मिभावानुपपत्तेः, अनन्तत्वाच्च धर्माणां तदपेक्षिणामप्यपर्यन्तत्वात्, अन्यथाभिप्रेतधर्मधर्मिणोरप्यव्यवस्थापत्तेः, इति नापेक्षकान्तः श्रेयान् । [यौगो धर्मधर्मिणौ सर्वथानापेक्षिकौ एव मन्यते, किन्तु जैनाचार्याः तस्य निराकरणं कुर्वन्ति ।] योऽप्याह-'धर्मधर्मिणोः सर्वथा नापेक्षिकी सिद्धिः, प्रतिनियतबुद्धिविषयत्वान्नीलादिस्वरूपवत्, सर्वथानापेक्षिकत्वाभावे प्रतिनियतबुद्धिविषयत्वानुपपत्तेः खपुष्पवत्' इति । अष्टसहस्रीतात्पर्यविवरणम् । तथात्वं भावनीयं, प्रसङ्गस्य वस्तुस्थित्यनपेक्षत्वात् । परस्परापेक्षैकान्तविरोधादिति यद्यपि एतद् दूषणं न सौगतं प्रति सङ्गच्छते, सर्वत्र तेन परस्परापेकान्तानभ्युपगमात्, सङ्कलनात्मकविकल्पज्ञान एव तेन तत्स्वीकारात्, तथापि धर्मधर्मभावादेः स्वरूपद्वयानतिरिक्तत्वात्तदुभयग्राहिदर्शनेऽपि परस्परापेक्षत्वमापाद्य तं प्रत्येवेदमिति बहवः । सविकल्पग्राह्यमेव सर्वमिति शब्दनयविदं प्रतीति तु सम्मत्यनुसारिणः । भाष्ये तदिमौ इति इमौ= दूरासन्नभावौ । इतरेतराश्रयदोषानुषङ्गादिति दूरप्रतिपत्तावासन्नस्य प्रतिपत्तिस्तत्प्रतिपत्तौ च तस्येत्येवमित्यर्थः । उत्पत्तिपक्षेऽपि दूरापेक्षबुद्ध्यासन्नत्वस्यासन्नापेक्षाबुद्ध्या च दूरत्वस्योत्पत्तेरन्योन्याश्रयो भावनीयः । अन्यथा सर्वेषां धर्मधर्मिणां स्वतः सिद्ध्यभावे, अपेक्ष Page #158 -------------------------------------------------------------------------- ________________ अष्टसहस्त्रीतात्पर्यविवरणम् ( भा० ) तस्यानपेक्षापक्षेऽपि नान्वयव्यतिरेकौ स्यातां, भेदाभेदयोरन्योन्यापेक्षात्मकत्वाद्विशेषेतरभावस्य । ५६० अन्वयो हि सामान्यं, व्यतिरेको विशेषः । तौ च परस्परापेक्षौ व्यवतिष्ठेते । तयोरनापेक्षिकसिद्धौ च न सामान्यविशेषता । प्रतिनियतबुद्धिविषययोरपि प्रतिनियतपदार्थता स्यान्नीलपीतवत् । न ह्यभेदो भेदनिरपेक्षः प्रतिनियतान्वयबुद्धिविषयोऽस्ति, नापि भेदो जातुचिदभेदनिरपेक्षः प्रतिनियतव्यतिरेकबुद्धिविषयः सम्भाव्यते क्वचिदेकव्यक्तेरपि प्रथमदर्शनकाले तबुद्धिविषयत्वप्रसङ्गात् । तदनेन प्रतिनियतबुद्धिविषयत्वस्य हेतोर्विरुद्धत्वं प्रतिपादितं तस्य कथञ्चिदापेक्षिकत्वेन व्याप्तत्वात् प्रत्यक्षबुद्धिप्रतिभासित्ववत् । ततो नैतावेकान्तौ घटेते, वस्तुव्यवस्थानाभावानुषङ्गात् ॥७३॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥७४॥ (भा०) अनन्तरैकान्तयोर्युगपद्विवक्षा मा भूद्विप्रतिषेधात् सदसदे कान्तवत् । स्याद्वादानाश्रयणात् (भा०) तथानभिधेयत्वैकान्तेऽपीति कृतं विस्तरेण । सदसत्त्वाभ्यामनभिधेयत्वैकान्तवद् इति ॥७४॥। कथञ्चिदापेक्षिकत्वेतरानेकान्तं प्रतिपक्षप्रतिक्षेपसामर्थ्यात्सिद्धमपि दुरारेकापा करणार्थमाचक्षते अष्टसहस्त्रीतात्पर्यविवरणम् कान्तो=धर्मधर्म्यादीनामपेक्षाबुद्धिग्राह्यत्वैकान्तः । तस्य कथञ्चिदिति धर्मधर्मित्वादिना प्रतिनियतबुद्धिविषयत्वस्यापेक्षिकत्वेन व्याप्तत्वादित्यर्थः । प्रत्यक्षबुद्धिप्रतिभासित्ववदिति प्रत्यक्षबुद्धिप्रतिभातदूरत्वासन्नत्ववदित्यर्थः ॥७३॥ Page #159 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० ५ - का० ७५ ] धर्मधर्म्यविनाभावः सिद्ध्यत्यन्योऽन्यवीक्षया । न स्वरूपं स्वतो ह्येतत् कारकज्ञापकाङ्गवत् ॥७५॥ ५६१ [धर्मधर्मिणौ कथञ्चित् स्वतः सिद्धौ स्तः कथञ्चिदपेक्षाकृतौ सिद्धौ स्तः ।] धर्मधर्मिणोरविनाभावोऽन्योन्यापेक्षयैव सिद्ध्यति, न तु स्वरूपं तस्य पूर्वसिद्धत्वात् । स्वतो ह्येतत्सिद्धं सामान्यविशेषवत् । सामान्यं हि स्वतः सिद्धस्वरूपं भेदापेक्षान्वयप्रत्ययादवगम्यते विशेषोऽपि स्वतः सिद्धस्वरूपः सामान्यापेक्षव्यतिरेकप्रत्ययादवसीयते । भा० ) न केवलं सामान्यविशेषयोः स्वलक्षणमपेक्षितपरस्पराविनाभावलक्षणं स्वतः सिद्धलक्षणमपि तु धर्मधर्मिणोरपि । गुणगुण्यादिरूपयोः । (भा० ) कर्तृकर्मबोध्यबोधकवत् । [कारकाङ्गकर्तृकर्मवत् ज्ञापकाङ्गबोध्यबोधकवच्च ] । न हि कर्तृस्वरूपं कर्मापेक्षं कर्मस्वरूपं वा कर्त्रपेक्षम्, उभयासत्त्वप्रसङ्गात् । नापि कर्तृत्वव्यवहारः कर्मत्वव्यवहारो वा परस्परानपेक्षः, कर्तृत्वस्य कर्मनिश्चयावसेयत्वात्, कर्मत्वस्यापि कर्तृप्रतिपत्तिसमधिगम्यमानत्वात् । एतेन बोध्यबोधकयोः प्रमेयप्रमाणयोः स्वरूपं स्वतः सिद्धं ज्ञाप्यज्ञापकव्यवहारस्तु परस्परापेक्षासिद्ध इत्यभिहितम् । तद्वत्सकलधर्मधर्मिभूतानामर्थानां (१) स्यादापेक्षिकी सिद्धि:, तथा व्यवहारात् । (२) स्यादनाअष्टसहस्त्रीतात्पर्यविवरणम् धर्मेत्यादि धर्मधर्मिणोर्न विना भावो यस्येति व्युत्पत्त्याऽविनाभावो व्यवहारःअन्योन्यवीक्षया=अन्योन्यापेक्षया, सिद्ध्यति न तु स्वरूपं, हि = यतः, एतत् = स्वरूपं, कारकज्ञापकाङ्गवत्=कर्तृकर्मबोध्यबोधकवत् स्वत एव सिद्धं, तथा च धर्मधर्म्यादेः स्वरूपतोऽनपेक्षत्वं व्यवहारतश्च सापेक्षत्वमित्यनैकान्तः एव विजयते इति कारिकासङ्क्षेपार्थः । तद्वत् सकलेत्यादि यद्यपि केचिद्भावाः प्रतिनियतव्यञ्जकव्यङ्ग्याः केचिच्च स्वतः सिद्धा इत्येवं विषयविभागेन सापेक्षानपेक्षभावोऽन्यत्र शरावकर्पूरगन्धन्यायेन पूर्वाचार्यैर्व्यवस्थापितः, तथापि स प्रातिस्विकरूपापेक्षया, धर्मधर्मिभावादिना तु सर्वत्र तद् Page #160 -------------------------------------------------------------------------- ________________ ५६२ अष्टसहस्रीतात्पर्यविवरणम् पेक्षिकी, पूर्वप्रसिद्धस्वरूपत्वात् । (३) स्यादुभयी, क्रमार्पितद्वयात् । (४) स्यादवक्तव्या, सहार्पितद्वयात् । (५) स्यादापेक्षिकी चावक्तव्या च, तथानिश्चयेन सहार्पितद्वयात् । (६) स्यादनापेक्षिकी चावक्तव्या च, पूर्वसिद्धत्वसहार्पितद्वयात् । (७) स्यादुभयी चावक्तव्या च, क्रमाक्रमार्पितोभयात् ।' इति सप्तभङ्गीप्रक्रियां योजयेन्नयविशेषवशादविरुद्धां अष्टसहस्रीतात्पर्यविवरणम् व्याप्तिरेव सिद्ध्यतीत्येतत्तात्पर्यम् । अथ व्यवहारस्य सापेक्षत्वेऽर्थस्य कुत आपेक्षिकत्वमिति चेत्, व्यवह्रियमाणस्वरूपेण तस्यापि तदविरोधात्, अत एव अभावो न सप्रतियोगिकः, किन्तु तदव्यवहार एवेति मीमांसकमतमपास्तम् । अभावव्यवहारे प्रतियोगिज्ञानजन्यतयेवाभावे प्रतियोगिज्ञानजन्यज्ञानविषयतया सप्रतियोगिकत्वस्याबाधितत्वात् । स्यादनापेक्षिकी पूर्वप्रसिद्धस्वरूपवदिति न च पूर्वप्रसिद्धस्वरूपेऽपि महत्त्वादाववधिज्ञानसापेक्षसिद्धिकत्वाद् दृष्टान्तानुपपत्तिः, महत्त्वव्यवहार एव हि तथा न तु महत्त्वमिति व्यवहारानुप्रवेशेन तस्यापेक्षिकत्वेऽपि स्वरूपतोऽतथात्वेन दोषाभावात् । यत्तु महत्त्वं न सापेक्षं, किन्तु तद्गतजातिविशेष एव, तस्य महत्त्वगतजातिसामान्यग्राहकातिरिक्तापेक्षग्रहविषयत्वेन सापेक्षत्वव्यवस्थितेः, अत एवाऽर्द्धावृतेऽवयविनि महत्त्वग्रहेऽपि तद्गतहस्तवितस्तित्वादिजात्यग्रह आवरणप्रतिबन्धादिति नैयायिकैकदेशिभिरुच्यते, तदसत, आवरणसंयोगस्य स्वाश्रयसमवेतसमवेतत्वसम्बन्धेन महत्त्वगतजातिविशेषग्रहप्रतिबन्धकत्वे आवृतानावृततुल्यवंशद्वयसन्निकर्षस्थलेऽनावृतवंशेऽपि महत्त्वविशेषाग्रहप्रसङ्गात्, जातिविशेषप्रकारकमहत्त्वग्रहे उक्तप्रतिबन्धकत्वे चावरणस्थले महत्त्वनिर्विकल्पकापत्ते१र्वारत्वाच्चेति व्यवहारानुप्रवेशेनैव महत्त्वे आवरणाभावसापेक्षत्वस्य युक्तत्वादित्यधिकं नयामृततरङ्गिण्यां निरूपितमस्माभिरिति तत एवाधिगन्तव्यम् ॥७५॥ इत्यपेक्षानपेक्षाभ्यां भङ्गसप्तकसङ्गतिः । निरूपणीया सर्वत्र स्याद्वादामलबुद्धिभिः ॥१॥ अर्थे नये प्रमाणे च तत्प्रयुक्ते बलाबले । प्रयोजनानुसारेण भावनीये मनीषिभिः ॥२॥ १. स्वरूपत्वादिति अष्टसहस्रीसम्मतः पाठः । Page #161 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० ५ - का० ७५ ] अपेक्षैकान्तादिप्रबलगरलोद्रेकदलिनी, प्रवृद्धानेकान्तामृतरसनिषेकानवरतम् । प्रवृत्ता वागेषा सकलविकलादेशवशतः, समन्ताद्भद्रं वो दिशतु मुनिपस्यामलमतेः ॥ [शिखरिणी] । इत्याप्तमीमांसालङ्कृतौ पञ्चमः परिच्छेदः । अष्टसहस्त्रीतात्पर्यविवरणम् बाह्ये चाभ्यन्तरे हेतौ निश्चयव्यवहारयोः । प्रत्यक्षे च परोक्षे च विशेषो यत्कृतोऽखिलः ॥३॥ अपेक्षाद्येकान्तप्रशमजसमत्वामृतरसोल्लसच्चेतोवृत्तिर्यदमलगुणं पश्यति यमी । तमीशं स्याद्वादप्रणयनसमुज्जीवितजग ज्जनं वन्दे मन्देतरभविकसन्देहदलनम् ॥४॥ [ शिखरिणी] ५६३ इति श्रीमदकब्बरसुरत्राणप्रदत्तजगद्गुरुबिरुदधारकभट्टारकश्रीहीरविजयसूरीश्वरशिष्य मुख्यमहोपाध्याय श्रीकल्याणविजयगणिशिष्यावतंसपण्डित श्रीलाभविजयगणि शिष्याग्रेसरपण्डितश्रीजितविजयगणिसतीर्थ्यालङ्कार पण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकेण पण्डित श्रीपद्मविजयगणिसहोदरेण महोपाध्यायश्रीयशोविजयगणिना विरचितेऽष्टसहस्त्रीतात्पर्यविवरणे पञ्चमः परिच्छेदः सम्पूर्णः ॥ Page #162 -------------------------------------------------------------------------- ________________ ॥ षष्ठः परिच्छेदः ॥ सिद्धं चेद्धेतुतः सर्वं न प्रत्यक्षादितो गतिः । सिद्धं चेदागमात्सर्वं विरुद्धार्थमतान्यपि ॥७६॥ पुष्यदकलङ्कवृत्तिं समन्तभद्रप्रणीततत्त्वार्थाम् । निर्जितदुर्नयवादामष्टसहस्त्रीमवैति सद्दृष्टिः ॥ इह हि सकललौकिकपरीक्षकैः ( भा० ) उपेयतत्त्वं व्यवस्थाप्योपायतत्त्वं व्यवस्थाप्यते । कृष्यादिषु प्रवर्तमानानां व्यवस्थितशस्याद्युपेयानामेव तदुपायव्यवस्थापनप्रयत्नोपलम्भात्, प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते इति प्रसिद्धेः, मोक्षार्थिनां च प्रेक्षावतां व्यवस्थितोपेयमोक्षस्वरूपाणामेव तदुपायव्यवस्थापनव्यापारदर्शनात्, अव्यवस्थितमोक्षतत्त्वानां तदुपायव्यवस्थापनपराङ्मुखत्वाच्चार्वाकादिवत् । अष्टसहस्त्रीतात्पर्यविवरणम् मन्थक्षुब्धार्णवाम्भः सजलजलधरोत्तुङ्गगङ्गाप्रवाह ध्वानस्पर्द्धाविधायी प्रसरणरसतो व्याप्नुवन् दिग्विभागान् । बोधाय ब्राह्मणानाममृतमधरयन् वीरवक्त्राद्विनिर्यन्नुच्चैः निःखेदवेदध्वनिरुपचिनुताच्छर्म तात्पर्यशुद्धः ॥१॥ वेदाः खेदाय ते ये शतपथविहितैः कर्मभिः कामनाद्यैर्हिसोद्बोधे प्रवृत्ताः शमदमरहितैः सङ्गृहीताश्च जाल्मैः । ये तूवृत्त्यादिमाङ्गान्मुनिभिरुपरतश्राद्धपाठाय क्लृप्तास्ते मन्त्रब्राह्मणाख्याः प्रभुगुणविषयाः सर्व एव प्रमाणम् ॥ [स्रग्धरा] Page #163 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि०६-का. ७६] ५६५ [केचित् बौद्धा हेतुना एव सर्वतत्त्वसिद्धि मन्यन्ते, जैनाचार्याः तदेकान्तं निराकुर्वन्ति ।] तत्र हेतुत एव सर्वमुपेयतत्त्वं सिद्धं, न प्रत्यक्षात्, तस्मिन्सत्यपि विप्रतिपत्तिसम्भवात् । (भा०) युक्त्या यन्न घटामुपैति तदहं दृष्ट्वापि न श्रद्दधे इत्यादेरेकान्तस्य बहुलं दर्शनात् । अर्थानर्थविवेचनस्यानुमानाश्रयत्वात्तद्विप्रतिपत्तेस्तव्यवस्थापनायाहेत्वादिवचनात् । __ (भा०) प्रत्यक्षतदाभासयोरपि व्यवस्थितिरनुमानात्, अन्यथा सङ्करव्यतिकरोपपतेः । ___ अर्थानर्थविवेचनस्य प्रत्यक्षाश्रयत्वासम्भवात्, इति केचित्तेषां प्रत्यक्षाद् गतिरनमानादादितोऽपि न स्यात । न च धर्मिणः साधनस्योदाहरणस्य च प्रत्यक्षादगतौ कस्यचिदनुमानं प्रवर्तते । अनुमानान्ततरात्तद्गतौ तस्यापि धादिगतिपूर्वकत्वादनुमानान्तरमपेक्षणीयमित्यनवस्था स्यात् । ततः ( भा०) कथञ्चित्साक्षात्करणमन्तरेण धादीनां (भा०) न क्वचिदनुमानं प्रवर्तेत, अष्टसहस्त्रीतात्पर्यविवरणम् षष्ठे हेत्वागमैकान्तनिराकरणाय प्रक्रमः । तत्र हेतुवादैकान्तसिद्धये केषाञ्चिद् युक्तिमुपन्यस्यति इह हीत्यादिना । तन्मतं दूषयति-तेषामित्यादिना । अनुमानादितोऽपि= अनुमानप्राक्कालेऽपि, प्रत्यक्षात् प्रत्यक्षप्रमाणाद्, गतिर्ज्ञानं, पक्षादेर्न स्याद् इति योजना । न चेति तथा च प्रामाण्यसंशयमलार्थसंशयनिराकरणरूपविवेचनेऽनमानस्येव तन्मलव्याप्त्यादिपरिच्छेदे प्रत्यक्षस्याप्युपयोगाद् द्वयोस्तुल्यत्वमित्यर्थः । प्रामाण्यग्रहेऽप्यनभ्यस्तविषयेऽनुमानस्येवाभ्यस्तविषये प्रत्यक्षस्यैवोपयोगस्तत्र स्वतःप्रामाण्यग्रहस्यैवोपपादितत्वात् स्वत इत्यस्य च स्वेनैवेत्यर्थात् स्वांशे च सर्वत्र ज्ञाने प्रत्यक्षत्वेष्टेरित्यभिप्रायवानाह भाष्यकृत्कथमित्यादिना, कथञ्चित् साक्षात्करणमन्तरेण कथं 'क्वचिदनुमानं प्रवर्तते न १. न क्वचिद् ? इति अष्टसहस्रीसम्मतः पाठः । Page #164 -------------------------------------------------------------------------- ________________ ५६६ अष्टसहस्त्रीतात्पर्यविवरणम् (भा० ) किं पुनः शास्त्रोपदेशात् ? । इति प्रत्यक्षादपि सिद्धिरभ्यस्तविषयेऽभ्युपगन्तव्या, अन्यथा शब्दलिङ्गादिप्रतिपत्तेरयोगात् परार्थानुमानरूपाणामपि शास्त्रोपदेशानामप्रवृत्तेः । [वेदान्ती आगमादेव तत्त्वसिद्धि मन्यते, जैनाचार्याः तदेकान्तं निराकुर्वन्ति ।] ये त्वाहुः—'आगमादेव सर्वं सिद्धं, तमन्तरेण प्रत्यक्षेऽपि माणिक्यादौ यथार्थनिर्णयानुपपत्तेः, अनुमानप्रतिपन्नेऽपि चिकित्सितादावागमापेक्षणात्, आगमबाधितपक्षस्यानुमानस्यागमकत्वाच्च, परब्रह्मणः शास्त्रादेव सिद्धः, प्रत्यक्षानुमानयोरविद्याविवर्तविषयत्वादागमविषये सन्मात्रात्मनि परमात्मन्येव प्रमाणत्वव्यवहरणात् अबाधिताश्चैते शास्त्रोपदेशाः सर्वं खल्विदं ब्रह्म [ ] इत्यादयः, प्रत्यक्षानुमानयोस्तदविषयत्वेन तद्बाधकत्वायोगाद्' इति, तेषां विरुद्धार्थमतान्यपि शास्त्रोपदेशेभ्यः सिद्ध्यन्तु, विशेषाभावात् । सम्यगुपदेशेऽभ्यस्तत्वसिद्धिरिति चेत्, तर्हि युक्तिरपि तत्त्वसिद्धिनिबन्धनं, तत एव तेषां सम्यक्त्वनिर्णयात्, अदुष्टकारणजन्यत्वबाधवर्जितत्वाभ्यां तदुपगमात् । (भा०) न चैते युक्तिनिरपेक्षाः, परस्परविरुद्धार्थतत्त्वसिद्धिप्रसङ्गात् । अष्टसहस्रीतात्पर्यविवरणम् कथञ्चित् क्वापीत्यर्थः । शास्त्रोपदेशात्प्रवर्त्तते इति पुन: किं वाच्यम् । अनुमानसामान्याप्रवृत्तौ परार्थानुमानरूपविशेषप्रवृत्तेरयोगादित्यर्थः । तदेवाह वृत्तिकृत्-प्रत्यक्षादपीत्यादिना, आगमैकान्तवादियुक्तिमुपन्यस्यति-ये त्वाहुरित्यादिना । ॥ प्रत्यक्षस्यागमोपदेशोपजीव्यत्ववादः ॥ तमन्तरेणेति 'अत्र पद्मरागत्वमुपदेशसहकृतेन्द्रियवेद्यमिति नैयायिकसम्प्रदायविदः । नव्यास्तु भिन्नप्रमाणयोरेकज्ञानाजनकत्वेन न परस्परसहकारित्वमिति पद्मरागत्वप्रत्यक्ष रूपविशेषग्रहणमेव हेतुः, रूपादिविशेषवान् मणिः पद्मराग इत्युपदेशस्तु गोसदृशो गवय इत्यतिदेशवाक्यवत् पद्मरागपदवाच्यत्वोपमितावुपयुज्यत इत्याहुः तदसत्, रूपविशेषपद्मरागत्वयोर्ग्रहस्य तुल्यसामग्रीकत्वाच्छिक्षातः पूर्वं रूपविशेषाग्रहेऽपि पद्मरागत्वाग्रहात्, स्वविशेष्यसमवेतत्वसम्बन्धेन तस्य पद्मरागत्वप्रत्यक्षहेतुत्वे सदृशपद्मरागद्वयस्थले तदविशेष्यसन्निकर्षेणापि पद्मरागत्वप्रत्यक्षापत्तेरुक्तोपदेशस्य तत्रानुपयोगे च पद्मरागतदन्यसंशयनिवृत्त्यर्थं तदाश्रयणस्योपदेशात्पद्मरागं साक्षात्करोमि न तूपमिनोमीत्यौत्तरकालिका Page #165 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि०६-का. ७६] ५६७ परब्रह्मण एवापौरुषेयादागमात्सिद्धिर्न पुनः कर्मकाण्डस्येश्वरादिप्रवादस्य चेति नियामकाभावात् । कथं च श्रौत्रप्रत्यक्षस्याप्रमाणत्वे वैदिकशब्दस्य प्रतिपत्तिर्यतस्तदर्थनिश्चयः स्यात् ? प्रमाणत्वे कुतोऽनुमानाभावे संवादविसंवादाभ्यां प्रमाणेतरसामान्याधिगमो यतः किञ्चिदेव श्रौत्रं प्रत्यक्षं प्रमाणं नान्यदिति व्यवतिष्ठेत? ततः कुतश्चिदागमात्तत्त्वसिद्धिमनुरुध्यमानेन प्रत्यक्षानुमानाभ्यामपि तत्त्वसिद्धिरनुमन्तव्या, अन्यथा तदसिद्धेः । [केचित् वैशेषिकाः सौगताश्च प्रत्यक्षानुमानाभ्यामेव तत्त्वसिद्धि मन्यन्ते किन्तु जैनाचार्यास्तदपि निराकुर्वन्ति ।] प्रत्यक्षानुमानाभ्यामेव तत्त्वसिद्धिर्नागमादित्यपरे तेऽपि न सत्यवादिनः, ग्रहोपरागादेस्तत्फलविशेषस्य च ज्योति:शास्त्रादेव सिद्धेः । (भा० ) न च प्रत्यक्षानुमानाभ्यामन्तरेणोपदेशं ज्योतिर्ज्ञानादिप्रतिपत्तिः । सर्वविदः प्रत्यक्षादेव तत्प्रतिपत्तिरनुमानविदां पुनरनुमानादपीति चेत्, न, सर्वविदामपि योगिप्रत्यक्षात्पूर्वमुपदेशाभावे तदुत्पत्त्ययोगादनुमानाभाववत् । ते हि श्रुतमयीं चिन्तामयीं च भावनां प्रकर्षपर्यन्तं प्रापयन्तोऽतीन्द्रियप्रत्यक्षमात्मसात्कुर्वते, नान्यथा । तथानुमानविदामपि नात्यन्तपरोक्षेष्वर्थेषु परोपदेशमन्तरेण साध्याविनाभाविसाधनधर्मप्रतिपत्तिः सम्भवति, सर्वज्ञत्वप्रसङ्गाद्, इति चिन्तितमन्यत्र । ततो नैतावप्येकान्तौ युक्तौ ॥६॥ - अष्टसहस्त्रीतात्पर्यविवरणम् नुभवाकारस्यानुपपत्तेश्च, तस्मादुक्तोपदेशस्य रूपविशेषे पद्मरागत्वव्याप्तिग्राहकत्वेन रूपविशेषग्रहस्य च समानविशेष्यत्वप्रत्यासत्या पद्मरागत्वप्रकारकप्रत्यक्षे हेतुत्वेनोपयोगाद्रूपविशेषवान् पद्मराग इत्यस्यैकोपयोगत्वे निश्रितापायत्वं, भिन्नोपयोगत्वे च सङ्कलनज्ञानात्मकत्वं, कररेखाविशेषवान् शतवर्षजीवीत्यतोऽयं शतवर्षजीवीति ज्ञानस्येत्थमेवोपपत्तेरिति परिचितस्याद्वादरत्नाकरोपनिषदो वयं पश्यामः । रूपविशेषरेखाविशेषादिग्रहाणामननुगतत्वात्पद्मरागत्वप्रकारकप्रत्यक्षे स्वजन्यमण्युद्देश्यकपद्मरागत्वविधेयकग्रहोद्देश्यतावच्छेदकावच्छिन्नप्रकारताकग्रहविषयत्वसम्बन्धेनोपदेशत्वेनैव हेतुत्वं युक्तमित्ययमपि साम्प्रदायिकमतनिष्कर्षस्तार्किकचेतसः प्रीतिकर एवेति ध्येयम् । अपरे इति बौद्धादयः, तेऽपि हेतुवादप्रविष्टा इव मन्तव्याः । प्रमाणस्यापि सतः Page #166 -------------------------------------------------------------------------- ________________ ५६८ अष्टसहस्त्रीतात्पर्यविवरणम् विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥७७॥ (भा०) युक्तीतरैकान्तद्वयाभ्युपगमोऽपि मा भूत्, विरुद्धयोरेकत्र सर्वथासम्भवात् । स्याद्वादन्यायविद्विषां कथञ्चित्तदनभ्युपगमात् । (भा०) तदवाच्यत्वेऽपि पूर्ववत् स्ववचनविरोधप्रसङ्गः ॥७७|| सम्प्रति युक्तीतरानेकान्तमुपदर्शयन्ति वक्तर्यनाप्ते यद्धेतोः साध्यं तद्धेतुसाधितम् । आप्ते वक्तरि तद्वाक्यात्साध्यमागमसाधितम् ॥७८॥ [आप्तानाप्तयोर्लक्षणम्] कः पुनराप्तोऽनाप्तश्च ? यस्मिन् सति वाक्यात्साधितं साध्यमर्थतत्त्वमागमात् साधितं स्याद्धेतोस्तु यत्साध्यं तद्धेतुसाधितमिति विभागः सिद्ध्यतीति चेत्, उच्यते(भा०) यो यत्राविसंवादकः स तत्राप्तस्ततोऽपरोऽनाप्तः । अष्टसहस्रीतात्पर्यविवरणम् प्रत्यक्षस्य तैरनुमानैकप्रमाणत्वाभ्युपगमात्, यत्रैव जनयेदित्यादिन्यायेनानुमाननिश्चित एवार्थे तत्प्रामाण्यव्यवस्थितेरिति मन्तव्यम् ॥७६।। वक्तर्यनाप्त इति वक्तर्यनाप्ते=आप्तत्वेनानिश्चिते, साध्यं तदनाप्तत्वग्रहाभावकालीनतद्वाक्यजन्यबोधविषयः, यद्धेतो:=प्रामाण्यनिश्चयहेतोः, सिद्ध्यतीति शेषः, निवत्तप्रामाण्यसंशयाधीनसंशयकं भवतीत्यर्थः, तद्धेतसाधितमच्यते आप्ते=आप्तत्वेन निश्चिते वक्तरि, तद्वाक्यात्=तद्वाक्यजन्यज्ञानविषयः, साध्यमुद्देश्यसिद्धिकमर्थजातं, स्वत एव निवृत्तसंशयत्वादागमसाधितमुच्यते, आप्तत्वानाप्तत्वग्रहश्च रागद्वेषमोहादिरूपदोषाभाव Page #167 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि०६-का० ७७-७८] ५६९ कः पुनरविसंवादो येनाविसंवादक: स्यात् ? । (भा० ) तत्त्वप्रतिपादनमविसंवादः, तदर्थज्ञानात् । तदर्थज्ञानं पुनः प्रस्फुटव्यवसायरूपं साक्षादसाक्षाद्वावसीयते, परमार्थतस्तस्य संशयविपर्यासानध्यवसायव्यवच्छेदफलत्वात् । तत्राविसंवादक एवाप्त इत्यवधार्यते । अनाप्तस्तु कदाचिदपि विसंवादक उच्यते, यथार्थज्ञानादिगुणस्य विसंवादकत्वायोगात् । (भा०) तेनातीन्द्रिये जैमिनिरन्यो वा श्रुतिमात्रावलम्बी नैवाप्तस्तदर्थापरिज्ञानात्तथागतवत् । नात्र निदर्शनं साधनधर्मविकलं, तथागतस्य श्रुत्यर्थधर्मापरिज्ञानात् बुद्धादेर्धर्माद्युपदेशो व्यामोहादेव केवलात् इति स्वयमभिधानात् । न चासिद्धो हेतुर्जेमिनेब्रह्मादेर्वा श्रुत्यर्थपरिज्ञानस्य सर्वथाप्यसम्भवात् । तद्धि प्रत्यक्षं वा श्रौतं वा स्यात् ? न तावत्प्रत्यक्षं तस्यासर्वज्ञत्वात् श्रुतिमात्रावलम्बितत्वाच्च । ___ (भा०) न हि तादृशोऽतीन्द्रियार्थज्ञानमस्ति दोषावरणक्षयातिशयाभावात्। न हि प्रतिनियतदोषावरणक्षयमात्रे सत्यपि धर्माधर्मादिसाक्षात्करणं युक्तं, तस्य तत्परिक्षयातिशयहेतुकत्वेन व्यवस्थापितत्वात् । नापि श्रौतं तदर्थपरिज्ञानं श्रुत्यविसंवादात्पूर्वमसिद्धेः । [मीमांसकः श्रुतिज्ञानात् परमार्थज्ञानं मन्यते किन्तु जैनाचार्याः तन्निराकुर्वन्ति ।] (भा०) श्रुतेः परमार्थवित्त्वं ततः श्रुतेरविसंवादनमित्यन्योन्यसंश्रितम् । न ह्यप्रसिद्धसंवादायाः श्रुतेः परमार्थपरिज्ञानं जैमिन्यादेः सम्भवति, अतिप्रसङ्गात् । नापि परमार्थवित्त्वमन्तरेण तत्त्वप्रतिपादनलक्षणमविसंवादनं यतोऽन्योन्याश्रयणं न स्यात् । ननु न श्रुतेरविसंवादात्प्रामाण्यम् । किं तर्हि ? स्वत एव, ततो न दोष इति चेत्, अष्टसहस्त्रीतात्पर्यविवरणम् तत्सद्भावाभ्यामन्येन वा सुपरीक्षितेन लिङ्गेनेति ज्ञेयम् । वस्तुतः सर्वत्र यथार्थवक्तृजातीयत्वमेवाप्तत्वग्राहकम्, अत एव Page #168 -------------------------------------------------------------------------- ________________ ५७० अष्टसहस्त्रीतात्पर्यविवरणम् (भा० ) स्वतः श्रुतेर्न वै प्रामाण्यमचेतनत्वाद् घटवत् । सन्निकर्षादिभिरनैकान्तिकत्वमयुक्तं तत्प्रामाण्यानभ्यपुगमात्, मुख्यरूपतः । (भा०) अथापि कथञ्चित् तत्प्रमाणत्वं स्यादविसंवादकत्वात् । सन्निकर्षादेरविसंवादकज्ञानकारणत्वेन तथोपचारसिद्धिरिति मन्येमहि, तथापि (भा०) श्रुतेरयुक्तमेव, तदभावात् । तेनोपचारमात्रमपि न स्यात्, तदर्थबुद्धिप्रामाण्यासिद्धेः । न हि श्रुतिरविसंवादिज्ञानस्य कारणं येनोपचारतः प्रमाणं स्यादिति निवेदितं प्राग् भावनादिश्रुतिविषयाविसंवादकत्वनिराकृतिप्रस्तावे । (भा०) आप्तवचनं तु प्रमाणव्यपदेशभाक्, तत्कारणकार्यत्वात् । प्रमाणकारणकं हि तत्, ( भा० ) तदतीन्द्रियार्थदर्शनोत्पत्तेस्तदर्थज्ञानोत्पादनाच्च । प्रमाणकार्यकम् । (भा०) नैतत् श्रुतेः सम्भवति, सर्वथाप्तानुक्तेः पिटकत्रयवत् । वक्तृदोषात्तादृशोऽप्रामाण्यं तदभावाच्छ्रुतेः प्रामाण्यमिति चेत्, कुतोऽयं विभागः सिद्धयेत् ? अष्टसहस्त्रीतात्पर्यविवरणम् 'कप्पाकप्पे परिणिट्ठियस्य ठाणेसु पंचसु ठिअस्स । संजमतवगस्स उ अविगप्पेणं तहक्कारो ॥ त्ति [आव० नि० गा० ६८८] नियुक्तिगाथया कल्प्याकल्प्यपरिनिष्ठितत्वादिगणकदम्बकवद्वक्तृवचनेऽविकल्पेन तथाकारविधाने तदितरवचने विकल्पप्राप्तावपि संविग्नपाक्षिकवचने एकान्तत एव तथाकार: प्रामाण्याभ्युपगमरूपो विधेयः, तदितरयथोक्तगुणाभाववद्वक्तृवचने तु यथा हेतुवादं भजनयेति १. छाया - कल्पाकल्प्ये परिनिष्ठितस्य स्थानेषु पञ्चसु स्थितस्य । संयमतपआढ्यस्य अविकल्पेन तथाकारः ॥१।। इति ।। Page #169 -------------------------------------------------------------------------- ________________ ५७१ द्वितीयो भागः [परि०६-का० ७७-७८] [वेदस्यापौरुषेयत्वनिराकरणम्] पिटकत्रयादेः पौरुषेयत्वस्य स्वयं सौगतादिभिरभ्युपगमाद्वेदवादिभिश्च श्रुतेरपौरुषेयत्वोपगमादिति चेत्, सोऽयम् (भा०) अभ्युपगमानभ्युपगमाभ्यां क्वचित्पौरुषेयत्वमन्यद्वा व्यवस्थापयतीति सुव्यवस्थितं तत्त्वम् । एतेन कर्तृस्मरणाभावादयः प्रत्युक्ताः । स हि श्रुतौ कर्तृस्मरणादिमत्त्वदृष्टकर्तृकसमानत्वाद्यभावमभ्युपगममात्राद् व्यवस्थापयति तद्भावं चेतरत्रानभ्युपगमात् । न च तथा तत्त्वं व्यवतिष्ठते, (भा० ) वेदेतरयोरविशेषात् । इतरत्र बुद्धो वक्तेति चेत्, तत्र कमलोद्भवादिरिति कथं न समानम् ? । यथैव हि पिटकत्रये बुद्धो वक्तेति सौगताः प्रतिपाद्यन्ते तथा वेदेऽपि ते अष्टकान् काणादाः, पौराणिकाः कमलोद्भवं, जैनाः कालासुरं वक्तारमनुमन्यन्ते । (भा०) सुदूरमपि गत्त्वा तदङ्गीकरणेतरमात्रे व्यवतिष्ठेत श्रुतिवादी, प्रमाणबलात्तदवक्तृकस्य साधयितुमशक्तेः । स्यान्मतं यद्वेदाध्ययनं सर्वं तदध्ययनपूर्वकम् । वेदाध्ययनवाच्यत्वादधुनाध्ययनं यथा ॥ [ इति प्रमाणाद्वेदे वक्तुरभावो, न पुनरभ्युपगममात्रात् इति तदयुक्तं, पिटकत्रयादावपि तत एव वक्त्रभावप्रसङ्गात् । (भा०) वेदाध्यनवदितरस्यापि सर्वदाध्ययनपूर्वाध्ययनत्वप्रक्लृप्तौ न वक्त्रं वक्रीभवति । - अष्टसहस्त्रीतात्पर्यविवरणम् व्यवस्थितविकल्पो व्याख्यातस्तान्त्रिकैः, अभ्यधिष्महि चैतत्संवादि सामाचारीप्रकरणे 'इयरंमि विगप्पेणं सो य विगप्पो ववढिओ एसो । संविग्गे गीयम्मि य तहेव अण्णत्थ जुत्तिखमे ॥१॥ त्ति (सा. ३२) १. छाया - इतरस्मिन् विकल्पेन स च विकल्पो व्यवस्थित एषः । संविग्ने गीतार्थे च तथैवान्यत्र युक्तिक्षमे ॥१॥ इति Page #170 -------------------------------------------------------------------------- ________________ अष्टसहस्त्रीतात्पर्यविवरणम् यतो विद्यमानवक्तृकेऽपि भावादध्ययनवाच्यत्वस्यानैकान्तिकत्वं न स्यात् । वेदविशेषणस्याध्ययनवाच्यत्वस्यान्यत्राभावान्नानैकान्तिकतेति चेत्, तर्हि पिटकत्रयादिविशेषणस्य वेदादावसम्भवादव्यभिचारिता कथं न भवेत् ? तथा च वेदवदवेदस्याप्यपौरुषेयत्वं प्रामाण्यनिबन्धनं याज्ञिकानां प्रवर्तकं स्यान्न वा वेदेऽपि, विशेषाभावात् । ५७२ [वेदे दुर्भणत्वादि अतिशयो वर्तते अतः उभयत्र समानता नास्तीति कथने आचार्याः उत्तरयन्ति ] दुर्भणदुःश्रवणादीनामस्मदाद्युपलभ्यानां ( भा० ) तदतिशयान्तराणां च शक्यक्रियत्वादितरत्रापि । परोक्षायाः ( भा० ) मन्त्रशक्तेरपि दर्शनात् । न ह्याथर्वणानामेव मन्त्राणां शक्तिरुपलभ्यते, न पुनः सौगतादिमन्त्राणामिति शक्यं वक्तुं, प्रमाणबाधनात् । [मन्त्राणामुत्पत्तिर्जैनेन्द्रवचनादेव न चान्यस्मात्] वैदिका एव मन्त्राः परत्रोपयुक्ताः शक्तिमन्त इत्यप्ययुक्तं, प्रावचनिका एव वेदेऽपि प्रयुक्ता इत्युपपत्तेस्तत्र भूयसामुपलम्भात् समुद्राद्याकरेषु रत्नवत् । न हि कियन्त्यपि रत्नानि राजकुलादावुपलभ्यमानानि तत्रत्यान्येव, तेषां रत्नाकरादिभ्य एवानयनात् तद्भवत्वसिद्धेर्भूयसां तत्रोत्पत्तिदर्शनात् । तद्वत्प्रवचनैकदेशविद्यानुवादादेव सकलमन्त्राणां समुद्भूतिविस्तीर्णात्, न पुनर्वेदात्तल्लवमात्रादिति युक्तमुत्पश्यामः । वेदस्यानादित्वादपौरुषेयत्वाच्च तन्मत्राणामेवाविसंवादकत्वं संभवतीति चायुक्तं, अष्टसहस्त्रीतात्पर्यविवरणम् शक्यक्रियत्वादितरत्रापीति, पिटकत्रयेऽपि वक्तुं शक्यत्वादित्यर्थः । विद्यानुवादादेव विद्याप्रवादपूर्वोद्धृतशास्त्रादेव । एतेनेति मीमांसकस्य कार्येऽर्थ एव चोदनायाः प्रामाण्यादर्थवादरूपमन्त्रैकदेशेऽविसंवादकत्वायोगादनैकान्तिकत्वं स्फुटमेवेति भावः । न पुनरपौरुषेयस्येति अपौरुषेयस्य पुनः संसाधनाभावादित्यन्वयो व्युत्पत्तिविशेषात् ईदृशि स्थले प्रकृत्यर्थान्वितनञर्थविभक्त्यर्थयोरन्वयस्वीकारात् एवमग्रेऽप्युपयुज्य योज्यम् । अत Page #171 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० ६ - का० ७७-७८ ] तदप्रसिद्धेः । ( भा० ) सिद्धेऽपि तदनादित्वे पौरुषेयत्वाभावे वा कथमविसंवादकत्वं प्रत्येतव्यम् ? म्लेच्छव्यवहारादेस्तादृशो बहुलमुपलम्भात् । ५७३ तेन तस्य व्यभिचारात् । एतेन वेदैकदेशेन स्वयमप्रमाणतयोपगतेनानादित्वस्यापौरुषेयत्वस्य चानैकान्तिकत्वमुक्तम् । किञ्च ( भा० ) कारणदोषनिवृत्तेः कार्यदोषाभावकल्पनायां पौरुषेयस्यैव वचनस्य दोषनिवृत्तिः कर्तुर्वीतदोषस्यापि सम्भवात् । 'दोषावरणयोर्हानिः ' (का० ४) इत्यादिना संसाधनात्, न पुनरपौरुषेयस्य । (भा०) तदध्येतृव्याख्यातृश्रोतॄणां रागादिमत्त्वात् । वीतरागस्य कस्यचिदनभ्युपगमात्, सर्वथाप्यपौरुषेयस्य तदुपगमेन विरोधात् । ( भा० ) नेतरस्य । कथञ्चित्पौरुषेयस्य तदविरोधात् । ( भा० ) इति निःशङ्कं नश्चेतः, त्रिविप्रकृष्टस्यापि निर्णयोपायप्रतिपादनादिति । ( भा० ) वक्तृगुणापेक्षं वचनस्याविसंवादकत्वं चक्षुर्ज्ञानवत् । विसंवादस्य ( भा०) तद्दोषानुविधानात् । यथैव हि चक्षुर्ज्ञानस्य ज्ञातृगुणं सम्यग्दर्शनादिकमपेक्ष्याविसंवादकत्वं, तद्दोषं मिथ्यादर्शनादिकमपेक्ष्य विसंवादकत्वं चोपपद्यते तथा वक्तुर्गुणं, यथार्थज्ञानादिदोषं च मिथ्याज्ञानादिकमपेक्ष्य संवादकत्वं विसंवादकत्वं चेति निश्चितं महाशास्त्रे । अष्टसहस्त्रीतात्पर्यविवरणम् एव न्यायचतुर्थाध्याये 'नानुपमृद्य प्रादुर्भावात् इति सूत्रेऽनुपमृद्य प्रादुर्भावाभावादित्यर्थः, तेषां १. अभावात् भावोत्पत्तिर्नानुपमृद्य प्रादुर्भावात् (न्या० ४.१.१४) वाचस्पति टी: नानुपमृद्य प्रादुर्भावो यतस्तस्मादित्यर्थः । Page #172 -------------------------------------------------------------------------- ________________ ५७४ अष्टसहस्त्रीतात्पर्यविवरणम् (भा० ) ततोऽनाप्तवचनान्नार्थज्ञानमन्धरूपदर्शनवत् । न हि जात्यन्धो रूपं दर्शयितुमीशः परस्मै । तथानाप्तोऽपि नार्थं ज्ञापयितुमतिप्रसङ्गात् । एवमपौरुषेयस्य वचनस्य पौरुषेयस्य च गुणवद्वक्तृकस्य कारणदोषाभावान्निर्दोषत्वं समानमतिशयासम्भवात् । (भा०) तत्र यदेव युक्तियुक्तं तदेव प्रतिपत्तुं प्रतिपादयितुं वा शक्यं । __ कथञ्चित्पौरुषेयत्वं, न तु सर्वथापौरुषेयत्वं, तस्य युक्तियुक्तत्वाभावात् तद्युक्तीनां तदाभासत्वसमर्थनात् । तत्रापौरुषेयत्वेऽपि वा वेदे यदेव युक्तियुक्तं तदेव प्रतिपत्तुं प्रतिपादयितुं वा शक्यं वचनम् । (भा०) अग्निर्हिमस्य भेषजं, द्वादश मासाः संवत्सरः (भा०) इत्यादिवत् नाग्निहोत्रादिवाक्यसाधनं, तस्य युक्तियुक्तत्वविरोधात् । (भा०) सिद्धे पुनराप्तवचनत्वे यथा हेतुवादस्तथाऽऽज्ञावादोऽपि प्रमाणं, तदाप्तवचनत्वाविरोधात् । (भा०) ननु चापौरुषेयत्ववदाप्तशासनमप्यशक्यव्यवस्थं । ___ तस्यैव ज्ञातुमशक्तेः, सरागस्यापि वीतरागवच्चेष्टोपलम्भादयमाप्त इति प्रतिपत्त्युपायासत्त्वात् तस्य शासनमिति व्यवस्थापयितुमशक्तेरित्यपरे । (भा०) उक्तमत्र सर्वथैकान्तवादानां स्याद्वादप्रतिहतत्वादिति । युक्तिशास्त्राविरोधिवाक्त्वाद्विनिर्दोषोऽयमिति शक्यं निर्णेतुं, दोषवानयमिति च, – अष्टसहस्रीतात्पर्यविवरणम् मोहः पापीयान्नामूढस्येतरोत्पत्तेः [ ] इति सूत्रे च तेषां रागद्वेषमोहानां रागमोहयोद्धेषमोहयोर्वा मध्ये मोहः पापीयान् बलवद्वेषविषयोऽमूढस्य रागद्वेषानुत्पत्तेरित्यर्थो व्याख्यात इति Page #173 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि०६-का० ७७-७८] ५७५ दृष्टेष्टविरोधवचनत्वात् । तत्रानिश्चितवचनविशेषस्य कस्यचिद्वीतरागत्वेतराभ्यां संदेहेऽपि निश्चितवचनविशेषस्य शक्यमाप्तत्वं व्यवस्थापयितुम् । (भा० ) तत्राप्तिः साक्षात्करणादिगुणः । 'सूक्ष्मान्तरितदूरार्थाः कस्यचित्प्रत्यक्षा' [का० ५] इत्यादिना साधितः । (भा०) संप्रदायाविच्छेदो वा । सर्वज्ञादागमस्तदर्थानुष्ठानात् सर्वज्ञ इति सुनिश्चितासम्भवबाधकप्रमाणत्वात्सिद्धः प्रवचनार्थस्य । (भा०) अन्यथान्धपरम्परया प्रतिपत्तेः । न ह्यन्धेनाकृष्यमाणोऽन्धः स्वेष्टं मार्गमास्कन्दति नाम । न चैवं सम्प्रदायाविच्छेदे परस्पराश्रयणं, कारकपक्षे बीजाङ्कुरादिवदनादित्वात्तस्यानवतारात् । ज्ञापकपक्षेऽपि परस्मात् स्वतः सिद्धात्, पूर्वस्य ज्ञप्तेर्नेतरेतराश्रयणं, प्रसिद्धेनाप्रसिद्धस्य साधनात् । तदेवं स्यात्सर्वं हेतुतः सिद्ध करणाप्तवचनानपेक्षणात् । स्यादागमात्सिद्धमक्षलिङ्गानपेक्षणात् । स्यादुभयतः सिद्धं, क्रमार्पितद्वयात् । - अट अष्टसहस्त्रीतात्पर्यविवरणम् बोध्यम् । तस्य युक्तियुक्तत्वविरोधादिति 'न हिंस्यात् सर्वा भूतानि' इत्यादिसामान्यश्रुत्युपबृंहकतर्कविरोधादित्यर्थः । स्यात् सर्वं हेतुतः सिद्धमित्यादि, ननु कथमेतत् कात्स्येन हेतसिद्धत्वाद्यभिधानं घटते ? हेतसिद्धागमसिद्धानामर्थानामवान्तरविभागेनैव व्यवस्थितत्वात, तदाह सम्मतिकार: दुविहो धम्मावाओ अहेउवाओ अ हेउवाओ अ । तत्थ उ अहेउवाओ भवियाभविआदओ भावा ॥ [३.४३ ] अस्या अर्थः-धर्माणामस्तित्वादीनामासमन्ताद्वादस्तत्प्रतिपादक आगमोऽहेतुवादो हेतुवादश्चेति द्विधा, तत्र प्रमाणान्तरानवगतार्थप्रतिपादक आगमोऽहेतुवादः, तद्विपरीतो हेतुवादो । हेतोर्हेतुपरिच्छिन्नस्य वादो हेतुवाद इति व्युत्पत्तेः । तत्र त्वहेतुवादो भव्याभव्यत्वादयो भावाः, विषयाध्यवसानेन विषय्यभिधानमेतत् भव्याभव्यत्वादिप्रतिपादक आगम इत्यर्थः । न ह्ययं भव्योऽभव्यो वेत्यत्रास्मदादीनां प्रमाणं प्रवर्त्तते, न च तद्विभागप्रतिपादकं वचनं यथार्थम् अर्हद्वचनत्वादित्यनुमानप्रवृत्तेर्व्याघातः, वचनविभागावच्छेदकत्वेन Page #174 -------------------------------------------------------------------------- ________________ अष्टसहस्त्रीतात्पर्यविवरणम् ५७६ स्यादवक्तव्यं, सहार्पितद्वयात् । शेषभङ्गत्रयं च पूर्ववत् । इति सप्तभङ्गीप्रक्रिया योजनीया । अष्टसहस्त्रीतात्पर्यविवरणम् तत्प्रवृत्तावपि स्वातन्त्र्येण तदप्रवृत्तेः तथा च भव्याभव्यत्वादयोऽहेतुवादसिद्धाः, अन्ये च हेतुवादसिद्धा इति व्याप्त्या प्रकृतसप्तभङ्गी न युक्तेति चेत्, मैवं, स्याच्छब्दमर्यादयैव सर्वानुपपत्तिनिरासात्, अहेतुवादसिद्धस्याप्यर्थस्य तत्तद्धमिणि तत्प्रतिपादितलिङ्गेन हेतु - वादत्वव्यवस्थिते:, तदुक्तं सम्मतावेव भविओ सम्मदंसण - नाण- चरित्तपडिवत्तिसपुन्नो । णियमा दुक्खंतकडो त्ति लक्खणं हेउवायस्स ॥ [३.४४] प्रयोगश्चायम्-भव्योऽयं सम्यग्दर्शनज्ञानचारित्रप्रतिपत्तिसम्पूर्णत्वात् सम्प्रतिपन्नपुरुषवदिति, किं बहुना ? अहेतुवादसिद्धेऽप्यर्थे ततोऽनेकान्तात्मकत्वसाधिका निराकाङ्क्षतात्पर्यार्थप्रतिपत्तिपर्यन्ताश्च या उपपत्तयस्ता हेतुवादसिद्धत्वमुपपादयन्ति श्रुतमात्रेण ज्ञातस्याज्ञातप्रायत्वात्, ताश्चोपपत्तयः श्रुतोपयोगानन्यत्वान्न श्रुतत्वव्याहन्त्र्य इत्याद्युपपादितं "ज्ञानबिन्दौ अस्माभिः । अत एव पदार्थप्रतिपत्त्यागमात् निश्चितमप्यर्थं सिसाधयिषाधीनपक्षतयाऽनुमिन्वतेऽनुमानरसिकाः, मननसाध्यश्रद्धाविशेषस्येत्थमेवोपपत्ते:, अत एव नियमतः षट्कायश्रद्धानेऽपि जिनवचनरुचिमत्त्वाद् द्रव्यतः सम्यग्दृष्टित्वं, न तु भावतो, भावसम्यग्दर्शनस्य सकलनयविषयविवेचनसाध्यत्वादेकविधद्विविधादिपर्यायापरिच्छेदे तदनुपपत्तेरिति वदन्ति । तदाह सम्मतौ महावादी नियमेण सद्दहंतो छक्काए भावओ ण सद्दहइ । हंदी अपज्जवेसु वि सद्दहणा होइ अविभत्ता । [३.२७ ] अस्या अर्थः-नियमेन षडेवेत्यवधारणेन षट्कायान् श्रद्दधदपि भावतो न श्रद्धत्ते, प्रकृतधर्मघटितसप्तभङ्गपर्याप्तप्रकारताकबोधादिजनितसमूहालम्बनरुचेरेव प्रकृतधर्मभावश्रद्धापदार्थत्वात्, तदाह-अपर्यायेषु भङ्गान्तरसंवलनरहितेषु धर्मेषु, अपेभिन्नक्रमत्वात् श्रद्धाऽप्यविभक्ताऽसम्पूर्णा भवति, द्रव्यश्रद्धापर्यवसन्ना भवतीति यावत् । अयमस्माकं मनीषोन्मेषः । अन्ये त्वेवमुत्तरार्द्धं व्याचक्षते- हन्दि यतोऽपर्ययेष्वविवक्षितपर्यायेषु पुद्गलेष्वपि श्रद्धाऽविभक्ता एकरूपा भवतीति, तथा च पूर्वोत्तरार्द्धाभ्यां जीवपुद्गलयोः सामान्यत एकरूपत्वोपदर्शनात्तदुभयघटितनिकायषट्कै कान्तबाधात्तच्छूद्धानस्य द्रव्यसम्यक्त्वरूपत्वमेव जिनवचनाभिनिवेशदशायां, स्वाभिनिवेशदशायां तु शुद्धात्मस्वरूप - Page #175 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० ६ - का० ७७-७८ ] नैकान्ताद्धेतुवादः प्रभवति सकलं सत्त्वमुन्नेतुमेक स्तद्वन्नाहेतुवादः प्रवद( भव ) ति विहिताशेषशङ्काकलापः । इत्यार्याचार्यवर्या विदधति निपुणं स्वामिनस्तत्त्वसिद्धयै स्याद्वादोत्तु सौधे स्थितिममलधियां प्रस्फुटोपायतत्त्वे ॥ [स्रग्धरा ] । इत्याप्तमीमांसालङ्कृतौ षष्ठः परिच्छेदः । अष्टसहस्त्रीतात्पर्यविवरणम् बाधनेन तन्मात्रविश्रान्तान्तरङ्गरत्नत्रयबाधनान्मिथ्यात्वरूपत्वमेवेति तदभिप्रायमप्यविरुद्धमेवाकलयामः । तदेवं विस्ताराज्ञारुचिभेदेन हेतुवादाहेतुवादयोर्व्यापकत्वं व्यवस्थितम्, आहरणतद्देशतद्दोषोपन्यासादिहेतुविस्तरस्तु मत्कृतोपदेशामृततरङ्गिणीतो बोध्यः, यथा तद्व्यापकत्वे निःशङ्कं चेतः स्यादित्युपरम्यते । व्यवहारतस्तु हेतुबहुलत्वात् प्रायो दृष्टिवादाख्य आगमो हेतुवाद:, तदितरश्चाहेतुवाद उच्यते, तदपेक्षयाऽयं प्रज्ञापकविभागः सम्मतिसिद्ध: ५७७ जो वायपक्खम्म हेउओ आगमे य आगमिओ । सो स्यासमयपसवओ सिद्धंतविराहगो अण्णो ॥१॥ त्ति [का० ३.४५] अन्यस्य विराधकत्वं च प्रतिपादकवचस्यनास्थादिदोषोत्पादनादिति बोध्यम् ॥७८॥ हेत्वागमान्यतरपक्षविपक्षभावाद्, यद् ग्रथ्यते निबिडमाशु कुयुक्तिजालम् । तच्छेदनाय पटिमानमसौ बिभर्ति, स्याद्वादपद्धतिरनेकसुयुक्तिजालम् ॥ [ वसंततिलका] इति श्रीमदकब्बरसुरत्राणप्रदत्तजगद्गुरुबिरुदधारकभट्टारक श्रीहीरविजयसूरीश्वरशिष्य मुख्यमहोपाध्याय श्रीकल्याणविजयगणिशिष्यावतंसपण्डित श्रीलाभविजयगणि शिष्याग्रेसरपण्डित श्रीजितविजयगणिसतीर्थ्यालङ्कार पण्डितश्रीनयविजयगणिचरणकमलचञ्चरीके पण्डित श्रीपद्मविजयगणिसहोदरेण महोपाध्याय श्रीयशोविजयगणिना विरचितेऽष्टसहस्त्रीतात्पर्यविवरणे ॥ षष्ठः परिच्छेदः सम्पूर्णः ॥ Page #176 -------------------------------------------------------------------------- ________________ ॥ सप्तमः परिच्छेदः ॥ अन्तरङ्गार्थतैकान्ते बुद्धिवाक्यं मृषाखिलम् । प्रमाणाभासमेवातस्तत् प्रमाणाहते कथम् ॥७९॥ निर्दिष्टो यः शास्त्रे हेत्वागमनिर्णयः प्रपञ्चेन । गमयत्यष्टसहस्त्री सक्षेपात्तमिह सामर्थ्यात् ॥१॥ [विज्ञानाद्वैतवादी बौद्धः विज्ञानमात्रं तत्त्वं मन्यते तस्य निराकरणम् ।] अन्तरङ्गस्यैव स्वसंविदितज्ञानस्यार्थता वस्तुता, न बहिरङ्गस्य जडस्य प्रतिभासानहस्येत्येकान्तोऽन्तरङ्गार्थतैकान्तः । तस्मिन्नभ्युपगम्यमानेऽखिलं बुद्धिवाक्यं हेतुवादाहेतुवादनिबन्धनमुपायतत्त्वं मृषैव स्यात्, यतश्च मृषा स्यादत एव प्रमाणाभासमेव, प्रमाणस्य सत्यत्वेन व्याप्तत्वात्, मृषात्वेन प्रमाणाभासस्य व्याप्तेः । तच्च प्रमाणाभासं प्रमाणाहते कथं सम्भवेत् ? तदसम्भवे तद्व्यवहारमवास्तवमेवायं स्वप्नव्यवहारमिव संवृत्यापि कथं प्रतिपद्यते ? । (भा० ) तज्जन्मकार्यप्रभावादि वेद्यवेदकलक्षणमनैकान्तिकमादर्श्य संवित्तिरेव खण्डशः प्रतिभासमाना व्यवहाराय कल्प्यते इत्यभिनिवेशेऽपि - अष्टसहस्त्रीतात्पर्यविवरणम् सारङ्गा रङ्गभाजो हरिषु करियुता भोगिनस्तार्क्ष्यमध्ये नाखुर्मार्जारमुग्रं गणयति न च गौर्व्याघ्रबालं करालम् । देवा हेवाकभाजोऽसुरततिमिलने यत्प्रभावात्सभायां स श्रीपार्श्वः प्रसन्नो भवतु मयि कृपाकौमलैग्विलासैः ॥ (स्रग्धरा) सप्तमेऽन्तरङ्गबहिरङ्गाथै कान्तनिरासाय प्रक्रमः । तज्जन्मेति तज्जन्मपक्षेऽर्थो वेद्यः, Page #177 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० ७ - का० ७९ ] प्रमाणं मृग्यम् । न हि प्रमाणाभावे तज्जन्मताद्रूप्यतदध्यवसायान् प्रत्येकं वेद्यवेदकलक्षणं चक्षुषा समानार्थसमनन्तरवेदनेन शुक्तिकायां रजताध्यवसायेन च व्यभिचारयितुमीशः, सह वा समानार्थसमनन्तरज्ञानेन कमलाद्युपहतचक्षुषः शुक्ले शङ्खे पीताकारज्ञानसमनन्तरज्ञानेन वा सौत्रान्तिकान्प्रति व्यभिचारि प्रतिदर्शयेत् । कथं वा कार्यनिमित्तकारणत्वं तल्लक्षणं यौगान्प्रत्यनैकान्तिकं व्यवस्थापयेत् ? कथं च कार्यकारणभावाख्यं प्रभवं कांश्चन प्रति योग्यतां वा तल्लक्षणतया व्यभिचारयेत् ? कथं च संवित्तिरेव खण्डशः प्रतिभासमाना वेद्यवेदकादिव्यवहाराय प्रकल्पते इत्यभिनिवेशं वा विदधीत ? यतो न प्रमाणं मृगयते । किञ्चास्य विज्ञानवादिनः संविदां ५७९ ( भा० ) क्षणिकत्वमनन्यवेद्यत्वं नानासन्तानत्वमिति स्वतस्तावन्न सिद्ध्यति, भ्रान्तेः, स्वप्नवत् । स्वसंवेदनात्स्वतः सिद्ध्यतीति चेत्, न, क्षणिकत्वेनानन्यवेद्यत्वेन नानासन्तानत्वेन च नित्यत्वेन सर्ववेद्यत्वेनैकत्वेनेव परब्रह्मणः स्वसंवेदनाभावात् । भा० ) तथात्मसंवेदनेऽपि व्यवसायवैकल्ये प्रमाणान्तरापेक्षयानुपलम्भकल्पत्वात् । तस्य प्रमाणान्तरानपेक्षस्यैव व्यवसायात्मनः संवेदनस्योपलम्भत्वव्यवस्थितेः, अष्टसहस्त्रीतात्पर्यविवरणम् तज्जन्यं तद्ग्राहकमर्थज्ञानं वेदकं, ताद्रूप्यपक्षे ज्ञानगतो नीलाद्याकारो वेद्यः, नीलाकारं ज्ञानं वेदकं, तदध्यवसायपक्षे दृश्यविकल्पैकीकरणादध्यवसेयं वेद्यम्, अध्यवसायो वेदकः । चक्षुषेत्यादिना तज्जन्मादेरेकैकस्य क्रमशो व्यभिचारस्थानत्रयप्रदर्शनम्, प्रमाणाभावाच्च तदनीशत्वापादनं कृतं विज्ञानवादिनः, सह वेत्यनेन च समुदितत्रयस्य व्यभिचारप्रदर्शनपूर्वमुक्तहेतोरेव तदनीशत्वं बोध्यते इति विवेकः । कांश्चन प्रति योग्यतामिति जैनापेक्षया । क्षणिकत्वेनेत्यादि स्वरूपमात्रसंवेदने स्वसंवेदनसामर्थ्येऽपि क्षणिकत्वादिधर्मप्रकारकप्रतिपत्तावसामर्थ्यादित्यर्थः । नन्वक्षणिकादिव्यावृत्तिरेव क्षणिकत्वादिकं तच्च धर्मिरूपं स्वत एव भोत्स्यते बाधकाभावादित्याशङ्कायामाह-तथात्मसंवेदनेऽपीत्यादिना । प्रमाणान्तरापेक्षयेति यत्रैव जनयेदेनामित्याद्युक्तेरिति भावः । तस्य = उपजीव्यस्य, सविकल्पक Page #178 -------------------------------------------------------------------------- ________________ ५८० अष्टसहस्त्रीतात्पर्यविवरणम् व्यवसायाभावे तु बुद्धीनामभ्यासादपि तथानुपलम्भात् । (भा०) न हि तथा बुद्धयः संविद्रते? [विदन्ते ] यथा व्यावर्ण्यन्ते । क्षणिकत्वाद्यात्मनान्यथैव तासां प्रतिभासनाभ्याससिद्धेः । (भा०) नापि परतः क्षणिकत्वादि सिद्धयति (भा०) सम्बन्धप्रतिपत्तेरयोगात् । न हि सत्वादेलिङ्गस्य क्षणिकत्वादिना व्याप्त्या सम्बन्धप्रतिपत्तिः प्रत्यक्षतो युज्यते, तस्य सन्निहितविषयबलोत्पत्तेरविचारकत्वाच्च । नाप्यनुमानादनवस्थानादिति प्रागेव प्ररूपणात् । (भा०) स्वांशमात्रावलम्बिना मिथ्याविकल्पेन प्रकृततत्त्वव्यवस्थापने बहिरर्थेष्वष्यविरोधात् । क्षणिकत्वादिव्यवस्थापनमस्तु सौत्रान्तिकादीनाम्, अविशेषात् । तथाहि(भा०) कथञ्चिदत्र वेद्यलक्षणं यदि व्यवतिष्ठेत तदा (भा०) तत्प्रकृतं । संविदां क्षणिकत्वादिसाधनं लैङ्गिकज्ञानेन (भा०) कृतं स्यान्नान्यथा । न चानुक्तदोषं लक्षणमस्ति । - अष्टसहस्रीतात्पर्यविवरणम् ज्ञानरूपप्रमाणान्तरस्य स्वतोऽव्यवसायस्यापि दर्शनस्याभ्यासादेनिश्चायकता भविष्यतीत्याशङ्कायामाह-व्यवसायाभावे त्विति तथा च सविकल्पकज्ञानरूपाभ्याससहकृतदर्शनस्य निश्चायकत्वं सहकृतेत्यादेर्व्यर्थत्वात्, अन्यथा तादृशाकाशादेरपि तथात्वप्रसङ्गादिति भावः । तर्हि मासिधत् क्षणिकत्वादिसंविदां स्वतः, परत एव सेत्स्यतीत्याशङ्कायामाह-नापि परत इत्यादि । भाष्ये स्वांशेति स्वांशो दृश्यविकल्पैकत्वाभिप्रायेण प्रातीतिकसम्बन्धेन प्रकृततत्त्वघटक: सामान्याकारः, नान्यथेति दृष्टान्ताभावादिति भावः । तत्सम्भव इति वेद्यसम्भव Page #179 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि. ७-का० ८०] ५८१ वेद्यस्य विज्ञानवादिना तज्जन्मादेरनैकान्तिकत्वदोषवचनात् । संवित्क्षणिकत्वादावनुमानवेदनस्य (भा०) तत्सम्भवे नान्यत्र । बहिरर्थे (भा०) तदसम्भवोऽभिधेयः सर्वथा विशेषाभावात् । ( भा०) तत्स्वपरपक्षयोः सिद्धयसिद्ध्यर्थं किञ्चित्कथञ्चित्कुतश्चिदवितथज्ञानमादरणीयमन्यथाशेषविभ्रमासिद्धेः । ननु किञ्चित्संविदद्वैतं कथञ्चित्संविदात्मना कुतश्चित्स्वतः सत्यप्रतिभासनमाद्रियत एव, स्वरूपस्य स्वतो गतिरिति वचनाद् इति चेत्, न, स्वरूपेऽपि वेद्यवेदकलक्षणाभावे तदघटनात् पुरुषाद्वैतवत् । (भा०) एतेन यद् ग्राह्यग्राहकाकारं तत्सर्वं विभ्रान्तं, यथा स्वप्नेन्द्रजालादिज्ञानं तथा च प्रत्यक्षादिकमिति प्रतिविहितं वेदितव्यं । भ्रान्तत्वप्रकृतानुमानज्ञानयोर्लाह्यग्राहकाकारयोरभ्रान्तत्वे ताभ्यामेव हेतोळभिचारात्, तद्भ्रान्तत्वे ततः सर्वस्य भ्रान्तत्वप्रसिद्धः, सर्वभ्रान्तौ साध्यसाधनविज्ञप्तेरसम्भवात्तद्व्याप्तिविज्ञप्तिवत्, सम्भवे सर्वविभ्रमासिद्धेः ॥७९॥ साध्यसाधनविज्ञप्तेर्यदि विज्ञप्तिमात्रता । न साध्यं न च हेतुश्च प्रतिज्ञाहेतुदोषतः ॥८०॥ [यदि विज्ञानमात्रं तत्त्वं भवेत्तहि साध्यहेतू उभौ न सम्भवतः ।] प्रतिज्ञादोषस्तावत्स्ववचनविरोधः साध्यसाधनविज्ञानस्य विज्ञप्तिमात्रमभिलपतः प्रसज्यते । तथाहि - अष्टसहस्त्रीतात्पर्यविवरणम् - इत्यर्थः । नान्यत्रेति सर्व भ्रान्तं ग्राह्यग्राहकाकारक्रोडीकृतत्वादित्यस्य संवित्क्षणिकत्वानुमानेनैवानैकान्तिकत्वादित्यर्थः ॥७९॥ Page #180 -------------------------------------------------------------------------- ________________ ५८२ अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) सहोपलम्भनियमादभेदो नीलतद्धियोर्द्विचन्द्रदर्शनवदित्यत्रार्थसंविदोः सहदर्शनमुपेत्यैकत्वैकान्तं साधयन् कथमवधेयाभिलापः ? । स्वोक्तधर्मर्मिभेदवचनस्य हेतुदृष्टान्तभेदवचनस्य चाद्वैतवचनेन विरोधात्, संविदद्वैतवचनस्य च तद्भेदवचनेन व्याघातात्, तद्वचनज्ञानयोश्च भेदे तदेकत्वसाधनाभिलापविरोधात्, तदभिलापे वा तद्भेदविरोधाद् इति स्ववचनयोर्विरोधाद् बिभ्यत् (भा०) स्वाभिलापाभावं वा स्ववाचा प्रदर्शयन्कथं स्वस्थः ? । सदा मौनव्रतीकोऽहमित्यभिलापवत् स्ववचनविरोधस्यैव स्वीकरणात् । तथा विज्ञानवादिनोऽप्रसिद्धविशेष्यत्वमप्रसिद्धविशेषणत्वं च प्रतिज्ञादोषः स्यात्, नीलतद्धियोविशेष्ययोस्तदभेदस्य च विशेषणस्य स्वयमनिष्टेः । पराभ्युपगमेन प्रसङ्गसाधनस्योपन्यासाददोष इति चेत्, न, तस्य परासिद्धेस्तदभ्युपगमाप्रसिद्धेश्च प्रसङ्गसाधनासम्भवात् । साधनसाध्यधर्मयोर्व्याप्यव्यापकभावसिद्धौ हि सत्यां परस्य व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयको यत्र प्रदर्श्यते तत्प्रसङ्गसाधनम् । न चैतद्विज्ञप्तिमात्रवादिनः सम्भवति, विरोधात् । ननु स्याद्वादिनोऽपि तद्दोषोद्भावनमयुक्तं विज्ञप्तिमात्रवादिनं प्रति, तस्य तदसिद्धेः, विज्ञप्तिमात्रव्यतिरेकेण दोषस्याप्यभावाद्, गुणवत् । स्वाभ्युपगममात्रादेव तत्सम्भवः, परस्य विज्ञप्तिमात्रसाधनात्पूर्वं यथाप्रतीति वस्तुनो व्यवस्थानादिति समाधाने तत एव सौगतस्यापि तदेव समाधानमस्तु, विचारात्पूर्वं सर्वस्याविचारितरमणीयेन रूपेण यथाप्रतीति साध्यसाधनव्यवहारप्रवृत्तेरन्यथा विचाराप्रवृत्तेः । सिद्धे तु विज्ञप्तिमात्रे न कश्चित्साध्यसाधनव्यवहारं प्रतनोति सौगतो, नापि परेषां तद्दोषोद्भावनेऽवकाशोऽस्ति, इति केचित्, तेऽपि न विचारचतुरचेतसः, किञ्चिन्निर्णीतमाश्रित्यान्यत्रानिर्णीतरूपे अष्टसहस्त्रीतात्पर्यविवरणम् स्वाभिलाप्य भावं स्वेन ज्ञानेनैवाभिलाप्यभावम्, स्ववचनविरोधस्यैवेति अभिलापेऽभिलाप्यत्वस्यानभिलापे ज्ञानेऽभिलापात्मत्वस्य चोक्तौ विरोधस्य स्पष्टत्वादित्यर्थः । स्वयमनिष्टेरिति अन्यथा साकारत्वप्रसङ्गादित्यर्थः । विचारात्पूर्वमपीति न च विज्ञप्तिवादिनस्तत्त्वज्ञानात्पूर्वमविद्याविलासजनितेन विचारान्तरेण साध्यसाधनभावव्यवस्थितेरन १. स्वाभिलाप्याभावमिति अष्टसहस्रीसम्मतः पाठः । Page #181 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि० ७-का० ८०] ५८३ तदविनाभाविनि विचारस्य प्रवृत्तेः, सर्वविप्रतिपत्तौ तु क्वचिद्विचारणानवतरणाद् इति विचारात्पूर्वमपि विचारान्तरेण निर्णीते एव साध्यसाधनव्यवहारस्तद्गुणदोषस्वभावश्च निश्चीयते । न चैवमनवस्था, संसारस्यानादित्वात् क्वचित्कस्यचित्कदाचिदाकाङ्क्षानिवृत्तेर्विचारान्तरानपेक्षणात् । ततो युक्तमेव स्याद्वादिनः प्रतिज्ञादोषोद्भावनं हेतुदोषोद्भावनं च । तथा हि- अयं (भा० ) पृथगनुपलम्भाद्भेदाभावमात्रं साधयेत् नीलतद्धियोः । (भा० ) तच्चासिद्धं, सम्बन्धासिद्धेरभावयोः खरशृङ्गवत् । सिद्धे हि धूमपावकयोः कार्यकारणभावे सम्बन्धे कारणाभावात्कार्यस्याभावः सिद्ध्यति । सति च शिंशपात्ववृक्षत्वयोप्प्यव्यापकभावे व्यापकाभावाद् व्याप्याभावो, नान्यथा । न चैवं भेदपृथगुपलम्भयोः सम्बन्धः क्वचित्सिद्धो, विरोधाद्विज्ञप्तिमात्रवादिनो यतः पृथगुलम्भाभावो भेदाभावं साधयेत् इति न निश्चितो हेतुः । (भा०) एतेनासहानुपलम्भादभेदसाधनं प्रत्युक्तं , भावाभावयोः सम्बन्धासिद्धेः, अविशेषात् । ( भा० ) तादात्म्यतदुत्पत्त्योरर्थस्वभावनियमात् । अष्टसहस्रीतात्पर्यविवरणम् वस्थायाश्चानादित्वेन निरासान्नानुपपत्तिरिति वाच्यम्, असत्ख्यातेरनिर्वचनीयख्यातेश्च निरासेनाविद्याजनितविचारेण व्यवहारव्यवस्थायाः कर्तुमशक्यत्वात् । न च नानाविधविप्रतिषिद्धव्यवहाराणामन्यतरविधिनिषेधयोरविद्या प्रगल्भते, न च सर्वेषामेव तेषां तत्त्वदिक्प्रदर्शकत्वेनादुष्टत्वम् असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहत [वाक्यपदीय २.२३८] इति वचनादिति वाच्यम्, सर्वपक्षपरिग्रहापत्त्या तत्त्वसङ्करापत्तेः, पिटकत्रयप्रदशिता एव विचारा अदुष्टा न वेदान्तादिप्रदर्शिता इत्यत्र च न किञ्चिन्मानमस्तीति विचारितं बहुशः । एतेन= भेदाभावसिद्धिनिराकरणेन । अभेदसाधनं विधिरूपाभेदसाधनं । सञ्चितालम्बना इति Page #182 -------------------------------------------------------------------------- ________________ ५८४ अष्टसहस्त्रीतात्पर्यविवरणम् तदन्यव्यावृत्तेरास्वभावत्वादेकत्वेन भावस्वभावेन सह तदयोगात् । (भा०) सिद्धेऽपि प्रतिषेधैकान्ते विज्ञप्तिमात्रं न सिद्धयेत्, तदसाधनात् । तत्सिद्धो तदाश्रयं दूषणमनुषज्येत ग्राह्यग्राहकभावसिद्धिलक्षणं तद्वद् बहिरर्थसिद्धिप्रसञ्जनं चाविशेषात् । (भा०) तदेकोपलम्भनियमोऽप्यसिद्धः, साध्यसाधनयोरविशेषात् । साध्यं हि नीलतद्धियोरेकत्वम् । तदेकोपलम्भोऽपि तदेव, ज्ञानस्यैकस्योपलम्भादिति हेत्वर्थव्याख्यानात्, सहशब्दस्यैकपर्यायत्वात् सहोदरो भ्रातेत्यादिवत् । (भा०) तथैकज्ञानग्राह्यत्वं द्रव्यपर्यायपरमाणुभिरनैकान्तिकम् । द्रव्यपर्यायौ हि जैनानामेकमतिज्ञानग्राह्यौ, न च सर्वथैकत्वं प्रतिपद्यते । सौत्रान्तिकस्य च सञ्चिता रूपादिपरमाणवश्चक्षुरादिज्ञानेनैकेन ग्राह्याः, सञ्चिता लम्बनाः पञ्च विज्ञानकायाः इति वचनात् [ ] । न चैक्यं प्रतिपद्यन्ते । तथा योगाचारस्यापि सकलविज्ञानपरमाणवः सगतज्ञानेनैकेन ग्राह्याः, न चैकत्वभावः इति तैरनैकान्तिकं साधनमनुषज्यते । नीलतद्धियोरैक्यमनन्यवेद्यत्वात् स्वसंवेदनवदित्यत्रापि परेषाम् (भा० ) अनन्यवेद्यत्वमसिद्धं, नीलज्ञानादन्यस्य नीलस्य वेद्यत्वात् । एतेनैकलोलीभावेनोपलम्भः सहोपलम्भश्चित्रज्ञानाकारवदशक्यविवेचनत्वं साधनमसिद्धमुक्तं, नीलतद्वेदनयोरशक्यविवेचनत्वासिद्धेरन्तर्बहिर्देशतया विवेकेन प्रतीतेः । यदि पुनरेकदोपलम्भः सहोपलम्भ इति व्याख्यायते तदा । (भा० ) एकक्षणवर्तिसंवित्तीनां साकल्येन सहोपलम्भनियमाव्यभिचारी हेतुः । तासां अष्टसहस्रीतात्पर्यविवरणम् सञ्चितमालम्बनं विषयो येषां ते तथा पञ्चविज्ञानकायाः पञ्चेन्द्रियविज्ञानस्कन्धाः । परेषां= बाह्यार्थवादिनाम् । ननु एकक्षणवतिसंवित्तीनामेकदैवोत्पत्तावपि कथमेक Page #183 -------------------------------------------------------------------------- ________________ ५८५ द्वितीयो भागः [ परि०७-का० ८०] (भा०) तथोत्पत्तेरेव संवेदनत्वात् । संविदितानामेवोत्पत्तेः द्विचन्द्रदर्शनवदिति (भा०) दृष्टान्तोऽपि साध्यसाधनविकलः, तथोपलम्भाभेदयोरर्थे प्रतिनियमाद् भ्रान्तौ तदसम्भवात्, । सम्भवे तद्भ्रान्तित्वविरोधात् । (भा०) ननु चासहानुपलम्भमात्रादभेदमात्रं । साधनात्साध्यरूपं भ्रान्तादपि सम्भवति, अभावेऽभावयोः सम्भवाविरोधात् । ततो न साध्यसाधनविकलो दृष्टान्त इति न शक्यप्रतिष्ठं । (भा०) कथञ्चिदर्थस्वभावानवबोधप्रसङ्गात् सर्वविज्ञानस्वलक्षणक्षयविविक्तसन्ततिविभ्रमस्वभावानुमितेः साकल्येनैकत्वप्रसङ्गात् । तदन्यापोहमात्राद्धेतोरन्यापोहमात्रस्यैव सिद्धेरर्थस्वभावानवबोधात् । किञ्च सकृदुपलम्भनियमे हेत्वर्थे सति __(भा०) एकार्थसङ्गतदृष्टयः परचित्तविदो वा नावश्यं तद्बुद्धि तदर्थं वा संविदन्तीति हेतोरसिद्धिः, अष्टसहस्त्रीतात्पर्यविवरणम् दैवोपलम्भ इति आशङ्कायाम् आह-तासामिति तासाम्=एकक्षणवृत्तिसंवित्तीनाम्, तथोत्पत्तेरेव सहोत्पत्तेरेव, संवेदनत्वात् संवेदनस्वरूपत्वात्, तथा च सहोत्पत्तिनियम एव स्वरूपतः सहोपलम्भनियमो न च तासु स्वलक्षणैकत्वमिति व्यभिचारः स्पष्ट इत्यर्थः । सम्भव इति एकत्वोपलम्भस्य द्वित्वभ्रमप्रतिबन्धकत्वादिति भावः । अर्थस्वभावानवबोधादिति अन्यापोहमात्रैकत्वसिद्धावपि संविदोऽर्थाकारत्वासिद्धः, तथा चार्थसंशयस्ततो न निवर्तेतेत्यायातमान्ध्यं जगत इति भावः । संवृत्याऽर्थबोध: स्यादित्याशङ्क्याहकिञ्चेत्यादिना । एकार्थसङ्गतदृष्टय इत्यनेनार्थोपलम्भे तद्विषयपरज्ञानोपलम्भस्य, परचित्तविदो वा इत्यनेन च ज्ञानोपलम्भेऽर्थोपलम्भस्य व्यभिचारप्रदर्शनान्नियमखण्डनं कृतं, दृश्यते ह्ययं व्यवहार एनमर्थं जानामि न त्वेतद्विषयां परबुद्धि, राज्ञश्चित्तं सन्तुष्टं जानामि न तु तद्विषयं सन्तोषकारणमिति सूक्तमेतत् । अप्रयोजकतयाऽपि त्वदुक्तो हेतुः साध्यासाधक Page #184 -------------------------------------------------------------------------- ________________ ५८६ अष्टसहस्त्रीतात्पर्यविवरणम् नियमस्यासिद्धेः । किञ्च (भा०) सहोपलम्भनियमश्च स्याद् भेदश्च स्यात् किं विप्रतिषिध्येत ? स्वहेतुप्रतिनियमसम्भवात्, इति सन्दिग्धव्यतिरेको हेतुर्न विज्ञप्तिमात्रतां साधयेत् । (भा०) तस्मादयं विज्ञानवादी (भा०) मिथ्यादृष्टिः परप्रत्यायनाय शास्त्रं विदधानः परमार्थतः संविदानो वा वचनं तत्त्वज्ञानं च प्रतिरुणद्धीति न किञ्चिदेतत्, असाधनाङ्गवचनाददोषोद्भावनाच्च निग्रहार्हत्वात् । न ह्यस्य वचनं किञ्चित्साधयति दूषयति वा, यतस्तद्वचनं साधनाङ्गं दोषोद्भावनं वा स्यात् । नाऽपि किञ्चित्संवेदनमस्य सम्यगस्ति, येन मिथ्यादृष्टिर्न भवेत् । संविदद्वैतमस्तीति चेत्, न तस्य स्वतः परतो वा ब्रह्मवदप्रतिपत्तेर्यथासंवेदनं मिथ्यात्वसिद्धेः । तदेवं नान्तरङ्गार्थतैकान्ते बुद्धिर्वाक्यं वा सम्यगुपायतत्त्वं सम्भवतीति स्थितम् ॥८०॥ बहिरङ्गार्थतैकान्ते प्रमाणाभासनिह्नवात् ।। सर्वेषां कार्यसिद्धिः स्याद्विरुद्धार्थाभिधायिनाम् ॥८१॥ [बहिरङ्गार्थतैकान्तमान्यतायां दोषानाहुः जैनाचार्याः ।] (भा०) यत्किञ्चिच्चेतस्तत्सर्वं साक्षात्परम्परया वा बहिरर्थप्रतिबद्धम् । यथाग्निप्रत्यक्षतरवेदनम् । स्वप्नदर्शनमपि चेतः, तथा विषयाकारनिर्भासात् । अष्टसहस्त्रीतात्पर्यविवरणम् इत्याह-किञ्चेत्यादिना । संविदानो वा इत्यत्र वयःशक्तिशील० [सिद्धिहेम० ५.२.२४] इति सूत्रविहितः शानप्रत्ययो द्रष्टव्यः, तेन न सकर्मकस्य संपूर्वकविद्धातोरात्मनेपदप्रत्ययस्यानुपपत्तिदोष उद्भावनीयः ॥८०॥ बहिरङ्गाथैकान्ता इति यत्र यो यथा प्रतीयते तत्र स तथाऽस्त्येवेत्येकान्ताभ्युपगमे, Page #185 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० ७ - का० ८१ ] साध्यदृष्टान्तौ पूर्ववद् । विवादापन्नं विज्ञानं साक्षात्परम्परया वा बहिरर्थप्रतिबद्धं, विषयाकारनिर्भासात् । यथाग्निप्रत्यक्षेतरवेदनम् । तथा स्वप्नदर्शनमपि विषयाकारनिर्भासम् । तत्तथा इति बहिरङ्गार्थतैकान्तः सर्ववेदनानां बहिर्विषयत्वाभिनिवेशात् । ५८७ ( भा० ) अत्रापि लोकसमयप्रतिबद्धानां परस्परविरुद्धशब्दबुद्धीनां स्वार्थसम्बन्धः परमार्थतः प्रसज्येत । न चैवं, तृणाग्रे करिणां शतमित्यादिवचनानां स्वप्नादिबुद्धीनां च स्वार्थे सम्बन्धाभावात् तथा संवादासिद्धेः । स्यान्मतं- 'द्विविधोऽर्थो, लौकिकोऽलौकिकश्च । यत्र लोकस्य परितोषः स लौकिकः सत्यत्वाभिमतज्ञानविषयः । यत्र न लोकस्य परितोषः शास्त्रविदां तु सन्तोषः सोऽलौकिकोऽर्थः स्वप्नादिबुद्धिविषयः, सर्वथाप्य - विद्यमानस्य प्रतिभासवचनासम्भवात् खरविषाणानुत्पन्नप्रध्वस्तविषयशब्दज्ञानानामपि लोकागोचरालौकिकार्थविषयत्वाद्' इति तदेतदलौकिकमेव, जाग्रत्प्रत्यया निरालम्बना एव प्रत्ययत्वात् स्वप्नप्रत्ययवदिति परार्थानुमानप्रत्ययस्यास्वार्थप्रतिबद्धत्वे तेनैव चेतस्त्वस्य विषयाकारनिर्भासस्य च हेतोर्व्यभिचारात् स्वार्थप्रतिबद्धत्वे च सर्ववेदनानां सालम्बनत्वविरोधात् । अस्यालौकिकार्थालम्बनत्वान्न लौकिकार्थालम्बनत्वे साध्ये हेतोर्व्यभिचारो विरोधो वेति चेत्, न, लौकिकालौकिकार्थालम्बनशून्यत्वानुमानेन हेतोर्व्यभिचारविरोधयोस्तदवस्थत्वात् । न चैवंविधार्थानां परस्परविरुद्धानां सकृत्सम्भव इति न बहिरङ्गार्थतैकान्तः श्रेयोऽनन्तरङ्गार्थतैकान्तवत् ॥८१॥ अष्टसहस्त्रीतात्पर्यविवरणम् प्रमाणाभासस्य=तदभाववद्विशेष्यकतत्प्रकारकज्ञानस्य निह्नवात् सर्वेषां विरुद्धार्थवादिनां प्रकृतीश्वराद्यभ्युपगन्तॄणामुपचरितवादिनां स्वप्नादिद्रष्टृणां च वाङ्मात्रेण कार्यसिद्धिः स्यात् तद्वचनज्ञानयोरर्थाव्यभिचारित्वादिति भावः । स्यान्मतमित्यादिना मीमांसकः शङ्कते । खरविषाणानुत्पन्नेत्यादि खरविषाणादीनां दृश्यानामसत्त्वेऽपि विकल्पानां सतां विकल्पबुद्धौ मानादलौकिकत्वमिति भावः । एतन्मतं दूषयति - तदेतदलौकिकमेवेत्यादिना । T॥ अष्टविधख्यातिवादः ॥ न चैवंविधार्थानामिति अलौकिकलौकिकार्थालम्बनशून्यत्वसिद्धावुभयार्था Page #186 -------------------------------------------------------------------------- ________________ ५८८ अष्टसहस्त्रीतात्पर्यविवरणम् विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥८२॥ अष्टसहस्त्रीतात्पर्यविवरणम् लम्बनत्वपर्यवसानेन विरोधग्रासान्न कस्यापि सिद्धिरित्यर्थः । अपि चैवं शुक्तावलौकिकरजतप्रतिभासे रजतार्थिनां प्रवृत्तिर्न स्यात् । न चालौकिके लौकिकत्वज्ञानेन प्रवृत्त्युपपत्तिः, तस्यान्यथाख्यातित्वेन घट्टकुटीप्रभातापत्तेः । किञ्चालौकिकस्यापि रजतस्यासत्त्वेऽसत्ख्यात्यापत्तिः, सत्त्वे च नेदं रजतमिति बाधानुत्पत्तिः, न चालौकिके लौकिकत्वनिषेध एव बाधार्थः, नेदं रजतमित्यादौ रजतलौकिकत्वस्य निषेधप्रतियोगित्वेनाभानात्, सर्वत्र विधौ निषेधे च रजतपदस्य लौकिकरजतरपरत्वे गौरवात् । किञ्च लौकिकरजतस्य प्रसक्तस्यैव प्रतिषेधाद्विपरीतख्यात्यापत्तिरिति न किञ्चिदेतत् । एतेन मीमांसकवृद्धाभिमताऽलौकिकख्यातिः खण्डिता एवं ख्यात्यन्तरखण्डनमपि द्रष्टव्यम्, भ्रान्तावन्यथाख्यातिपक्षस्यैव विचारक्षमत्वात् । तत्र प्राभाकरा विवेकाख्यातिं कल्पयन्ति । तदाहुस्ते इदं रजतमित्यादिविपरीतप्रत्ययोत्पत्तौ न किमपि कारणं पश्यामः, इन्द्रियस्य शुक्तिशकल एव सन्निकृष्टत्वेन रजतज्ञानाजनकत्वात् न च दोषवशादसन्निकृष्टस्यापीन्द्रियस्य रजतज्ञानजनकत्वं युक्तं, दुष्टकारणात् स्वकार्यानुत्पत्तावपि विपरीतकार्यानुत्पत्तेः, न हि कमलबीजं तैलकलुषितमपि गोधूमाङ्करजननसमर्थं, तस्मादिदं रजतमिति ग्रहणस्मरणरूपं बोधद्वयं सत्यमेव, इदमंशे इन्द्रियसन्निकर्षस्य ग्रहणकारणस्य रजतांशे च साधारणरूपदर्शनोबुद्धसंस्कारस्य स्मरणकारणस्य सत्त्वात् । न च तदंशानुल्लेखान्नेदं स्मरणमिति शङ्कनीयं, प्रमुष्टतत्ताकानामपि बहूनां पदपदार्थस्मरणानामुपलम्भात्, अत एव रजतस्य नातीतत्वावभासः । बाधकप्रत्ययश्चेदमन्यद् रजतमन्यदिति विवेकमेव प्रकाशयति, न तु रजतज्ञानस्यासत्यत्वं, स्वप्ने चेदं रजतमित्यादौ स्मरणत्वाग्रह एव विवेकाग्रहः, न त्वनुभवस्मरणयोस्तत्त्वाग्रहः, तदुभयाभावात्, सदृशदर्शनं विनापि तदा स्मृतिः कारणान्तरात्, आरोपे सतीत्यादिन्यायात् । एवं चन्द्रद्वयवेदने दोषाद् द्विधाकृतया नयनवृत्त्या चन्द्रैकत्वाग्रह एव, तिक्ता शर्करेत्यादौ च पित्तद्रव्यगततिक्तग्रहशर्कराग्रहयोर्भेदाग्रहाद्विवेकाख्यातिर्व्याख्येया, सर्वत्र सम्यगग्रहणस्यैव तदर्थत्वात्, ये तु विवेकाख्यातिद्विषः शुक्तौ रजतप्रतीतिं स्थापयन्ति तेषां ज्ञानान्तरेऽपि मिथ्यात्वसम्भावनया सर्वत्रानाश्वासात् प्रवृत्त्यादिव्यवहारोच्छेदप्रसङ्ग इति । अत्र ब्रूमः- यत्तावदुक्तम् इदं रजतमिति विपरीतप्रत्ययोत्पत्तौ न किञ्चित्कारणं पश्याम इति, तत्र न ह्ययं स्थाणोरपराधो, यदेनमन्धो न पश्यति इति न्यायावतारो, दुष्टेन्द्रियादेरेव तद्धेतुत्वात्, स्वाकारसंवरणरजतरूपापत्तिपरिणामविशेषवत्याः शुक्तेरेव चालम्बनत्वात्, न च कार्यसिद्धौ Page #187 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० ७ - का० ८२] (भा०) अन्तर्बहिर्ज्ञेयैकान्तयोः सहाभ्युपगमो विरुद्धः । अष्टसहस्त्रीतात्पर्यविवरणम् कारणाभावाशङ्का युक्तिमती, तथा च प्रामाणिका: कार्यं चेदवगम्येत, किं कारणपरीक्षया । कार्यं चेन्नावगम्येत, किं कारणपरीक्षया ॥ इति [ ५८९ ] यदप्युक्तं दुष्टकारणस्य स्वकार्यानुत्पादकत्वं न तु विपरीतकार्योत्पादकत्वमिति, तत्रापि नियमं न पश्यामो, दवदहनदग्घवेत्रबीजात् कदलीप्रकाण्डोत्पत्तिदर्शनात् । (शङ्का) दवदहनस्य वेत्राङ्कुरोत्पादने दोषता कदलीप्रकाण्डे त्वनुगुणभाव एवेति चेत्, अत्रापि काचकामलादेः सत्यज्ञानोत्पादने दोषता मिथ्याज्ञानोत्पादने त्वनुगुणभाव एवेति तुल्यम् । यदप्युक्तं इदं रजतमिति ग्रहणस्मरणरूपं ज्ञानद्वयं न त्वेकं विशिष्टज्ञानमिति, तदपि तुच्छं, रजतार्थिप्रवृत्तिमात्रे रजतत्वप्रकारकज्ञानस्यैव समानविशेष्यत्वप्रत्यासत्त्या संवादिप्रवृत्तिस्थले हेतुत्वकल्पनाद्विसंवादिप्रवृत्तिहेतोरपि मिथ्याज्ञानस्यैकस्य सिद्धेः, संवादिप्रवृत्तौ विशिष्टज्ञानं हेतुर्विसंवादिप्रवृत्तौ चोपस्थितेष्टभेदाग्रह इति कल्पने गौरवात् । भेदाग्रह इत्यत्र च भेद एव कोऽभिप्रेत आयुष्मतः ? किं वस्तुस्वरूपमात्रम्, उत परस्पराभावः, आहोस्विद् व्यावर्त्तकधर्मयोगः, आद्ये ग्रहणस्मरणाभ्यां पुरोवर्त्तिपूर्वानुभूतवस्तुस्वरूपग्राहिभ्यां भेदो गृहीत एवेत्यप्रवृत्तिप्रसङ्गः, द्वितीयपक्षस्तु प्राभाकरैरभावानभ्युपगमादेव निरस्तः, तदभ्युपगमेऽपि स्मृतरजतस्य कथं नाभावज्ञानम् ? । (शङ्का) दोषवशान्नियतदेशतयाऽवगतस्यानियतदेशतया स्मरणान्न तदिति चेत्, आयाताऽन्यथाख्यातिः (शङ्का) देशविनिर्मुक्ततत्स्मरणान्न तदिति न तव मते पूर्वावगते रजते स्मृते केवलाधिकरणोपलब्धेरेव तदभावोपलम्भत्वात्, दोषस्य शुक्तौ रजतभेदग्रहप्रतिबन्धकत्वकल्पने च तत्तादात्म्यग्रहहेतुत्वकल्पनमेव ज्यायः । नापि तृतीय:, स्मर्यमाणे रजते रजतत्वस्य व्यावर्त्तकधर्मस्य भानाद् गृह्यमाणेऽप्यन्तत इदंत्वस्यैव तादृशस्य भानात् । न च रजतत्वात्यन्ताभावरजतभेदगृहीतव्यावर्त्तकताकतत्तद्धर्मग्रहाणामन्यतरत्वावच्छिन्नप्रतियोगिताकोऽखण्डाभावो रजतार्थिप्रवृत्तिहेतुरित्यपि वक्तुं शक्यम्, उदासीनप्रवेशाप्रवेशाभ्यां विनिगमनाविरहात्, रजतं स्मरतो रजतार्थिनः पाषाणत्वानुपलम्भे पाषाणेऽपि प्रवृत्तिप्रसङ्गाच्च । शुक्तिविषयकप्रवृत्तौ शुक्तिविषयकज्ञानत्वेनापि हेतुत्वाच्च, तत्र समानप्रकारकत्वनिवेशस्यैवौचित्यात्, अन्यथा महागौरवात् । किञ्च, रजत एव नेदं रजतमिति ग्रहे प्रवृत्त्यापत्तिः, तत्रान्यथाख्यातिभिया रजतभेदग्रहस्य परेण वक्तुमशक्यत्वात् । न च अभावप्रतियोगित्वेनानुपस्थितं यदुपस्थितं रजतं तद्भेदाग्रहस्य प्रवर्त्तकत्वाददोष इत्यपि शक्यं वक्तुं, घटभिन्नं रजतं नेदमिति ज्ञानादपि प्रवृत्त्यापत्तेः तद्वृत्त्यभावप्रतियोगित्वेनानुप Page #188 -------------------------------------------------------------------------- ________________ ५९० अष्टसहस्त्रीतात्पर्यविवरणम् स्याद्वादन्यायविद्विषामेव । अष्टसहस्रीतात्पर्यविवरणम् स्थितत्वं चान्यथाख्यातिभयाद्रजतेऽपीति न किञ्चिदेतत् । किञ्च, प्रवृत्तिरिच्छाद्वारा, सा न समानविषयज्ञानसाध्येति कथं नेच्छावन्मिथ्या ? । एतेन प्रकृतरजतज्ञानं स्मरणम्, अनाकलितरजतस्य प्रतिपत्तुरनुत्पद्यमानत्वादित्याद्यनुमानम् अपास्तम्, रजतगोचरेण समीहितसाधनतानुमानेन संस्कारेण रजतशब्दोल्लेखिप्रत्यक्षेण चानैकान्तिकत्वात्, प्रकृतरजतज्ञानं स्मरणं न भवति विशदावभासित्वात्, यदित्थं तदित्थं, यथा संप्रतिपन्नज्ञानमिति प्रत्यनुमानसद्भावाच्च । किञ्च, भवतापि संवित्तिः स्वप्रकाशा स्वीक्रियत एव, तत्रेयं रजतसंवित्तिस्तपस्विनी केन स्वभावेन प्रकाशतामिति विचारणीयं, यदि स्मृतिरूपेणेत्युच्यते, हन्त तर्हि कः प्रमोषशब्दस्यार्थः ? अथानुभवरूपेण प्रथते, तर्हि विपरीतख्यातिरेवेयं, स्मृतेरनुभवत्वेन प्रथनात्, अथ संविन्मात्रतयैव रजतसंवित्तिः प्रतिभाति, तदपि न निरवा, रजतमिति विषयोल्लेखस्यानुभूयमानत्वात्, स्मरणानुभवलक्षणविशेषशून्यायाश्चात्र प्रघट्टके विषयसंवित्तेरनुपपद्यमानत्वात् । यदप्युक्तं बाधकप्रत्ययश्चेदमन्यद्रजतमन्यदिति विवेकमेव प्रकाशयतीत्यादि, तदपि मिथ्या, बाधकप्रत्ययेन प्रसक्तरजतत्वाभावस्यैवावगाहनात्, अप्रसक्ताविविक्तत्वप्रतिषेधेन विविक्तत्वानवगाहनात् । यदप्युक्तं स्वप्ने चेदं रजतमित्यादौ स्मरणत्वाग्रह एव विवेकाग्रह इत्यादि, तदपि तुच्छम्, रजतादिस्वप्ने स्मरणत्वेनाग्रहे रूपान्तरेण ग्रहे विपरीतख्यात्यापत्तेः, सर्वात्मनाऽग्रहणस्य च ग्रहणविरुद्धत्वात् । यदप्युक्तमेवं चन्द्रद्वयवेदने दोषाद् द्विधाकृतया नयनवृत्त्या चन्द्रकत्वाग्रह एवेति, तदप्यविचारितरमणीयं, द्विधाकृता हि तिमिरेण नायनी वृत्तिर्यदि नाम कुमुदबन्धोरेकत्वं नावबुध्यते, मावबूबुधत्, विपरीतस्तु द्वित्वानुभवः कथमिति विचार्यतां, नयनसमाश्रिताद्वित्वासंसर्गाग्रह एव चन्द्रे द्वित्वग्रह इत्यस्यापि परोक्षस्य तस्योपस्थित्यभावेनैवानाश्रयणीयत्वात् । एतेन तिक्ता शर्करेत्यादिव्यवहारस्य पित्तद्रव्यगततिक्तत्वशर्कराग्रहभेदाग्रहनिबन्धनत्वमुक्तं प्रत्युक्तम्, अगृह्यमाणतिक्तत्वस्यैव पित्तस्य शरीरगतस्य ज्वरोत्पादकत्ववद्रसनगतस्य विपरीतप्रत्ययोत्पादकत्वात् सर्वानुभूयमानसामानाधिकरण्यानुपपत्तेश्च । अपि चेदं रजतमिति यदि संवेदनद्वयमभ्युपगम्यते, तदा तस्य किं यौगपद्येन पर्यायेण वा प्रादुर्भाव: स्यादिति वक्तव्यम्, आद्ये स्वकृतान्तकोपः, द्वितीयेऽपि किं प्रत्यक्षात् पूर्वमुतोत्तरं रजतस्मरणं भवेत् । नाद्यः, इदमिति प्रत्यक्षात्पूर्वं संस्कारनुबोधेन रजतस्मृत्यनुत्पत्तेः, न द्वितीयो, निमीलितनयनस्यापि तत्प्रसक्तेरिति सकललोकसिद्धं सकृदेव रजतात्मना पुरोवतिभानं दुरपह्नवमिति मन्तव्यम् । एतेन इदं रजतमिति प्रत्यये न रजतसत्ताऽऽलम्बनम्, अभ्रान्तत्वप्रसक्तेः, नापि तदभावो, Page #189 -------------------------------------------------------------------------- ________________ ५९१ द्वितीयो भागः [ परि०७-का० ८२] (भा० ) तदवाच्यतायामुक्तिविरोधः पूर्ववत् । अष्टसहस्त्रीतात्पर्यविवरणम् रजतविधिपरस्य प्रत्ययस्य तदभावानालम्बनत्वात्, नापि शुक्तिखण्डम्, अतदाकारत्वात्, नापि रजताकारेण शक्तिखण्डम, अन्यस्यान्याकारेण दर्ग्रहत्वादित्यख्यातिरेवेयमित्यख्यातिवादोऽपि केषाञ्चित् निरस्तः, एवं भ्रान्तेर्निरालम्बनत्वे भ्रान्तिसुप्तावस्थयोरविशेषप्रसङ्गात्, न हि भ्रान्तौ प्रतिभासमानार्थव्यतिरेकेण सुप्तावस्थातोऽन्योऽस्ति विशेषः । स्वातिरिक्तबाह्यार्थानुपपत्तौ च तदंशेऽसत्ख्यातिरेव ज्ञानवाद्याश्रिता स्यान्नाख्यातिरिति यत्किञ्चिदेतत् । बौद्धास्तु असत्ख्यातिमाचक्षते, तथा हीदं रजतमिति भासमानं वस्तु ज्ञानमर्थो वा भवेत् । न तावज्ज्ञानम्, अहं रजतमित्यहंकारसामानाधिकरण्येनाप्रतिभासनात्, नाप्यर्थः, तत्साध्यार्थक्रियाभावात् इत्यसदेव तत्तत्र प्रतिभातमिति । तेऽपि न सूक्ष्मेक्षिणः । तथाहिअसत्ख्यातिरिति कोऽर्थः ? किमेकान्तासतोऽर्थस्य प्रथनम्, उत देशान्तरे विद्यमानस्य, द्वितीयपक्षे विपरीतख्यातिरेवेयं, देशान्तरे विद्यमानस्य शुक्तिदेशे प्रतीतिस्वीकारात्, आद्यपक्षे त्वेकान्तासतोऽर्थस्य प्रथने शशविषाणस्यापि प्रतीतिः स्यात् । एतेन रजतं सदेव तत्संसर्गस्त्वलीको भ्रान्तौ सदुपरागेण भासत इति न्यायटीकाकृन्मतमपि अपास्तम्, विषयतायाः सवृत्तित्वव्याप्यत्वात्, अन्यथा गवि शशशृङ्गीयत्वविशिष्टसम्बन्धेन शृङ्गभानापत्तेः, अपि चासत् सत्त्वेन प्रतिभातीति विपरीतख्यातिमर्यादाया नातिक्रमः । यदपीदं रजतमिति भासमानं वस्तु ज्ञानमर्थो वा भवेदिति विकल्पद्वयमकारि, तत्राद्योऽनभ्युपगमान्निरस्तो, द्वितीयस्त्विष्यत एव, अर्थविशेषनिबन्धनचरणाभरणाद्यर्थक्रियाभावेऽप्यर्थसामान्यनिबन्धनाभिलापप्रवृत्त्याद्यर्थक्रियायास्तत्राव्याहतत्वात्, बाधकप्रत्ययेन च मिथ्याज्ञानस्य मिथ्यात्वमुपदर्शाते, न तु तद्विषयस्यार्थत्वं बाध्यत इति नासत्ख्यातिमनोरथस्ताथागतानां श्रेयान् । केचित्तु प्रसिद्धार्थख्यातिं आहुः, विपर्ययेऽपि प्रतीतिप्रसिद्धस्यैवार्थस्य भानात् । न च विचारासहत्वात्तद्विषयस्याविद्यमानत्वं, प्रतीतेरेव विचारत्वात् करस्थस्थूलमुक्ताफलेऽपि तयैव विचारसहत्वसिद्धेः। न चोत्तरकाले प्रतिभासाभावाद् भ्रान्तिविषयस्य असत्त्वं, तत्समयप्रतिभासेनापि तोयबदबदादेरिव सत्त्वाव्याघातादिति, तेऽपि न ख्यातिभाजः प्रमाण सिद्धि विनाऽर्थस्य प्रसिद्धत्वायोगात्, अन्यथा भ्रान्ताभ्रान्तव्यवस्थानुपपत्तेः । यच्च प्रतिभाससमये सत्त्वाद् भ्रान्तिविषयस्य रजतस्य प्रसिद्धत्वमुच्यते, तद् यद्यन्यदेशस्थस्य तस्य दोषमाहात्म्येन शुक्तौ भानात्, तदा प्रसिद्धार्थख्यातिरित्यन्यथाख्यातेर्नामान्तरमायातं, यदि च शुक्तिदेशस्थस्य, तदा तस्य स्थिरत्वादुत्तरकालेऽपि भानापत्तिः, अज्ञानजस्य ज्ञाननाश्यस्य च Page #190 -------------------------------------------------------------------------- ________________ ५९२ अष्टसहस्त्रीतात्पर्यविवरणम् स्याद्वादाश्रयणे तु न कश्चिद्दोष इत्याहुः ॥८२॥ - अष्टसहस्रीतात्पर्यविवरणम् तस्य स्वीकारे मतान्तरप्रवेशापत्तिरिति यत्किञ्चिदेतत् । परे तु शुक्तिशकले यत्कलधौतं चकास्ति तस्य बाह्यतया प्रतिभानं नोपपत्तिमत्, नेदं रजतमिति बाधकेन तद्बाह्यताया बाध्यमानत्वात्, ततो ज्ञानात्मन एवायमाकारोऽनादिवासनामाहात्म्यात् बहिरिव परिस्फुरतीति आत्मख्याति: एवेयमित्याहुः, तेऽपि न प्रेक्षावन्तो, नेदं रजतमिति बाधकेन तद्बाह्यताया अबाधनात्, हट्टादौ बाह्यस्थस्य तस्य परं शुक्तिदेशस्थताया एव बाधनात् । यदपि न्यगादि ज्ञानात्मन एवायमाकारोऽनादिवासनामाहात्म्याद् बहिरिव परिस्फुरतीति, तदप्यसत्यं, वासनाया बहुशो निरस्तत्वात् । किञ्च ज्ञानाकारस्यैव रजतस्य संवेदनेऽहं रजतमित्यन्तर्मुखतया प्रतीतिः स्यात्, न त्विदं रजतमिति बहिर्मुखतया, ज्ञाननिष्ठोऽपि रजताकारोऽनादिवासनामाहात्म्याच्छुक्तिनिष्ठतया भासत इत्युक्तौ चान्यथाख्यातिरेवाङ्गीकृता स्यात् । अपि च स्वाकारः एव रजतादिद्घन्तिभिर्बहीरूपतया प्रकाश्यत इत्यत्र न प्रमाणमस्ति, अनुभवस्य कलधौतज्ञानाकारासाक्षित्वात्, बाधकप्रत्ययस्यापि शुक्तौ रजतनिषेधकत्वेन रजते ज्ञानाकारताया अविधायकत्वात् । न च रजते पुरोवर्तिशुक्त्याकारत्वप्रतिषेधेऽर्थाद् बोधाकारत्वसिद्धिरित्यपि साम्प्रतं, शुक्त्याकारत्वप्रतिषेधेऽर्थाद्देशान्तरसत्त्वस्यैव सिद्धेः, दृष्टातिक्रमेणादृष्टज्ञानाकारकत्वकल्पने मानाभावात् । यत्प्रकाशते तद्विज्ञप्तिमात्रं यथा सुखादिकमिति तु प्रत्युक्तं विज्ञानवादनिरासे बहुशः । अपि चैवमान्तरं कलधौतं मया बहीरूपतया ज्ञातमिति प्रत्यभिज्ञानं स्यात्, न त्वियं शुक्ती रजतत्वेन ज्ञातेति, एवमप्रसक्तकलधौतनिषेधोऽपि न स्यात् । यदि च ज्ञानस्य बाह्यार्थविषयत्वं नेष्यते, तर्हि यथा रजताकारोल्लेखेन तत्प्रवर्तते, तथा कि न नीलाद्याकारोल्लेखेन, नियामकाभावात्, अनादिवासनाया एव तन्नियामकत्वे देशादिनियमे हेतु[ग्यः । अथ अस्या इदमेव स्वरूपं यदसदपि देशादिनियमेन ज्ञाने प्रदर्शयतीत्यभिधीयते, तदयुक्तम्, असत्ख्यातिप्रसक्तेः, कथं चात्मख्यातिवादिनश्छेदादिप्रतीतिः स्यात् ? स्वरूपमात्रसंविदस्तदसम्भवात्, न हि विज्ञानरूपस्य सुखादेः संवित्तौ तत्प्रतीतिर्दृष्टेति बाह्यार्थस्य प्रामाणिकत्वे नात्मख्यातिः ख्यातिमती । ग्वेदान्तिनस्तु शुक्तौ रजतं न सत् प्रतिभासते, भ्रान्त्युच्छेदापत्तेः, नाप्यसत्, शशशृङ्गादिवत् प्रतिभासप्रवृत्त्योरविषयत्वप्रसङ्गात्, नाप्युभयरूपम्, उभयपक्षनिक्षिप्तदोषानुषङ्गादित्यनिर्वचनीयमेवेदं, तस्माद् भ्रान्तिः अनिर्वचनीयख्याति: एवेत्याहुः, तदपि तुच्छतरं, शुक्तौ रजतभ्रमे शुक्तिखण्डस्य विषयस्य स्वरूपपररूपाभ्यां सदसद्रूपस्या Page #191 -------------------------------------------------------------------------- ________________ ५९३ द्वितीयो भागः [ परि. ७-का० ८३] भावप्रमेयापेक्षायां प्रमाणाभासनिह्नवः । बहिःप्रमेयापेक्षायां प्रमाणं तन्निभं च ते ॥८३॥ - अष्टसहस्त्रीतात्पर्यविवरणम् व्याहतत्वात् । रजतप्रकारिताकत्वस्य च तत्र विशेषणज्ञानमात्रनियम्यत्वात्, अस्तु वा तत् तादात्विकशुक्तिपरिणामनिमित्तमेव, समूहालम्बनव्यावृत्तस्य तस्यान्यथानुपपत्तेः, अर्थेनैव धियां विशेष इति न्यायादिति यौक्तिकाः । शुक्तौ विलक्षणरजतोत्पादस्तु कारणाभावादेवायुक्तः, न हि परिणामिकारणादिसामग्री विना कार्योत्पादो दृष्टः । अथ शुक्तेरज्ञानमेव तत्र प्रतीयमानस्य कलधौतस्य कारणमिति मतिः, दुर्मतिरेवेयम, अज्ञानस्य केवलपरिणामिकारणत्वायोगात् । अज्ञानं हि सम्यग्ज्ञानस्य प्रागभावो, मिथ्याज्ञानं वा, द्वयमपि केवलं न परिणामिकारणं. द्रव्यस्यैव तत्तत्पर्यायपरिकरितस्य परिणामिकारणत्वप्रसिद्धः । (शङ्का) तात्मद्रव्यमेव सम्यग्ज्ञानप्रागभावलक्षणपर्यायाविष्टं मिथ्याज्ञानस्वरूपपर्यायाक्रान्तं वा शुक्तिशकलकलधौतस्य कारणं भविष्यतीत्यपि नाशङ्कनीयम्, चेतनस्याचेतनं प्रति जातुचिदपि परिणामिकारणत्वानुपपत्तेः । स्यादाकूतं भवतो, नाज्ञानं सम्यग्ज्ञानप्रागभावो, नापि मिथ्याज्ञानं, किन्तु ताभ्यामर्थान्तरमेव मायाऽविद्यादिशब्दवाच्यं तदनिर्वचनीयरजतहेतुरिति चेत्, न तादृशाज्ञाने मानाभावात् । न च मूलाज्ञानं तद्धेतुर्युक्तं, तस्य व्यवस्थितजगद्वैचित्र्यहेतुत्वेन त्वयोपगमात्, किन्तु भ्रान्तिव्यवहारनिर्वाहायानन्तानि मूलाज्ञानानि त्वया वाच्यानीति महागौरवम् । किञ्च शुक्त्यज्ञानस्य पाषाणादावपि सत्त्वेन देशनियमाभावान्न रजतहेतुत्वम्, न च इदमंशावच्छेदेन शुक्त्यज्ञानस्येदमंशावच्छेदेन रजतोत्पादकत्वाद् अदोषो, दोषाभावकालेऽपि ततस्तत्प्रसङ्गात्, दोषस्याप्यपेक्षणे चेदमंशावच्छेदेनाज्ञानान्तरस्योदासीनस्य च हेतुत्वं दुर्निवारमिति यत्किञ्चिदेतत् । दोषसहितं शुक्त्यज्ञानं रजतहेतुरिति त्वद्वचनस्य वह्निसहितमाकाशं दाहकमिति वचनतुल्यत्वात् । यत्तु विशेषादर्शनस्य परेषां रजतभ्रमत्वं कार्यतावच्छेदकं मम तु रजतत्वमिति लाघवादनिर्वचनीयरजतसिद्धिरित्यनन्तदेवेनोक्तं, तदसत्, त्वयापि सत्यरजतव्यावृत्तये वैज्ञानिकरजतत्वस्यैव कार्यतावच्छेदकस्य वाच्यत्वात् । अपि च किमिदमनिर्वचनीत्वं, निरुक्तिविरहो वा निरुक्तिनिमित्तविरहो वा । नाद्यः, इदं रजतं नेदं रजतमिति निरुक्तेरनुभूयमानत्वात्, नापि द्वितीयो, यतो निरुक्तिनिमित्तं विषयः किं भावरूपो नास्त्यभावरूपो वा, प्रथमकल्पनायामसत्ख्यात्यभ्युपगमप्रसङ्गः, द्वितीयकल्पनायां तु सत्ख्यातिरेव । (शङ्का) उभावपि न स्त इति चेत्, लोकसिद्धयोरुभयोः प्रतिषेधो विलक्षणयोर्वा, नाद्यः, एकत्रोभयविरुद्धविधेरिव तत्प्रतिषेधस्याप्ययोगात्, विरुद्धयोरेकतरविधिनिषेधयोरन्यतरनिषेधविधिनान्तरीयकत्वात्, Page #192 -------------------------------------------------------------------------- ________________ ५९४ अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) सर्वसंवित्तेः स्वसंवेदनस्य कथञ्चित् प्रमाणत्वोपपत्तेस्तदपेक्षायां सर्वं प्रत्यक्षं, न कश्चित्प्रमाणाभासः । सौगतानामप्यत्राविवादात्, सर्वचित्तचैत्तानामात्मसंवेदनं प्रत्यक्षं इति वचनात् [ ] । तन्निर्विकल्पकमित्ययुक्तं स्वार्थव्यवसायत्मत्वमन्तरेण प्रत्यक्षत्वानुपपत्तेः समर्थनात् । (भा०) तथानभ्युपगमेऽन्यत एव बुद्धेरनुमानं स्यात् । तच्चायुक्तं लिङ्गाभावात् । (भा०) तत्रार्थज्ञानमलिङ्गं, तदविशेषेणासिद्धेः । [मीमांसकाभिमताप्रत्यक्षज्ञानस्य निराकरणम् । ] स्वयं प्रत्यक्षं ज्ञानं ह्यर्थपरिच्छेदादनुमीयते इत्यर्थज्ञानं कर्मरूपमर्थस्य प्राकट्यं अष्टसहस्त्रीतात्पर्यविवरणम् द्वितीयपक्षे तु न काऽपि क्षतिः, न ह्यलौकिकविषयसहस्रनिवृत्तावपि लौकिकविषयनिवृत्तिस्तन्निरुक्तिनिवृत्तिर्वा सम्भवतीत्यलं प्रसङ्गेन ॥८१।। यशोविजयनामेत्थं, साधुायविशारदः । स्पष्टं निष्टङ्कयामास, ख्यातीष्ट गरिष्ठधीः ॥१॥ अन्यथाख्यातिरख्यातिविवेकाख्यातिरेव च । असत्ख्यातिः प्रसिद्धार्थाख्यातिरेव च पञ्चमी ॥२॥ आत्मख्यातिस्तथा षष्ठी, ख्यातिः सप्तम्यलौकिकी । अष्टम्यवाच्यताख्यातिरित्यष्टौ नामतः स्मृताः ॥३॥ साम्राज्यादन्यथाख्यातेरेतास्वन्यनिरासतः । बहिरङ्गार्थतैकान्तं, निरस्यन्ति धियां बुधाः ॥४॥ सर्वं प्रत्यक्षमिति सर्वं प्रत्यक्षप्रमाणमित्यर्थः, न च एवमनुमितित्वादिना प्रत्यक्षस्य सायं, क्वचित्सङ्कीर्णजातेरप्यदुष्टत्वाभ्युपगमात्, अस्तु वा यद्विषयत्वावच्छेदेन ज्ञानाजन्यत्वं तद्विषयत्वावच्छेदेनौपाधिकमेव प्रत्यक्षत्वम्, अनुमित्यादावात्माज्ञानात् सुखादित्यादाव Page #193 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि. ७-का० ८३] ५९५ तल्लिङ्गमिष्यते स हि बहिर्देशसम्बद्धः प्रत्यक्षमनुभूयते, ज्ञाते त्वनुमानादवगच्छति बुद्धिम् इति वचनात् [ ] तच्चार्थप्राकट्यमर्थधर्मो ज्ञानधर्मो वा ? प्रथमपक्षेऽर्थपरिच्छेदकज्ञानादविशेषेणेतरस्यासिद्धेर्न तल्लिङ्गम् । तदविशेषस्तु, तस्यास्वसंविदितत्वादनुमानापेक्षत्वप्रसङ्गात् । न हि ज्ञाने परिच्छेदकेऽप्रत्यक्षे तत्कृतोऽर्थपरिच्छेदः प्रत्यक्षः स्यात्, सन्तानान्तरज्ञानकृतार्थपरिच्छेदवत् । बहिरर्थस्य प्रत्यक्षत्वात्तद्धर्मस्य प्रत्यक्षत्वमिति चेत्, न, अर्थस्यापि स्वतः प्रत्यक्षत्वासिद्धेः । स्वज्ञाने प्रतिभासमानस्य प्रत्यक्षत्वे सन्तानान्तरज्ञानेऽपि साक्षात् प्रतिभासमाने प्रत्यक्षत्वप्रसङ्गः, तस्यानुमेयत्वाविशेषात् । बहिरर्थप्राकट्यस्य प्रमातुः स्वसंविदितत्वात्तल्लिङ्गमेव ज्ञाने प्रसिद्धमिति चेत. कथमर्थधर्मः स्वसंविदितो नाम ? अर्थवत । सोऽयं ज्ञानमस्वसंविदितं प्राकट्यमर्थस्वरूपं स्वसंविदितमित्याचक्षाणो विपरीतप्रज्ञः । परिच्छिद्यमानत्वस्य ज्ञानजस्यार्थधर्मस्यार्थज्ञानस्य कुतस्ततो विशेषो येन तल्लिङ्गं सिद्धयेत् ? पुंसः स्वसंविदितत्वेन ततो (भा०) विशेषे वा तदन्यतरेणार्थपरिसमाप्तेः किं द्वितीयेन ? । स्वसंविदितार्थपरिच्छेदादेव स्वार्थपरिच्छत्तिसिद्धेरप्रत्यक्षज्ञानस्याकिञ्चित्करत्वात् । पुंसो वा स्वसंविदितार्थत्वेनार्थपरिच्छेदसिद्धेः किमनेन ? तस्य करणत्वान्नाकिञ्चित्करत्वमात्मनः कर्तृत्वादर्थस्य च कर्मत्वात्करणत्वविरोधात्, करणमन्तरेण क्रियायाः सम्भवाभावादिति चेत्, तर्हि पुंसः स्वसंवित्तौ किं करणम् ? अष्टसहस्त्रीतात्पर्यविवरणम् प्यात्मादौ विषयताद्वयाभ्युपगमादिति दिग् । ज्ञाते त्विति ज्ञाते तु प्राकट्ये, अनुमानात्तल्लिङ्गकाद् अवगच्छति=निश्चिनोति बुद्धिमित्यर्थः । इतरस्य प्राकट्यस्य, अनुमानापेक्षत्वप्रसङ्गादिति, अनुमानापेक्षत्वमर्थप्राकट्यस्यार्थपरिच्छेदाविशेषे हेतुः, तत्र चास्वसंविदितित्वमिति बोध्यम् । तस्यानुमेयत्वाविशेषादिति यथा सन्तानान्तरज्ञानप्रतिभातेऽर्थे ज्ञानावच्छेदकत्वेनानुमेयत्वं तथा स्वज्ञानप्रतिभातेऽपीत्यविशेषो भावनीयः । अर्थज्ञानस्येत्यत्र ज्ञानपदे करणव्युत्पत्तिः । तेन न तस्य प्राकट्यविशेषणत्वानुपपत्तिः । कुत इति ततः परोक्षार्थज्ञानात् कुत:=प्राकट्यस्य विशेषो न कुतश्चिदनुमानापेक्षत्वतौल्यादित्यर्थः । पुंस इति पंस=आत्मनः, स्वसंविदितत्वेन अर्थावच्छिन्नप्राकट्यस्य च तत्राध्यस्ततया तथात्वेनेत्यर्थः । भाष्ये तदन्यतरेण परोक्षज्ञानस्वसंविदितपुरुषयोर्मध्ये परोक्षज्ञानस्वसंविदितार्थ Page #194 -------------------------------------------------------------------------- ________________ ५९६ अष्टसहस्त्रीतात्पर्यविवरणम् स्वात्मैवेति चेत्, स एवार्थपरिच्छित्तावपि करणमस्तु, कर्तृरनन्यस्यापि कथञ्चिदविभक्तकर्तृकस्य करणस्य सिद्धेविभक्तकर्तृकवत् । एतेनार्थपरिच्छेदस्यार्थधर्मस्य स्वसंवित्तौ स्वात्मनः करणत्वे करणान्तरमकिञ्चित्करमुक्तम् । ततः पुरुषार्थपरिच्छेदयोरन्यतरेण स्वात्मनैव करणेनार्थपरिसमाप्तेः किं द्वितीयेन करणेन परोक्षज्ञानेन ? (भा०) यच्चेदमर्थज्ञानं तच्चेदर्थस्वलक्षणं स्याद्व्यभिचारादहेतुः । अप्रत्यक्षे ज्ञाने साध्ये तस्यार्थस्वरूपस्य तदभावेऽपि भावादन्यथार्थाभावप्रसङ्गात् । न च ज्ञानस्याभावेऽर्थस्याभावः । परिच्छद्यमानत्वधर्मेण धर्मिणो विशिष्टस्यार्थस्याभाव एवेति चेत्, न, तस्य ज्ञानासिद्धौ प्रतिपत्तिविरोधात्, विशेषणाप्रतीतौ तद्विशिष्टत्वस्य क्वचिदप्रतीतेरसिद्धत्वेन हेतुत्वायोगस्याभिधानात् । एतेनार्थमहं जानामीति प्रतीतेरात्मनोऽर्थज्ञानं स्वसंविदितमर्थप्राकट्यं ज्ञानधर्मोऽप्रत्यक्षायां लिङ्गबुद्धौ लिङ्गमित्येतदपास्तं, तस्य बुद्धेरप्रत्यक्षत्वे तथाप्रतीतेरयोगाद् इत्यविशिष्ट एव ज्ञानानपेक्षस्वभावोऽर्थस्तद्धेतुः स्यात् । स च व्यभिचार्येव । (भा०) एतेनेन्द्रियादिप्रत्यक्षं प्रत्युक्तं । तस्याप्यतीन्द्रियत्वेनाप्रत्यक्षज्ञानादविशेषेणासिद्धेः । विशेषेण वा तयोरन्यतरेण भावेन्द्रियादिना स्वसंविदितेनार्थपरिसमाप्तेः किं द्वितीयेनाप्रत्यक्षज्ञानेन ? तस्यैव ज्ञानत्वात् । व्यभिचारी चेन्द्रियादिहेतुर्ज्ञानाभावेऽपि भावात् कारणस्येन्द्रियस्य मनसो - अष्टसहस्त्रीतात्पर्यविवरणम् प्राकट्ययोर्मध्ये वाऽन्यतरेण, अर्थपरिसमाप्तेः=अर्थव्यवहारसिद्धेः किं द्वितीयेन परोक्षज्ञानेनेत्यर्थः । अविभक्तकर्तृकस्येति उपधेयैक्येऽपि कर्तृत्वकरणत्वाद्युपाधिभेदेन व्यवहारभेदसम्भवादित्यर्थः । विभक्तकर्तृकवदिति क्रियायां हि सकरणकत्वं तन्त्रं, न तु कर्तृभिन्नकरणवत्त्वं तदभिन्नकरणवत्त्वं वेत्यत्राप्याग्रहः श्रेयानिति भावः । अर्थपरिच्छेदस्य=प्राकट्यस्य, तथाप्रतीतेरयोगादिति, 'इदं ज्ञानं घटविषयं घटज्ञाततावत्त्वादित्यनुमानस्य हेतोरज्ञानासिद्ध्या कर्तुमशक्यत्वादित्यर्थः । पक्षाज्ञानादाश्रयासिद्धिरप्यत्र द्रष्टव्या । एतेन अहं घटज्ञानवान् घटज्ञाततावत्त्वादित्यात्मपक्षकमनुमानमपि अपास्तम्, साध्याप्रसिद्धेश्चेति बोध्यम् । न च ज्ञानजन्यस्य समवायेनार्थनिष्ठस्य ज्ञातताख्यधर्मस्य सम्बन्धविशेषेणात्मनिष्ठत्वात्तल्लिङ्गकमात्मपक्षकमर्थपरिच्छेदवत्त्वानुमानमदुष्टं । न च हेतोरज्ञानासिद्धिरपि । संयुक्तसमवायादियोग्यसन्निकर्षेण तत्प्रत्यक्षात् । न च तस्याप्यनुमानापेक्षत्वेन Page #195 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि०७-का० ८३] ५९७ वावश्यं कार्यवत्त्वानुपपत्तेः ।। (भा०) ततः प्रत्यक्षेतरबुद्ध्यवभासस्य स्वसंवेदनात्प्रत्यक्षविरुद्धं । ज्ञानस्याप्रत्यक्षत्वमनुमानविरुद्धं च । तथा हि (भा०) सुखदुःखादिबुद्धेरप्रत्यक्षत्वे हर्षविषादादयोऽपि न स्युरात्मान्तरवत् । [अनुभवमनुसृत्य ज्ञानं प्रत्यक्षमेव न च परोक्षं ] (भा०) एतेन प्रतिक्षणं निरंशं संवेदनं प्रत्यक्षं प्रत्युक्तं, यथाप्रतिज्ञमनुभवाभावात्, यथानुभवमनभ्युपगमात् । स्थिरस्यात्मनः सुखदुःखादिबुद्ध्यात्मकस्य प्रत्यक्षमनुभूयमानस्य हर्षविषादादेरनुभवात् । भ्रान्तोऽयमनुभव इति चेत्, न बाधकाभावात् । (भा०) सर्वत्र सर्वदा भ्रान्तेरप्रत्यक्षत्वाविशेषात् । परोक्षज्ञानवादानुषङ्गः सौगतस्य । (भा०) कथञ्चिद् भ्रान्तावेकान्तहानेः स्याद्वादानुप्रवेशः । न केवलं निर्विकल्पकेऽर्थदर्शने परोक्षज्ञानादविशेषः । किं तर्हि ? तदव्यवस्थाहेतौ ___ (भा०) विकल्पस्वसंवेदनेऽपि, विकल्पानतिवृत्तेः । - अष्टसहस्त्रीतात्पर्यविवरणम् साध्याविशेषो, लिङ्गज्ञानत्वेनैवानुमितिहेतुत्वात्, तद्ज्ञानज्ञानत्वेनातत्त्वादित्यपि वक्तुं साम्प्रतम्, साध्याप्रसिद्ध्योक्तोत्तरत्वात्, अतीतानागतेष्वर्थेषु ज्ञानेन ज्ञातताया जनयितुमशक्यत्वात्, ज्ञानजन्यज्ञाततायां मानाभावाच्च, अन्यथेष्टताकृततादेरपीच्छाकृत्यादिजन्यस्य सिद्ध्यापत्तेरिति दिग् । आत्मान्तरवदिति न च स्वीयसुखदुःखसाक्षात्कारत्वे हर्षविषादादिहेतुत्वाद् अदोषः, अविदिततत्साक्षात्कारस्य निर्विकल्पकतुल्यत्वेनातथात्वात्, सुखदुःखज्ञानसंवेदनत्वेन हेतुत्वौचित्यात्, सर्वदा स्वप्नावस्थावज्जाग्रद्दशायामपि, आवरणविगत १. विगम इति अष्टसहस्रीसम्मतः पाठः । Page #196 -------------------------------------------------------------------------- ________________ ५९८ अष्टसहस्त्रीतात्पर्यविवरणम् सर्वथा विकल्पस्य भ्रान्तत्वे बहिरिव स्वरूपेऽपि भ्रान्तेरप्रत्यक्षत्वाविशेषाद् अभ्रान्तं प्रत्यक्षम् इति वचनात् [ ] कथञ्चिद् भ्रान्तत्वेनेकान्तसिद्धेरनिवारणात् । (भा०) तस्मात्स्वसंवेदनापेक्षया न किञ्चिज्ज्ञानं सर्वथा प्रमाणम् । बहिरर्थापेक्षया तु प्रमाणतदाभासव्यवस्था, तत्संवादकविसंवादकत्वात् क्वचित्स्वरूपे केशमशकादिज्ञानवत् । नभसि केशादिज्ञानं हि बहिविसंवादकत्वात्प्रमाणाभासं स्वरूपे संवादकत्वात्प्रमाणम् । न चैवं विरोधः प्रसज्यते, जीवस्यैकस्यावरणविगमविशेषात् सत्येतराभाससंवेदनपरिणामसिद्धेः कालिकादिविगमविशेषात्कनकादिजात्येतरपरिणामवत् ॥८३॥ न च जीवो नास्त्येवेति शक्यं वक्तुं तद्ग्राहकप्रमाणस्य भावात् । तथा हि जीवशब्दः सबाह्यार्थः सज्ञात्वाद्धेतुशब्दवत् । मायादिभ्रान्तिसञ्ज्ञाश्च मायाद्यैः स्वैः प्रमोक्तिवत् ॥८४॥ (भा०) स्वरूपव्यतिरिक्तेन शरीरेन्द्रियादिकलापेन जीवशब्दोऽर्थवान् । अतो न कृतः प्रकृतः स्यादिति विक्लवोल्लापमानं, लोकरूढः समाश्रयणात् । का पुनरियं लोकरूढि: ? (भा०) यत्रायं व्यवहारो जीवो गतस्तिष्ठतीति वा । न हि शरीरेऽयं व्यवहारो रूढस्तस्याचेतनत्वाद्भोगाधिष्ठानत्वेन रूढेः नापीन्द्रियेषु, तेषामुपभोगसाधनत्वेन प्रसिद्धः । न शब्दादिविषये, तस्य भोग्यत्वेन अष्टसहस्त्रीतात्पर्यविवरणम् विशेषादिति विगतमिति भावे क्तः आवरणविगमविशेषादित्यर्थः । सर्वत्र ज्ञाने स्वरूपे प्रामाण्यमनावृतमेव बहिरर्थे त्वनियतस्तत्क्षयोपशम इति स्वभावकल्पनान्न विरोध इत्यर्थः ॥८३॥ तेन शरीरेन्द्रियादिकलापेन, कृतः=उत्पादितः, प्रकृतो जीवशब्दार्थः स्यात् । Page #197 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि० ७-का० ८४] ५९९ व्यवहारात् । किं तर्हि ? भोक्तर्येवात्मनि जीव इति रूढिः । शरीरादिकार्यस्य चैतन्यस्य भोक्तृत्वमयुक्तं भोगक्रियावत् । [चार्वाको शरीरमेव भोक्तारमात्मानं मन्यते, किन्तु जैनाचार्यास्तस्य निराकरणं कुर्वन्ति ।] ननु सुखदुःखाद्यनुभवनं भोगक्रिया । सा ह्यत्रान्वयिनि गर्भादिमरणपर्यन्ते चैतन्ये सर्वचेतनाविशेषव्यापिनि भोक्तृत्वं, शरीरादिविलक्षणत्वात्तस्येति चेत्, तदेवात्मद्रव्यमस्तु, जन्मनः पूर्वं मरणादूर्ध्वमपि तस्य सद्भावोपपत्तेरन्यथा पृथिव्यादिसमुदयशरीरेन्द्रियविषयेभ्यो वैलक्षण्यासम्भवात् । न तत्कार्यं ततोऽत्यन्तविलक्षणमस्ति, रूपादिसमन्वयात् चैतन्यस्यापि सत्त्वादिसमन्वयान्नात्यन्तविलक्षणत्वमिति चेत्, न, तत्त्वभेदेऽपि तस्य भावात् । पृथिव्यादितत्त्वभेदानामेकविकारित्वसमन्वयाभावाद्भेद एव, केषाञ्चित् प्रागभावादिभेदवदिति चेत्, किमिदानी चैतन्यभूतयोरेकविकारिसमन्वयोऽस्ति ? येन तत्त्वान्तरत्वेन भेदो न स्यात् । तस्मादेकविकारिसमन्वयासत्त्वं वैलक्षण्यम् । तदेव च तत्त्वान्तरत्वमित्यनाद्यनन्ततां चैतन्यस्य साधयति । तादृशचैतन्यविशिष्टे काये जीवव्यवहारश्चैतन्यकाययोरभेदोपचारादेव । क्षणिके चित्तसन्ताने जीवव्यवहार इत्यसारं तस्य निराकृतत्वात् । ततः कर्तृत्वभोक्तृत्वलक्षणेनोपयोगस्वभावेन जीवेन जीवशब्दः सबाह्यार्थ इति साध्यनिर्देशे सिद्धसाधनाभावः । [कश्चिद् ब्रूते 'सञ्ज्ञात्वात्' हेतुविरुद्धस्तस्य समाधानं कुर्वन्ति जैनाचार्याः ।] ___ सज्ञात्वादिति हेतुविरुद्धः सबाह्यार्थत्वविरुद्धाभिप्रेतमात्रसूचकत्वेन तस्य व्याप्तत्वादिति चेत्, न, सझाया वक्त्रभिप्रायमात्रसूचकत्वस्य प्रमाणबाधितत्वात् । तथा हि (भा०) नात्र सज्ञाभिप्रेतमात्रं सूचयति, ततोऽर्थक्रियायां नियमायोगात् । अष्टसहस्त्रीतात्पर्यविवरणम् जन्मन इति तथा चानन्तभावव्यापिन एकभवव्यापित्वं न दुर्वचमित्यर्थः । सिद्धसाधनाभाव इति उपचरितचैतन्येन शरीरादिनेति शेषः । साध्यदोषं निराकृत्य हेतुदोषमाशङ्कतेसञ्ज्ञात्वादितीत्यादिना । परिहरति-नेत्यादिना । अभिप्रेतमात्रमिति पारमार्थिकसम्बन्ध Page #198 -------------------------------------------------------------------------- ________________ ६०० अष्टसहस्त्रीतात्पर्यविवरणम् तदाभासवत् । न च तदयोगः सञ्ज्ञायाः. तयार्थं परिच्छिद्य प्रवर्तमानस्यार्थक्रियानियमस्य दर्शनात्करणप्रतिपत्तिवत् । (भा०) करणप्रतिपत्तीनां तदभावेऽनादरणीयत्वात् । ततः सञ्ज्ञात्वं जीवशब्दस्य सबाह्यार्थत्वं साधयति हेतुशब्दवत् । सर्वेण हि हेतुवादिना हेतुशब्दः सबाह्यार्थोऽभ्युपगम्यते । (भा०) साधनतदाभासयोरन्यथा विशेषासम्भवात् । वक्त्रभिप्रायमात्रसूचकत्वादबाह्यार्थत्वाविशेषात् । तद्विशेषमिच्छता (भा० ) परम्परयापि परमार्थंकतानत्वं वाचः प्रतिपत्तव्यम् । क्वचिद् व्यभिचारदर्शनादानाश्वासे चक्षुरादिबुद्धेरपि । कथमाश्वासः ? । (भा०) तदाभासोपलब्धेः । तत्राप्यनाश्वासे (भा०) कुतो धूमादेरग्न्यादिप्रतिपत्तिः ? कार्यकारणभावस्य व्यभिचारदर्शनात् । न चेदमसिद्धं, (भा०) काष्ठादिजन्मनोऽग्नेरिव मणिप्रभृतेरपि भावात् । सुविवेचितं कार्यं कारणं न व्यभिचरतीति । (भा०) तद्विशेषपरीक्षायां सुविवेचितः शब्दोऽर्थः न व्यभिचरतीति प्रसिद्धेः । (भा०) इतरत्रापि - अष्टसहस्त्रीतात्पर्यविवरणम् शून्यमभिप्रेतमित्यर्थः, तद्वत्त्वाङ्गीकारे त्वर्थोपस्थितिद्वारा शब्दप्रमाजनकताया एव न्याय्यत्वाव्याप्तिस्मृत्यादिविलम्बेन ततोऽनुमितिरूपसूचाया अयोगादिति बोध्यम् । तदाभासवत्=मरीचिकायां जलसञ्ज्ञावत, करणप्रतिपत्तिवद् इन्द्रियव्यापारवत् । यथा ततोऽर्थं Page #199 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि० ७-का० ८४] ६०१ तद्विशेषपरीक्षास्तु (भा०) विशेषाभावात् । वक्तुः (भा०) अभिसन्धिवैचित्र्यादभिधानव्यभिचारोपलम्भे तदितराध्यक्षानुमानकारणसामग्रीशक्तिवैचित्र्यं पश्यतां कथमाश्वासः स्यात् ? तस्मादयमक्षलिङ्गसञ्जादोषाविशेषेऽपि क्वचित् - प्रत्यक्षेऽनुमाने च (भा०) परितुष्यन्नन्यतमप्रद्वेषेणेश्वरायते, परीक्षाक्लेशलेशासहनात् । ननु चाभावोपादानत्वात्तदन्यतमायां सञ्ज्ञायां प्रद्वेषेण परीक्षक एव, न पुनरीश्वरायते, तस्य परीक्षाक्षमत्वादिति चेत्, न, तस्याः सर्वथा भावोपादानत्वाभावेऽभावोपादानत्वासिद्धेः । सर्वत्र (भा०) भावोपादानसम्भवे हि समाख्यानामितरोपादानप्रक्लृप्तिः । एतेनैतदपि प्रत्युक्तं यदुक्तं सौगतेन अनादिवासनोद्भूतविकल्पपरिनिष्ठितः । शब्दार्थस्त्रिविधो धर्मो भावाभावोभयाश्रितः ॥ [ ] इति, तत्त्वतो भावाश्रयत्वाभावे वासनोद्भूतभावाश्रयत्वानुपपत्तेः सर्वत्रानुभवपूर्वकत्वाद्वासनायाः परम्परया वस्तुप्रतिबन्धात् । पूर्वपूर्ववासनात एवोत्तरोत्तरवासनायाः समुद्भवादनादित्वादवस्त्वाश्रयत्वमेवेति चेत्, न, शब्दवासनाया अप्यनादित्वे परार्थानुमानशब्दवासनायाः साधनस्वलक्षणदर्शननिमित्तकत्वविरोधात् । त्रिरूपहेतुवचनस्य परम्परया धूमादिवद्वस्त्वाश्रयत्वे हेतुशब्दवज्जीवशब्दस्य भावा - अष्टसहस्रीतात्पर्यविवरणम् परिच्छिद्य प्रवर्त्तमानानामर्थक्रियानियमो दृश्यते तथा सञ्ज्ञाया अपीति तद्वत् सञ्जाप्रमाणमिति भावः । भाष्ये तदितरेति अभिधानकारणसामग्रीतरेत्यर्थः । सर्वथेति शून्योपादानत्वैकान्तनिराकरणादित्यर्थः । सञ्ज्ञाया भाषावर्गणारूपं यद्भावलक्षणमुपादानं तदेव पररूपेणाभावरूपमित्येवमभावोपादानत्वं तु नास्मत्पक्षक्षतिकरमित्याह-सर्वत्रेत्यादि परिनिष्ठित:=प्रतिबिम्बितः । भावाभावोभयाश्रित इति घटादिसञ्ज्ञार्थस्य घटादेः खर Page #200 -------------------------------------------------------------------------- ________________ ६०२ अष्टसहस्त्रीतात्पर्यविवरणम् श्रयत्वं युक्तम् । (भा०) भावश्चात्र हर्षविषादाद्यनेकाकारविवर्तः, प्रत्यात्मवेदनीयः प्रतिशरीरं भेदात्मकोऽप्रत्याख्यानार्हः प्रतिक्षिपन्तमात्मानं प्रतिबोधयतीति कृतं प्रयासेन । तदनेन हेतोः कालात्ययापदिष्टत्वं प्रतिक्षिप्तं, पक्षस्य प्रत्यक्षादिभिरबाधितत्वात् । तत्र निरतिशयस्यास्वसंविदितस्य सर्वशरीरेष्वभिन्नस्यैकस्य प्रतिक्षणं भिन्नस्य चात्मनः प्रतिभासाभावात्तस्य प्रत्याख्यानार्हत्वसाधनान्न तेन जीवशब्दः सबाह्यार्थः । [मायादिभ्रान्तशब्दैः सत्योऽर्थो न कथ्यते अतः जीवशब्दोऽपि बाह्यार्थो न भवतीति बौद्धेनोच्यमाने जैनाचार्याः समादधते ।] ननु च मायादिभ्रान्तिसज्ञाभिरबाह्यार्थाभिरनैकान्तिकं सज्ञात्वमिति चेत्, न तासामपि मायाद्यैः स्वैरथैः सबाह्यार्थत्वात् प्रमाणवचनवत् । (भा०) न हि मायादिसमाख्याः स्वार्थरहिता विशिष्टप्रतिपत्तिहेतुत्वात् प्रमाणसमाख्यावत् । भ्रान्तिसमाख्यानामबाह्यार्थत्वे ततो भ्रान्तिप्रतिपत्तेरयोगात् प्रमाणत्वप्रतिपत्ति - अष्टसहस्त्रीतात्पर्यविवरणम् - विषाणाद्यभावव्यावृत्त्या भावरूपत्वाद्भावान्तरव्यावृत्त्या चाभावरूपत्वादुभयव्यावृत्त्या चोभयरूपत्वादिति भावः । तदनेनेति अनेन सझाया भावाश्रयत्वव्यवस्थापनेन, ननु जीवशब्दः सबाह्यार्थः सञ्ज्ञात्वादित्यत्र शरीरेन्द्रियकलापाद्यर्थबाधेऽपि निरतिशयत्वादिस्वभावेन साङ्ख्यादिकल्पितेन प्रतिक्षणभिन्नस्वभावेन च सौगतपरिकल्पितेनात्मना चरितार्थत्वान्न स्याद्वादिन इष्टसिद्धिः स्यादित्याशङ्कायामाह-तत्रेत्यादि ननु एवमितरबाधितमहिम्ना व्यापकतानवच्छेदकरूपेण साध्यानुमित्यभ्युपगमे पर्वतो द्रव्यवान् धूमादित्यतोऽपि वह्नित्वेन वल्यनुमितिः स्यादिति चेत्, नेयं बिभीषिकोपयोगप्रामाण्यवादिनां नः, तथोपयोगे तथानुमितेरिष्टत्वात्, अत एव परेऽपि मङ्गलं सफलं शिष्टाचारविषयत्वादित्यादेर्मङ्गलस्य समाप्तिफलकत्वानुमितिमिच्छन्ति । इयांस्तु विशेषो यत्परेषां तथानुमितावितरबाधादेः परामर्शसहकारित्वमस्माकं त्वन्तर्व्याप्तिग्राहकतर्को पक्षीणत्वमिति दिग् । विशिष्टप्रतिपत्तिहेतुत्वाद्=असाधारणधर्मप्रकारकधीहेतुत्वात्, भ्रान्तिप्रतिपत्तेरयोगादिति भ्रान्ते Page #201 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० ७ - का० ८५ ] प्रसङ्गान्न विशिष्टप्रतिपत्तिहेतुत्वमसिद्धम् । प्रमाणशब्दस्य स्वार्थविशेषरहितत्वे भ्रान्तिप्रतिपत्त्यनुषङ्गाच्च न तदसिद्धं, यतो निदर्शनं साधनधर्मविकलं स्यात् । एतेन खरविषाणादिशब्दानामपि स्वार्थरहितत्वमपास्तं, विशिष्टप्रतिपत्तिहेतुत्वाविशेषादन्यथा भावशब्दत्वप्रसङ्गात् । ततो न तैरपि व्यभिचारः । किञ्च बुद्धिशब्दार्थसञ्ज्ञास्तास्तिस्रो बुद्ध्यादिवाचिकाः । तुल्या बुद्ध्यादिबोधाश्च त्रयस्तत्प्रतिबिम्बकाः ॥८५॥ ६०३ [मीमांसकः ‘सञ्ज्ञात्वात् हेतुं व्यभिचरति, किन्तु जैनाचार्या इमं हेतुं निर्दोषं साधयन्ति ।] येऽप्याहुः अर्थाभिधानप्रत्ययास्तुल्यनामानः [ ] इति जीवार्थस्य जीव इति सञ्ज्ञा, जीव इति शब्दस्य च, जीव इति बुद्धेश्चेति । तत्रार्थपदार्थक एव जीवशब्दः सबाह्यार्थः सिद्धो न बुद्धिशब्दपदार्थकः । ततोऽनेन हेतोर्व्यभिचारःसञ्ज्ञात्वस्य सामान्येन हेतुवचनात् इति, तेऽपि न सम्यगुक्तयः, सर्वत्र बुद्धिशब्दार्थसञ्ज्ञानां तिसृणामपि स्वव्यतिरिक्तबुद्ध्यादिपदार्थवाचकत्वात् । यस्माद्धि शब्दादुच्चारितादव्यभिचारेण यत्र बोधः प्रजायते स एव तस्यार्थः स्यात्, अन्यथा शब्दव्यवहारविलोपात् । यथा च जीवशब्दार्थपदार्थकाज्जीवो न हन्तव्य इत्यत्र जीवार्थस्य प्रतिबिम्बको बोधः प्रादुर्भवति तथा बुद्धिपदार्थकाज्जीव इति बुद्ध्यत इत्यादेर्बुद्ध्यर्थस्य प्रतिबिम्बको, जीव इत्याहेति शब्दपदार्थकाच्छब्दस्य प्रतिबिम्बकः स्यात् । ततस्त्रयोऽर्थास्तिसृणां सञ्ज्ञानामवगम्यन्ते तत्प्रतिबिम्बकबोधानां त्रयाणामेव भावात् । तदनेनाचार्यो (भा० ) हेतुव्यभिचारशङ्का प्रत्यस्तमयति । अष्टसहस्त्रीतात्पर्यविवरणम् रसत्ख्यातित्वनिरासादित्यर्थः । प्रमाणत्वप्रतिपत्तिप्रसङ्गादिति भ्रान्त्यन्यज्ञानस्य प्रमात्वनियमादित्यर्थः ॥८४॥ कारिकायां बुद्ध्यादिबोधा बुद्ध्यादेर्विषयस्य सञ्ज्ञाजनिता बोधा, तत्प्रतिबिम्बकास्त्रिविधविषयाकाराः ॥८५॥ Page #202 -------------------------------------------------------------------------- ________________ ६०४ अष्टसहस्त्रीतात्पर्यविवरणम् बुद्ध्यादिसञ्ज्ञानां (भा०) तिसृणामपि स्वव्यतिरिक्तवस्तुसम्बन्धदर्शनात् तबुद्धीनां च तिसृणां (भा०) तन्निर्भासनात्तद्विषयतोपपत्तेः । सामान्यतो जीवशब्दस्य धर्मित्वात् स्वव्यतिरिक्तार्थस्य च सबाह्यार्थत्वस्य साध्यत्वाद् व्यभिचारविषयस्यासत्त्वादव्यभिचारी हेतुः ॥८५॥ ननु च विज्ञानवादिनं प्रति सज्ञात्वादित्यसिद्धो हेतुः, सञ्ज्ञाया विज्ञानव्यतिरेकेणासत्त्वात् । दृष्टान्तश्च साधनविकलो, हेतुशब्दस्य तदाभासवेदनादन्यस्याविद्यमानत्वात् । सञ्जाभासज्ञानस्य हेतुत्वे शब्दाभासस्वप्नज्ञानेन व्यभिचारी हेतुः, इति कश्चित् तं प्रत्यभिधीयते वक्तृश्रोतृप्रमातृणां बोधवाक्यप्रमाः पृथक् । भ्रान्तावेव प्रमाभ्रान्तौ बाह्यार्थी तादृशेतरौ ॥८६॥ [विज्ञानाद्वैतवादस्य निराकरणम् ।] वक्तुरभिधेयबोधाभावे कुतो वाक्यं प्रवर्तेत ? तस्याभिधेयबोधनिबन्धनत्वात् । वाक्याभावे च श्रोतुरभिधेयज्ञानासम्भवस्तस्य तन्निमित्तकत्वात् । प्रमातुः प्रमित्यभावे च शब्दार्थयोः प्रमेययोरव्यवस्थानादिष्टतत्त्वानुपपत्तेर्वक्त्रादित्रयस्य बोधादित्रयं पृथग्भूतमुपेयम् । तथा सति न हेतोरसिद्धतादिदोषो, दृष्टान्तस्य वा साध्यादिवैकल्यं प्रसज्यते । स्यान्मतम् (भा०) बहिरर्थाभावाद्वक्त्रादित्रयं न बुद्धेः पृथग्भूतं, वक्त्राद्याभासाया बुद्धेरेव वक्त्रादित्वव्यवहारात्, वाक्यस्यापि बोधव्यतिरेकेणासत्त्वात्, प्रमाया बोधात्मकत्वात् । (भा०) ततोऽसिद्धतादिदोषः साधनस्य । - अष्टसहस्त्रीतात्पर्यविवरणम् तदाऽऽभासवेदनादिति तदाकारज्ञानादित्यर्थः । वक्रिति वक्तरि वाक्यजनको यो Page #203 -------------------------------------------------------------------------- ________________ ६०५ द्वितीयो भागः [ परि० ७-का० ८७] हेतुदृष्टान्तलक्षणस्य (भा०) इति तन्न, रूपादेाहकस्य तद्व्यतिरिक्तविज्ञानसन्तानकलापस्य च स्वांशमात्रावलम्बिनः प्रमाणस्य विभ्रमकल्पनायां साकल्येनासिद्धेरन्तयाभ्युपगमविरोधात् । न हि रूपादेरभिधेयस्य ग्राहकस्य वक्तुः श्रोतुश्च विभ्रमकल्पनायां व्यतिरिक्तविज्ञानसन्तानकलापः स्वांशमात्रावलम्बी सिद्धयति परस्परमसञ्चारात. येनाभिधानाभिधेयज्ञानभेद: स्यात् । तस्यापि विभ्रमकल्पनायां न प्रमाणसिद्धिरभ्रान्तस्य ज्ञानस्य प्रमाणत्वव्यवस्थितेः । प्रमाणस्यापि विभ्रमकल्पनायां कथमन्त यमेव तत्त्वमित्यभ्युपगमो न विरुद्ध्यते ? प्रमाणमन्तरेण तदभ्युपगमे सर्वस्य स्वेष्टाभ्युपगमप्रसङ्गात् । प्रमाणभ्रान्तौ बाह्यार्थयोस्तादृशान्यादृशयोः प्रमेययोरन्त ययोरिष्टानिष्टयोविवेचनस्यापि भ्रान्तत्वप्रसङ्गात् । ( भा० ) तौ हि ग्राहकापेक्षया बाह्यार्थौ भ्रान्तावेव । ग्राहकप्रमाणभ्रान्तेः । इति ( भा०) कुतस्तत्र हेयोपादेयविवेकः । स्यादन्तर्जेयैकान्ते ? यतस्तदभ्युपगमो न विरुद्धो भवेत् ? । यदि पुनः प्रमाणमभ्रान्तमिष्यते तदा बाह्यार्थोऽभ्युपगन्तव्यः, तदभावे प्रमाणतदाभासव्यवस्थित्ययोगात् ॥८६॥ तथा हि बुद्धिशब्दप्रमाणत्वं बाह्यार्थे सति नासति । सत्यानृतव्यवस्थैवं युज्यतेऽर्थाप्त्यनाप्तिषु ॥८७॥ [विज्ञानाद्वैतवादिनं प्रति बाह्यपदार्थसिद्धिं कुर्वन्ति जैनाचार्याः ।] बुद्धेः स्वप्रतिपत्त्यर्थत्वाच्छब्दस्य परप्रतिपादनार्थत्वात् । - अष्टसहस्त्रीतात्पर्यविवरणम् - बोधः श्रोतरि च वक्तृवाक्यपाठजनितं यद्वाक्यं प्रमातरि च या तदुभयप्रमा ताः पृथगिति Page #204 -------------------------------------------------------------------------- ________________ ६०६ अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) स्वपरप्रतिपत्त्यर्थं साधनं बुद्धिशब्दात्मकं स्वसंवित्त्यैव परप्रतिपादनायोगात्, तस्याः पराप्रत्यक्षत्वात् । (भा० ) तस्य च सति बहिरर्थे प्रमाणत्वमर्थप्राप्तितः सिद्धयेत्, असति प्रमाणाभासत्वमर्थानाप्तितः । इति सत्यानृतव्यवस्था बुद्धिशब्दयोयुज्यते, स्वपरपक्षसाधनदूषणात्मनोस्तथा प्रतीतेः । (भा०) तदेवं परमार्थतः सम्बहिरर्थः, साधनदूषणप्रयोगात्, इत्येकलक्षणो हेतुः प्रवर्तते । न चात्रैकलक्षणमसिद्धं, सत्येव बहिरर्थे परमार्थतो हेतोरुपपत्तेस्तथोपपन्नत्वस्य प्रधानलक्षणस्य सद्भावात् । (भा० ) अन्यथा स्वप्नेतराविशेषात्कि केन साधितं दूषितं च ? इति कुतः सन्तानान्तरमन्यद्वा । स्वसन्तानक्षणक्षयवेद्याद्याकारशून्यत्वं साधयेत् ? बहिरर्थस्य वास्तवस्य ग्राह्यलक्षणस्याभावे हि साधनदूषणप्रयोगस्य हेतोः सम्भवे स्वप्नजाग्रदवस्थाभाविनो तत्प्रयोगयोविशेषासिद्धिः । ततः किञ्चिज्ज्ञप्तिमात्रं केन सहोपलम्भनियमादिनानुमानेन स्वार्थेन साधितं स्यात् ? परार्थेन वा वचनात्मना परं प्रति ? किं वा स्वसंविदद्वैतं स्वतः प्रत्यक्षत एव साधितं स्यात ? तत्साधनस्य स्वप्नवन्निविषयत्वात् । किं वा बहिरर्थजातं केन, जडस्य प्रतिभासायोगात् इत्यादिना स्वार्थेन परार्थेन वा दूषणेन दूषितं स्यात् ? इति सन्तानान्तरमपि न केनचित्साधनेन साधितं - अष्टसहस्त्रीतात्पर्यविवरणम् वीप्सापरत्वादवभासन्त इति क्रियाध्याहाराच्च पृथक्पृथगवभासन्त इत्यर्थः । प्रमाभ्रान्तौ= तासां प्रमाणां ज्ञानातिरिक्तविषयत्वेन भ्रान्तित्वे चाङ्गीक्रियमाणे, तादृशेतरौ=तथ्यातथ्यौ, बाह्यार्थौ भ्रान्तावेव स्याताम् । तथा च व्यवहारमात्रोच्छेद इति भावः । असञ्चाराद्= अविशेषेण स्वरूपसञ्चरणाभावात् ।।८६।। परशब्दकृत्यमाह-स्वसंवित्त्यैवेति तस्य चेति उक्तस्वरूपस्य साधनस्य चेत्यर्थः । एकलक्षणः= अन्यथानुपपत्त्येकलक्षणः, तेन परेष्टत्रिलक्षणपञ्चलक्षणादिनिरासः । Page #205 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि० ७-का० ८७] ६०७ स्यात् । तदनभ्युपगमे न केनचिद्रूषणेन दूषितं स्यात्, तथा स्वसन्तानक्षणक्षयादिकं च न केनचित् साधितं स्यात् । तदनभ्युपगमेऽपि न केनचिदूषितम् इति न क्वचिद् व्यवतिष्ठते । (भा०) तैमिरिकद्वयद्विचन्द्रदर्शनवद् भ्रान्तः सर्वो व्यवहार इत्यत्रापि तत्त्वज्ञानं शरणं, तत एव सर्वविभ्रमव्यवस्थितेः, इति व्याहतमेतत् तत्त्वज्ञानात् सर्वस्य भ्रान्तत्वसाधनम्, (भा०) अन्यथा बहिरर्थवदभिसंहितस्यापि । सर्वविभ्रमस्य, (भा०) निराकरणापत्तेः, भ्रान्तादेव ज्ञानात् तस्याप्यसिद्धेः । (भा०) तथा परमाण्वादिदूषणेऽपि प्रतिपत्तव्यं । तत्त्वज्ञानं शरणमतत्त्वज्ञानादभिसंहितस्यापि परमाण्वाद्यसत्त्वस्य निराकरणापत्तेः । (भा० ) अन्यथा तत्कृतमकृतं स्यादिति सर्वत्र योज्यं । सर्वस्य स्वेष्टस्य स्वयमनिष्टस्य च तत्त्वज्ञानादेव साधनदूषणोपपत्तेः । एतेन साधनदूषणप्रयोगादिति साधनमसिद्धमितीच्छन् प्रतिक्षिप्तस्तदसिद्धत्वस्य स्वयमिष्टस्य तत्सिद्धत्वस्य चानिष्टस्य साधनदूषणप्रयोगादेव व्यवस्थापनादन्यथा तदव्यवस्थितेयत्किञ्चनवादित्वप्रसङ्गात् ।। (भा०) तदिमे विज्ञानसन्तानाः सन्ति न सन्तीति तत्त्वाप्रतिपत्तेदृष्टापह्नुतिरनिबन्धनैव, दृश्येनात्मना कथञ्चित् स्कन्धाकारेण - – अष्टसहस्त्रीतात्पर्यविवरणम् व्याहतमेतदिति बाह्यग्राह्याभावेन भ्रान्तिभ्रान्तिज्ञसाङ्कर्यापत्तेरिति भावः । अदृश्या एव हीति Page #206 -------------------------------------------------------------------------- ________________ अष्टसहस्त्रीतात्पर्यविवरणम् ( भा० ) अदृश्यानामपि परमाणूनां बहिरपि समवस्थाने विप्रतिषेधाभावादन्तर्ज्ञेयवत् । ६०८ अदृश्या एव हि ज्ञानपरमाणवः संविन्मात्रादृश्यादवस्थाप्यन्ते नान्यथेति युक्तमुदाहरणं बहिः परमाणूनां व्यवस्थापने । ( भा० ) तत्र पूर्वादिदिग्भागभेदेन जडरूपाणां (भा० ) षडंशादिकल्पनया वृत्तिविकल्पेन वा परपक्षोपालम्भे स्वपक्षाक्षेपात्, तस्योपालम्भाभासत्वसिद्धेः । समानं हि दूषणं बहिः परमाणुषु संवित्परमाणुषु च । देशतः सम्बन्धे षडंशत्वं दिग्भागभेदात्, सर्वात्मना प्रचयस्यैकपरमाणुमात्रत्वम् । प्रचयस्य परमाणुभ्यो भेदे प्रत्येकं परिसमाप्त्यैकदशेन वा वृत्तौ प्रचयबहुत्वं सांशत्वापादनमनवस्था च । न च परमाणुभिः संसृष्टैर्व्यवहितैर्वा प्रचयस्योपकारे संसर्गासम्भवो व्यवधानेन व्यवधीयमानाभ्यां व्यवधायकस्य सजातीयस्य, विजातीयस्य वा व्यवधाने प्रकृतपर्यनुयोगोऽनवस्थाप्रसञ्जनं चेति स्वपक्षघातिः स्यात् सूक्ष्मस्थूलात्मनि बहिर्जात्यन्तरे तस्यानवकाशाच्च हर्षविषादाद्यनेकाकारात्मवत् । तत्रापि विरोधो दूषणमिति चेत्, सर्वथा कथञ्चिद्वा ? न तावदाद्यः अष्टसहस्त्रीतात्पर्यविवरणम् सन्तानान्तरवर्त्तिनो भवान्तरवर्त्तिनश्चेत्यर्थः । पूर्वादीति पूर्वादिदिशां भिन्नभिन्नावच्छेदेनैव परमाणौ संयोगसम्भवादित्यर्थः । वृत्तिविकल्पेन वेति परमाणौ स्कन्धः कार्त्स्न्येन वर्त्तेत तदेकदेशेन वा, आद्ये परमाणुमात्रः स्कन्धः स्यात्, अन्त्ये च परमाणोः सांशत्वापत्तिरिति सम्बन्धविकल्पेनेत्यर्थः । तस्योपालम्भा सत्वसिद्धेरिति यत्रोभयोः समो दोष इत्याद्युक्ते - रिति भावः । स्वपक्षाक्षेपमेव विवृणोति समानं हि दूषणमित्यादिना । संसर्गासम्भव इति वृत्तिविकल्पग्रासादित्यर्थः । प्रकृतपर्यनुयोग इति क्षणभङ्गुरव्यवधीयमानसम्बन्धः कथमिति प्रश्नस्तदवस्थः स्यादित्यर्थः । अनवस्थाप्रसञ्जनं चेति व्यवहितपरमाणूनामवस्थानाभावादित्यर्थः । तस्य-परोक्तोपालम्भस्य, तत्रापि = अन्तर्बहिर्वा जात्यन्तरेऽपि । वेद्यवेदका - १. उपालम्भाभासत्त्व इति अष्टसहस्रीसम्मतः पाठः । Page #207 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि०७-का० ८७] ६०९ पक्षः, सर्वथा क्वचिद्विरोधासिद्धेः शीतोष्णस्पर्शयोरपि सत्त्वाद्यात्मनाऽविरोधात्, स्वेष्टेऽपि तत्त्वे (भा०) कथञ्चिद्विरोधपरिहारस्य पुनरायासतामप्यशक्तेर्न द्वितीयः पक्षः सम्भवति । (भा०) तत्साक्षात्परंपरया वा, विमत्यधिकरणभावापन्नं ज्ञानं, स्वरूपव्यतिरिक्तार्थालम्बनं, ग्राह्यग्राहकाकारत्वात् सन्तानान्तरसिद्धिवत् । विप्लवज्ञानग्राह्यग्राहकाकारत्वेन व्यभिचार इति चेत्, न, सन्तानान्तरसाधनस्यापि व्यभिचारप्रसङ्गात् । (भा० ) न हि व्यापारव्याहारनिर्भासोऽपि विप्लुतो नास्ति येनाव्यभिचारी हेतुः स्यात् । [ज्ञाने ग्राह्यग्राहकाकारत्वं वासनाभेदादेव, न तु बहिरर्थसद्भावादित्युक्ते आहुराचार्याः ।] (भा० ) तदन्यत्रापि वासनाभेदो गम्येत, न सन्तानान्तरम् । यथैव हि जाग्रदशायां बहिरर्थवासनाया दृढतमत्वात्तदाकारस्य ज्ञानस्य सत्यत्वाभिमानः, स्वप्नादिदशायां तु तद्वासनाया दृढत्वाभावात् तद्वेदनस्यासत्यत्वाभिमानो लोकस्य न परमार्थतो बहिरर्थः सिद्ध्यतीति वासनाभेदोऽभ्युपगम्यते, तथानुपप्लवदशायां सन्तानान्तरज्ञानस्य वासनाया दृढतमत्वात्सत्यताभिमानोऽन्यत्र तददाढादसत्यताव्यवहार इति वासनाभेदो गम्यतां, न तु सन्तानान्तरम् । तदनभ्युपगमे स्वसन्तानक्षणक्षयादिसिद्धिः कथमभ्युपगम्यते ? ततः सुदूरमपि गत्वा किञ्चिद्वेदनं स्वेष्टतत्त्वावलम्बनमेषितव्यम् । तदेव वेद्यवेदकाकारं बहिरर्थवेदनस्य स्वरूपव्यतिरिक्तालम्बनत्वं साधयति । ततो बहिरर्थस्य सिद्धेः सिद्धं वक्त्रादित्रयं, तस्य च बोधादित्रयम् इति न जीवशब्दस्य सबाह्यार्थत्वसाधने सञ्ज्ञात्वस्य साधनस्यासिद्धतानैकान्तिकता वा, दृष्टान्तस्य वा साधनधर्मादिवैधुर्य, यतो न जीवसिद्धिः स्यात् । तत्सिद्धौ च तस्यार्थं अष्टसहस्रीतात्पर्यविवरणम् - कारमिति वेद्यवेदकाकारवत्त्वं साधनमित्यर्थः । स्यात् सर्वमभ्रान्तमेव ज्ञानमित्यत्र Page #208 -------------------------------------------------------------------------- ________________ ६१० अष्टसहस्त्रीतात्पर्यविवरणम् परिच्छिद्य प्रवर्तमानस्य संवादविसंवादसिद्धिः सिद्धयत्येव । स्यात् सर्वमभ्रान्तमेव ज्ञानं भावप्रमेये संवादापेक्षणात् । स्याद् भ्रान्तं बहिरर्थे विसंवादापेक्षणात् । स्यादुभयं क्रमार्पिततद्वयात् । स्यादवक्तव्यं सहार्पिततद्वयात् । स्यादुभयाव्यक्तव्यमेव क्रमाक्रमार्पिततद्वयात् । इति पूर्ववत् सप्तभङ्गीप्रक्रिया योजयितव्या, तथैवातिदेशसामर्थ्यात् तद्विचारस्य सिद्धेः, प्रमाणनयादेशादपि प्रतिपत्तव्या । ज्ञानैकान्तादिपक्षे गगनफलमिव ज्ञापकोपायत्त्वं, सम्भाव्यं नैव मानात् कथमपि निपुणं भावयद्भिर्महद्भिः । स्याद्वादे तत्प्रसिद्धं विविधनयबलात्तत्त्वतः शुद्धबुद्धे रित्याज्ञातं प्रपञ्चाद्विचरतु सुचिरं स्वामिनः सद्वचःसु ॥१॥ [स्रग्धरा] । इत्याप्तमीमांसालङ्कृतौ सप्तमः परिच्छेदः । अष्टसहस्त्रीतात्पर्यविवरणम् सर्वपदमहिम्ना ज्ञानत्वावच्छेदेनाभ्रान्तत्वसाधनात् न अंशतः सिद्धसाधनादिदोषः, द्वितीयभन्ने सर्वपदानुपादानात् ज्ञानत्वसामानाधिकरण्येन भ्रान्तत्वस्य विधेयत्वात् न अंशतो बाधः, प्रयोजनं तु प्राभाकरमतभङ्गः । एवमग्रेतना अपि भङ्गाः स्वपरसमयाविरोधेन भावनीयाः ॥८७॥ अन्तर्बहिर्विषयताघटितप्रमात्वभ्रान्तत्वकोटिकृतविप्रतिपत्तिभेदी । स श्रेयसी प्रणयितां प्रथयन् मुनीनां, रत्नत्रयस्य जयताज्जिनवाक्यराशिः ॥१॥ [वसंततिलका] इति श्रीमदकब्बरसुरत्राणप्रदत्तजगद्गुरुबिरुदधारकभट्टारकश्रीहीरविजयसूरीश्वरशिष्य मुख्यमहोपाध्यायश्रीकल्याणविजयगणिशिष्यावतंसपण्डितश्रीलाभविजयगणि शिष्याग्रेसरपण्डितश्रीजितविजयगणिसतीर्थ्यालङ्कार पण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकेण पण्डितश्रीपद्मविजयगणिसहोदरेण महोपाध्यायश्रीयशोविजयगणिना विरचितेऽष्टसहस्त्रीतात्पर्यविवरणे ॥ सप्तमः परिच्छेदः ॥ Page #209 -------------------------------------------------------------------------- ________________ ॥ अष्टमः परिच्छेदः ॥ दैवादेवार्थसिद्धिश्चेदैवं पौरुषतः कथम् । दैवतश्चेदनिर्मोक्षः पौरुषं निष्फलं भवेत् ॥८८॥ ज्ञापकमुपायतत्त्वं समन्तभद्राकलङ्कनिर्णीतम् । सकलैकान्तासम्भवमष्टसहस्त्री निवेदयति ॥१॥ कारकलक्षणमुपायतत्त्वमिदानीं परीक्ष्यते । तद्धि केचिदैवमेव दृष्टादृष्टकार्यस्य साधनमित्याचक्षते, पौरुषमेवेत्यपरे, किञ्चिदैवादेव किञ्चित्पौरुषादेवेत्यन्ये, तदुभयसाधनत्वेनावक्तव्यमेवेति चेतरे । [भाग्येनैव सर्वाणि कार्याणि सिद्ध्यन्ति इति एकान्तमान्यतायाः परिहारः ।] तत्र दैवादेव यदि सर्वस्यार्थस्य सिद्धिरुच्यते तदा दैवमपि कथं पुरुषव्यापारात् कुशलाकुशलसमाचरणलक्षणादुपपद्येत ? प्रतिज्ञाहानेः । दैवान्तरादेव दैवं, न पौरुषादित्यभ्युपगमेऽनिर्मोक्षो मोक्षाभावः, पूर्वपूर्वदैवादुत्तरोत्तरदैवप्रवृत्तेरनुपरमात्, ततः पौरुषं निष्फलं भवेत् । पौरुषादैवस्य परिक्षयान्मोक्षप्रसिद्धेर्न तन्निष्फलमिति चेत्, सैव प्रतिज्ञाहानिः । मोक्षकारणपौरुषस्यापि दैवकृतत्वात् परंपरया मोक्षस्यापि दैवकृतत्वोपपत्तेर्न प्रतिज्ञाहानिरिति चेत्, तर्हि पौरुषादेव तादृशं दैवमिति न दैवैकान्तः । एतेन धर्मादेवाभ्युदयनिःश्रेयससिद्धिरित्येकान्त: प्रतिक्षिप्तो, महेश्वरसिसृक्षानर्थक्यप्रसङ्गाच्च । कुतस्तर्हि समीहितार्थसिद्धिरित्युच्यते । ___ (भा०) योग्यता कर्म पूर्वं वा दैवमुभयमदृष्टं, पौरुषं पुनरिहचेष्टितं दृष्टम् । ताभ्यामर्थसिद्धिः, तदन्यतरापायेऽघटनात् पौरुषमात्रेऽर्थादर्शनाद्, Page #210 -------------------------------------------------------------------------- ________________ ६१२ दैवमात्रे वा समीहानर्थक्यप्रसङ्गात् । स्वयमप्रयतमानस्य सर्वमिष्टानिष्टमदृष्टमात्रादेव, प्रयतमानस्य तु प्रयत्नाख्यात् पौरुषाद् दृष्टादिति वदन्नपि न प्रेक्षावान्, कृष्यादिषु समं प्रयतमानानां कस्यचिदेवार्थप्राप्त्यनर्थोपरमदर्शनादपरस्यानर्थप्राप्त्यर्थोपरमप्रतीतेः, धर्माधर्मयोरपि तन्निमित्तत्वसिद्धेः । स्वयमप्रयतमानानामर्थप्राप्त्यनर्थोपरमयोरनर्थप्राप्त्यर्थोपरमयोश्च सद्भावेऽपि प्रयत्नाभावेऽनुपभोग्यत्वप्रसङ्गात् पौरुषस्यापि तदनुभवकारणत्वनिश्चयात् सर्वत्र दृष्टादृष्टयोर्निमित्तत्वसिद्धिस्तयोरन्यतरस्याप्यपाये तस्यानुपपद्यमानत्वात्, मोक्षस्यापि परमपुण्यातिशयचारित्रविशेषात्मकपौरुषाभ्यामेव सम्भवात् । ततो न पाक्षिकोऽपि दैवैकान्तः श्रेयान् ॥८८ पौरुषादेव सिद्धिश्चेत् पौरुषं दैवतः कथम् ? । पौरुषाच्चेदमोघं स्यात्, सर्वप्राणिषु पौरुषम् ॥८९॥ अष्टसहस्त्रीतात्पर्यविवरणम् [पुरुषार्थादेव यदि कार्यसिद्धिः स्यात्तर्हि स सर्वप्राणिषु वर्तते एव सर्वेषां कार्यसिद्धिः कथं न भवति ?] पौरुषादेवार्थस्य सिद्धिरिति वदतोऽपि कथं पौरुषं दैवतः स्यात् ? प्रतिज्ञाहानिप्रसङ्गात् । ( भा० ) तद्धि पौरुषं विना दैवसंपदा न स्यात् । तादृशी जायते बुद्धिर्व्यवसायश्च तादृशः । सहायास्तादृशाः सन्ति यादृशी भवितव्यता ॥ [ इति प्रसिद्धेः तत्सर्वं बुद्धिव्यवसायादिकं पौरुषं । ( भा० ) पौरुषापादितमिति चेत्, तर्ह्यमोघमेव सर्वप्राणिषु पौरुषं भवेत् । तथैवेति चेत्, (भा० ) तद्व्यभिचारदर्शिनो न वै श्रद्दधीरन् । ] स्यान्मतमेतत्—पौरुषं द्विविधं सम्यग्ज्ञानपूर्वकं मिथ्याज्ञानपूर्वकं च । तत्र मिथ्याज्ञानपूर्वकस्य पौरुषस्य व्यभिचारदर्शनेऽपि सम्यगवबोधनिबन्धनस्य न व्यभिचार:, ततः सफलमेव पौरुषमिति, तदसत् दृष्टकारणसामग्रीसम्यगव Page #211 -------------------------------------------------------------------------- ________________ ६१३ द्वितीयो भागः [परि०८-का. ९०-९१] बोधनिबन्धनस्यापि पौरुषस्य व्यभिचारदर्शनात् कस्यचिदुपेयाप्राप्तेरदृष्टकारणकलापसम्यगवबोधस्य तु साक्षादसकलविदामसम्भवात् तन्निबन्धनपौरुषाभावात् । प्रमाणान्तरात्तदवबोधस्य सम्भवेऽपि किमसावदृश्यः कारणकलापः कारणशक्तिविशेषः, पुण्यपापविशेषो वा ? प्रथमपक्षे तत्सम्यगवगमनिमित्तकस्यापि पौरुषस्य व्यभिचारदर्शनान्नामोघत्वसिद्धिः । द्वितीयपक्षे तु दैवसहायादेव पौरुषात् फलसिद्धिः, दैवसदवगमनिबन्धनादेव पौरुषादुपेयप्राप्तिव्यवस्थितेः । तदपरिज्ञानपूर्वकादपि कदाचित्फलोपलब्धेश्च न सम्यगवबोधनिबन्धनः पौरुषैकान्तः इत्यसौ परित्याज्य एव दैवैकान्तवत् ॥८९॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥१०॥ (भा०) दैवेतरयोः सहैकान्ताभ्युपगमे व्याघातादवाच्यतायां च स्ववचनविरोधात् स्याद्वादनीतिः श्रेयसी तद्विषां प्रमाणविरुद्धाभिधायित्वात् ॥९०।। कीदृशी स्याद्वादनीतिरत्रेत्याहु: अबुद्धिपूर्वापेक्षायामिष्टानिष्टं स्वदैवतः । बुद्धिपूर्वव्यपेक्षायामिष्टानिष्टं स्वपौरुषात् ॥११॥ - अष्टसहस्त्रीतात्पर्यविवरणम् आरुह्येन्द्रं रथं द्राग् धृतशरधनुषा मातलिख्याततत्तद्वीर्योत्कर्षेण कष्टं प्रतिहरिकटके नेमिना नीयमाने । श्रस्तेऽपि हस्तन्यस्ते धनुषि घनजराजर्जरे कृष्णसैन्ये, यद्गात्रस्नात्रनीरादजनि शुभमसौ पातु शङ्केश्वरो माम् ॥१॥ [ स्रग्धरा] अष्टमे 'दैवपुरुषकारैकान्तनिरासः । स च ग्रन्थः सुगमप्रायः, इदं तु चिन्त्यम्अबुद्धिपूर्वापेक्षायामित्यादिव्यवस्थापनेऽपि पाक्षिकदैवपुरुषकारैकान्तप्रसङ्गादनेकान्तव्याप्तिभङ्गः, बुद्धिपूर्वके कृष्यादौ दैवजन्यत्वस्याबुद्धिपूर्वके वाऽभ्रविकारादौ यत्नजन्यत्वस्य व्यभिचारात् । (शङ्का) पूर्वं गौणप्रधानभावेन सर्वत्रोभयजन्यत्वं साधयित्वा पश्चादयमेक Page #212 -------------------------------------------------------------------------- ________________ ६१४ अष्टसहस्त्रीतात्पर्यविवरणम् [भाग्यपुरुषार्थयोरनेकान्तं साधयन्ति जैनाचार्याः ।] (भा० ) ततोऽतर्कितोपस्थितमनुकूलं प्रतिकूलं वा दैवकृतं, बुद्धिपूर्वापेक्षापायात् तत्र पुरुषकारस्याप्रधानत्वात् दैवस्य प्राधान्यात् । (भा०) तद्विपरीतं पौरुषापादितं, बुद्धिपूर्वव्यपेक्षानपायात्, तत्र दैवस्य गुणभावात् पौरुषस्य प्रधानभावात्, न पुनरन्यतरस्याभावात् । अष्टसहस्त्रीतात्पर्यविवरणम् तरहेतुप्राधान्यापेक्षया पाक्षिको विभाग इति चेत्, तर्हि स्यात् सर्वं दैवकृतमित्यादौ सर्वपदोपादानानुपपत्तिः । (शङ्का) सामान्यहेतुत्वापेक्षया ते भङ्गा इति चेत्, तहि तेषु बुद्धिपूर्वापेक्षादिहेत्वभिधानानुपपत्तिः, अव्यापकत्वात्, सर्वत्र यथा कथञ्चिद् दैवपुरुषकारोभयकतत्वस्य प्रामाणिकत्वे च घटे दण्डचक्रोभयजन्यत्ववदेक एव भङ्गः स्यात्, युगपदुभयजन्यत्वादेरेकवाक्यतया वक्तुं शक्यत्वात्, न्यूनाधिकव्यापारवत्त्वस्यापि साधारण्येनोभयत्राविशेषात्, विविक्तस्य च तस्य पाक्षिकभङ्गसाक्षित्वात् । तस्मात् पुव्वकयं कम्मं चिय, चित्तविवागमिह भन्नइ दिव्वं । कालाइएहि तप्पायणं तु तह पुरिसगारु त्ति ॥ इति [ श्रीहरिभद्रचार्योक्तरीत्या कालादिकृतकर्मविपाकपरिणामरूपस्य पुरुषकारस्य तत्त्वतो दैवव्यापारत्वसिद्धेापारेण व्यापारिणोऽन्यथासिद्धत्वानन्यथासिद्धत्वयोर्व्यवहारनिश्चयाधीनत्वात्तद्विवक्षाकृताः स्यात् सर्वं दैवकृतमित्यादयः सप्तभङ्गा द्रष्टव्याः । मोक्षे ज्ञानजन्यत्वक्रियाजन्यत्वसप्तभङ्गीकरणेऽस्या एवोपायत्वात् । अत एव परमार्थतः सर्वत्र नियतानियतेऽपि वस्तुन्याजीविकसमयप्रसिद्धं नियतिजन्यत्वमुपमृद्य पुरुषकारजन्यत्वं भगवद्वचोऽनुसारिभिर्व्यवस्थाप्यते, मतान्तरहेतोर्नयस्य नयान्तरेण खण्डनस्यापि शास्त्रार्थत्वात्, नियतानियतसप्तभङ्गीप्रवृत्तौ तु नियतिजन्यताग्राहकोऽपि नय आश्रीयते एव, दाहकोऽपि वह्निरिव पाकादाविति तत्र तत्र व्यवस्थितम् । अथवा दैवशब्देन कालादिचतुष्टयं गृह्यते, पौरुषशब्देन चात्मप्रयत्नः, तत्कृतत्वं च तदव्यवहितोत्तरक्षणोत्पत्तिकत्वं तच्छब्दार्थश्च १. छाया - पूर्वकृतं कर्म चैव चित्रविपाकमिह भण्यते दैवम् । कालादिभिः तत्प्रायणं तु तथा पुरुषकार इति ।। Page #213 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि०८-का. ९०-९१] ६१५ (भा०) अपेक्षाकृतत्वात्तद्व्यवस्थायाः । तथापेक्षानपाये परस्परं सहायत्वेनैव दैवपौरुषाभ्यामर्थसिद्धिः इति स्यात्सर्वं दैवकृतमबुद्धिपूर्वापेक्षातः । स्यात् पौरुषकृतं बुद्धिपूर्वापेक्षातः । स्यादुभयकृतं क्रमापिततद्वयात् । स्यादवक्तव्यं सहार्पिततद्वयात् । स्यादैवकृतावक्तव्यमबुद्धिपूर्वापेक्षया सहार्पिततद्वयात् । स्यात्पौरुषकृतावक्तव्यं बुद्धिपूर्वापेक्षया सहार्पिततद्वयात् । स्यात्तदुभयावक्तव्यमेव क्रमेतरार्पिततद्वयात् । इति सप्तभङ्गीप्रक्रिया पूर्ववत् । दैवैकान्तादिपांशुप्रसरनिरसनोद्भूतसामर्थ्यवृत्तिः, सन्मार्गव्यापिनीयं पवनततिरिवाज्ञानखेदं हरन्ती । बन्धं प्रध्वंसमद्धा सकलमपि बलादानयन्ती नितान्तं, नीतिः स्याद्वादिनीद्धा दृगवगमभृतां निर्वृतिं वः प्रदेयात् ॥१॥ [स्रग्धरा] । इत्याप्तमीमांसालङ्कृतावष्टमः परिच्छेदः । अष्टसहस्रीतात्पर्यविवरणम् सामग्रीप्रविष्टो वाच्य इति, तत्त्वाविनिर्गमात् स्यादैवकृतं सर्वमित्यादिसप्तभङ्गीप्रवृत्तिरविरुद्धा, ईदृशविवक्षामहिम्ना स्याद्दण्डजन्यो घट: स्याच्चक्रजन्य इत्यादि सप्तभङ्गीप्रवृत्तेरपि सम्भवादेकस्वभावेनोभयजन्यत्वविवक्षायामवक्तव्यत्वतद्घटितभङ्गानामपि सावकाशत्वादिति युक्तमुत्पश्यामः । यच्च नियतिद्वात्रिंशिकायां ज्ञानमव्यभिचारं चेज्जिनानां मा श्रमं कृथाः । अथ तत्राप्यनेकान्तो, जिता: स्मः किन्नु को भवान् ॥१॥ इति [श्लो० १६] भगवद्ज्ज्ञानरूपनियत्येकान्तदृढीकरणम्, तद्ज्ज्ञानज्ञेयपरिणामयोः समनियमप्रतिपादके 'जं जहा भगवया दिळू, तं तं तहा विपरिणमड़ इति पारमर्षवाक्ये कार्यकारणभावग्राहकत्वाध्यारोपेण नयवचने आहार्यारोपस्यापि निमित्तत्वादित्याधुपदेशामृततरङ्गिण्यां प्रपञ्चितमस्माभिः ॥९१॥ दैवं बलीय इति केचन पौरुषं च, केचिद् वदन्ति न तु तुल्यवदाद्रियन्ते । तत्पक्षपातविषमाचलपक्षपातवज्राभिघातसमतामियमेति युक्तिः ॥१॥ [वसन्ततिलका] १. यद् यद् यथा भगवता दृष्टं, तत् तत्तथा विपरिणमति । Page #214 -------------------------------------------------------------------------- ________________ ६१६ अष्टसहस्त्रीतात्पर्यविवरणम् अष्टसहस्रीतात्पर्यविवरणम् इति श्रीमदकब्बरसुरत्राणप्रदत्तजगद्गुरुबिरुदधारकभट्टारकश्रीहीरविजयसूरीश्वरशिष्य मुख्यमहोपाध्यायश्रीकल्याणविजयगणिशिष्यावतंसपण्डितश्रीलाभविजयगणि शिष्याग्रेसरपण्डितश्रीजितविजयगणिसतीर्थ्यालङ्कार पण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकेण पण्डितश्रीपद्मविजयगणिसहोदरेण महोपाध्यायश्रीयशोविजयगणिना विरचितेऽष्टसहस्त्रीतात्पर्यविवरणे ॥ अष्टमः परिच्छेदः ॥ Page #215 -------------------------------------------------------------------------- ________________ ॥ नवमः परिच्छेदः ॥ पापं ध्रुवं परे दुःखात् पुण्यं च सुखतो यदि । अचेतनाकषायौ च बध्येयातां निमित्ततः ॥९२॥ सम्यगवबोधपूर्वं पौरुषमपसारिताखिलानर्थम् । दैवोपेतमभीष्टं सर्वं संपादयत्याशु ॥१॥ [यदि एकान्तेन परस्मिन् दुःखोत्पादने पापं सुखोत्पादने पुण्यं भवेत्तर्हि के के दोषा भविष्यन्तीति दर्शयन्ति आचार्याः ।] द्विविधं हि दैवं पुण्यं पापं च प्राणिनामिष्टानिष्टसाधनमुक्तं, सद्वेद्यशुभा - युर्नामगोत्राणि पुण्यम्, इतरत् पापम् इति वचनात् [ तत्त्वा० ८.२५-२६] तदास्रवनिमित्तविप्रतिपत्तिविपत्त्यर्थमिदमुक्तम् । तत्र परसन्ताने दुःखहेतुः पुरुषः पापमात्मन्यास्रवयति सुखहेतुः पुण्यमिति । ( भा० ) परत्र सुखदुःखोत्पादनात् पुण्यपापबन्धैकान्ते कथमचेतनाः क्षीरादयः । अष्टसहस्त्रीतात्पर्यविवरणम् मत्तव्यालकरालकालफणिराडुत्फालसिंहार्णवज्वालाजालजटालपावकरणप्रौढव्यथाबन्धजाः । यान्त्यष्टापि भियः क्षयं भवभृतां यन्नाममन्त्रस्मृते स्तं श्रीमत्फलवद्धिमण्डनमहं ध्यायामि पार्श्वप्रभुम् ॥१॥ [ शार्दूल० ] नवमे दैवभेदपुण्यपापाश्रवविचारः । पापं ध्रुवमिति, निमित्तत इति परगतसुखदुःखनिमित्तभावादित्यर्थः ॥९२॥ परे = स्वभिन्नात्मनि, Page #216 -------------------------------------------------------------------------- ________________ ६१८ अष्टसहस्त्रीतात्पर्यविवरणम् कण्टकादयो वा (भा०) न बध्येरन् ?, परस्मिन् सुखदुःखयोरुत्पादनात् । चेतना एव बन्धार्हा इति चेत्, तर्हि (भा०) वीतरागाः कथं न बध्येरन् ? (भा०) तन्निमित्तत्वाद् बन्धस्य । तेषामभिसन्धेरभावान्न बन्ध इति चेत्, तहि न परत्र सुखदुःखोत्पादनं पुण्यपापबन्धहेतुरित्येकान्तः सम्भवति ॥९२।। पुण्यं ध्रुवं स्वतो दुःखात्यापं च सुखतो यदि । वीतरागो मुनिर्विद्वांस्ताभ्यां युज्यान्निमित्ततः ॥१३॥ [यदि एकान्तेन स्वस्मिन् दुःखोत्पादने पुण्यं सुखोत्पादने पापं भवेत्तर्हि के के दोषाः सन्तीति कथयन्ति आचार्याः ।] स्वस्मिन् दुःखोत्पादनात् पुण्यं सुखोत्पादनात् पापमिति यदीष्यते तदा वीतरागो विद्वांश्च मुनिस्ताभ्यां पुण्यपापाभ्यामात्मानं युज्यान्निमित्तसद्भावात्, वीतरागस्य कायक्लेशादिरूपदुःखोत्पत्तेविदुषस्तत्त्वज्ञानसन्तोषलक्षणसुखोत्पत्तेस्तन्निमित्तत्वात् । स्यान्मतं- 'स्वस्मिन् दुःखस्य सुखस्य चोत्पत्तावपि वीतरागस्य तत्त्वज्ञानवतस्तदभिसन्धेरभावान्न पुण्यपापाभ्यां योगस्तस्य तदभिसन्धिनिबन्धनत्वात्' इति तर्हानेकान्तसिद्धिरेवायाता । अष्टसहस्रीतात्पर्यविवरणम् - तदभिसन्धिनिबन्धनत्वादिति वक्ष्यमाणाविशुद्धिसङ्क्लेशरूपपुण्यपापाशयकारणकत्वादित्यर्थः । तेन तत्त्वज्ञानिनो जीवन्मुक्तस्य विहितनिषिद्धाचरणेऽपि मिथ्याज्ञानवासनाभावान्नादृष्टमिति नैयायिकादिमतं अपास्तम् रागद्वेषाभावादेव तस्य बन्धासिद्धेः, अन्यथा तत्त्वज्ञानस्यापि विहितत्वेन विनश्यदवस्थमिथ्याज्ञानवासनासहकृततज्जन्यशुभादृष्टस्यान Page #217 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि. ९-का. ९४-९५] ६१९ __ (भा०) आत्मसुखदुःखाभ्यां पापेतरैकान्तकृतान्ते पुनरकषायस्यापि ध्रुवमेव बन्धः स्यात् । ततो न कश्चिन्मोक्तुमर्हति, तदुभयाभावासम्भवात् । न हि पुण्यपापोभयबन्धाभावासम्भवे मुक्तिर्नाम, संसृतेरभावप्रसङ्गात् । ततो नैतावेकान्तौ सम्भाव्येते दृष्टेष्टविरुद्धत्वात् सदायेकान्तवत् ॥९३।। विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्ति वाच्यमिति युज्यते ॥१४॥ (भा०) प्रस्तुतैकान्तद्वयसिद्धान्ते व्याहतेरनभिधेयतायामनभिधेयाभिधानविरोधात् कथञ्चिदेवेति युक्तम् । न हि स्वस्मिन्नन्यस्मिन्वा सुखात् दुःखाच्च पुण्यमेव पापमेव वा तदुभयमेव चेति वदतामव्याहतिः सम्भवति, नापि तथाऽवाच्यतैकान्तेऽवाच्यमित्यभिधानमविरुद्धं, यतः स्याद्वादो न युक्तः स्यात् ॥९४॥ कथं स्याद्वादे पुण्यपापास्रवः स्यादित्याहुःविशुद्धिसङ्क्लेशाङ्गं चेत् स्वपरस्थं सुखासुखम् । पुण्यपापास्त्रवो युक्तो न चेद् व्यर्थस्तवार्हतः ॥१५॥ [विशुद्धिसङ्क्लेशपरिणामौ एव पुण्यपापबन्धयोर्हेतू भवतः ।] (भा०) आत्मनः परस्य वा सुखदुःखयोर्विशुद्धिसङ्क्लेशाङ्गयोरेव पुण्यपापास्रवहेतुत्वं, न चान्यथातिप्रसङ्गात् । - अष्टसहस्त्रीतात्पर्यविवरणम् न्तत्वादनिर्मोक्षापत्तेः, निषिद्धाचरणस्य च तस्यानुचितप्रवृत्तिजनकमोहाभावेनैव दूरापास्तत्वात् । एतेन ईश्वरार्पणबुद्ध्या फलानुद्देशेन प्रतिपदोक्तफलत्यागेन विविदिषार्थतया वा कृतात्कर्मणोऽदृष्टानुत्पत्तिरिति वेदान्तिमतमपि अपास्तम्, ईदृशब्रह्महत्यादेरपि पापानुत्पत्त्यापत्तेः, श्येनादिनाऽतिप्रसङ्गेन वेदोक्तत्वस्याप्यविनिगम्यत्वादिति दिग् ॥९३।। विशुद्धिसङ्क्लेशाङ्गं चेदिति अत्राङ्गशब्दार्थं त्रिधा व्याचष्टे-विशुद्धिकारण Page #218 -------------------------------------------------------------------------- ________________ ६२० अष्टसहस्त्रीतात्पर्यविवरणम् विशुद्धिकारणस्य विशुद्धिकार्यस्य विशुद्धिस्वभावस्य वा विशुद्ध्यङ्गस्य सङ्क्लेशकारणस्य सङ्क्लेशकार्यस्य सङ्क्लेशस्वभावस्य वा सङ्क्लेशाङ्गस्य च, सुखस्य दुःखस्य वा तदुभयस्य वा स्वपरोभयस्थस्य पुण्यात्रवहेतुत्वं पापास्रवहेतुत्वं च यथाक्रमं प्रतिपत्तव्यम् । न चान्यथा, यथोदितप्रकारेणातिप्रसङ्गस्येष्टविपरीतेऽपि पुण्यपापबन्धप्रसङ्गस्य दुर्निवारत्वात् । [विशुद्धिसङ्क्लेशयोः किं लक्षणं ? इति प्रश्ने स्पष्टीकुर्वन्ति जैनाचार्याः ।] कः पुनः सङ्क्लेशः ? का वा विशुद्धिः इति चेत् उच्यते (भा०) आर्तरौद्रध्यानपरिणामः सङ्क्लेशसतदभावो विशुद्धिरात्मनः स्वात्मन्यवस्थानम् । तत्रार्तध्यानं चतुर्विधं, आर्तममनोज्ञस्य संप्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः । विपरीतं मनोज्ञस्य । वेदनायाश्च । निदानं च इति सूत्रचतुष्टयेन तथा प्रतिपादनात् [तत्त्वा० ९.३०-३३] । रौद्रध्यानं चतुर्विधं, हिंसादिनिमित्तभेदात् हिंसानृतास्तेयविषयसंरक्षणेभ्यो रौद्रम्' इत्यत्र सूत्रे प्रकाशनात् [तत्त्वा० ९.३५] । मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः [तत्त्वा० ८.१] त एव सङ्क्लेशपरिणामा इति न विरुद्धयेते - अष्टसहस्रीतात्पर्यविवरणम् स्येत्यादिना विशुद्धिस्वभावत्वमकारणाकार्यत्वे सति तन्नियतत्वम्, एवं सङ्क्लेशस्वभावत्वमपि व्याख्येयम् । अत्र निश्चयतो विशुद्धिसंक्लेशयोरेव पुण्यपापहेतुत्वं, व्यवहारतस्तु तदुत्कर्षकत्वेन तद्द्वारा तदङ्गनानाविधबाह्यहेतूनामिति नयविभागो द्रष्टव्यः, तथा च पारमर्षम् अणुमित्तो वि ण कस्सइ, बंधो परवत्थुपच्चया भणिओ । तह वि खलु जयंति जई, परिणामविसोहिमिच्छंता ॥ इत्यादि । [ओघनियुक्तिः ८५७] ननु आगमे मिथ्यादर्शनादीनां बन्धहेतुत्वमुक्तम्, अत्र तु सङ्क्लेशाङ्गस्येति कथं न विरोध इति चेत्, न, आगमे उपादानहेतूनामेव परिसङ्ख्यानादत्र च तेषामन्येषां च सङ्क्लेशाङ्गपदोपादानेनैव सङ्ग्रहादविरोधादित्याशयवानाह-मिथ्यादर्शनाविरतीत्यादि । १. छाया - अणुमात्रोऽपि न कस्यचिद् बन्धः परवस्तुप्रत्ययाद् भणितः । तथापि खलु यतन्ते यतयः, परिणामविशोधिमिच्छन्तः । Page #219 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि. ९-का० ९५] ६२१ तेषामार्तरौद्रध्यानपरिणामकारणत्वेन सङ्क्लेशाङ्गत्ववचनात्, तत्कार्यहिंसादिक्रियावत् । कायवाङ्मनःकर्म योगः । स आस्रवः । शुभः पुण्यस्य अशुभः पापस्य इत्यपि [तत्त्वा० ६.१-३] न विरुद्धं, कायादियोगस्यापि तत्कारणकार्यत्वेन सङ्क्लेशत्वव्यवस्थितेः । एतेन तदभावे विशुद्धिः सम्यग्दर्शनादिहेतुः धर्म्यशुक्लध्यानस्वभावा तत्कार्यविशुद्धिपरिणामात्मिका च व्याख्याता, तस्यामेवात्मन्यवस्थानसम्भवात् । तदेवं विवादाध्यासिताः कायादिक्रियाः स्वपरसुखदुःखहेतवः सङ्क्लेशकारणकार्यस्वभावाः प्राणिनामशुभफलपुद्गलसम्बन्धहेतवः सङ्क्लेशाङ्गत्वाद्विषभक्षणादिकायादिक्रियावत् । तथा विवादापन्नाः कायादिक्रियाः स्वपरसुखदुःखहेतवो विशुद्धिकारणक्रियास्वरूपाः प्राणिनां शुभफलपुद्गलसम्बन्धहेतवो, विशुद्ध्यङ्गत्वात् पथ्याहारादिकायादिक्रियावत् । ये शुभाशुभफलपुद्गलास्ते पुण्यं पापं च कर्मानेकविधम् । इति सक्षेपात्सकलशुभाशुभकर्मास्रवबन्धकारणं सूचितं भवति, विस्तरतस्तस्यास्रवबन्धाध्याये सुनिरूपितत्वात् । ततः स्यात् स्वपरस्थं सुखदुःखं पुण्यास्रवहेतुविशुद्ध्यङ्गत्वात् । स्यात् पापास्रवहेतुः, सङ्क्लेशाङ्गत्वात् । स्यादुभयं, क्रमापिततद्वयात् । स्यादवक्तव्यं, सहापिततद्वयात् । स्यात् पुण्यहेतुरवक्तव्यं च, स्यात्पापहेतुरवक्तव्यं च, स्यादुभयं चावक्तव्यं च, स्वहेतुविषयात् । इति सप्तभङ्गीप्रक्रिया पूर्ववद्योजनीया ॥९५।। अष्टसहस्रीतात्पर्यविवरणम् कायेत्यादि । सङ्क्लेशाङ्गव्याख्यानस्य या दिक् सैव विशुद्ध्यङ्गव्याख्यानस्येत्यतिदिशतिएतेनेत्यादि । एवं व्यवस्थिते बाह्यक्रियाणां कर्मपुद्गलसम्बन्धहेतुत्वं साधयितुमनुमानप्रयोगमाह-तदेवं विवादाध्यासिता इत्यादिना । स्यादवक्तव्यं सहार्पितद्वयादिति प्रशस्ताप्रशस्तभेदेनाध्यवसायस्थानानां द्विविधानामेव व्यवस्थितत्वात्तत्तृतीयराश्यभावेनैकदाविशुद्धिसङ्क्लेशाङ्गोभयरूपस्य कस्यापि व्यापारस्य वक्तु मशक्यत्वादित्यर्थः । यत्तु अविधिना दानादिव्यापारस्य शुभाशुभयोगत्वमुच्यते, तद् व्यवहारत एव, न तु निश्चयतः, तत्राविधिदानपरिणामयोर्यदंशे उत्कटत्वं तदंशस्यैव फलवत्त्वं, नान्यस्य, अन्यथा ततो मिश्रकर्मबन्धप्रसङ्गात्, न च मिश्रं कर्म किञ्चिदस्ति बन्धतः, केवलं सङ्क्रमत एव मिश्रमोहनीयमेकमस्तीत्याद्यर्थस्य महाभाष्ये व्यवस्थितत्वात् । यदपि कुशलाकुशलं कर्म तत्त्वार्थभाष्ये परिगणितं तदपि न बन्धतः, किन्त्वनुबन्धत इति विस्तरेण व्यवस्थापितं तर्कभाष्यानुसारिण्यां तत्त्वार्थटीकायामस्माभिरिति तत एव तदवधार्यं सुधीभिः ॥९५।। १. तृतीयचतुर्थादिश्लोकानां टीका नोपलभ्यतेऽधुना । Page #220 -------------------------------------------------------------------------- ________________ ६२२ अष्टसहस्त्रीतात्पर्यविवरणम् न किञ्चित्पापाय प्रभवति न वा पुण्यततये, प्रवृद्धेद्धां शुद्धि समधिवसतो ध्वंसविधुराम् । - अष्टसहस्रीतात्पर्यविवरणम् न किञ्चित्पापायेत्यादि नवमसमाप्तिपद्यं विद्यानन्दस्य । अत्रेदं मनाग् मीमांसामहे । (शङ्का) यद्येवं शुद्धोपयोगभूमिकामारूढस्य मुनेश्चिच्चमत्कारमात्रविश्रान्तसतत्त्वस्य बाह्यहेतोरकिञ्चित्करत्वं, तदा प्रतिक्रमणक्रियाऽपि तं व्यभिचरेत्, (समा०) व्यभिचरेदेव । (शङ्का) प्रतिक्रमणप्रतिचरणाविज्ञानधारणाबुद्धीहामतिविकल्पाष्टकस्य प्राग्दशायाममृतकुम्भत्वस्योत्तरदशायां च विषकुम्भत्वस्य समयप्राभृतेऽभिधानादिति चेत्, इदमेव तहि विचारणीयं प्राग्दशायाममतकम्भत्वं किं तस्य (१) शभोपयोगहेतत्वादत (२) आरूढपातित्यपरिहारार्थत्वात किं वा (३) स्वातन्त्र्येण निर्जरार्थत्वादताहो (४) स्वभावसमवस्थानालम्बनत्वात् अथवा (५) विहितक्रियोपदेशप्रणेतृस्मरणद्वाराभगवत्समापत्तिहेतुत्वात् किं वा (६) स्वगुणस्थानोचितत्वादथवा (७) नानाक्रियासमूहालम्बनसामायिकपरिणामान्तःपातित्वादुत (८) योगसाधनत्वादित्यष्टौ विकल्पा उपतिष्ठन्ते । नाद्यः पक्षः क्षेमङ्करः, शुभोपयोगहेतुमुनेः (तुर्मु) प्राक्क्रियाया आश्रयणीयत्वेऽनुकम्पादानादेरपि तथात्वापत्तेः । न द्वितीयः, प्राग्दशायामारुरुक्षुतयारूढत्वस्याप्रसङ्गेन तत्पातित्यपरिहारार्थताया दुरापास्तत्वात् । न तृतीयः, स्वातन्त्र्येण निर्जरार्थताया उत्तरदशायामप्यव्याहतत्वेन तदा विषकुम्भत्ववचनस्यैव विषकुम्भत्वापत्तेः । अत एव न चतुर्थादयः, सिद्धयोगस्य योगसाधनानपेक्षणात्, पूर्वं तु तदपेक्षावश्यकत्वात् अष्टमोऽवशिष्यते, सोऽपि यान्येव साधनान्यादौ, गृह्णीयाद् योगसा(ध)कः । सिद्धयोगस्य तान्येव, लक्षणानि विदुर्बुधाः ॥१॥ [ ] इत्युक्तरीत्या निर्लोठनीयः । शमदमादीनामिव प्रतिक्रमणादिक्रियाया उत्तरदशायां योगिनो लक्षणत्वेन विषकुम्भत्वायोगात्, प्रत्युत स्थिरामृतकुम्भत्वस्यैव सिद्धेः (शङ्का) न चाव्यभिचारिलक्षणत्वाभावान्नैवं (समा०) स्वकालेऽव्यभिचारित्वात्, पर्यन्ते तु शुद्धधर्मसंन्यासोत्पत्तौ क्षायोपशमिकानां शमदमादीनामपि नाशोपगमात् । ___ तस्मात् पूर्वोत्तरभूमिकयोर्वचनासङ्गानुष्ठानतयैव क्रियाभेदो यथाऽस्मत्साम्प्रदायिकैर्लक्षितस्तथा श्रेयान्, न तु परोक्तामृतविषकुम्भदृष्टान्तेन, उपरायां दृष्टौ समाधिकाले आरूढारोहणाभावन्यायेन क्रियाया अनुपयोगाभिधानं तु शमादेरिवाभिनवग्रहणापेक्षया, न तु विषकुम्भत्वदृष्ट्या, प्रतिपन्ननिर्वाहस्यान्ततो लोकशिक्षार्थं परमयोगिनोऽप्यभिधानात्, शुभोपयोगकालेऽपि साधोः क्रियातो धर्मप्राप्तिश्च पुष्टिशुद्धिमच्चित्तान्वयेन लक्षणीया, Page #221 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि०९-का. ९४-९५] ६२३ भवेत् पुण्यायैवाखिलमपि विशुद्धयङ्गमपरं मतं पापायैवेत्युदितमवताद्वो मुनिपतेः ॥१॥ [शिखरिणी] । इत्याप्तमीमांसालङ्कृतौ नवमः परिच्छेदः । अष्टसहस्रीतात्पर्यविवरणम् तस्यैवोभयोपयोगसाधारणत्वेन धर्मलक्षणत्वात्, उभयसंवलनेऽपि शुद्ध्याधिक्येन साधोधर्माधिकारित्वाव्याहतेः, अधिकारद्वयफलद्वयकल्पनायां गौरवाच्चारित्रधर्मप्रवृत्तावशुभोपयोगराहित्यस्यैकाधिकारस्यैव कल्पने लाघवात्, गुप्तिमत एवाधिकारित्वे तु गुप्तित्वमेकं प्रवीचाराप्रवीचारसाधारणमधिकारतावच्छेदमेकं कल्पनीयम् । किं बहुना ? धर्माथिक्रियायामनुषङ्गतः पुष्टेः प्राधान्यतश्च शुद्धेराप्तिरिति न काचन क्षतिः । एवं च स्थिरादिदृष्टिमतां सूत्रोक्ता प्रतिक्रमणादिक्रिया रत्नशिक्षानियोजनदृष्टिवद्भिन्नभिन्नैव शुद्धिनिबन्धनं, न तूत्तरोत्तरं तद्विलोप एवेति प्रतिपत्तव्यम् । यथा च 'युक्ताहारविहारक्रिया प्रवचनसाराद्युक्तक्रमेण चारित्रोपयोगिनी तथा युक्तोपकरणधारणादिक्रियापि किं न स्यात् 'जं पि वत्थं व पायं वा [दशवैकालिक ६-२०] इत्यादिविधिशतानां तत्रोपलम्भात् । बाह्यपुद्गलप्रवृत्तेर्मूर्छानिमित्तत्वे आहारादावप्यप्रवृत्त्यापत्तेः, आहारादिक्रिया ध्यानदीपे तैलप्रचारतुल्यत्वेनाश्रयणीत्वे युक्तोपकरणधारणस्यापि निर्वातदेशस्थापनतुल्यत्वेनाश्रयणीयत्वाविशेषात् । नाग्न्यस्य चारित्रासाधारणकारणत्वेन मूलगुणत्वे वस्त्रस्य च तत्प्रतिबन्धकत्वेऽभ्युपगम्यमाने न किञ्चित्पापायेत्यादिस्वप्रतिज्ञाया एव दुरुत्प्रेक्षितत्वापत्तेः, तस्मात् मूर्छाच्छन्नधियां हन्त, जगदेव परिग्रहः । मूर्च्छया रहितानां तु, जगदेवापरिग्रहः ॥ [ज्ञानसार-परिग्रहाष्टक-८] इत्याद्यस्मदुक्तं विमृश्य धर्मलक्षणं च पुष्टिशुद्धिमच्चित्तरूपमेवादृत्य यथासूत्रं प्रवृत्त्यैव शुद्धाध्यवसायनिर्वाह: कार्य इत्यस्माकं हितोपदेशः ॥९५॥ वक्तव्यमेव किल यत्तदशेषमुक्तमेतावतैव यदि चेतयते न कोऽपि । व्यामोहजालमतिदुस्तरमेव नूनं, निश्चेतनस्य वचसामतिविस्तरेऽपि ॥१॥ (वसंततिलका) १. जं पि वत्थं व पायं वा कंबलं पाय पुंछणं । तं पि संजमरक्खट्ठा धारंति परिहरंति य । (छाया -यदपि वस्त्रं वा पात्रं वा कम्बलं पादप्रोञ्छनम् । तदपि संयमरक्षार्थं धारयन्ति परिहरन्ति च ।) २. विद्यानन्देः श्लोक: नवमपरिच्छेदपर्यन्तस्य । Page #222 -------------------------------------------------------------------------- ________________ ६२४ अष्टसहस्त्रीतात्पर्यविवरणम् अष्टसहस्त्रीतात्पर्यविवरणम् विशुद्धिसंक्लेशजपुण्यपापे, प्रतिक्रिया यत्र नियम्यते नो । ज्ञानेऽन्यहेतुश्च निजप्रसादाद्विना जिनाज्ञा मम सा प्रमाणम् ॥२॥ (उपजातिः) इति श्रीमदकब्बरसुरत्राणप्रदत्तजगद्गुरुबिरुदधारकभट्टारकश्रीहीरविजयसूरीश्वरशिष्य मुख्यमहोपाध्याय श्रीकल्याणविजयगणिशिष्यावतंसपण्डितश्रीलाभविजयगण शिष्याग्रेसरपण्डित श्रीजितविजयगणिसतीर्थ्यालङ्कार पण्डित श्रीनयविजयगणिचरणकमलचञ्चरीकेण पण्डितश्रीपद्मविजयगणिसहोदरेण महोपाध्याय श्रीयशोविजयगणिना विरचितेऽष्टसहस्त्रीतात्पर्यविवरणे ॥ नवमः परिच्छेदः ॥ Page #223 -------------------------------------------------------------------------- ________________ ॥ दशमः परिच्छेद ॥ अज्ञानाच्चेद् ध्रुवो बन्धो ज्ञेयानन्त्यान्न केवली । ज्ञानस्तोकाद्विमोक्षश्चेदज्ञानाद् बहुतोऽन्यथा ॥१६॥ श्रीमदकलङ्कविवृतां समन्तभद्रोक्तिमत्र सक्षेपात् । परमागमार्थविषयामष्टसहस्त्री प्रकाशयति ॥ [ज्ञानस्याभावरूपादज्ञानाद् बन्धो ज्ञानाद् मोक्ष इति पक्षं निराकरोति जैनाचार्यः ।] प्रसज्यप्रतिषेधे ज्ञानस्याभावोऽज्ञानं, पर्युदासे ततोऽन्यन्मिथ्याज्ञानमज्ञानम् । तत्र यदि ज्ञानाभावाद् ध्रुवोऽवश्यम्भावी बन्धः स्यात्तदा केवली न कश्चित्स्यात् । [साङ्ख्यस्यैकान्तपक्षस्य निराकरणम् ] सकलविपर्ययरहितं तत्त्वज्ञानमसहायं केवलम, एवं तत्त्वाभ्यासान्नास्मि न मे, नाहमित्यपरिशेषम् । अविपर्ययाद् विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥१॥ [ ] इति वचनात् तद्योगात्केवलीत्युच्यते । स कथं न स्यादिति चेत्, तदुत्पत्तेः पूर्वमशेषज्ञानाभावात्, करणजविज्ञानस्यातीन्द्रियार्थाविषयत्वादनुमानस्य चात्यन्तं परोक्षार्थगोचरत्वादागमस्यापि सामान्यतोऽविशेषार्थविषयत्वादयोगिनामशेषविशेषविषयज्ञानविरोधात् । - अष्टसहस्त्रीतात्पर्यविवरणम् इन्द्रः सन्देहजातं द्विजहृदयगतं बाल्यकालेऽप्यपृच्छद्धत्वोच्चैरासने यं शुचिनयविधिना यश्च तं द्रागभाङ्क्षीत् । ऐन्द्रं यस्माच्च जातं तदवयवपदैनिश्चितं शब्दशास्त्रं, शब्दब्रह्मैकसिन्धुः स जयतु चरमस्तीर्थकृद्विश्वबन्धुः ॥१॥ [स्रग्धरा] Page #224 -------------------------------------------------------------------------- ________________ ६२६ अष्टसहस्त्रीतात्पर्यविवरणम् न चाक्षलिङ्गशब्दज्ञानपरिच्छेद्य एवार्थस्ततोऽपरो नास्तीति शक्यं वक्तुं, ज्ञेयस्यानन्त्यात्, प्रकृतिविवर्तविशेषाणां पुरुषाणां चानन्ततोपगमात् । __ स्यान्मतं,-'प्रकृतिपुरुषविवेकज्ञानादेवागमबलभाविनः स्तोकादपि तत्त्वाभ्यासस्वात्मभावात् केवलज्ञानभृद्भवेत् । स एव च तस्य विमोक्षः पुनः संसाराभावादनागतबन्धनिरोधात्' इति तदप्ययुक्तं, स्तोकज्ञानापेक्षया बहोरज्ञानाद् बन्धस्य प्रसङ्गादेष्यद्बन्धनिरोधासम्भवाद् विमोक्षानुपपत्तेः । अथ तत्त्वज्ञानेन स्तोकेनापि बहोरज्ञानस्य प्रतिहतशक्तिकत्वान्न तन्निबन्धनो बन्धः सम्भवतीति मतं तदप्यसत्, प्रतिज्ञातविरोधात् । यत् खलु प्रतिज्ञातमज्ञानाद् ध्रुवो बन्ध इति तद्विरुध्यते । अथाखिलज्ञानाभावादज्ञानादवश्यम्भावी बन्धो न ज्ञानस्तोकमिश्रणादिति मतं तदप्यसम्यक्, सर्वदा बन्धाभावप्रसङ्गात् सर्वस्य प्राणिनः किञ्चिज्ञानसम्भवान्मुक्तौ बन्धप्रसक्तेश्च, तत्र सकलज्ञानाभावस्य बन्धहेतोः सम्भवात्, असंप्रज्ञातयोगावस्थायां च तदा द्रष्टुः स्वरूपेऽवस्थानम् इति वचनात् [यो० सू० १-३] । स्वरूपं च पुंसश्चैतन्यमानं सकलज्ञानरहितम् । इति मोक्षहेतुरेव बन्धहेतुः स्यात् । यदि पुनस्तत्त्वज्ञानस्य प्रागभावाद् बन्धो न प्रध्वंसाभावादिति मतं तदा समाविर्भूततत्त्वज्ञानस्य कस्यचित् कुतश्चिद्विपर्ययज्ञानाकारणादन्तरङ्गाद् बहिरङ्गाद्वा विपर्ययज्ञानोत्पत्तौ तत्त्वज्ञानप्रध्वंसाद् बन्धः कथं युज्येत ? स्यान्मतं,-'सकलतत्त्वज्ञानोत्पत्तौ नि:शेषमिथ्याज्ञाननिवृत्तेरसंप्रज्ञातयोगोत्पत्तौ तु तत्त्वज्ञानस्यापि नाशादशेषज्ञानाभावख्यादज्ञानान्मोक्ष एव, ततोऽन्यस्मात् सम्यग्ज्ञानप्रागभावप्रध्वंसरूपाद् बन्ध एवेति तदप्यसाधीयः, केवल्यभावप्रसङ्गस्याभिधानात् । स्तोकतत्त्वज्ञानाप्रतिबद्धात्तथाविधादज्ञानाद् बन्ध इत्यपि विरुद्धं, प्रवर्तकधर्महेतोः स्तोकतत्त्वज्ञानात्प्रतिहताशेषाज्ञानशक्तिकात् पुण्यबन्धाभावानुषङ्गात् । ततो ज्ञानाभावलक्षणादज्ञानान्नावश्यम्भावी बन्ध इति पक्षः क्षेमङ्करः स्तोकतत्त्वज्ञानान्मोक्ष इति पक्षवत् । [मिथ्याज्ञानलक्षणादज्ञानाद् बन्धो भवतीति पक्षं निराकरोति जैनाचार्यः ।] अथ मिथ्याज्ञानालक्षणादज्ञानाद् ध्रुवो बन्धः स्यात् - अष्टसहस्त्रीतात्पर्यविवरणम् क्रियाः प्रिया यत्स्मरणेन सर्वाः, शास्त्राणि यत्साधनतत्पराणि । चिदात्मना व्यापकतां श्रितो यो, ध्यायामि सिद्धं तमनादिशुद्धम् ॥२॥ [उपजाति] Page #225 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० १० - का० ९६ ] धर्मेण गमनमूर्ध्वं गमनमधस्ताद्भवत्यधर्मेण । ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥ [ ६२७ ] इति वचनात् । विपर्ययो मिथ्याज्ञानं सहजमाहार्यं चानेकविधमित्यभिमतं तदप्यसत्यं, केवल्यभावप्रसक्तेः, समयान्तरश्रवणजनितानेकविधाहार्यविपर्ययस्य साङ्ख्यागमभावनाबलोद्भूततत्त्वज्ञानाद्विनाशेऽपि सहजस्य विपर्ययस्यानिवृत्तेः । केवलज्ञानात् प्राग् बन्धयस्यावश्यंभावात्तन्निबन्धनमिथ्याज्ञानान्तरोद्भूतेः केवलोद्भूतिविरोधात् । न चागमबलात्सकलतत्त्वज्ञानाविर्भूतिरुपपद्यते, ज्ञेयस्य विशेषतो - ऽनन्तत्वादागमाविषयत्वादनुमानाद्यविषयत्ववत्, यतः कृत्स्नमिथ्याज्ञाननिवृत्तेः केवलाविर्भावः सम्भाव्यते । स्तोकतत्त्वज्ञानान्मोक्ष इत्यप्यनेन निराकृतं, बहुतो मिथ्याज्ञानाद् बन्धस्य प्रसक्तेः । स्तोकतत्त्वज्ञानप्रतिहताद् बहुतो मिथ्याज्ञानान्न बन्ध इति चेत्, कथमेवं मिथ्याज्ञानाद् ध्रुवो बन्धः स्यात् ? कथं वा स्तोकतत्त्वज्ञानात् प्रवर्तकधर्मनिबन्धनात्पुण्यबन्ध: ? इति दुखबोधम् । एतेनान्त्यमिथ्याज्ञानान्न बन्ध इत्येतदप्यपास्तं, प्रतिज्ञातविरोधाविशेषात् । रागादिदोषसहितान्मिथ्याज्ञानाद् बन्धो निर्दोषान्न बन्ध इत्यपि प्रतिज्ञातविरोधि कापिलानां, वैराग्यसहितात् तत्त्वज्ञानान्मोक्षवचनवत् । अष्टसहस्त्रीतात्पर्यविवरणम् दशमे किञ्चिद् व्याख्यायते - प्रतिज्ञातविरोधाविशेषादिति अन्त्यमिथ्याज्ञानान्न बन्ध इत्युक्तौ मिथ्याज्ञानमात्रात् बन्ध इति मूलप्रतिज्ञासंन्यासादेवेत्यर्थः । वस्तुतोऽन्त्यव्यतिरिक्तं मिथ्याज्ञानं बन्धहेतुरन्त्यतत्त्वज्ञानं च मोक्षहेतुरित्ययुक्तं, तत्र बन्धमोक्षजनकतावच्छेदकव्यवस्थितजात्योर्मानाभावात्, मिथ्याज्ञानवासनाद्वारानुत्पत्तितद्ध्वंसद्वारोत्पत्तिभ्यामुपान्त्यादिव्यावृत्तत्वतदनुवृत्तत्वयोर्विनिगमनाविरहात्, मिथ्याज्ञानवासनाया एव बन्धहेतुत्वोपगमे च मतान्तरप्रवेशप्रसङ्गात्, तस्या अपि स्मृत्येकनाशत्वौचित्ये तत्त्वज्ञानात् पूर्वं मिथ्यास्मृतिकल्पने स्मरणस्य स्मरणजनकत्वपक्षेऽपि तत्त्वज्ञानोच्छेदाच्च । किञ्च आगमजन्यतत्त्वज्ञानापेक्षयाऽनादिवासनादोषजन्यमिथ्याज्ञानस्य बलवत्त्वात् तत्सत्त्वे कथं तत्त्वज्ञानम् ? । (शङ्का) दोषजन्यमिथ्याज्ञानापेक्षया दोषाभावसहकृतागमजन्यतत्त्वज्ञानस्यैव बलवत्त्वमिति चेत्, तर्हि सम्यग्दर्शनरूपतत्त्वज्ञानस्य मिथ्याज्ञानविरोधित्वमेव, बन्धहेतुत्वं तु कषायोदयसहकृताज्ञानमात्रस्यैवेति समर्थयिष्यमाणं प्रवचनवचनमेव विजयते । एतेन Page #226 -------------------------------------------------------------------------- ________________ ६२८ अष्टसहस्त्रीतात्पर्यविवरणम् [नैयायिकास्तत्त्वज्ञानान्मोक्षं मन्यन्ते तन्निराकरणं कुर्वन्ति जैनाचार्याः ।] एतेनैतदपि प्रत्याख्यातं, यदुक्तं-परेण दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावान्निःश्रेयसः इति [न्या० सू० १.१.२] मिथ्याज्ञानादवश्यं दोषोद्भूतौ दोषाच्च प्रवृत्तेधर्माधर्मसञिकायाः प्रादुर्भावे, ततोऽपि जन्मनः प्रसूतौ, ततोऽपि दुःखस्यैकविंशतिप्रकारस्य प्रसवे, केवलिनः साक्षादशेषतत्त्वज्ञानवतोऽसत्त्वप्रसङ्गात्, अस्मदादिप्रत्यक्षानुमानोपमानागमैः प्रमाणैः सकलतत्त्वज्ञानासम्भवान्निःशेषमिथ्याज्ञाननिवृत्त्ययोगात् सकलज्ञेयविशेषाणामानन्त्यात् । सोऽयं प्रमाणार्थोऽपरिसङ्ख्येयः प्रमाणभृद्भेदस्यापरिसङ्ख्येयत्वाद् इति [ ] स्वयमभिधानात् । न च मिथ्याज्ञानस्य कात्स्येनानिवृत्तौ सकलदोषनिवृत्तिः, तदनिवृत्तौ च न प्रवृत्तिनिवृत्तिः । तदनपाये च न जन्मनोऽपायः, ततो नाशेषदुःखापायश्च, इति गता निःश्रेयसकथा । यदि पुनरात्माद्यपवर्गपर्यन्तप्रमेयतत्त्वज्ञानादपरनिःश्रेयसप्राप्तिरिष्यते न पुनः प्रमाणादिषोडशपदार्थविशेषतत्त्वज्ञानाद् येन ज्ञानस्तोकादेव विमोक्षसिद्धेः केवली न स्यादिति मतं तदा बहोमिथ्याज्ञानाद् बन्धः किं न भवेत् ? तत्त्वज्ञानेन तस्य प्रतिहतत्वादिति चेत्, कथमेवं मिथ्याज्ञानाद् ध्रुवो बन्धः स्यादित्युक्तम् ? दोषसहितान्मिथ्याज्ञानाद् बन्ध इति चानेन निराकृतं, योगिज्ञानात् प्राग्दोषानिवृत्तेस्तत्कारणमिथ्याज्ञानसन्ततः अष्टसहस्त्रीतात्पर्यविवरणम् आत्मानं चेद्विजानीयादहमस्मीति पूरुषः । किमिच्छन् कस्य कामाय, शरीरमनुसज्वरेत् ॥ [बृहदा० ४.४१२] इत्यखण्डानन्दस्वरूपात्मज्ञानादेव मोक्षः, सार्वयं तु तत्र नोपयुज्यते, तस्य तपोजन्यातिशयविशेषरूपस्यासार्वत्रिकत्वादित्यादिना वेदान्तिभिः समर्थितः स्तोकज्ञान पक्षोऽपि निरस्तः, आत्माज्ञानस्यापि केवलस्य बन्धहेतुत्वे तत्त्वज्ञानोत्पत्त्यनवकाशात्, दोषापेक्षायां चास्मन्मतप्रवेशात्, निर्विकल्पकात्मज्ञानस्य मिथ्याज्ञानवासनानाशकत्वे मानाभावाच्चेति दिग् । मिथ्याज्ञानादवश्यं दोषोत्पत्ताविति मिथ्याज्ञानस्य बन्धहेतुत्वात्तस्य च दोषहेतुत्वात्ततस्तदुत्पत्तेरवर्जनीयत्वादिति भावः । न च दोषस्य बन्धहेतुकत्वमप्रामाणिकं, समेऽपीष्टानिष्टादिसन्निधाने मोहबन्धोपनततद्विपाकोत्कर्षापकर्षाभ्यां तदत्कर्षापकर्षदर्शनात्तस्य तद्धेतुकत्वसिद्धेरिति ध्येयम् । तदा बहोरिति न च तत्त्वज्ञानमिथ्याज्ञानयोः १. दोषोद्भूतौ इति अष्टसहस्रीसम्मतः पाठः । Page #227 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० १० का ० ९६ ] सम्भवात् । एतेन वैशेषिकमतमपास्तम् इच्छाद्वेषाभ्यां बन्ध [ केवल्यभावाविशेषात् । ६२९ ] इति [बौद्धोऽविद्यातः बन्धं विद्यातः मोक्षं मन्यते जैनाचार्याः तं निराकुर्वन्ति ।] अविद्यातृष्णाभ्यां बन्धोऽवश्यम्भावी दुःखे विपर्यासमतिस्तृष्णा वा बन्धकारणम् । जन्मिनो यस्य ते न स्तो न स जन्माधिगच्छति ॥ [प्र० व० १.८३] इति ताथागतमतमपि न सम्यक्, योगिज्ञानाभावप्रसङ्गात् । अयोगिनः प्रत्यक्षानुमानाभ्यामखिलतत्त्वज्ञानरूपाया विद्याया एवायोगात् तद्विशेषज्ञेयस्यानन्त्यात् स्वयम् अनन्ता लोकधातव इति वचनात् [ ] । न चाविद्यानुच्छेदे तृष्णा निवर्तते यतः सुगतः स्यात् । अथ ज्ञानस्तोकाद्विमोक्ष इष्यते, हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः सुगत इति वचनात् । तर्हि बहुतो मिथ्याज्ञानाद् बन्धः सिद्ध्यतु, तन्निबन्धनतृष्णाया अपि सम्भवात् । कथमन्यथा मिथ्यावबोधतृष्णाभ्यामवश्यम्भावी बन्ध इति प्रतिज्ञा न विरुद्ध्यते ? [वृद्धबौद्धेन मान्यं मोक्षतत्त्वमपि निराकुर्वन्ति जैनाचार्याः ।] एतेनैतदपि प्रत्याख्यातं यदुक्तं वृद्धबौद्धैः - 'अविद्याप्रत्ययाः संस्काराः, अष्टसहस्त्रीतात्पर्यविवरणम् स्तोकत्वं बहुत्वं वाऽप्रयोजकं, किन्तु प्रमाणादीनां तत्त्वज्ञानान्निःश्रेयसाधिगम (न्या० २.१.१) इति सूत्रात्तर्कपरिशुद्धिजनितप्रमाणादिषोडशपदार्थसमूहालम्बनज्ञानविशेष एव मोक्षहेतुः, तदभावे एव च बन्धहेतुरित्यस्माकमभ्युपगम इति वाच्यम् । तस्य श्रद्धामात्रशरणत्वात्, सर्वैः स्वस्वाभ्युपगतपदार्थतत्त्वज्ञानस्यैव मोक्षहेतुत्वोक्तेः । अथ प्रमाणादिपदार्थपरिशोधनमप्यात्मसाक्षात्कारायैवोपयुज्यते स एव श्रवणमनननिदिध्यासनजनितो मोक्षहेतुरिष्यते, आत्मा वारे द्रष्टव्यः श्रोतव्य [ ] इत्यादिश्रुतावार्थक्रमस्य बलवत्त्वादात्मश्रवणादिना तद्दर्शनं भावयेदित्यर्थादित्यात्मज्ञानस्यैव मोक्षहेतुत्वाद् बहुस्तोकादिपक्षाश्रयणमनतिप्रयोजनमिति चेत्, न, आत्मसाक्षात्कारस्यापि यावत् स्वेतरभिन्नत्वप्रकारकस्याश्रयणे सार्वज्ञ्यपक्षानतिक्रमात्, अन्यथा तत्त्वज्ञानजनकमननोपयोगितया प्रमाणादिपदार्थपरिशोधनानापत्तेः, किञ्च शरीरादिभिन्नत्वांशे लौकिकस्य तस्य कथमपरोक्षशरीराद्यभेदभ्रमनिवर्त्तकत्वमिति सर्वांशस्पष्टतार्थं सर्वविषयकत्वमेव युक्तमिति दिग् । एतैनैतदपीत्यादिना वृद्धबौद्धप्रक्रियाप्रदर्शनपूर्वं Page #228 -------------------------------------------------------------------------- ________________ ६३० अष्टसहस्त्रीतात्पर्यविवरणम् संस्कारप्रत्ययं विज्ञानं, विज्ञानप्रत्ययं नामरूपं, नामरूपप्रत्ययं षडायतनं, षडायतनप्रत्ययः स्पर्शः, स्पर्शप्रत्यया वेदना, वेदनाप्रत्यया तृष्णा, तृष्णाप्रत्ययमुपादानमुपादानप्रत्ययो भवो, भवप्रत्यया जातिर्जातिप्रत्ययं जरामरणम्' इति द्वादशाङ्गं प्रतीत्यसमुत्पादस्य सम्भवात्, क्षणिकनिरात्मकाशुचिदुःखेषु तद्विपरीतज्ञानलक्षणाविद्योदये क्वचिदपि ज्ञेये तत्प्रत्ययसंस्काराणां पुण्यापुण्याऽऽनेज्यप्रकाराणां शुभाशुभानुभयविषयाणामवश्यंभावात्, तद्भावे च वस्तुप्रतिविज्ञप्तिलक्षणविज्ञानस्य विकल्पात्मनः सम्भवात्, तत्सम्भवे च विज्ञानसमुद्भूतरूपवेदनासञ्जासंस्कारज्ञानलक्षणनामपृथिव्यादिभूतचतुष्टयात्मकरूपसमुदायलक्षणस्य नामरूपस्य सिद्धेः, तत्सिद्धौ च चक्षुरादिषडायतनस्यात्मकृत्यक्रियाप्रवृत्तिहेतोः प्रसूतेः, तत्प्रसूतौ च तद्धेतूनां षण्णां स्पर्शकायानां रूपं चक्षुषा पश्यामीत्यादिविषयेन्द्रियविज्ञानसमूहलक्षणानां प्रादुर्भावात्, तत्प्रादुर्भावे स्पर्शानुभवलक्षणाया वेदनायाः सद्भावात्, तत्सद्भावे च विषयाध्यवसानलक्षणतृष्णायाः समुत्पादात्, तत्समुत्पादे तृष्णावैपुल्यलक्षणस्योपादानस्योदयात्, तदुदये च पुनर्भवजनककर्मलक्षणभवस्य भावात्, तद्भावे चापूर्वस्कन्धप्रादुर्भावलक्षणाया जातेरुत्पादात्, तदुत्पत्तौ च स्कन्धपरिपाकप्रध्वंसलक्षणजरामरणसद्भावात् केवलिनः कस्यचित्सुगतस्यासम्भवप्रसङ्गात् अन्यथा प्रतिज्ञातविरोधात् । ततः सूक्तं (भा०) यदि बन्धोऽयमज्ञानान्नेदानी कश्चिन्मुच्यते, सर्वस्यैव क्वचिदज्ञानोपपत्ते यानन्त्यादिति । केवलिनः प्राक् सर्वज्ञासम्भवात् । - अष्टसहस्रीतात्पर्यविवरणम् तन्मतखण्डनं कृतं, तत्त्वज्ञानात् पूर्वमविद्याया अनाशे तन्मूलसंस्काराद्यनुवृत्तौ तत्त्वज्ञानोत्पत्त्ययोगेन सुगतस्य केवलिन एवासिद्धेः । यदि च यथा कण्टक एव कण्टकं हरति, पित्तादिदोषोत्पादनेनैव चौषधं वातादिदोषं तथा शमदमाद्यविद्याविलास एव संसारमूलाविलासमिति मतं, तदा केवलादज्ञानाद् बन्ध इति स्वप्रक्रियाव्याघात एव, कषायैकार्थसमवेताज्ञानस्यैव बन्धहेतुत्वप्रसक्त्याऽस्मन्मतसाम्राज्यात्, अपकृष्टाज्ञानस्य तत्वज्ञानाप्रतिबन्धकत्वोक्तावप्युत्कृष्टाज्ञानत्वेन तत्प्रतिबन्धकत्वव्यवस्थितावुत्कर्षस्य कषायसामानाधिकरण्यातिरिक्तत्वे मानाभावात्, अन्यव्यावृत्त्यादिविशेषस्य तत्र तत्र बहुशो निर्लोठितत्वादिति Page #229 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० १० का ० ९७-९८ ] ६३१ ( भा० ) यदि पुनर्ज्ञाननिर्ह्रासाद् ब्रह्मप्राप्तिरज्ञानात् सुतरां प्रसज्येत, दुःखनिवृत्तेरिव सुखप्राप्तिः । न ह्यल्पदुःखनिवृत्तेः सुखप्राप्तौ बहुतरदुःखनिवृत्तौ सुतरां सुखप्राप्तिरसिद्धा, येन ज्ञानहानेरल्पायाः परब्रह्मप्राप्तौ सकलाज्ञानात्तत्प्राप्तिः सुतरां न स्यात् । ततो नायमेकान्तः श्रेयानाभासते ज्ञानस्तोकान्मोक्ष इति, अज्ञानाद् ध्रुवो बन्ध इत्येकान्तवत् ॥९६॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ९७॥ ( भा० ) न हि सर्वात्मनैकस्यैकदा ज्ञानस्तोकान्मोक्षो बहुतश्चाज्ञानाद् बन्ध इत्येकान्तयोरविरोधः स्याद्वादन्यायविद्विषां सिद्ध्यति, येन तदुभयैकात्म्यं स्यात् । ततोऽवाच्यतैकान्ते स्ववचनविरोधः पूर्ववत् ॥९७॥ कुतस्तर्हि पुण्यपापबन्धः प्राणिनां येनाबुद्धिपूर्वापेक्षायामिष्टानिष्टं स्वदैवतः स्यात् ? कुतो वा मोक्षो मुनेर्यतः पौरुषादिष्टसिद्धिर्बुद्धिपूर्वा स्यात् ? चार्वाकमतमेव वा बन्धमोक्षाभाव एव परलोकाभावादिति न भवेत् ? इत्यारेकां निराचिकीर्षवः प्राहु: अज्ञानान्मोहिनो बन्धो न ज्ञानाद् वीतमोहतः । ज्ञानस्तोकाच्च मोक्षः स्यादमोहान्मोहिनोऽन्यथा ॥ ९८ ॥ (भा०) मोहनीयकर्मप्रकृतिलक्षणादज्ञानाद्युक्तः कर्मबन्धः । स्थित्यनुभागाख्यः स्वफलदानसमर्थः, क्रोधादिकषायैकार्थसमवायिनो अष्टसहस्त्रीतात्पर्यविवरणम् दिग् । ज्ञाननिर्ह्रासात्=अल्पज्ञानहानेः ॥९६॥ मोहनीयेति मोहनीयकर्मप्रकृतिरत्र कषायाख्या ग्राह्या, तल्लक्षणात्तद्विशिष्टात्, मिथ्या Page #230 -------------------------------------------------------------------------- ________________ ६३२ अष्टसहस्त्रीतात्पर्यविवरणम् मिथ्याज्ञानस्य च अज्ञानस्य च मोहनीयकर्मप्रकृतिं लक्षयतः पुंसो बन्धनिबन्धनत्वोपपत्तेः सकषायत्वाज्जीवः कर्मणो योग्यान्युद्गलानादत्ते स बन्ध इति वचनात् [तत्त्वा० ८.२] । (भा०) ततोऽन्यतोऽपि बन्धाभ्युपगमेऽतिप्रसङ्गात् । क्षीणोपशान्तकषायस्याप्यज्ञानाद् बन्धप्रसक्तेः । [केवलिनोऽपि प्रकृतिप्रदेशबन्धौ स्तः इति कथने सति कथयन्ति आचार्याः ___ यत् तौ बन्धौ संसारकारणे न स्तः अकार्यकारित्वात् ।] प्रकृतिप्रदेशबन्धस्तस्याप्यस्तीति चेत्, न, तस्याभिमतेतरफलदानासमर्थत्वात् सयोगकेवलिन्यपि सम्भवादविवादापन्नत्वात् । न चात्रागममात्रं, युक्तेरपि सद्भावात् । तथा हि-विवादापन्नः प्राणिनामिष्टानिष्टफलदानसमर्थपुद्गलविशेषसम्बन्धः कषायैकार्थसमवेताज्ञाननिबन्धनस्तथात्वात्पथ्येतराहारादिसम्बन्धवत् । नात्र प्रतिज्ञार्थंकदेशत्वादसिद्धो हेतुर्धर्मिणानेकान्तात, तस्य प्रतिज्ञार्थधर्मिधर्मसमूहैकदेशत्वेऽपि प्रसिद्धत्ववचनात्, अनित्यः शब्दः शब्दत्वादित्यत्रापि हेतोरसिद्धत्वविरोधात् । न चात्र विशेषं धर्मिणं कृत्वा सामान्यं हेतुं ब्रुवतः कश्चिद्दोषः, प्रयत्नानन्तरीयकः शब्दो विनश्वरः, प्रयत्नानन्तरीयकत्वाद् घटवदिति यथा । ननु शब्दस्य धर्मित्वे पक्षाव्यापको हेतुः स्यात्, समुद्रघोषादेः प्रयत्नानन्तरीयकत्वाभावात् । ततोऽत्र प्रयत्नानन्तरीयक: शब्दो विशिष्टो धर्मीति चेत्, - अष्टसहस्रीतात्पर्यविवरणम् - ज्ञानस्याज्ञानस्य' चेति प्रसज्यपर्युदासाभ्यामज्ञानपदस्योभयार्थत्वादिति भावः । क्षीणोपशान्तेति न च एवं कषायत्वेनैव सामान्यतो बन्धहेतुता किं कषायविशिष्टाज्ञानत्वेन गुरुतरकार्यकारणभावेन ? इति वाच्यम् । अन्वयव्यतिरेकग्रहस्यैव तत्र साक्षित्वात्, तयोश्च पथ्येतराहारादिसम्बन्धदृष्टान्तेन कर्मपुद्गलसम्बन्धं प्रत्यज्ञानत्वेनैव प्रसिद्धः, तत्रातिप्रसङ्गभङ्गार्थं पुनः कषायैकसमवेतत्वविशेषणनिवेशात्, पटादौ तन्तुत्वादिना कारणत्वेऽप्यन्वयव्यतिरेकानुविधानस्यैव प्रयोजकत्वात्, अन्यथा शक्तिविशेषाभावविशेषादेरेव हेतुत्वप्रसङ्गाद्विशेषणविशेष्यभावेन विनिगमनाविरहस्याप्यत एव निरासादिति दिग । न चात्रेति पक्षतावच्छेदकावच्छेदेन साध्यसिद्धरुद्देश्यत्वाच्चात्र न ध्वनिरूपशब्दे सिद्धसाधनम्, १. मिथ्याज्ञानस्य च इति अष्टसहस्रीसम्मत पाठः । Page #231 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० १० का ० ९७-९८ ] ६३३ तर्हि प्राणिनां पुद्गलविशेषसम्बन्धस्य धर्मित्वे तथात्वस्य च हेतुत्वे दृष्टान्तासिद्धिप्रसक्तेः प्रकृतिप्रदेशबन्धाभ्यामनैकान्तिकत्वप्रसङ्गाच्च विवादापन्नत्वविशेषणमिष्टानिष्टफलदानसमर्थत्वविशेषणं च युक्तम् । इष्टानिष्टफलदानसमर्थपुद्गलविशेषसम्बन्धत्वस्य हेतोः कषायैकार्थसमवेताज्ञाननिबन्धनत्वेन व्याप्तस्य पथ्येतराहारादिषु पुद्गलविशेषसम्बन्धे सुप्रसिद्धत्वादुदाहरणस्य साध्यसाधनधर्मवैकल्याभावात्, हेतोश्चानन्वयत्वासम्भवात्, विवादापन्नो धूमोऽग्निजन्मा धूमत्वान्महानसधूमवदित्यादिवत् । [ नैयायिकः कर्म आत्मनो गुणं मन्यते, किन्तु जैनाचार्याः तन्मान्यतां निराकृत्य कर्म पौद्गलिकं साधयन्ति ।] न चेष्टानिष्टफलदानसमर्थः कर्मबन्धः पुद्गलविशेषसम्बन्धो न भवति, पुद्गलसम्बन्धेन विपच्यमानत्वाद् व्रीह्यादिवत् । जीवविपाकिषु कर्मसु तदभावात्पक्षाव्यापको हेतुरिति चेत्, न तेषामपि सकर्मजीवसम्बन्धेन विपच्यमानत्वात् पुद्गलसम्बन्धेन विपच्यमानत्वस्य प्रसिद्धेः पुद्गल क्षेत्रभवविपाकिकर्मवत् पक्षव्यापकत्वसिद्धेः । पूर्वानुभूतविषयस्मरणेन सुखदुःखदायिषु कर्मसु तदभावात् पक्षाव्यापकत्वमस्य हेतोरित्यप्यनेन निराकृतं, परम्परया पुद्गलसम्बन्धेनैव तेषां विपच्यमानत्वाच्च । न किञ्चित्कर्म साक्षात्परम्परया वात्मनः पुद्गलसम्बन्धमन्तरेण विपच्यमानमस्ति येन पौद्गलिकं न स्यात् । ततो न कर्मबन्धस्य पुद्गल - विशेषसम्बन्धित्वमसिद्धम् । नापीष्टानिष्टफलदानसमर्थत्वं, दृष्टकारणव्यभिचारे शुभेतरफलानुभवनस्य स्वसंविदितस्यादृष्टहेतुत्वसिद्धेः, रूपादिज्ञानस्य चक्षुराद्यदृश्यहेतुवत् । नन्वेवमज्ञानहेतुकत्वे बन्धस्य मिथ्यादर्शनादिहेतुत्वं कथं सूत्रकारोदितं न विरुद्ध्यते इति चेत्, मिथ्यादर्शनाविरतिप्रमादकषाययोगानां कषायैकार्थसमवाय्य अष्टसहस्त्रीतात्पर्यविवरणम् असाधारण्यं त्वनुकूलतर्कसाचिव्यान्न दोष इति भावः । तर्हीति तथा च पक्षतावच्छेदकमात्रस्याहेतुत्वान्न काऽपि दोषाशङ्केति भावः । आश्रयासिद्धिमाशङ्क्य परिहरति-न चेष्टानिष्टेत्यादिना । उक्तहेतौ भागासिद्धिमाशङ्क्य परिहरति- जीवविपाकिष्वित्यादिना । एवं विशिष्टाज्ञानैकहेतुकत्वे कर्मबन्धस्य व्यवस्थितेः सूत्रविरोधमाशङ्क्य परिहरतिनन्वेवमित्यादिना । सङ्ग्रहात् सङ्क्षेपत इति मिथ्यादर्शनादीनां कर्मबन्धविशेषहेतुत्वेऽपि Page #232 -------------------------------------------------------------------------- ________________ अष्टसहस्त्रीतात्पर्यविवरणम् ज्ञानाविनाभाविनामेवेष्टानिष्टफलदानसमर्थकर्मबन्धहेतुत्वसमर्थनात् मिथ्यादर्शनादीनामपि सङ्ग्रहात् सङ्क्षेपत इति बुध्यामहे । ततो मोहिन एवाज्ञानाद्विशिष्टः कर्मबन्धो न वीतमोहादिति सूक्तम् । ६३४ (भा०) तथैव बुद्धेरपकर्षान्मोहनीयपरिक्षयलक्षणान्मोक्ष्यति विपर्य विपर्यासादित्यधिगन्तव्यम् । प्रकृष्टश्रुतज्ञानादेः क्षायोपशमिकात् केवलापेक्षया स्तोकादपि छद्मस्थवीतरागचरमक्षणभाविनः साक्षादार्हन्त्यलक्षणमोक्षस्य सिद्धेः । तद्विपरीतात्तु मोहवतः स्तोकज्ञानात् सूक्ष्मसम्परायान्तानां मिथ्यादृष्ट्यादीनां कर्मसम्बन्ध एव इति चिन्तितमन्यत्र ॥ ९८ ॥ नन्वस्तु मोहप्रकृतिभिः कामादिदोषात्मिकाभिः सहचरितादज्ञानात् पुण्यपापकर्मणोः शुभाशुभफलानुभवननिमित्तयोः प्राणिनां बन्धः । स तु कामादिप्रभवो महेश्वरनिमित्त एवेत्याशङ्कामपाकर्तुमिदमाहुः कामादिप्रभवश्चित्रः कर्मबन्धानुरूपतः । तच्च कर्म स्वहेतुभ्यो जीवास्ते शुद्धयशुद्धितः ॥ ९९ ॥ कामादिप्रभव (भा०) भावसंसारोऽयं नैकस्वभावेश्वरकृतस्तत्कार्यसुखदुःखादिवैचित्र्यात् । यस्य यस्य कार्यवैचित्र्यं तत्तन्नैकस्वभावकारणकृतं यथानेकशाल्यङ्कुरादिविचित्रकार्यं शालिबीजादिकं, सुख:दुखादिकार्यवैचित्र्यं च संसारस्य तस्मान्नायमेकअष्टसहस्त्रीतात्पर्यविवरणम् कर्मबन्धसामान्ये द्वादशगुणस्थानसम्भव्यज्ञानस्यैव हेतुत्वकल्पनात्तत्रैव तदन्तर्भावादित्यर्थः । वीतमोहात्=मोहरहितात् । भाष्ये बुद्धेरपकर्षात् = अपकृष्टबोधात्, मोहनीयपरिक्षयलक्षणात्=कषायमोहोदयाभावविशिष्टात् मोक्षः = कैवल्यात्मा जीवन्मोक्षः, विपर्यये= मोहक्षयाभावे बुद्धेरपकर्षे, विपर्ययाद् बन्धसम्भवादित्यर्थः । तथा च मोहक्षयविशिष्टज्ञानत्वेन कैवल्यहेतुतैवेत्यर्थः ॥९८॥ यस्य यस्येति यस्य यस्य कारणस्य यद् यत्कार्यवैचित्र्यं तस्य तस्य तत्तन्नैक Page #233 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि १०-का. ९९] ६३५ स्वभावेश्वरकृतः । न तावदयं हेतुरनिश्चितव्यतिरेकत्वादगमकः, साध्याभावेऽनुपपन्नत्वग्राहकप्रमाणसद्भावात् । __(भा०) न हि कारणस्यैकरूपत्वे कार्यनानात्वं युक्तं, शालिबीजाङ्कुरवत् । प्रसिद्धस्तावदेकस्वरूपाच्छालिबीजादनेकाङ्करकार्यायोगः, स एव दृष्टान्तः स्यात् । ततः साध्विदं विपक्षे बाधकं प्रमाणमेकस्वभावकारणकृतत्वप्रतिषेधस्य साध्यस्याभावे नियमेनैकस्वभावकारणकृतत्वेऽनेककार्यत्वस्य साधनस्य व्यावृत्तिनिश्चयजननात्, विचित्रकार्यं च स्यादेकस्वरूपकारणकृतं च स्यादिति सम्भावनाशङ्काव्यवच्छेदात् । कालादिना व्यभिचारी हेतुरिति चेत्, न, तस्यैकस्वभावत्वैकान्तासिद्धेः । (भा०) अपरिणामिनः सर्वथार्थक्रियासम्भवात् तल्लक्षणत्वाद्वस्तुनः सद्भावमेव तावन्न सम्भावयामः । सत्त्वस्यार्थक्रियया व्याप्तिरसिद्धेति न मन्तव्यं, तद्रहितस्य खपुष्पादेरसत्त्वनिश्चयात् । नन्वसतोऽप्यसदितिप्रत्ययलक्षणार्थक्रियाकारित्वान्न तया सत्त्वस्य व्याप्तिरिति न शङ्कितव्यं, व्यापकस्य तदतन्निष्ठतया व्याप्याभावेऽपि भावाविरोधात् तद्व्याप्तेरखण्डनात् । क्रमयोगपद्याभ्यामर्थक्रियाव्याप्तिरसिद्धेति चेत्, न, प्रकारान्तरेणार्थक्रियायाः सम्भवाभावात् । एकस्यैकामेवार्थक्रियां सम्पादयतो न क्रमो नापि यौगपद्यं, तस्यानेककार्यविषयत्वादिति चेत्, न, तादृशस्य वस्तुनोऽसम्भवात् । सर्वस्य - अष्टसहस्त्रीतात्पर्यविवरणम् स्वभावकारणकृतमिति योजनीयम् । शालिबीजाङ्करवदिति शालिबीजादेकरूपाच्छाल्यङ्करस्यैवोत्पत्तिर्न त्वन्यस्येति दर्शनादिति भावः । ततोऽसाध्विदं विपक्षे बाधकं प्रमाणमिति, व्यावृत्तिनिश्चयजननादित्यग्रेतनमत्र सम्बन्ध्यते, तत्र च पञ्चमी ल्यब्लोपे व्यावृत्तिनिश्चयजननमभिप्रेत्य यदिदं विपक्षे बाधकं प्रमाणमुक्तं तदसाध्विति योगः, शङ्काव्यवच्छेदादित्यत्र चाऽकारप्रश्लेषः कार्यः । कालादिना इत्यनन्तरं च चकारोऽध्याहार्यः, सद्भावमेवेत्यतः पूर्वमेकान्तनित्यस्य क्षणिकस्य वेति शेषः । व्यापकस्य अर्थक्रिया १. ततः साधु इति अष्टसहस्रीसम्मतः पाठः । Page #234 -------------------------------------------------------------------------- ________________ ६३६ अष्टसहस्त्रीतात्पर्यविवरणम् बाह्यामर्थक्रियां कुर्वतोऽन्तरङ्गस्वज्ञानलक्षणार्थक्रियाकारणस्यावश्यंभावित्वादन्यथा योगिनोऽसर्वज्ञत्वप्रसङ्गात् पदार्थस्यानेकक्षणस्थायिनः क्रमेणाक्रमेण वानेककार्यकारित्वसिद्धेरेकक्षणस्थायिनोऽनभ्युपगमात् तथा प्रतीत्यभावाच्च । क्रमयोगपद्ययोः परिणामित्वेन व्याप्तिरसिद्धेति चेत्, न, अपरिणामिनः क्षणिकस्येव नित्यस्यापि क्रमयोगपद्यविरोधात् । ततः कस्यचित्परिणामित्वाभावे क्रमयोगपद्याभावादर्थक्रियापायात् सत्त्वानुपपत्तेर्वस्तुत्वसम्भावनाभाव एवेति निश्चितम् । [ईश्वरसृष्टिकर्तुत्वं निराकृत्य जैनाचार्याः सृष्टेरनादित्वं साधयन्ति नैयायिकं प्रति ।] (भा०) तत्र कालदेशावस्थास्वभावभिन्नानां तनुकरणभुवनादीनां किलायं कर्तेति महच्चित्रं, प्रकृतप्रमाणबाधनात् । (भा०) एतेनेश्वरेच्छा प्रत्युक्ता । तस्या अपि नित्यैकस्वभावायाः कार्यवैचित्र्यानुपपत्तेर्वस्तुत्वसम्भावनानुपपत्तेश्चाविशेषात् । (भा० ) न चैतेनास्याः सम्बन्धस्तत्कृतोपकारानपेक्षणात् । न हि नित्यादेकस्वभावादीश्वरात् कश्चिदुपकार: सिसृक्षायास्तथाविधायाः सम्भवत्यनर्थान्तरभूतो, नित्यत्वविरोधात् । नाप्यर्थान्तरभूतः, सम्बन्धासम्भवादनुपकारात्, उपकारान्तरेऽनवस्थाप्रसङ्गात् । (भा०) ततो व्यपदेशोऽपि मा भूत् । ईश्वरस्य सिसृक्षेति । तत्र समवायात्तथा व्यपदेश इति चेत्, न - अष्टसहस्रीतात्पर्यविवरणम् लक्षणस्य, तदनिष्टतया व्याप्यत्वाभिमतवस्तुत्वाव्याप्यतया । T॥ ईश्वरकर्तृत्ववादः ॥ एतेन=एकस्वभावेश्वरखण्डनेन, अभिसन्धेरिति अभिसन्धिरीश्वरे सिसृक्षासम्बन्धः, १. तदतन्निष्ठतया इति अष्टसहस्रीसम्मतः पाठः । Page #235 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि. १०-का. ९९] ६३७ सर्वथैकस्वभावस्य समवायित्वनिमित्तकारणत्वादिनानास्वभावविरोधात् महेश्वरस्य । (भा० ) अभिसन्धेरनित्यत्वेऽपि समानप्रसङ्गः । पदार्थान्तरभूतस्याभिसन्धेस्तेन सम्बन्धाभावस्य तत्कृतोपकारानपेक्षस्य व्यपदेशासम्भवस्य चाविशेषात्, सकलकार्याणामुत्पत्तिविनाशयोः स्थितौ च महेश्वराभिसन्धेरेकत्वे, (भा०) सकृदुत्पत्त्यादिप्रसङ्गाद्विचित्रत्वानुपपत्तेरिति । तदनेकत्वेऽप्यक्रमत्वेऽस्यैव दोषस्योपनिपातात्, क्रमवत्त्वे केषाञ्चित्कार्याणां सकृदुत्पत्त्यादिदर्शनविरोधात् कथमनित्योऽभिसन्धिरीशस्य स्यात् ? सन्नप्यसौ यदीश्वरसिसृक्षानपेक्षजन्मा तदा तन्वादयोऽपि तथा भवेयुरिति न कार्यत्वादिहेतवः प्रयोजकाः स्युः । सिसृक्षान्तरापेक्षजन्मा चेदनवस्था । बुद्धिपूर्वकत्वादिच्छाया न दोष इति चेत्, सा तर्हि बुद्धिरीश्वरस्य यदि नित्यैकस्वभावा तदा कथमनेकसिसृक्षाजननहेतुः क्रमतो युज्यते युगपद्वा ? पूर्वपूर्वसिसृक्षावशादुत्तरोत्तरसिसृक्षोत्पत्तिनित्यैकस्वभावबोधस्यापि महेश्वरस्य न विरुद्धा तत्समानसमयानेकतन्वादिकार्योत्पत्तिश्च, पूर्वसिसृक्षात उत्तरसिसृक्षायास्तत्समानकालतन्वादिकार्याणां च भावादनादित्वात् कार्यकारणप्रवाहस्येति चेत्, न, एकस्वभावस्येश्वरबोधस्यैकस्य पूर्वपूर्वसिसृक्षापेक्षाविरोधात्, तदपेक्षायां स्वभावभेदादनित्यतापत्तेः । अथ सिसृक्षातन्वादिकार्योत्पत्तौ नेश्वरबोधः सिसृक्षान्तरमपेक्षते, तत्कार्याणामेव तदपेक्षत्वादिति मतं तदप्यसत्, नित्येश्वरबोधस्य तदनिमित्तत्वप्रसङ्गात् । तदभावेऽभावात्तस्य तन्निमित्तत्वे सकलात्मना तन्निमित्तता स्याद्, व्यतिरेकाभावाविशेषात् । अथासर्वगतस्येश्वरबोधस्य नित्यत्वात्कालव्यतिरेकाभावेऽपि न देशव्यतिरेकासिद्धिः, सकलात्मनां तु नित्यसर्वगतत्वात्कालदेशव्यतिरेकासिद्धिरिति मतं तर्हि दिक्कालाकाशानां तत एव सर्वोत्पत्तिमन्निमित्तकारणता मा भूत् । एतेनैवेश्वरस्य तन्निमित्तकारणत्वं प्रतिक्षिप्तं, नित्येश्वरबोधस्यापि तन्निमित्तत्वे सकृत् सर्वत्रोत्पित्सुकार्याणामुत्पत्तिर्न स्यात्, तस्य सर्वत्राभावात् शरीरप्रदेशवर्तिनोऽपि – अष्टसहस्रीतात्पर्यविवरणम् एतेन कर्मवैचित्र्यादेव कामादिप्रभववैचित्र्यसमर्थनेन । भाष्ये तस्यापि=बुद्धिमतः Page #236 -------------------------------------------------------------------------- ________________ ६३८ अष्टसहस्त्रीतात्पर्यविवरणम् सर्वत्र बहिनिमित्तकारणत्वे देशव्यतिरेकस्याप्यभावात् कथमन्वयमात्रेण तत्कारणत्वं युक्तम् ? नित्येश्वरज्ञानस्य सर्वगतत्वेऽप्ययमेव दोषः । तस्यानित्यासर्वगतत्वात् कालदेशव्यतिरेकसिद्धेस्तन्वादौ निमित्तकारणत्वसिद्धिरिति चेत्, न, ईश्वरस्य कदाचित्क्वचिद् बोधवैधुर्ये सकलवेदित्वविरोधात् । यदि पुनरपरापरसर्वार्थज्ञानस्याविच्छेदात् सदाशेषवेदित्वमविरुद्धं तदा कुतो व्यतिरेकस्तस्य सिद्धयेत् ? कथं चानित्यस्य बोधस्येश्वरबोधान्तरानपेक्षस्योत्पत्तिर्न पुनः सिसृक्षातन्वादिकार्याणामिति विशेषहेतोविना प्रतिपद्येमहि ? तस्य बोधान्तरापेक्षायामनवस्थानं तदवस्थम् । स्यान्मतं,-'पूर्वपूर्वबोधसिसृक्षावशादुत्तरोत्तरबोधसिसृक्षातन्वादिकार्याणामुत्पत्तेरनादित्वात्कार्यकारणभावस्य बीजाङ्करादिवदयमदोष' इति नैतत्सारमीश्वरकल्पनानर्थक्यप्रसङ्गात् । तद्भावे भावाद् बोधादिकार्याणां तत्कारणत्वसिद्धेर्नानर्थक्यमिति चेत्, न, व्यतिरेकासिद्धेः, अन्वयमात्रेण कारणत्वे तदकारणत्वाभिमतानामपि तत्प्रसङ्गात् । न चैकस्वभावाद् बोधात्कामादिकार्यवैचित्र्यं क्रमतोऽपि युज्यते महेश्वरसिसृक्षाभ्यामिति, किमनया चिन्तया ? । (भा०) तयोरेकस्वभावत्वेऽपि कर्मवैचित्र्यात्कामादिप्रभववैचित्र्यमिति चेत्, युक्तमेतत् किन्तु नेश्वरेच्छाभ्यां किञ्चित्, तावतार्थपरिसमाप्तेः । सति कर्मवैचित्र्ये कामादिप्रभववैचित्र्यस्य भावादसत्यभावात् कामादिप्रभवश्चित्रः कर्मबन्धानुरूपतः [का० ९९] इत्यस्यैव दर्शनस्य प्रमाणसिद्धत्वात्, अनिश्चितान्वयव्यतिरेकयोरीश्वरेच्छयोः कारणत्वपरिकल्पनायामतिप्रसङ्गात् । (भा० ) एतेन विरम्यप्रवृत्तिसन्निवेशविशेषादिभ्यः पृथिव्यादेर्बुद्धिमत्कारणपूर्वकत्वसाधनेनेश्वरप्रापणं प्रत्युक्तं, धर्माधर्माभ्यामेवात्मनः शरीरेन्द्रियबुद्धीच्छादिकार्यजननस्य सिद्धेः, बुद्धिमत्कारणपूर्वकत्वमन्तरेणापि विरम्यप्रवृत्तिसन्निवेशविशेषकार्यत्वाचेतनोपादानत्वार्थक्रियाकारित्वादीनां साधनानामुपपत्तेस्ततः पृथिव्यादेर्बुद्धिमत्कारणपूर्वकत्वासिद्धेः । [ईश्वरेण सह सृष्टेरन्वयव्यतिरेको स्तः इति नैयायिकेनोच्यमाने जैनाचार्या निराकुर्वन्ति ।] ननु (भा० ) प्राक्कायकरणोत्पत्तेरात्मनो धर्माधर्मयोश्च स्वयमचेतनत्वाद्विचित्रोपभोगयोग्यतनुकरणादिसम्पादनकौशलासम्भवात् तन्निमित्त Page #237 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० १० का ० ९९ ] मात्मान्तरं, मृत्पिण्डकुलालवदिति चेत्, न । एवमपि प्रकृतसाधनव्यतिरेकानिश्चयात् । तथा हि-तनुकरणभुवनादिकं विवादापन्नं बुद्धिमत्कारणपूर्वकं, विरम्यप्रवृत्तेः सन्निवेशविशिष्टत्वादचेतनोपादानत्वादर्थक्रियाकारित्वात्कार्यत्वाद्वा घटवदिति साधनमुच्यते, तस्यात्मान्तरमीश्वराख्यं बुद्धिमत्कारणमन्तरेणाचेतनस्यात्मनोऽनीशस्य धर्माधर्मयोश्चाचेतनयोर्विचित्रोपभोग ६३९ योग्यतनुकरणभुवनादिनिर्मापणकौशलासम्भवात्तन्निमित्तकारणात्मान्तरं बुद्धिमत्कारणमेषितव्यमित्यनेन व्यतिरेकः समर्थ्यते । कुलालमन्तरेण मृत्पिण्डदण्डादेः स्वयमचेतनस्य घटादिनिष्पादनकौशलासम्भववदिति वैधर्म्यदृष्टान्तप्रदर्शनम् । सत्येव कुलाले मृत्पिण्डादेर्घटादिसंपादनसामर्थ्यदर्शनादिति चान्वयसमर्थनमभिधीयते । न चैतदभिधातुं शक्यमन्यथानुपपत्तेरभावात् । बुद्धिमता कारणेन विना विरम्यप्रवृत्त्यादेरसम्भवादन्यथानुपपत्तिरस्त्त्येवेति चेत्, न, ( भा० ) तस्यापि वितनुकरणस्य तत्कृतेरसम्भवात्, कालादिवत् । ( भा० ) तादृशोऽपि निमित्तभावे कर्मणामचेतनत्वेऽपि तन्निमित्तत्वमप्रतिषिद्धं, सर्वथा दृष्टान्तव्यतिक्रमात् । यथैव हि कुलालादिः सतनुकरणः कुम्भादेः प्रयोजको दृष्टान्तस्तनुकरणभुवनादीनामशरीरेन्द्रियेश्वरप्रयोजकत्वकल्पनया व्यतिक्रम्यते, तथा कर्मणामचेतनानामपि तन्निमित्तत्वकल्पनया बुद्धिमानपि दृष्टान्तो व्यतिक्रम्यतां, विशेषाभावात् । स्यान्मतं—‘सशरीरस्यापि बुद्धीच्छाप्रयत्नवत एव कुलालादेः कारकप्रयोक्तृत्वं दृष्टं, कुटादिकार्यं कर्तुमबुद्ध्यमानस्य तददर्शनाद्, तद्बुद्धिमतोऽपीच्छापाये तदनुपलब्धेस्तदिच्छावतोऽपि प्रयत्नाभावे तदनुपलम्भात् तद्वद्वितनुकरणस्यापि अष्टसहस्त्रीतात्पर्यविवरणम् कारणस्यापि, वितनुकरणस्य = तनुकरणरहितस्य, तत्कृतेः = करणभुवनादिकृतेः । कालादिवदिति टीकाकृतोक्तो दृष्टान्तस्तादृशोऽपीत्यग्रेतनभाष्यफक्किकयाऽन्वेति । तद्वद्विनुकरणस्यापीति प्रयोगश्चात्र कार्यं सकर्तृकं कार्यत्वात् घटवदित्याकार एव, पक्षतावच्छेदकं च प्रागभावप्रतियोगित्वं, न तु कृतिसाध्यत्वादिकमिति न सिद्धसाधनं, पक्षतावच्छेदका Page #238 -------------------------------------------------------------------------- ________________ ६४० अष्टसहस्त्रीतात्पर्यविवरणम् बुद्धिमतः स्रष्टुमिच्छतः प्रयत्नवतः शश्वदीश्वरस्य समस्तकारकप्रयोक्तृत्वोपपत्तेर्न दृष्टान्तव्यतिक्रमः, सशरीरत्वेतरयोः कारकप्रयुक्ति प्रत्यङ्गत्वात् । न हि सर्वथा दृष्टान्तदार्ष्टान्तिकयोः साम्यमस्ति तद्विशेषविरोधाद्' इति तदयुक्तं वितनुकरणस्य बुद्धीच्छाप्रयत्नानुपपत्तेर्मुक्तात्मवत्, शरीराद् बहिः संसार्यात्मवत्, कालादिवद्वेति । शरीरेन्द्रियाद्युत्पत्तेः पूर्वमात्मना व्यभिचार इति चेत्, न तस्यापि बुद्धीच्छाप्रयत्नरहितत्वोपगमादन्यथा स्वमतविरोधात् । परेषां तु तस्य सशरीरस्यैव बुद्ध्यादिमत्त्वाभ्युपगमान्न तेनानेकान्तः । ननु चेश्वरस्य धर्मित्वे तदप्रतिपत्तावाश्रयासिद्धो हेतुरिति चेत्, न, प्रसङ्गसाधनेऽवश्यमाश्रयस्यानन्वेषणीयत्वात् तत्प्रतिपत्तिसद्भावाच्च । ननु यतः प्रमाणादीश्वरस्यास्मद्विलक्षणस्य धर्मिणः प्रतिपत्तिस्तेनैव हेतुर्बाध्यते इति चेत्, न, आत्मान्तरस्य सामान्येनेश्वराभिधानस्य धर्मित्वात् सकलकारकप्रयोक्तृत्वेन बुद्ध्यादिमत्त्वेन च तस्य विवादापन्नत्वात् । [योगः ईश्वरस्याशरीरत्वमनादिनिधनं साधयितुमिच्छति किन्तु जैनाचार्या निराकुर्वन्ति ।] अथ ‘तन्वादिकारकाणि विवादापन्नानि चेतनाधिष्ठितानि, विरम्यप्रवृत्त्यादिभ्यो वास्यादिवदित्यनुमानात् समस्तकारकप्रयोक्तृत्वं बुद्ध्यादिसम्पन्नत्वं चेश्वरस्य साध्यते ततोऽशरीरेन्द्रियत्वम्, अनाद्यनन्ततन्वादिकार्यसन्ताननिमित्तकारणस्यानाद्यनन्तत्वसिद्धेरनाद्यनन्तस्य शरीरत्वविरोधात् । अशरीरत्वमपि तस्यानाद्यनन्तमस्तु बुद्धीच्छाप्रयत्नवत्' इति मतं तदयुक्तं, प्रमाणबाधनात् । तथा हि, नेश्वरेऽशरीरअष्टसहस्त्रीतात्पर्यविवरणम् वच्छेदेन साध्यसिद्धेरुद्देश्यत्वाच्च न घटादिरूपकार्यस्य सकर्तृकत्वसिद्ध्याऽशतोऽपि तत् । न च अत्र शरीरजन्यत्वमुपाधिरङ्करादौ साध्यव्यापकत्वसन्देहेऽपि सन्दिग्धोपाधित्वस्य दुर्वारत्वेन तदाहितव्यभिचारसंशयसत्त्वेनानुमानानवताराल्लाघवाद् व्यभिचारज्ञानत्वेनैव विरोधित्वात् पक्षतत्समयोरपि व्यभिचारसंशयस्य तथात्वादिति वाच्यम्, प्रकृते कार्यत्वावच्छिन्नं प्रति कर्तृत्वेन कारणत्वनिश्चयाल्लाघवतर्कावतारे व्यभिचारसंशयस्याविरोधित्वात्, अनुकूलतर्कानवतार एव व्यभिचारसंशयाधायकस्य सन्दिग्धोपाधेर्दोषत्वादित्याहुः । वितनुकरणस्येति ईश्वरः बुद्धीच्छाप्रयत्नवान्न भवति, वितनुकरणत्वान्मुक्तात्मवदिति प्रयोगः । परेषां तु=जैनानां तु, तस्य शरीरेन्द्रियाद्युत्पत्तिप्राक्कालवर्तिन आत्मनः सशरीरस्यैवेति अत्र तैजसकार्मणाभ्यामिति शेषः । तत्प्रतिपत्तिसद्भावाच्चेति तथा च विकल्पसिद्धधर्म्युपगमान्नाश्रयासिद्धिरिति भावः । नेश्वर इति यद्यपि अशरीरत्वं शरीरपरिग्रहात्यन्ताभावो Page #239 -------------------------------------------------------------------------- ________________ ६४१ द्वितीयो भागः [परि० १०-का. ९९] त्वमनाद्यनन्तमशरीरत्वात्, परप्रसिद्ध्या कायकरणोत्पत्तेः पूर्वमस्मदाद्यशरीरत्ववत् । नेश्वरबुद्ध्यादयो नित्या बुद्ध्यादित्वादस्मदादिबुद्ध्यादिवदिति । एतेनागमात् अपाणिपाद इत्यादेरीश्वरस्याशरीरत्वसाधनं प्रत्याख्यातं, तस्य युक्तिबाधितत्वात् । ततः एव सशरीरो महेश्वरोऽस्त्विति चेत्, न, तच्छरीरस्यापि बुद्धिमत्कारणापूर्वकत्वे तेनैव कार्यत्वादिहेतूनां व्यभिचारात् । तस्य बुद्धिमत्कारणपूर्वकत्वे वापरापरशरीरकल्पनायामनवस्थाप्रसङ्गात् पूर्वपूर्वस्वशरीरेणोत्तरोत्तरस्वशरीरोत्पत्तौ भवस्य निमित्तकारणत्वे सर्वसंसारिणां तथा प्रसिद्धेरीश्वरकल्पनावैयर्थ्यात्, स्वोपभोग्यभवनाद्युत्पत्तावपि तेषामेव निमित्तकारणत्वोपपत्तेः, इति न कार्यत्वाचेतनोपादानत्वसन्निवेशविशिष्टत्वहेतवो गमकाः स्युः । अष्टसहस्त्रीतात्पर्यविवरणम् ऽनाद्यनन्तत्वेन व्याप्त इति हेतोविरुद्धत्वं, तथापि आत्मनिष्ठस्य शरीरपरिग्रहाभावस्य ध्वंसपर्यवसितस्य ग्रहान्न दोष इति बोध्यम् । एतेनेति ईश्वरेऽशरीरत्वस्य कादाचित्कत्वानुमानप्रदर्शनेनेत्यर्थः । कथं वाऽपाणिपादत्वप्रतिपादक एवागमः प्रदेशान्तरे ईश्वरस्य वेदादिप्रणिनीषया ब्रह्मादिशरीरपरिग्रहं प्रतिपादयन् स्वाङ्गैरेव न विरुन्ध्यात् ? (शङ्का) । भूतावेशन्यायेन तस्य ब्रह्मादिशरीरपरिग्रहोपपत्तिरिति चेद्, दूराद् भ्रान्तोऽसि, भूतावेशस्यापि स्वीयवैक्रियशरीरेणात्मान्तरशरीरे भूतप्रवेशरूपस्य तददृष्टहेतुकत्वात्, अन्यथात्मविभुत्वपक्षे सर्वत्र सर्वावेशापत्तेः, तस्माददृष्टहेतुकयोरावेशपरिग्रहयोर्मध्ये नैकतरस्यापीश्वरे सम्भव इति सुष्ठुक्तं श्रीहेमसूरिभिः धर्माधर्मी विना नाङ्गं, विनाङ्गेन मुखं कुतः । मुखाद्विना न वक्तृत्वं, तच्छास्तार: परे कथम् ? ॥ इत्यादि, [वीतरागस्तोत्र ७.१] अथ आवेशे आविशतोऽदृष्टं न हेतुः किं त्वावेशाधिकरणस्य ततस्तद्गतयोरेव सुखदुःखयोरुत्पादनात् तद्वत् परादृष्टेनेश्वरस्य ब्रह्मादिशरीरग्रहोपपत्तिरिति चेत्, न, आवेशे आविशतोऽप्यदृष्टस्य तद्गतबन्धोदयनिर्जरादिनिर्वाहकस्य हेतुत्वेनोभयादृष्टजन्यत्वव्यवस्थितेः, अन्यथा मुक्तस्यापि क्वचिदावेशापत्तेः, किञ्च आविशत ईश्वरस्यावेशाधिकरणब्रह्माद्यात्मभिन्नत्वे ब्रह्मविष्णशिवैक्यप्रतिपादकश्रतिविरोधोऽपि । न च शबावेशवद ब्रह्मादिशरीरे वेदादिहेतावीश्वरावेशोपपत्तिः, तच्छब्दे तच्छरीरस्येव तददृष्टस्यापि हेतुत्वात्, दृष्टमर्यादातिक्रमे च विनैव शरीरावेशं वेदाधुच्चारेण व्यवहारं निर्वाहयेदिति न किञ्चिदेतत् । सर्वावेशवासनां Page #240 -------------------------------------------------------------------------- ________________ अष्टसहस्त्रीतात्पर्यविवरणम् (भा० ) स्थित्वाप्रवर्तनार्थक्रियादि चेतनाधिष्ठानादिति नियमे पुनरीश्वरादेरपि मा भूत् । ६४२ अन्यथेश्वरदिक्कालाकाशाश्चेतनाधिष्ठिताः स्युः सर्वकार्येषु क्रमजन्मसु स्थित्वा - प्रवर्तनादर्थक्रियाकारित्वाद्वास्यादिवदिति न्यायात् । तथा चेश्वरोऽपीश्वरान्तरेणाधिष्ठित इत्यनवस्था स्यात्, अन्यथा स्यात्तेनैवास्य हेतोर्व्यभिचारः । [भवतां ईश्वरो बुद्धिमान् पुनः निन्द्यसृष्टिं कथं सृजति ? इति जैनाचार्या दोषानारोपयन्ति ।] (भा० ) नायं प्रसङ्गो, बुद्धिमत्त्वादिति चेत्, त एव तर्हि प्रहीणतनुकरणादयः प्राणिनो मा भूवन् । यथैव हि बुद्धिमानीश्वरो नाधिष्ठात्रन्तरं चेतनमपेक्षते तथा प्रहीणान् कुब्जादिशरीरकरणादीनपि मा स्म करोत् सातिशयं तद्विदः प्रहीणस्वकार्याकरणदर्शनात् । प्रहीणतनुकरणादयः प्राणिनां ( भा० ) कर्मणो वैचित्र्यादिति चेत्, तर्हि कर्मणामपि (भा०) तेषामीश्वरज्ञाननिमित्तत्वे समानप्रसङ्गः । तान्यपि प्रहीणतनुकरणादिकारणानि मा भूवन्निति । (भा०) तदनिमित्तत्वे तनुकरणादेरपि तन्निमित्तत्त्वं मा भूद्विशेषा भावात् । एवं ( भा० ) चार्थक्रियादेरपि ताभ्यामैकान्तिकत्वं । कर्मणः स्थाणोश्चार्थक्रियाकारित्वस्थित्वाप्रवर्तनयोश्चेतनाधिष्ठानाभावेऽपि भावात् । अष्टसहस्त्रीतात्पर्यविवरणम् चानुपदमेव निराकरिष्यामः । ईश्वरादेरपि मा भूदित्यत्र स्थित्वाप्रवर्त्तनादीति योगः । अन्यथेति न च स्ववृत्तिज्ञानविशेष्यत्वं स्वजन्यव्यापारभागित्वं वा चेतनाधिष्ठितमीश्वरादावप्य Page #241 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि० १०-का. ९९] ६४३ (भा०) ततः कर्मबन्धविशेषवशाच्चित्राः कामादयस्ततः कर्मवैचित्र्यम् इति स्थितम् । (भा० ) न हि भावस्वभावोपालम्भः करणीयोऽन्यत्रापि तथैव (भा०) तत्प्रसङ्गानिवृत्तेः । यथैव हि कथमचेतनः कर्मबन्धः कामादिवैचित्र्यं कुर्यात् कामादिर्वा चेतनस्वभावः कथमचेतनं कर्मवैचित्र्यमिति तत्स्वभावस्योपालम्भः प्रवर्त्यते तथा कथमचेतनमुन्मत्तकादिभोजनमुन्मादादिवैचित्र्यं विदधीत प्राणिनामुन्मादादिर्वा चेतनः कथमचेतनं मृदादिरूपवैचित्र्यमित्यपि तत्स्वरूपोपालम्भः किमिति प्रसज्यमानो निवर्त्यते ? तथा दृष्टत्वादिति चेत्, तत एव प्रकृतस्वभावोपालम्भोऽपि निवर्त्यतां, तथानुमितत्वात् । न चैवमीश्वरस्याप्यनुमितत्वादुपालम्भप्रसङ्गनिवृत्तिः स्यादिति शङ्कनीयं, तदनुमानस्यानेकदोषदुष्टत्वात् । तथा हि-तनुकरणभुवनादेः कार्यत्वादिसाधनं किमेकबुद्धिमत्कारणत्वं साधयेदनेकबुद्धिमत्कारणत्वं वा ? प्रथमपक्षे प्रासादादिनानेकसूत्रधारयजमानादिहेतुना तदनैकान्तिकम् । द्वितीयपक्षे सिद्धसाधनं, नानाप्राणिनिमित्तत्वात्तदुपभोग्यतन्वादीनां, तेषां तददृष्टकृतत्वात् । एतेन बुद्धिमत्कारणसामान्यसाधने सिद्धसाधनमुक्तं, तदभिमतविशेषस्याधिकरणसिद्धान्तन्यायेनाप्य - अष्टसहस्रीतात्पर्यविवरणम् विरुद्धमितीष्टापत्तिरत्रेति शङ्कनीयम् । कर्तृसाक्षिव्यवस्थया ज्ञानमात्रेणाधिष्ठितत्वासिद्धराद्यस्य व्यापारेऽपि व्यापारान्तरापेक्षायामनवस्थापत्तेश्च द्वितीयस्य निरासादिति भावः । उन्मत्तकादियो जनं धत्तूरचूर्णादिप्रयोगः, मृदादिस्तू पवैचित्र्यं सुवर्णाभिप्रायेण विचित्रां मृदादिप्रचयरचनामित्यर्थः । तेषां तददृष्टकृतत्वादिति तथा च तनुकरणभुवनादिकं सकर्तृकं, बुद्धिमत्कर्तृकं वेत्यादावदृष्टद्वाराऽस्मदादिना सिद्धसाधनमर्थान्तरं वेति भावः । तदभिमतेति १. भोजनम् इति अष्टसहस्रीसम्मतः पाठः । २. रूप इति अष्टसहस्रीसम्मतः पाठः । Page #242 -------------------------------------------------------------------------- ________________ ६४४ अष्टसहस्त्रीतात्पर्यविवरणम् सिद्धेः । सामान्यविशेषस्य साध्यत्वाददोष इति चेत्, न, दृष्टादृष्टविशेषाश्रयसामान्यविकल्पद्वयानतिवृत्तेः, दृष्टविशेषाश्रयस्य सामान्यस्य साध्यत्वे स्वेष्टविघातात्, अदृष्टविशेषाश्रयस्य सामान्यस्य साध्यत्वे साध्यशून्यत्वप्रसङ्गान्निदर्शनस्य । दृष्टेतरविशेषाश्रयसामान्यसाधनेऽपि स्वाभिमतविशेषसिद्धिः कुतः स्यात् ? अधिकरणसिद्धान्तन्यायादिति चेत्, कोऽयमधिकरणसिद्धान्तो नाम ? यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः । ततो दृष्टादृष्टविशेषाश्रयसामान्यमात्रस्य बुद्धिमन्निमित्तस्य जगत्सु प्रसिद्धौ प्रकरणाज्जगन्निर्माणसमर्थः समस्तकारकाणां प्रयोक्ता सर्वविदलुप्तशक्तिविभुरशरीरत्वादिविशेषाश्रय एव सिद्ध्यतीति चेत्, स्यादेवं, यदि सकलजगन्निर्माणसमर्थेनैकेन समस्तकारकाणां प्रयोक्तृत्वसर्वज्ञत्वादिविशेषोपेतेनाविनाभावि दृष्टेतरविशेषाधिकरणबुद्धिमत्कारणसामान्यं कुतश्चित् सिद्धयेत । न च सिद्धयति, अनेकबुद्धिमत्कारणेनैव स्वोपभोग्यतन्वादिनिमित्तकारणविशेषेण तस्य व्याप्तत्वसिद्धेः समर्थनात् । तथा सर्वज्ञवीतरागकर्तृकत्वे साध्ये घटादिनानैकान्तिकं साधनं, साध्यविकलं च निदर्शनम् । सरागासर्वज्ञकर्तृकत्वे साध्येऽपसिद्धान्तः । सर्वथा कार्यत्वं च साधनं तन्वादावसिद्धं, तस्य कथञ्चित्कारणत्वात् । कथञ्चित्कार्यत्वं तु विरुद्धं, सर्वथा बुद्धिमन्निमित्तत्वात्साध्याद्विपरीतस्य कथञ्चिद् बुद्धिमन्निमित्तत्वस्य साधनात् । तथा पक्षोऽप्यनुमानबाधितः स्यात्, 'अकृत्रिमं जगत्, दृष्टकर्तृकविलक्षणत्वात् खादिवत्' इत्यनुमानस्य तद्बाधकस्यान्यत्र समर्थितत्वात् । इति सूक्तं नेश्वरकृतः संसार इति । - अष्टसहस्त्रीतात्पर्यविवरणम् एककर्तृसिद्धौ तद्गतसार्वज्ञ्यादिसिद्धेरेवाधिकरणसिद्धान्ताधीनत्वाभ्युपगमादित्यर्थः । स्वेष्टविघातादिति कतिपयकारकप्रयोक्तृत्वासर्ववेदित्वप्रतिहतशक्तिकत्वाविभुत्वशरीरत्वादिसिद्धिप्रसङ्गादित्यर्थः । न च सिद्ध्यतीति लाघवावतारेऽपि व्यापकतानवच्छेदकरूपेणानुमितेरनभ्युपगमादित्यर्थः । इति सूक्तं नेश्वरकृतः संसार इति एवं च तन्वादिकार्यस्य कर्तृजन्यत्वे साध्ये ज्ञानादेरेव जनकत्वेन कर्तुरजनकत्वाद् बाध इति प्रत्यक्षजन्यत्वमिच्छाजन्यत्वं कृतिजन्यत्वं च पृथक् पृथक् साध्यत इति तदाश्रयतयेश्वरसिद्धावदोषः, निखिलोपादानगोचरप्रत्यक्षाश्रयस्यान्यस्यासम्भवात्, न हि व्यणुकाद्युपादानगोचरप्रत्यक्षमस्मदादेः सम्भवतीति दक्षंमन्योक्तमपि अकिञ्चित्करं द्रष्टव्यम्, तत्तत्पुरुषीयघटाद्यर्थिप्रवृत्ति प्रत्येव तत्तत्पुरुषीयघटादिमत्त्वप्रकारकोपादानप्रत्यक्षत्वेन हेतुत्वात्कार्यत्वावच्छिन्ने प्रत्यक्षत्वेन हेतुत्वे Page #243 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० १० का ० ९९ ] ननु यदि कर्मबन्धानुरूपतः संसारः स्यान्न अष्टसहस्त्रीतात्पर्यविवरणम् ६४५ मानाभावात्, चिकीर्षाया अपि प्रवृत्तावेव हेतुत्वेनेच्छात्वेन कृतेरपि विलक्षणकृतित्वेन घटादावेव हेतुत्वेन कृतित्वेनापि कार्यत्वावच्छिन्नं प्रत्यहेतुत्वात् । न च प्रवृत्ताविव घटादावपि प्रत्यक्षेच्छयोरन्वयव्यतिरेकाभ्यां हेतुत्वे सिद्धे तत्कार्यतावच्छेदकं लाघवात् कार्यत्वमेव कल्प्यते, घटत्वपटत्वादीनामानन्त्यात् शरीरलाघवमपेक्ष्य सङ्ग्राहकत्वलाघवस्य बलवत्त्वात्, कृतेरपि यद्विशेषयोरिति न्यायेन सामान्यतो हेतुत्वसिद्धिरिति वाच्यम् एवं सति शरीरत्वेन चेष्टात्वेन च हेतुत्वान्नित्यशरीरचेष्टयोरपि सिद्धयापत्तेः । न च परमाणव एव प्रयत्नवदीश्वरात्मसंयोगजन्यचेष्टावन्त ईश्वरस्य नित्यानि शरीराणि, टीकाप्रथम श्लोकव्याख्याने उदयनाचार्यैस्तथा स्वीकृतत्वात् । चेष्टाया नित्यत्वे तु मानाभावोऽनित्यचेष्टाया अपि सर्गा सम्भवात्, ईश्वरप्रयत्नाधीनचेष्टावतां सर्वेषामेव वेश्वरशरीरत्वम्, अत एव सर्वावेशपरा सर्वाभेदश्रुतिरिति वाच्यम्, परमाणूनां नित्येश्वरशरीरत्वे तद्गतक्रियाया अपि नित्यायाश्चेष्टायाः कल्पनापत्तेः, सर्वावेशे च सर्वत्र क्रियामात्रस्य चेष्टात्वपर्यवसाने विलक्षणचेष्टात्वजात्युच्छेदापत्तेः, सर्वशरीरावच्छिन्नविलक्षणमन:संयोगजनकप्रयत्नवदात्मसंयोगरूपसर्वावेशस्वीकारे च प्रत्यात्मनियतमनोभिन्नमनः प्रवेशनेन सर्वेषामुन्मादजनकताया ईश्वरस्यापत्तेः, अन्यथावेशपदार्थाघटनात्, उपमामात्रस्य सर्वात्मसाधारणत्वात् सर्वात्मगुणसाधारणकारणत्वेन पुनरावेशकारणत्वं नेश्वरस्य युक्तिमत् कालादिवदिति दिग् । किञ्च गुणस्य साश्रयत्वव्याप्तौ मानाभावादुपादानप्रत्यक्षस्य निराश्रयस्यैव सिद्धौ वेदान्तिमतसाम्राज्ये कथं नैयायिकाभिमतेश्वरसिद्धिः ? किञ्चोपादानप्रत्यक्षं लौकिकमेव जनकमिति कथं तादृशप्रत्यक्षाश्रयतयेश्वरः सिद्धयेत् ? सन्निकर्षदोषविशेषादिनियम्यलौकिकविषयतायास्तज्ज्ञानेऽभावात् । यदि च प्रणिधानाद्यर्थं मनोवहनाड्यादौ प्रवृत्तिस्वीकारादनुमित्यादिसाधारणं यद्धर्मावच्छिन्ने यदर्थिप्रवृत्तिस्तद्धर्मावच्छिन्ने तत्प्रकारकज्ञानं हेतुरिति मतं, तदेश्वरे ज्ञानमात्रसिद्धावपि कथं प्रत्यक्षसिद्धिः ? प्रत्यक्षत्वमेव चेन्द्रियजन्यतावच्छेदकं लाघवान्न तु जन्यप्रत्यक्षत्वं गौरवादिति का प्रत्याशा नित्यप्रत्यक्षाश्रयस्येश्वरस्य ? । यत्तु दीधितिकृतोक्तं घटत्वाद्यवच्छिन्ने कृतित्वेन हेतुत्वेऽपि खण्डघटाद्युत्पत्तिकाले कुलालादिकृतेरसत्त्वादीश्वरकृतिसिद्धिरिति, तदसत्, घटत्वाद्यवच्छिन्ने विजातीयकृतित्वेनैव हेतुत्वात् कृतित्वेन व्यापकधर्मेणान्यथासिद्धेरतत्त्वात् । केचित्तु कुलालादिकृतेः स्वप्रयोज्यविजातीयसंयोगसम्बन्धेन खण्डघटोत्पत्तिकालेऽपि सत्त्वात् नेश्वरकृतिसिद्धिः । न च वैशेषिकनये श्यामघटादिनाशोत्तरं रक्तघटाद्युत्पत्तिकाले Page #244 -------------------------------------------------------------------------- ________________ ६४६ अष्टसहस्त्रीतात्पर्यविवरणम् (भा० ) तर्हि केषाञ्चिन्मुक्तिरितरेषां संसारश्च, कर्मबन्धनिमित्ताविशेषादिति चेत्, न तेषां शुद्ध्यशुद्धितः प्रतिमुक्तीतरसम्भवादात्मनाम् । अष्टसहस्त्रीतात्पर्यविवरणम् प्राक्तनपरमाणुद्वयसंयोगद्व्यणुकादे शान्नैवं सम्भवतीति वाच्यम्, पूर्वसंयोगादिध्वंसपूर्वव्यणुकादिध्वंसानामुत्तरसंयोगव्यणुकादावन्ततः कालोपाधितयाऽपि जनकत्वात्तत्कालेऽपि कुलालादिकृतेः स्वप्रयोज्यविजातीयसंयोगेन सत्त्वात्, अन्यथा घटत्वाद्यवच्छिन्ने दण्डादिहेतुताया अपि भङ्गापत्तेः । न च दण्डादेः स्वप्रयोज्यविजातीयसंयोगेन हेतुत्वेऽपि कृतेर्लाघवाद्विशेष्यतयैव तत्त्वमुचितं, न च कुलालकृतिस्तदा त(?)अस्तीति वाच्यम्, विजातीयसंयोगत्वेनापि सम्बन्धत्वे गौरवाभावात्, निश्चिताव्यभिचारकत्वाच्च स्वप्रयोज्यत्वस्य तु सम्बद्धसम्बन्धत्वादित्यादि । यत्तु भट्टाचार्यैरुक्तं तत्तत्कार्याणां देशकालादिनियम ईश्वरेच्छात एवेति तत्सिद्धिः, वदन्ति हि पामरा अपीश्वरेच्छैव नियामिकेति, तदपि हृदयदरीदृढरूढगूढश्रद्धालुतोल्लासमात्रं, पामरसंवादस्य नियतिनियामकत्वेऽपि भूम्ना दर्शनात्, सा च तत्त्वान्तरं वा केवलज्ञानं वेत्यन्यदेतत्, तथाभवितव्यतैव सर्वत्र नियामिकेति तु प्रामाणिक: प्रवादः, तस्याः सकलकारणाक्षेपकत्वेन सर्वसंवादात् । यदपि तेषां पद्यं समालोच्य क्षुद्रेष्वपि भवननाथस्य भुवने, नियोगाद्भूतानां मितसमितिदेशस्थितिलयम् । अये ! केयं भ्रान्तिः सततमपि मीमांसनजुषां, व्यवस्थातः कार्ये जगति जगदीशापरिचयः ॥१॥ इति [ ] तदुपरि मदीयानि पद्यानि अनित्ये नित्ये वा नियतिनियमाद्वस्तुनि जनिव्यवस्थां धर्माणां स्थितिमपि समालोच्य विशदाम् । अये ! केयं भ्रान्तिः सततमपि तर्कव्यसनिनां, वृथा यद् व्यापारो जगति जगदीशस्य गदितः ॥१॥ प्रवाहेणानादिः स च परिविशुद्धोऽपि गदितो, मलात्यन्ताभावान्ननु भवति शुद्धिर्गगनवत् । तमेकं मन्यन्तां सदृशगतिभेदाग्रहवशानिराशानां सर्वं सफलमफलं कुग्रहजुषाम् ॥२॥ Page #245 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० १० का ० ९९ ] न हि जीवाः शश्वदशुद्धित एव व्यवस्थिताः स्याद्वादिनां याज्ञिकानामिव, कामादिस्वभावत्वनिराकरणात्, तत्स्वभावत्वे कदाचिदौदासीन्योपलम्भविरोधात् । नापि शुद्धित एवावस्थिताः कापिलानामिव, प्रकृतिसंसर्गेऽपि तत्र कामाद्युपलम्भविरोधात्, प्रकृतावेव कामाद्युपलम्भे पुरुषकल्पनावैयर्थ्यात्, तदुपभोगस्यापि तत्रैव सम्भवात् । न ह्यन्यः कामयतेऽन्यः काममनुभवतीति वक्तुं युक्तम् । नापि सर्वे सम्भवद्विशुद्धय एव जीवाः प्रमाणतः प्रत्येतुं शक्याः, संसारिशून्यत्वप्रसङ्गात् । किं तर्हि ? शुद्धयशुद्धिभ्यां व्यवतिष्ठन्ते, जीवास्ते शुद्धयशुद्धितः इति वचनात् [का० ९९] । ततः शुद्धिभाजामात्मनां प्रतिमुक्तिरशुद्धिभाजां संसारः । केषाञ्चित् प्रतिमुक्तिः स्वकाललब्धौ स्यादिति प्रतिपत्तव्यम् ॥९९॥ के पुनः शुद्धयशुद्धी जीवानामित्याहु: अष्टसहस्त्रीतात्पर्यविवरणम् यदेवैतद्रूपं प्रथममथ सालम्बनपदे, तदेव ध्यानस्थं घटयति निरालम्बनसुखम् । रमागौरीगङ्गावलयशरकुन्ताऽसिकलितं, कथं लीलारूपं स्फुटयतु निराकारपदवीम् ॥३॥ अतर्क्या लीलैशीत्यपि कपिकुलाधीतचपलस्वभावोद्भ्रान्तत्वं विदधति परीक्षां हि सुधियः । न यद्ध्यानस्याङ्गं तदिह भगवद्रूपमपि किं, जगल्लीलाहेतुर्बहुविधमदृष्टं विजयते ॥४॥ ततो यो योगाङ्गैर्बहुभिरिह गाङ्गैरिव जलैविशुद्धैः शुद्धात्माऽलभत विरजा: सिद्धपदवीम् । निषेव्यो ध्येयोऽसौ निरुपधिविशुद्धिर्भगवतो, ह्युपास्यत्वे तन्त्रं न तु विमतकर्त्रेकविभुता ॥५॥ [शिखरिणी] ६४७ कामादीति जीवत्वावच्छेदेनायं निषेधः तेन नांशतो बाधः, सम्भवद्विशुद्धयो = विशुद्धिप्रागभाववन्तः, संसारिशून्यत्वप्रसङ्गादिति प्रागभावस्य प्रतियोगिजनकत्वनियमादित्यर्थः ॥९९॥ Page #246 -------------------------------------------------------------------------- ________________ ६४८ अष्टसहस्त्रीतात्पर्यविवरणम् शुद्ध्यशुद्धी पुनः शक्ती ते पाक्यापाक्यशक्तिवत् । साधनादी तयोर्व्यक्ती स्वभावोऽतर्कगोचरः ॥१००॥ [भव्यत्वाभव्यत्वयोर्लक्षणम्] शुद्धिस्तावज्जीवानां भव्यत्वं केषाञ्चित्सम्यग्दर्शनादियोगान्निश्चीयते । अशुद्धिरभव्यत्वं तद्वैपरीत्यात् सर्वदा प्रवर्तनादवगम्यते छद्मस्थैः, प्रत्यक्षतश्चातीन्द्रियार्थदर्शिभिः । इति (भा०) भव्येतरस्वभावौ शुद्ध्यशुद्धी जीवानां । (भा०) तेषां सामर्थ्यासामर्थ्य शक्त्यशक्ती इति यावत् । ते (भा०) माषादिपाक्यापरशक्तिवत् सम्भाव्येते सुनिश्चितासम्भवबाधकप्रमाणत्वात् । तत्र शुद्धेर्व्यक्तिः सादिस्तदभिव्यञ्जकसम्यग्दर्शनादीनां सादित्वात् । एतेनानादिः सदाशिवस्य शुद्धिरिति प्रत्युक्तं प्रमाणाभावाद् दृष्टातिक्रमादिष्टविरोधाच्च । अशुद्धः पुनरभव्यत्वलक्षणाया व्यक्तिरनादिस्तदभिव्यञ्जकमिथ्यादर्शनादिसन्ततेरादित्वात् । पर्यायापेक्षयापि शक्तेरनादित्वमिति चेत्, न, द्रव्यापेक्षयैवानादित्वसिद्धेः । इति (भा०) शक्तेः प्रादुर्भावापेक्षया सादित्वम् । ततः शक्तिर्व्यक्तिश्च स्यात्सादिः, स्यादनादिरित्यनेकान्तसिद्धिः । यदि वा जीवानाम् । (भा० ) अभिसन्धिनानात्वं शुद्ध्यशुद्धी । स्वनिमित्तवशात् सम्यग्दर्शनादिपरिणामात्मकोऽभिसन्धिः शुद्धिः, मिथ्या - अष्टसहस्त्रीतात्पर्यविवरणम् तयोर्व्यक्ती इति, गुणनिमित्तसाहजिकक्षयोपशमाधीनकार्यप्रादुर्भावपर्यायावित्यर्थः । ननु निक्षेपरूपमुपेयोपायतत्त्वग्राहकमुपायान्तरमस्तीति प्रमाणनयैरेवेत्यवधारणं कुत इत्या Page #247 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि. १०-का० १००] ६४९ दर्शनादिपरिणामात्मकोऽशुद्धिर्दोषावरणहानीतरलक्षणत्वात्तेषां शुद्ध्यशुद्धि (भा०) शक्त्योरिति भेदमाचार्यः प्राह, ततोऽन्यत्रापि । भव्याभव्याभ्यां भव्येष्वेव ।। (भा०) साद्यनादी प्रकृतशक्त्योर्व्यक्ती । सम्यग्दर्शनाद्युत्पत्तेः पूर्वमशुद्ध्यभिव्यक्ते मिथ्यादर्शनादिसन्ततिरूपायाः कथञ्चिदनादित्वात्, सम्यग्दर्शनाद्युत्पत्तिरूपायाः पुनः शक्त्यभिव्यक्तेः सादित्वात् । [स्वभावोऽतर्कगोचरः इति तस्य समर्थनं कुर्वन्ति आचार्याः ।] (भा०) कुतः शक्तिप्रतिनियम इति चेत्, तथास्वभावादिति ब्रूमः । (भा०) न हि भावस्वभावाः पर्यनुयोक्तव्याः, तेषामतर्कगोचरत्वात् । ननु प्रत्यक्षेण प्रतीतेऽर्थस्वभावैरुत्तरं वाच्यं सति पर्यनुयोगे, न पुनरप्रत्यक्षे, अतिप्रसङ्गादिति चेत्, न, अनुमानादिभिरपि प्रतीते वस्तुनि भावस्वभावैरुत्तरस्याविरोधात् प्रत्यक्षवदनुमानादेरपि प्रमाणत्वनिश्चयात् । ततः परमागमात्सिद्धप्रामाण्यात् प्रकृतजीवस्वभावाः प्रतीतिमनुसरन्तो न तर्कगोचरा यतः पर्यनुयुज्यन्ते, तर्क गोचराणामप्यागमगोचरत्वेन पर्यनुयोगप्रसङ्गात् तद्वत्प्रत्यक्षविषयाणामपि, इति न प्रत्यक्षागमयोः स्वातन्त्र्यमुपपद्येत तर्कवत् । तदनुपपत्तौ च नानुमानस्योदयः स्यात्, धर्मिप्रत्यक्षादेः प्रतिज्ञायमानागमार्थस्य च प्रमाणान्तरापेक्षत्वादित्यनवस्थानात् । ततः सूक्तं-कर्मबन्धानुरूपत्वेऽपि कामादिप्रभवस्य भावसंसारस्य द्रव्यादिसंसारहेतोः प्रतिमुक्तीतरसिद्धिर्जीवानां शुद्धयशुद्धिवैचित्र्यादिति ॥१०॥ ननु चोपे यतत्त्वस्य सर्वज्ञत्वादेरुपायतत्त्वस्य ज्ञापककारकविकल्पस्य हेतुवाददैवादेः प्रमाणनयैरेव कात्स्न्र्यैकदेशतोऽधिगमः कर्तव्यो नान्यथा तदधि - अष्टसहस्त्रीतात्पर्यविवरणम् - शङ्कायामाह-अन्यथेति अन्यप्रकारेण यानि तदधिगमोपायान्तराणि निक्षेपनिर्देशस्वामित्वादीनि तेषामत्रैव प्रमाणनययोरेवान्तर्भावादभिमतानभिमतोपादानत्यागफलोपदेशरूपत्वेन Page #248 -------------------------------------------------------------------------- ________________ ६५० अष्टसहस्त्रीतात्पर्यविवरणम् गमोपायान्तराणामत्रैवान्तर्भावात्, प्रमाणनयैरधिगम इति वचनात् [तत्त्वा० १.६] । तत्र प्रमाणमेव तावद्वक्तव्यं, तत्स्वरूपादिविप्रतिपत्तिसद्भावात् तन्निराकरणमन्तरेण तदध्यवसायानुपपत्तेः, इति भगवता पृष्टा इवाचार्याः प्राहु: तत्त्वज्ञानं प्रमाणं ते युगपत्सर्वभासनम् । क्रमभावि च यज्ज्ञानं स्याद्वादनयसंस्कृतम् ॥१०१॥ [तत्त्वज्ञानं प्रमाणमिति प्रमाणलक्षणस्य निर्दोषत्वमस्ति ।] प्रमाणलक्षणसङ्ख्याविषयविप्रतिपत्तिरनेन व्यवच्छिद्यते । तत्त्वज्ञानं प्रमाणम् इति वचनादज्ञानस्य निराकारदर्शनस्य सन्निकर्षादेश्चाप्रमाणत्वमुक्तं, तस्य स्वार्थाकारप्रमितिं प्रति साधकतमत्वानुपपत्तेः, ज्ञानस्यैव स्वार्थाकारव्यवसायात्मनस्तत्र साधकतमत्वात् । न हि स्वार्थाकारव्यवसायशून्यं निविशेषवस्तुमात्रग्रहणं दर्शनमिन्द्रियादिसन्निकर्षमात्रं श्रोत्रादिवृत्तिमात्रं वा यथोक्तपरिच्छित्तिं प्रति साधकतमं, तद्भावाभावयोस्तस्यास्तद्वत्तापायात् । यद्भावे हि प्रमितेर्भाववत्ता यदभावे चाभाववत्ता तत्तत्र साधकतमं युक्तं, भावाभावयोईयोस्तद्वत्ता साधकतमत्वम् इति वचनात् [ ] । न चैतद्दर्शनादिषु सम्भवति, तद्भावेऽपि स्वार्थप्रमितेः क्वचिदभावात्, संशयादेरन्यथानुपपद्यमानत्वात्, तदभावेऽपि च विशेषणज्ञानाद्विशेष्यप्रमितेः सद्भावोपगमात् । ननु ज्ञानस्याप्येवं साधकतमत्वं मा भूत् संशयादिज्ञाने सत्यपि यथार्थप्रमितेरभावात् तदभावेऽपि च भावादिति चेत्, न, तत्त्वग्रहणात् । तत्त्वज्ञानं प्रमाणमिति हि निगद्यमाने मिथ्याज्ञानं संशयादि मत्याद्याभासं व्यवच्छिद्यते । ततोऽस्य साधकतमत्वं यथोक्तमुपपद्यते एव । नन्वेवमपि तत्त्वज्ञानान्तरस्य प्रमेयस्य प्रमातुश्चात्मनः स्वार्थप्रमितिं प्रति साधकतमत्वात् प्रमाणत्वं कुतो न भवेदिति चेत्, न, तस्य कर्मत्वेन कर्तृत्वेन च साधकतमत्वासिद्धेस्तत्सिद्धौ करणत्वप्रसङ्गात् । करणस्य तत्त्वज्ञानात्मनः प्रमाणत्वे को विरोधः ? तदेवं सकलप्रमाणव्यक्तिव्यापि साकल्येनाप्रमाणव्यक्तिभ्यो व्यावृत्तं प्रतीतिसिद्धं तत्त्वज्ञानं प्रमाणलक्षणं, तस्य - अष्टसहस्त्रीतात्पर्यविवरणम् तेषां तद्रूपत्वादिति भावः ॥१००॥ तस्य तत्त्वज्ञानान्तरस्यात्मनश्च, तदेवमित्यादि सकलेत्यादिविशेषणत्रयेण क्रमेणा Page #249 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि. १०-का० १०१] ६५१ सुनिश्चितासम्भवबाधकत्वात्, सम्भवबाधकस्य, संशयितासम्भवबाधकस्य, कदाचित्क्वचित्कस्यचिन्निश्चितासम्भवबाधकस्य च प्रमाणत्वायोगात्, प्रवृत्तिसामर्थ्यस्यार्थवत्क्रियाप्राप्तेरदुष्टकारणजन्यत्वस्य लोकसंमतत्वस्य च प्रमाणलक्षणस्य तत्त्वार्थश्लोकवातिके प्रपञ्चतोऽपास्तत्वात् । [यदि तत्त्वज्ञानं सर्वथा प्रमाणं भवेत्तर्हि अनेकान्ते विरोधो भविष्यतीति कथने सति जैनाचार्याः समादधते ।] ननु च तत्त्वज्ञानस्य सर्वथा प्रमाणत्वसिद्धेरनेकान्तविरोध इति न मन्तव्यं, (भा० ) बुद्धेरनेकान्तात्, येनाकारेण तत्त्वपरिच्छेदस्तदपेक्षया प्रामाण्यमिति निरूपणात् । (भा०) तेन प्रत्यक्षतदाभासयोरपि प्रायशः सङ्कीर्णप्रामाण्येतरस्थितिरुन्नेतव्या, प्रसिद्धानुपहतेन्द्रियदृष्टेरपि चन्द्रार्कादिषु देशप्रत्यासत्त्याद्यभूताकारावभासनात्, तथोपहताक्षादेरपि सङ्ख्यादिविसंवादेऽपि चन्द्रादिस्वभावतत्त्वोपलम्भात् । कथमेवं क्वचित्प्रमाणव्यपदेश एव क्वचिदप्रमाणव्यपदेश एवेति नियता लोकव्यवस्थितिरिति ? उच्यते । (भा० ) तत्प्रकर्षापेक्षया व्यवपदेशव्यवस्था गन्धद्रव्यादिवत् । यथा च प्रत्यक्षस्य संवादप्रकर्षात्प्रमाणव्यपदेशव्यवस्था प्रत्यक्षाभासस्य च विसंवादप्रकर्षादप्रमाणत्वव्यपदेशव्यवस्थितिः गन्धादिगुणप्रकर्षात्कस्तूरिकादेर्गन्धद्रव्यादिव्यपदेशव्यवस्था तद्व्यवहारिभिरभिधीयते । अष्टसहस्त्रीतात्पर्यविवरणम् व्याप्त्यतिव्याप्त्यसम्भवदोषपरिहारः । भाष्ये बुद्धेरनेकान्तादिति बुद्धेः प्रामाण्यं प्रत्यनेकान्तादित्यर्थः । तदेव स्पष्टयति-येनाकारेणेति । प्रसिद्धेत्यादि तथा च प्रमाणेऽपि क्वचिद् भूतभासमानपर्यायावच्छेदेनाप्रमाजनकत्वरूपाप्रामाण्यस्याप्रमाणेऽपीदन्ताद्यवच्छेदेन धारावाहिफलमपेक्ष्य प्रामाण्यस्योभयत्र च स्वसंवेदनांशे समुच्चये अंशावलम्बित्वांशे च Page #250 -------------------------------------------------------------------------- ________________ अष्टसहस्त्रीतात्पर्यविवरणम् (भा० ) तथानुमानादेरपि कथञ्चिन्मिथ्याप्रतिभासेऽपि तत्त्वप्रतिपत्त्यैव प्रामाण्यमन्यथा ६५२ चाप्रामाण्यमित्यनेकान्तसिद्धिः । ( भा० ) एकान्तकल्पनायां तु नान्तर्बहिस्तत्त्वसंवेदनं व्यवतिष्ठेत तथागतमते । (भा०) स्वयमद्वयादेर्द्वयादिप्रतिभासनाद्रूपादिस्वलक्षणानां च तथैवादर्शनाद्यथा व्यावर्ण्यन्ते । स्वसंवेदनस्य संविन्मात्रे प्रमाणत्वेऽपि तदद्वयक्षणिकपरमाणुरूपे विपर्ययप्रतिभासादप्रमाणत्वकल्पनायां कथमेकान्तहानिर्न स्यात् यत्प्रमाणं तत् प्रमाणमेवेति ? रूपादिदर्शनस्य च रूपादिमात्रे प्रमाणत्वेऽपि स्थूलस्थिरसाधारणाकारप्रतिभासस्य भ्रान्तत्वादप्रमाणतायां कथमेकान्तसिद्धिः ? तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुण [प्र. वा. ३.४४] इति (भा० ) तदविशेषोपलम्भाभ्युपगमेऽपि । भ्रान्तेर्निश्चीयते नेति साधनं संप्रवर्तते [प्र. वा. ३.४४] इति वचनात् तद्व्यवसायवैकल्यं सिद्धमेव । ( भा० ) तत्र च तद्व्यवसायवैकल्ये वा दानहिंसादिचित्ते । अष्टसहस्त्रीतात्पर्यविवरणम् प्रमात्वाप्रमात्वोभयसाम्राज्यादनेकान्तव्यवस्था सुघटेति सिद्धम् । कथञ्चिन्मिथ्याप्रतिभासेऽपीति वासनाविशेषाद्वह्निमत्त्वादिसंसर्गांशे मिथ्याप्रतिपत्तावपि, संवादोत्कर्षात्तत्र प्रामाण्यव्यवस्थितिरन्यथा नेत्यर्थः । लौकिकव्यवहारमपेक्ष्य चेदमुच्यते लोकोत्तरन्तु प्रामाण्यमनेकान्तवासनोपनीतानन्तधर्मात्मकवस्त्वगाहित्वेन संशयादावपि सम्यग्दृष्टेरिति "महाभाष्यप्रसिद्धं विवेचितमध्यात्मसारादावस्माभिः । दृष्ट एवाखिलो गुण इति अर्थानां निरंशत्वसिद्धेरित्यर्थः । सिद्धमेवेति प्रत्यक्षस्य निर्विकल्पकत्वादित्यर्थः । तत्र च रूपादि Page #251 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि० १०-का० १०१] ६५३ (भा०) क्वचिद्धर्माधर्मसंवेदनवत् परोक्षत्वोपपत्तेः तत्त्रिरूपलिङ्गबलभाविनामपि (भा०) विकल्पानामतत्त्वविषयत्वात् कुतस्तत्त्वप्रतिपत्तिः ? । मणिप्रदीपप्रभयोर्मणिबुद्धयाभिधावतः । मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥ [प्र. वा. २.५७] यथा तथाऽयथार्थत्वेऽप्यनुमानावभासयोः । अर्थक्रियानुरोधेन प्रमाणत्वं व्यवस्थितम् ॥ इति [प्र. वा. २.५८] (भा०) मणिप्रदीपप्रभादृष्टान्तोऽपि स्वपक्षघाती, मणिप्रदीपप्रभादर्शनस्यापि संवादकत्वेन प्रामाण्यप्राप्त्या प्रमाणान्तर्भावविघटनात् । कथं प्रमाणे एवेत्यवधारणं घटते ? । (भा०) न हि तत्प्रत्यक्षं स्वविषये विसंवादनात् शुक्तिकादर्शनवद्रजतभ्रान्तौ । तत्राप्रतिपन्नव्यभिचारस्य यदेव मया दृष्टं तदेव मया प्राप्तमित्येकत्वाध्यवसायाद्विसंवादनाभावान्मणिप्रभायां मणिदर्शनस्य प्रत्यक्षत्वे तिमिराशुभ्रमणिनौयानसंक्षोभाद्याहितविभ्रमस्यापि धावद्दवादितरुदर्शनस्य प्रत्यक्षत्वप्रसङ्गादभ्रान्तमिति विशेषणमध्यक्षस्य न स्यात् । धावतां दर्शनादवस्थितानामगानां प्राप्तेविसंवादात् भ्रान्तत्वसिद्धेस्तस्याप्रत्यक्षत्वे कुञ्चिकाविवरे मणिप्रभायां मणेर्दर्शनादपवरकाभ्यन्तरेऽपरिप्राप्तेः कथमिव तस्याभ्रान्तता युज्येत ? इति न प्रत्यक्षं तत्स्यात् । - अष्टसहस्त्रीतात्पर्यविवरणम् दर्शने च, परोक्षत्वोपपत्तेरिति विकल्पलिङ्गानुमेयत्वादित्यर्थः । अतत्त्वविषयत्वात्= तुच्छसामान्यगोचरत्वात्, मणिप्रदीपप्रभयोरिति मणिप्रभायां प्रदीपप्रभायां चेत्यर्थः । मणिप्रभादर्शनस्य प्रामाण्यप्राप्तावपि प्रत्यक्षेऽनुमाने चान्तर्भावसम्भवान्न प्रमाणद्वयविभागव्याघातो भविष्यतीत्याशङ्कायामाह भाष्ये-न हि तत्प्रत्यक्षमित्यादि । स्वविषय इति दीपप्रभांश इत्यर्थः । यदंशे संवादस्तदंशे प्रामाण्यमबाधमिति मत्वाऽऽह वृत्तिकृत्-तत्रेत्यादि । यत्प्रकारेण विसंवादस्तत्प्रकारेण भ्रमत्वे त्वभ्युपगम्यमाने प्रकृतेऽपि तत्तुल्यमित्याहधावतामित्यादि । कुञ्चिकाविवरे द्वारप्रवेशविवरे, माभून्मणिप्रभायां मणिज्ञानं प्रत्यक्षम्, Page #252 -------------------------------------------------------------------------- ________________ अष्टसहस्त्रीतात्पर्यविवरणम् ( भा० ) नापि लैङ्गिकं लिङ्गलिङ्गिसम्बन्धाप्रतिपत्तेरन्यथा दृष्टान्तेतरयोरेकत्वात् किं केन कृतं स्यात् ? तदेतेन प्रतिपन्नव्यभिचारस्य । ६५४ य इत्थं प्रतिभासः स्यात् स न संस्थानवर्जितः । एवमन्यत्र दृष्टत्वादनुमानं तथा सति ॥ इति [ ] प्रज्ञाकरमतमप्यपास्तं, स्वयमसिद्धेन दृष्टान्तेन साध्यसिद्धेरकरणात् । कदाचित्संवादात् प्रत्यक्षत्वेनैव मणिप्रभायां मणिदर्शनस्य दृष्टान्तत्वमयुक्तं । ( भा० ) कादाचित्कार्थप्राप्तेरारेकादेरपि सम्भवात्, प्रत्यक्षत्वप्रसक्तेः । सर्वदा संवादात्तस्य प्रत्यक्षत्वमुदाहरणत्वं चेत्यप्यसारं, तदसिद्धेः । ( भा० ) न हि मिथ्याज्ञानस्य संवादनैकान्तः सम्भवति, विरोधात् । नन्वनुमानस्य संभवत्येवावस्तुविषयत्वेन मिथ्याज्ञानस्यापि सर्वदा संवादनं लिङ्गज्ञानवत् पारम्पर्येण वस्तुनि प्रतिबन्धात् । तदुक्तं अष्टसहस्त्रीतात्पर्यविवरणम् आनुमानिकं तद्भविष्यतीत्याशङ्कायामाह - नापि लैङ्गिकमित्यादि । किं केन कृतं स्यादिति न केनचित् किञ्चिदित्यर्थः । प्रतिपन्नव्यभिचारस्येति मण्युत्पत्तिप्रदेश इत्यर्थः । य इत्थमिति अत्र प्रयोगश्चायं - ममायं प्रतिभासो मणिसंस्थानवान् एवंप्रतिभासत्वात् संप्रतिपन्नप्रतिभासवदिति । स्वयमसिद्धेनेति अन्यत्रापि मणिप्रभाप्रतिभासे मणिसंस्थानविषयत्वस्यासिद्धेः पर्वतो वह्निरित्यस्येव मणिप्रभायामयं मणिरित्यस्य लैङ्गिकज्ञानस्यापि भ्रमरूपतायाः सर्वसिद्धत्वाच्च । एतेन कुञ्चिकापवपरकसाधारणस्थूलदेशपक्षकमण्यनुमानम् अपास्तम्, अभेदानुमितेरेव विचार्यत्वात् । प्रत्यक्षत्वप्रसक्तेः प्रत्यक्षप्रमाणत्वप्रसक्तेः । सम्भवत्येवेत्यत्र संवादनैकान्त इति योगः । अनन्तर लिङ्गज्ञानवत् धूमदर्शनानन्तरधूमज्ञानवत्, पारम्पर्येणेति अग्निस्वलक्षणाद्धूमस्वलक्षणं ततो धूमनिर्विकल्पं ततो धूमविकल्प उत्पद्यत इत्येवमुत्पत्तिपारम्पर्यं बोध्यम् । अर्थप्रापकत्वं च लिङ्गज्ञानस्य १. संवादनं इति अष्टसहस्रीसम्मतः पाठः । Page #253 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० १० का ० १०१] लिङ्गलिङ्गिधियोरेवं पारम्पर्येण वस्तुनि । प्रतिबन्धात्तदाभासं शून्ययोरप्यवञ्चनम् ॥ [त श्लो. वा. १.११.१३] इति कश्चित् सोऽप्यनालोचिताभिधायी, सर्वदा संवादिनः प्रत्यक्षवन्मिथ्याज्ञानत्वविरोधात् । ६५५ ( भा०) तथा न लैङ्गिकं सर्वथैवाविसंवादकत्वात् । न हि तदालम्बनं भ्रान्तं प्राप्येऽपि वस्तुनि भ्रान्तत्वप्रसङ्गात् । प्राप्ये तस्याविसंवादकत्वे स्वालम्बनेऽप्यविसंवादकत्वम्, इति कथं न सर्वथैवाविसंवादकत्वमनुमानस्य ? सामान्यविशेषात्मकवस्तुविषयत्वप्रसिद्धेः प्रत्यक्षवत्, अन्यथा प्रमाणत्वायोगात् । ( भा० ) तस्मात् सूक्तं तत्त्वज्ञानमेव प्रमाणं कारणसामग्रीभेदात् प्रतिभासभेदेऽपीति । न ह्यनुमानस्य वस्तुविषयत्वाद्विशदप्रतिभासनमापादयितुं शक्यं, विदूरस्थपादपादिदर्शनेनाविशदप्रतिभासेन व्यभिचारात् । पृथग्जनप्रत्यक्षस्यापि योगिप्रत्यक्षवदसम्भवात् सकलसमारोपत्वप्रसङ्गात् स्वलक्षणविषयत्वाविशेषात् । तदविशेषेऽपि योगीतरप्रत्यक्षयोः कारणसामग्रीविशेषाद्विशेषपरिकल्पनायां तत एव प्रत्यक्षानुमानयोरपि प्रतिभासविशेषोऽस्तु सर्वथा बाधकाभावात् । ( भा० ) प्रमाणमेव वा तत्त्वज्ञानं नामेत्यवधारणमनुमन्तव्यं, फलज्ञानस्यापि स्वाव्यवहितफलापेक्षयां प्रमाणत्वोपयोगात् । अष्टसहस्त्रीतात्पर्यविवरणम् स्वविषयप्राप्तिद्वारा तत्प्रतिबद्धसाध्यप्राप्तिपरम्परयेति बोध्यम् । तदाभास शून्ययोरपि= अवस्तुसामान्यगोचरयोरपि, तथा = मिथ्या, यावदप्राप्तं तावद्विधेयमित्यनूद्य विधेयभावे कामचारमभिप्रेत्याह भाष्यकृत् प्रमाणमेव वेत्यादि । फलज्ञानस्यापि = फलीभूतज्ञानस्यापि प्रमाणत्वोपगमादिति धारावाहिकप्रामाण्यव्यवस्थितेरित्यर्थः । अनिर्णीतनिर्णया १. तदाभासं इति अष्टसहस्रीसम्मतः पाठः । २. प्रमाणत्वोपयोगाद् इति अष्टसहस्रीसम्मतः पाठः । Page #254 -------------------------------------------------------------------------- ________________ ६५६ अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) ततः स्वलक्षणदर्शनानन्तरभाविनस्तत्त्वव्यवसायस्य प्रमाणत्वोपपत्तेः प्रत्यक्षमनुमानमिति प्रमाण एवेत्याद्यवधारणं प्रत्याचष्टे सौगतानां, तस्य प्रत्यक्षानुमानाभ्यां प्रमाणान्तरत्वात् । न हीन्द्रियव्यवसायोऽप्रमाणमविसंवादकत्वात् । (भा०) अनधिगतार्थाधिगमाभावात्तदप्रमाणत्वे लैङ्गिकस्यापि मा भूत् प्रमाणत्वं, (भा०) विशेषाभावात् । अनधिगतत्वस्वलक्षणाध्यवसायादनुमितेरतिशयकल्पनायां प्रकृतस्यापि न वै प्रमाणत्वं प्रतिषेध्यमनिर्णीतनिर्णयात्मकत्वात् क्षणभङ्गानुमानवत् ।। क्षणिकत्वानुमानस्य ह्यनिश्चिताध्यवसाय एवानधिगतस्वलक्षणाध्यवसाय: । स च ध्वनिदर्शनानन्तरभाविनो व्यवसायस्यास्तीति युक्तं प्रमाणत्वम् । (भा०) ध्वनेरखण्डशः श्रवणादधिगमोऽपि प्राथमकल्पिकस्तत्त्वनिर्णीतिरेव, तद्वशात् तत्त्वव्यवस्थानान्निीतेरेव मुख्यप्रमाणत्वोपपत्तेः । (भा०) तदत्यये दृष्टेरपि विसंवादकत्वेन प्रामाण्यानुपपत्तेरदर्शनानतिशायनात्तदर्शनाभावेऽपि तत्त्वनिश्चये तदन्यसमारोपव्यवच्छेदलक्षणे प्रमाणलक्षणाङ्गीकरणात् । [सौगतः स्मृति प्रमाणं न मन्यते किन्तु जैनाचार्याः तस्याः प्रमाणत्वं साधयन्ति ।] ननु निश्चितार्थमात्रस्मृतेरप्येवं प्रमाणत्वापत्तेरतिप्रसङ्ग इति चेत्, न, प्रमितिविशेषाभावेतरपक्षानतिक्रमात् । प्रथमपक्षे (भा०) क्वचित्कुतश्चिद्धूमकेतुलैङ्गिकवन्निर्णीतार्थमात्रस्मृतेरधि - अष्टसहस्त्रीतात्पर्यविवरणम् – त्मकत्वात् निर्विकल्पकानिश्चितनीलादिनिश्चयात्मकत्वात्, अधिगमोऽपि निर्विकल्पकानन्तरसमुद्भूतो व्यवसायोऽपि, प्राथमिककल्पिको =मुख्यवृत्त्या प्रमाणभूतः, धूमकेतु १. प्राथमिक इति अष्टसहस्रीसम्मतः पाठः । Page #255 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० १० का ० १०१] गतार्थाधिगमात् प्रामाण्यं मा भूत्, प्रमितिविशेषाभवत् । द्वितीयपक्षे पुनरिष्टं प्रामाण्यमनुस्मृतेः, प्रमितिविशेषसद्भावात् । ( भा० ) प्रकृतनिर्णयस्य प्रामाण्ये हि न किञ्चिदतिप्रसज्यते । दृष्टस्याप्यनिश्चितस्य निश्चयात्, प्रत्यक्षतो निश्चिते धूमकेतौ ज्वालादिविशेषाद्धूमकेतुलैङ्गिकस्मृतौ तु विशेषपरिच्छित्तेरभावादप्रामाण्यनिदर्शनात् । परिच्छित्तिविशेषसद्भावेऽपि साकल्येन स्मृतेरप्रामाण्यकल्पनायामनुमानोत्थानायोगः, सम्बन्धस्मृतेरप्रमाणत्वात्, तस्या अपि लैङ्गिकत्वेन प्रामाण्ये परापरसम्बन्धस्मृतीनामनुमानत्वकल्पनादनवस्थानात् सम्बन्धस्मृतिमन्तरेणानुमानानुदयात् । सुदूरमपि गत्वा सम्बन्धस्मृतेरननुमानत्वे प्रमाणत्वे च सिद्धं स्मृतेरूपयोगविशेषात् प्रमाणत्वमविसंवादादनुमानवत् । तच्च यथा प्रत्यक्षमनुमानमिति प्रमाणे एवेत्यवधारणं प्रत्याचष्टे, तथा त्रीण्येव प्रमाणानि चत्वार्येव पञ्चैव षडेवेत्यवधारणमपि, स्मृतेरागमोपमानार्थापत्त्यभावेष्वनन्तर्भावात्, तदनन्तर्भावेऽनुमानान्तर्भाववदनवस्थानानुषङ्गादागमाद्युदयविरोधात्, शब्दादिस्मृतिमन्तरेण तदनुपपत्तेः । यदि पुनरागमाद्युत्थापकसामग्रीत्वाच्छब्दादिस्मृतेरागमादिप्रमाणत्वमप्युररीक्रियते तदा शब्दादिप्रत्यक्षस्यापि तत्सामग्रीत्वादागमादित्वप्रसङ्गः । तथा च स्मृतिवन्न प्रत्यक्षं प्रमाणान्तरं स्यात् । प्रमाणान्तरत्वे वा स्मृतेरपि प्रमाणान्तरत्वं, दर्शनानन्तराध्यवसायवत् । (भा० ) अनिर्णीतेऽपि कथञ्चिदतिशायनादनुमानवत् । [प्रत्यभिज्ञानमपि पृथक् प्रमाणमेव इति जैनाचार्याः साधयन्ति ] एवं ( भा० ) प्रत्यभिज्ञानं प्रमाणं, व्यवसायातिशयोपपत्तेः । प्रत्यक्षादिवत् । ६५७ अष्टसहस्त्रीतात्पर्यविवरणम् लैङ्गिकवदिति प्रत्यक्षनिश्चितेऽग्नौ तदनुमितिवदित्यर्थः । ज्वालादिविशेषादिति ज्वालादिविशेषस्य धूमकेतुसम्बन्धित्वेन ग्रहादेकसम्बन्धिज्ञानेऽपरसम्बन्धिस्मरणस्यौत्सर्गिकत्वादिति भावः । स्मृतेरुपयोगविशेषात् प्रमाणमिति सम्बन्धस्मरणादेर्व्याप्तिप्रत्यभिज्ञानादिफलोप१. प्रमाणत्वमिति अष्टसहस्रीसम्मतः पाठः । Page #256 -------------------------------------------------------------------------- ________________ ६५८ अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) तत्सामर्थ्याधीनत्वात्प्रमाणत्वस्थिते: अविसंवादस्यापि स्वार्थव्यवसायात्मकत्वात् । (भा०) अन्यथा हि विसंवादः स्यात्संशयादिवत् । न चेदं प्रत्यभिज्ञानमव्यवसायात्मकं, तद्वदेवेदं तत्सदृशमेवेदमित्येकत्वसादृश्यविषयस्य द्विविधप्रत्यभिज्ञानस्याबाधितस्यारेकादिव्यवच्छेदेनावगमात्, बाध्यमानस्याप्रमाणत्वोपपत्तेस्तदाभासत्वात् । न च सर्वं प्रत्यभिज्ञानं बाध्यमानमेव, प्रत्यक्षस्य तद्विषये प्रवृत्त्यसम्भवादबाधकत्वादनुमानस्यापि तद्विषयविपरीतसर्वथाक्षणिकविसदृशवस्तुव्यवस्थापकस्य निरस्तत्वात्तद्बाधकत्वायोगात् । ततः प्रत्यभिज्ञानं तत्त्वज्ञानत्वात्प्रमाणं प्रत्यक्षवत् । [तर्कज्ञानमपि पृथक्प्रमाणमेवेति साधयन्ति जैनाचार्याः] एवं (भा०) लिङ्गलिङ्गिसम्बन्धज्ञानं प्रमाणमनिश्चितनिश्चयादनुमानवद् । सत्त्वक्षणिकत्वयोधूंमतत्कारणयोर्वा साकल्येन व्याप्तिप्रतिपत्तौ न प्रत्यक्षमुत्सहते, सन्निहितार्थाकारानुकारित्वात् । इन्द्रियजमानसस्वसंवेदनप्रत्यक्षस्य योगिप्रत्यक्षस्य । (भा०) अपरीक्षाक्षमत्वाच्च । नानुमानमनवस्थानुषङ्गात् । सुदूरमपि गत्वा तदुभयव्यतिरिक्तं व्यवस्थानिमित्तमभ्युपगन्तव्यम् । तदस्माकमूहाख्यं प्रमाणमविसंवादकत्वात् समारोपव्यवच्छेदकत्वादनुमानवत् । न चोह: सम्बन्धज्ञानजन्मा, यतोऽनवस्थानं स्यादपरापरोहानुसरणात्, तस्य प्रत्यक्षानुपलम्भजन्मत्वात् प्रत्यक्षवत्, स्वयोग्यतयैव स्वविषये प्रवृत्ते । सम्बन्धज्ञानमप्रमाणमेव, प्रत्यक्षानुपलम्भपृष्टभाविविकल्पत्वाद् गृहीतग्रहणात्, अष्टसहस्त्रीतात्पर्यविवरणम् योगे प्रामाण्यमित्यर्थः । फलीभूतस्मृतेरपि याथार्थ्यं तु विषयाबाधादेव दुर्निवारं, तस्याः प्रमात्वस्यानुभवप्रमात्वपारतन्त्र्येऽपि व्याप्तिज्ञानप्रमात्वपरतन्त्रानुमितिप्रमात्ववदविरोधात्, तद्वदेव याचितकमण्डनन्यायेनायथार्थत्वाव्यवस्थितेरित्यादिकमुपपादितमन्यत्र । तस्येति Page #257 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि १०-का० १०१] ६५९ सम्बन्धप्रतिपत्तौ प्रत्यक्षानुपलम्भयोरेव भूयः प्रवर्तमानयोः प्रमाणत्वादित्येके, तेऽप्यसमीक्षितवाचः, कथञ्चिदपूर्वार्थविषयत्वादूहाख्यविकल्पस्य प्रमाणत्वोपपत्तेः प्रत्यक्षानुपलम्भयोः सन्निहितविषयबलोत्पत्तेरविचारकत्वाच्च व्याप्तौ प्रवृत्त्यसम्भवात् । यदि पुनरप्रमाणमेव व्याप्तिज्ञानं सम्बन्धं वा व्यवस्थापयेत्तदा प्रत्यक्षमनुमानं चाप्रमाणमेव स्वविषयं व्यवस्थापयेत् किं तत्प्रमाणत्वसाधनायासेन ? लिङ्गलिङ्गिसम्बन्धप्रतिपत्तिरर्थापत्तेरित्यन्ये । तेषामपि सम्बन्धज्ञानपूर्वकत्वेऽर्थापत्तेरापत्त्यन्तरानुसरणादनवस्था । तदपूर्वकत्वे स्वयमनिश्चितानन्यथाभवनस्यार्थापत्त्युदयत्वप्रसङ्गः, परस्पराश्रयणं च, सत्यनुमानज्ञाने तदन्यथानुपपत्त्या सम्बन्धज्ञानं. सति च सम्बन्धज्ञानेऽनुमानज्ञानमिति नैकस्याप्युदयः स्यात् । न चान्यत्सम्बन्धार्थापत्त्युत्थापकमस्त्यनुमानज्ञानाद् येन परस्पराश्रयणं न स्यात् । एतेनोपमानादेः सम्बन्धप्रतिपत्तिः प्रत्युक्ता । तस्माद् (भा०) उपमानादिकं प्रमाणान्तरमिच्छतां तत्त्वनिर्णयप्रत्यवमर्शप्रतिबन्धाधिगमप्रमाणत्वप्रतिषेधः प्रायशो वक्तुर्जडिमानमाविष्करोति । इति प्रत्यक्षं परोक्षमित्येतद् द्वितयं प्रमाणम् अभ्युपगन्तव्यम् । (भा० ) अर्थापत्त्यादेरनुमानव्यतिरेकेऽपि, परोक्षेऽन्तर्भावात् । तदुक्तं प्रत्यक्षं विशदं ज्ञानं त्रिधाश्रितमविप्लवम् । परोक्षं प्रत्यभिज्ञादि प्रमाणे इति सङ्ग्रहः ॥ [ ] अष्टसहस्त्रीतात्पर्यविवरणम् तस्य सर्वोपसंहारेण व्याप्तिज्ञानादिरूपोहस्य, प्रत्यक्षानुपलम्भजन्यत्वाद् विशेषान्वयव्यतिरेकग्रहसामान्यव्यभिचारनिर्णयजन्यत्वात्, अविचारकत्वाच्चेति उहोपयोगे तु लाघवादिविचारस्यापि प्रवेशान्न दोष इति भावः । अनुमानव्यतिरेके ऽपीति, अपिरस्वरसद्योतकः, तेन तत्त्वतोऽर्थापत्त्यादेरनुमानादावेवान्तर्भाव इत्युक्तं भवति । विधेति १. जन्मत्वादिति अष्टसहस्रीसम्मतः पाठः । Page #258 -------------------------------------------------------------------------- ________________ अष्टसहस्त्रीतात्पर्यविवरणम् ततः सूक्तमिदमवधारणं प्रमाणमेव तत्त्वज्ञानमिति, प्रत्यक्षपरोक्षतत्त्वज्ञानव्यक्तीनां साकल्येन प्रमाणत्वोपपत्तेः । ६६० [ज्ञानानां विशेषलक्षणं विषयं च स्पष्टयन्त्याचार्याः ] ( भा० ) तत्र सकलज्ञानावरणपरिक्षयविजृम्भितं केवलज्ञानं युगपत्सर्वार्थविषयम् । करणक्रमव्यवधानातिवर्तित्वात् युगपत्सर्वभासनम् । तत्त्वज्ञानत्वात्प्रमाणम् । ( भा० ) तथोक्तं, 'सर्वद्रव्यपर्यायेषु केवलस्य' इति सूत्रकारैः [तत्त्वा० १.२९] केवलज्ञानदर्शनयोः क्रमवृत्तित्त्वात् चक्षुरादिज्ञानदर्शनवद्युगपत्सर्वभासनमयुक्तमिति चेत्, न तयोर्यौगपद्यात्, तदावरणक्षयस्य युगपद्भावात्, मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् इति [१०.१] अत्र प्रथमं मोहक्षयस्ततो ज्ञानावरणादित्रयक्षयः सकृदिति व्याख्यानात् । ( भा०) तज्ज्ञानदर्शनयोः क्रमवृत्तौ हि सर्वज्ञत्वं कादाचित्कं स्याद् । दर्शनकाले ज्ञानाभावात्तत्काले च दर्शनाभावात् । सततं च भगवतः केवलिनः सर्वज्ञत्वं सर्वदर्शित्वं च साद्यपर्यवसिते केवलज्ञानदर्शने इति वचनात् [ ]। अष्टसहस्त्रीतात्पर्यविवरणम् इन्द्रियनोइन्द्रियस्वसंवेदनभेदात् । श्रितमविप्लवमिति अभ्रान्तत्वं श्रितमित्यर्थः । ॥ केवलज्ञानदर्शनोपयोगद्वयवादः ॥ सततं चेति, अत्र वदन्ति श्रीजिनभद्रगणिक्षमा श्रमणानुयायिनः क्रमिकज्ञानदर्शनोपयोगद्वयाभ्युपगमेऽपि केवलिनः सर्वज्ञत्वसर्वदर्शित्वयोः सातत्यस्य साद्यपर्यवसितत्वस्य च लब्ध्यपेक्षया न विरोधो, मतिज्ञानश्रुतज्ञानयोरपि षट्षष्टिसागरोपमस्थितिकत्वस्येत्थमेवोपपादनात्, उपयोगस्थितेरुत्कर्षतोऽप्यन्तर्मुहूर्त्तपरिमाणत्वादेव सामग्रीद्वयसमाजेऽप्येकदा केवलज्ञानदर्शनद्वयानुत्पादे मतिश्रुतयोरेव दृष्टान्तत्वात्, सह द्वौ न स्त उपयोग इत्या - वचनादेव च केवलज्ञानोपयोगकाले केवलदर्शनोपयोगात्, तस्य छद्मस्थोपयोगविषयत्वेन सङ्कोचकरणे बीजाभावात्, स्वभावहेतोरुभयत्राविशेषादादौ केवलज्ञानोपयोगोत्पादे च सर्वा लब्धयः साकारोपयोगोपयुक्तस्यैव भवन्ति इति [ ] वचनस्यैव विनिगमकत्वात्, तदनन्तरं केवलदर्शनोपयोगोत्पादस्य चार्थसिद्धत्वात्, तदनन्तरं क्रमिकोपयोगद्वयधारायाश्च स्वरसत एव - Page #259 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि०१०-का. १०१] ६६१ (भा०) कुतस्तत्सिद्धिरिति चेन्निर्लोठितमेतत् सर्वज्ञसिद्धिप्रस्तावे, न पुनरिहोच्यते । केवलज्ञानदर्शनयोर्युगपद्भावः कुतः सिद्ध इति चेत् (भा०) सामान्यविशेषविषययोर्विगतावरणयोरयुगपत्प्रतिभासायोगात् प्रतिबन्धकान्तराभावात् । सामान्यप्रतिभासो हि दर्शनं विशेषप्रतिभासो ज्ञानम् । तत्प्रतिबन्धकं ज्ञानावरणं दर्शनावरणं च यदुदयादस्मदादेः केवलज्ञानदर्शनानाविर्भावः । तयोश्च युगपदात्मविशुद्धिप्रकर्षविशेषात् परिक्षयसिद्धेः कथमिवायुगपत्प्रतिभासनं सामान्यविशेषयोः स्यात् ? प्रक्षीणाशेषमोहान्तरायस्य प्रतिबन्धान्तरं च कथमिव सम्भाव्येत, येन युगपत्तद्वितयं न स्यात् ? अस्तु नाम केवलं तत्त्वज्ञानं युगपत्सर्वभासनं, मतिश्रुतावधिमनःपर्ययज्ञानं तु कथमित्युच्यते । (भा०) शेषं सर्वं क्रमवृत्ति, प्रकारान्तरासम्भवात् । तेन क्रमभावि च यन्मत्यादितत्त्वज्ञानं तदपि प्रमाणमिति व्याख्यातं भवति, - अष्टसहस्रीतात्पर्यविवरणम् प्रवृत्तेः, क्षणद्वयोत्पन्नज्ञानदर्शनोपयोगानुवृत्त्यभ्युपगमस्य च विरोधेनैव निरस्तत्वात्, उत्पत्तौ विरोधो न तु स्थितावित्यस्य च वक्तुमशक्यत्वात् । वस्तुतः केवलदर्शने केवलज्ञानोपयोगसहकृतदर्शनावरणक्षयस्य केवलज्ञाने च केवलज्ञानान्योपयोगसहकृतकेवलज्ञानावरणक्षयस्य हेतुत्वान्नाशे च ऋर्जुसूत्रनयावलम्बनेन प्रतियोगिन एव तथात्वात् केवलिनः क्षणिकोपयोगद्वयधारायां न काप्यनुपपत्तिः । व्यवहारनयावलम्बनेन नाशहेत्वनभ्युपगमेऽपि क्रमिकाद्योपयोगद्वयमुक्तहेतुसमाजाद्दुर्निवारमेव, अन्यथा समूहालम्बनैकोपयोगापत्तेरिति भावनीयम्, स्फुटं च सूत्रे तत्र तत्र केवलिनः सिद्धस्य चैकदैकतरोपयोग एव प्रतिपादित इति किं विपरीतयुक्तिभिरिति ? । अत्र च केवलिनो युगपदुपयोगद्वयमिति श्रीसिद्धसेनाचार्याणां मतं, क्रमेणेति पूज्यश्रीजिनभद्रगणिक्षमाश्रमणानां? वृत्तिविशेषात् केवलज्ञान एव दर्शनत्वं परिभाष्यते, न तु मतिज्ञानादियदर्शनोपयोगोऽपि ज्ञानात् पृथक्कश्चित् सम्भवति केवलिनः । तदुक्तं चक्षुर्वद्विषयाख्यातिरवधिज्ञानकेवले । शेषवृत्तिविशेषात्तु, ते मते ज्ञानदर्शने ॥१॥ इति, [द्वात्रिंशिका १०-३०] Page #260 -------------------------------------------------------------------------- ________________ ६६२ अष्टसहस्त्रीतात्पर्यविवरणम् मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानं । तत्प्रमाणे इति सूत्रकारवचनात् [तत्त्वा० १.९१०] । ननु च मत्यादिज्ञानचतुष्टयमपि युगपदिष्यते, तदादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्थ्यः इति सूत्रसद्भावादिति [तत्त्वा० १.३०] न शङ्कनीयं, मत्यादिज्ञानानामनुपयुक्तानामेव यौगपद्यवचनात् सह द्वौ न स्तः उपयोगौ इत्यार्षवचनात् [ ] । छद्मस्थज्ञानदर्शनोपयोगापेक्षया तद्वचनमिति चेत्, नैवं विशेषानभिधानात् । सामान्यचोदनाश्च विशेषेष्ववतिष्ठन्ते इति न्यायात् तद्विशेषगतिरिति चेत्, न, अन्यथापि विशेषगतिसम्भवात्, तन्नैवेति, प्रमाणाभावात् । 'क्वचिदात्मनि मत्यादिज्ञानानि सोपयोगानि युगपत्सम्भवन्ति सकृत्सन्निहितस्वविषयत्वात् दीर्घशष्कुलीभक्षणादौ चक्षुरादिज्ञानपञ्चकवदित्यनुमानादिष्टविशेषगतिरस्तु । न चेदमुदाहरणं साध्यविकलं चक्षुरादिज्ञानानां क्रमवृत्तौ परस्परव्यवधानाद्विच्छेदोपलक्षणप्रसङ्गात्, प्रसिद्धक्रमभाविरूपादिज्ञानवदिति' न मन्तव्यं । (भा०) चक्षुरादिज्ञानपञ्चकस्याऽपि परस्परव्यवधानेऽपि विच्छेदानुपलक्षणं, क्षणक्षयवत् ताथागतस्य स्यात् । तेषां (भा०) यौगपद्ये हि सन्तानभेदात् परस्परपरामर्शाभावः सन्तानान्तरवत् । अष्टसहस्त्रीतात्पर्यविवरणम् तस्मात् केवलज्ञानस्य एव एकोपयोगः केवलिन इति निष्कृष्टं सिद्धसेनाचार्याणामेव मतं, मल्लवादिप्रभुतीनां वा, एतच्च त्रयमपि ऋजुसूत्र-व्यवहार-सङ्ग्रहनयभेदादविरोधेन व्यवस्थापितमस्माभिर्ज्ञानबिन्दौर महता प्रबन्धेनेति व्युत्पत्त्यर्थिनाऽत्रार्थे स एव ग्रन्थोऽनुसन्धेयः । ये तु बालिशा नयभेदेन प्रवृत्तेऽप्याचार्यमतभेदे शङ्काव्याकुलितचेतसः शासनमेव निन्दन्ति, तेऽभव्या दूरभव्या वा, अचारित्रिण एव चारित्रप्रतिपत्तिश्चारित्रिण एव वेत्यादिनयभेदेनाप्येवं जातशासनसंशयसन्निपातस्य भगवद्भिषग्वरेणाप्यप्रतीकार्यत्वापत्तेरिति दिग् । तद्विशेषगतिः= उपयोगपदस्य छद्मस्थज्ञानदर्शनोपयोगपरता, अन्यथाऽपि छद्मस्थोपयोगमात्रविषयत्वेनापि, क्वचिदित्यादिर्न मन्तव्यमित्यन्तं पूर्वपक्षग्रन्थः । चक्षुरादीत्यादि भाष्यमुत्तरग्रन्थः । सन्तानभेदाद्रूपज्ञानस्य ज्ञानसन्तानादिभेदात्, परस्परपरामर्शाभावः, य एवाहमद्राक्षं स एव स्पृशामीत्यादिप्रत्यभिज्ञाभावः, स्यादिति शेषः । Page #261 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि०१०-का. १०१] ६६३ ____ यौगपद्येऽपि सन्तानभेदाभावेऽक्षमनोऽध्यक्षयोरपि यौगपद्यमस्तु विशेषाभावात् । (भा०) मानसप्रत्यक्षेऽपि चक्षुरादिज्ञानानन्तरप्रत्ययोद्भवेन कश्चिद्विशेषः क्रमवृत्तौ । चक्षुरादिज्ञानवद् । ( भा०) व्यवधानप्रतिभासविकल्पप्रतिपत्तेरसम्भवात् । न च चक्षुरादिज्ञानपञ्चकात्सहभाविनः क्रमभुवां तदनन्तरजन्मनां मानसप्रत्यक्षाणां व्यवधानेन प्रतिभासभेदप्रतिपत्तिरस्ति । तेषां लघुवृत्तेः क्रमभावित्वेऽपि न व्यवधानेन प्रतिभासविकल्पानां प्रतिपत्तिरिति चेत्, तत एवं चक्षुरादिज्ञानानामपि विच्छेदोपलक्षणं मा भूत्, क्रमभावेऽपि विशेषाभावात् । (भा०) यौगपद्ये हि स्पर्शादिप्रत्यवमर्शविरोधः पुरुषान्तरवत् । जैनानामपि क्रमभावश्चक्षुरादिवेदनानामुपपन्न एव । तद्वन्मत्यादिज्ञानानामपि सोपयोगानां क्रमभावो निरुपयोगानां तु यौगपद्यमविरुद्धं । (भा०) विषयस्यानेकान्तात्मकत्वात् । ततः सोपयोगं (भा०) मतिज्ञानादि क्रमभावि (भा०) स्याद्वादनयलक्षितं प्रतिपत्तव्यं । - अष्टसहस्त्रीतात्पर्यविवरणम् अक्षमनोऽध्यक्षयोः= चक्षुरादिज्ञानमानसज्ञानयोः, विषयस्य=ग्राह्यस्य । अनेकान्तात्मकत्वादिति क्रमयुगपद्भावेनेति शेषः । स्याद्वादनयलक्षितं प्रतिपत्तव्यमिति तथा च संस्कृतपदमुपलक्षितपरमित्यर्थः । तयोः=नयस्याद्वादयोः । वस्तुतः संस्कृतपदमाहितातिशयार्थमेव । तथा च प्रतिनियतैकार्यावधारणात्मकं यन्मतिज्ञानादि तन्नयसंस्कृतं, यच्चानन्तधर्मात्मकत्वेन विषयपरिच्छेदि तत्स्याद्वादसंस्कृतं, आद्यं लौकिकं प्रमाणं, परमलौकिकं, नयस्याद्वादार्थप्रतिसन्धानजनितसंस्कारोपनयादेव तयोविषयताविशेषरूपाति Page #262 -------------------------------------------------------------------------- ________________ ६६४ अष्टसहस्त्रीतात्पर्यविवरणम् तस्य नयोपलक्षितत्वात् । (भा० ) केवलज्ञानवत् स्याद्वादोपलक्षितत्वाच्च । कुत एतदिति चेद् विकलसकलविषयत्वात् तयोः । तत्त्वज्ञानं वा स्याद्वादनयसंस्कृतं प्रतिपत्तव्यं क्रमाक्रमभावित्वे कथम् ? तत्त्वज्ञानं स्यादक्रम, सकलविषयत्वात् । स्यात् क्रमभावि, विकलविषयत्वात् । स्यादुभयं, तदुभयविषयत्वात् । स्यादवक्तव्यं, युगपद्वक्तुमशक्तेः इत्यादि, सप्तभङ्ग्याः प्रमाणनयवशादुपपत्तेः । अथवा प्रतिपर्यायं स्याद्वादनयसंस्कृतं प्रतिपत्तव्यं, स्यात्प्रमाणं स्वार्थप्रमिति प्रति साधकतमत्वात्, स्यादप्रमाणं प्रमाणान्तरेण प्रमेयत्वात् स्वतो वा । अथवा स्यात्सत्, स्वरूपादिचतुष्टयात्, स्यादसत् पररूपादिचतुष्टयात् इत्यादि योजनीयम् ॥१०१॥ अथ प्रमाणफलविप्रतिपत्तिनिवृत्त्यर्थमाहुः-- उपेक्षा फलमाद्यस्य शेषस्यादानहानधीः । पूर्वा वाऽज्ञाननाशो वा सर्वस्यास्य स्वगोचरे ॥१०२॥ कारिकापाठापेक्षया युगपत्सर्वभासनं केवलमाद्यं, तस्य व्यवहितं फलमुपेक्षा । कुतः ? इति चेद् उच्यते । (भा०) सिद्धप्रयोजनत्वात्केवलिनां सर्वत्रोपेक्षा । हेयस्य संसारतत्कारणस्य हानादुपादेयस्य मोक्षतत्कारणस्योपात्तत्वात् सिद्धप्रयोजनत्वं नासिद्धं भगवताम् । अष्टसहस्त्रीतात्पर्यविवरणम् शयाधानोपपत्तेरिति युक्तमाभाति । तत्त्वज्ञानं वेति तथा च धर्मितावच्छेदकसामानाधिकरण्येनात्र क्रमाक्रमविषयस्याद्वादनयप्रवृत्तिर्युक्तैवेति भावः । स्यादक्रममिति केवलज्ञानापेक्षया, स्यात् क्रमभावीति मत्यादिज्ञानापेक्षया ॥१०१।। सर्वत्रोपेक्षा स्वविषयमात्रे जिहासोपादित्सारहितः सिद्धयोगपरिमाण इति यावत् । Page #263 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० १० - का० १०२] [बौद्धो भगवति करुणाबुद्धि मन्यते किन्तु जैनाचार्याः करुणाया मोहस्य पर्यायं कथयित्वा निषेधयन्ति तथा केवलिनि उपेक्षाफलं कथमिति स्पष्टयन्ति ] ६६५ ननु ( भा० ) करुणावतः परदुःखजिहासोः कथमुपेक्षा ? तदभावे कथं चाप्तिः ? इति चेत्, न, तेषां मोहविशेषात्मिकायाः करुणायाः सम्भवाभावात् । (भा०) स्वदुःखनिवर्तनवदकरुणयापि वृत्तेरन्यदुःखनिराचिकीर्षायाम् । नन्वस्मदादिवद् (भा० ) दयालोरेवात्मदुःखनिवर्तनं युक्तम् । तथा हि-यो यः स्वात्मनि दुःखं निवर्तयति स स स्वात्मनि करुणावान्, यथास्मदादिः । तथा च योगी स्वात्मनि संसारदुःखं निवर्तयतीति युक्तिः । न चात्र हेतुर्विरुद्धोऽनैकान्तिको वा, विपक्षे सर्वथाप्यभावात् बाधकप्रमाणसामर्थ्यात्, स्वसाध्याविनाभावसिद्धेः । तथा हि-यः स्वात्मन्यकरुणावान्न स स्वदुःखं निवर्तयति, यथा द्वेषादेर्विषभक्षक इति साध्यव्यावृत्तौ साधनव्यावृत्तिनिश्चयात् । भयलोभादिनात्मदुःखनिवर्तकैर्व्यभिचारी हेतुरिति चेत्, न तेषामपि करुणोत्पत्तेः । न ह्यात्मन्यकरुणावतः परतो भयं लोभो मानो वा सम्भवति, तस्यात्मकरुणाप्रयुक्तत्वात् । भयादिहेतुका वा कस्यचिदात्मनि करुणोत्पद्यते । सोत्पन्ना सती स्वदुःखं निवर्तयति इति परंपरया करुणावानेवात्मदुःखमनशनादिनिमित्तं निवर्तयति इति साक्षात्करुणयात्मदुःखनिवर्तने प्रवर्तते ततो न व्यभिचारः । एतेनादृष्टविशेषवशादात्मनि दुःखनिवर्तनपरैर्व्यभिचारचोदना निरस्ता, ततः करुणोत्पत्तेरेव तन्निवर्तनात् । तन्नाकरुणस्यात्मदुःखनिवर्तनं दृष्टम् । ( भा० ) अतोऽयमसमाधिरिति चेत्, न, स्वभावतो स्वपरदुःखनिवर्तननिबन्धनत्वोपपत्तेः प्रदीपवत् । अष्टसहस्त्रीतात्पर्यविवरणम् मोहविशेषात्मिकाया इति, मोहासुखसंवेगान्यहितयुतत्वेन चतुर्विधाया अपि करुणाया Page #264 -------------------------------------------------------------------------- ________________ ६६६ अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) न वै प्रदीपः कृपालुतयात्मानं परं वा तमसो दुःखहेतोः (भा०) निवर्तयतीति । किं तर्हि ? तथास्वभावात् । (भा०) कल्पयित्वापि कृपालुतां तत्करणस्वभावसामर्थ्य मृग्यम् । एवं हि परम्परापरिश्रमं परिहरेत् । ततो निःशेषान्तरायक्षयादभयदानं स्वरूपमेवात्मनः प्रक्षीणावरणस्य परमा दया । सैव च मोहाभावाद्रागद्वेषयोरप्रणिधानादुपेक्षा । तीर्थकरत्वनामोदयात्तु हितोपदेशप्रवर्तनात् परदुःखनिराकरणसिद्धिः इति न बुद्धवत्करुणयास्य प्रवृत्तिभगवतो, येनोपेक्षा केवलस्य फलं न स्यात् । [अज्ञाननिवृत्तिर्ज्ञानस्य फलमिति स्पष्टयन्ति जैनाचार्याः ।] अव्यवहितं तु फलमाद्यस्याज्ञाननिवृत्तिरेव, स्वविषये मत्यादिवत् । तथा हि ( भा० ) मत्यादेः साक्षात् फलं स्वार्थव्यामोहविच्छेदस्तदभावे दर्शनस्यापि सन्निकर्षाविशेषात् क्षणपरिणामोपलम्भवदविसंवादकत्वासम्भवात् । तदनेन प्रमाणाद्भिन्नमेव फलमिति व्युदस्तम् । तथा (भा०) परम्परया हानोपादानसंवित्तिः । - अष्टसहस्रीतात्पर्यविवरणम् मोहविलासरूपत्वान्निष्पन्नयोगस्य च मैत्र्यादिवर्जितसद्बोधमात्रचित्तश्रुतेरिति भावः । सैव चेति उपेक्षा वा परमा दया वाऽभयदानं वा सिद्धयोगो वेत्यनर्थान्तरं, तत्परिपाकश्चाशैलेश्यन्त्यक्षणं केवलज्ञानादित्युपेक्षायास्तत्फलत्वं, व्यवहितत्वं च तस्याः शैलेश्यन्त्यक्षणे परिपाकादिति बोध्यम् । अव्यवहितं त्विति ज्ञानाज्ञानाध्वंसयोः सहभावेऽप्यभेदे हेतुफलभावः प्रदीपप्रकाशयोरिवेति द्रष्टव्यम् । भिन्नफलापेक्षया तु न किञ्चिदपि केवलादित्येन निष्फलत्वमेवोच्यते, प्रमाऽयोगव्यवच्छेदाभिप्रायेण च परेषामीश्वरज्ञान इव न प्रमाणलक्षणायोग इति युक्तं पश्यामः । मत्यादेभिन्नाभिन्नं फलमुपदर्शयितुमाह भाष्यकृत्मत्यादेरित्यादिना । परम्परया हानोपादानसंवित्तिरिति व्यवधानेन जिहासाजनिकोपादि Page #265 -------------------------------------------------------------------------- ________________ ६६७ द्वितीयो भागः [परि. १०-का० १०२] फलमुपेक्षा वा मत्यादेः । एतेनाभिन्नमेव प्रमाणात्फलमिति निरस्तम् । [करणक्रिययोः कथञ्चित् एकत्वं कथञ्चित् नानात्वं चेति जैनाचार्याः स्पष्टयन्ति ।] (भा० ) तथा हि करणस्य क्रियायाश्च कथञ्चिदेकत्वं प्रदीपतमोविगमवत्, नानात्वं च परश्वादिवत् । ननु च 'यथा देवदत्तः काष्ठं परशुना छिनत्तीति करणस्य क्रियायाश्च नानात्वं सिद्धं, छिदेः काष्ठस्थत्वात्परशोर्देवदत्तस्थत्वात्, तथा प्रदीपस्तमो नाशयत्युद्द्योतेनेत्यत्रापि करणस्योद्योतस्य क्रियायाश्च तमोविनाशात्मिकाया नानात्वमेव प्रतीयते । तद्वत्करणस्य प्रमाणस्य क्रियायाश्च फलज्ञानरूपाया नानात्वेनैव भवितव्यं, तदनानात्वे दृष्टान्ताभावात्' इति केचित् तेऽपि न प्रतीत्यनुसारिणः प्रदीपः स्वात्मनात्मानं प्रकाशयतीति प्रतीतेः, प्रदीपात्मनः कर्तुरनन्यस्य कथञ्चित्करणस्य, प्रकाशनक्रियायाश्च प्रदीपात्मिकायाः कथञ्चिदभेदसिद्धेः । तद्वत्प्रमाणफलयोः कथञ्चिदव्यवहितत्वसिद्धिरुदाहरणसद्भावात् । सर्वथा तादात्म्ये तु प्रमाणफलयोन व्यवस्था, तद्भावविरोधात् । न हि सारूप्यमस्य प्रमाणमधिगतिः फलमिति सर्वथा तादात्म्ये सिद्ध्यति । दर्शनस्यासारूप्यव्यावृत्तिः सारूप्यमनधिगतिव्यावृत्तिरधिगतिरिति व्यावृत्तिभेदादेकस्यापि प्रमाणफलव्यवस्थेति चेत्, न, स्वभावभेदमन्तरेणान्यव्यावृत्तिभेदानुपपत्तेः । (भा०) तस्माद् ग्राह्यसंविदाकारयोः प्रमाणफलव्यवस्थायामपि – अष्टसहस्त्रीतात्पर्यविवरणम् - त्साजनिका वा बुद्धिर्मत्यादेः फलमित्यर्थः । तद्द्वारा च हेयोपा(देय)हानोपादानात्मिका विरतिरपि फलं सङ्गच्छते । तदुवाच वाचकचक्रवर्ती ज्ञानस्य फलं विरतिरिति [ ] उक्तद्वारद्वारिभावं सवणे नाणे य विन्नाणे [ ] इत्यादि पारमर्षसङ्ग्रहगाथयाऽन्वगच्छामः । अत एवोपेक्षामपि बहिष्प्रवृत्तिनिवृत्तिविषयान्तरसञ्चारशून्यनिभृतज्ञानरूपां मत्यादिफलत्वे नोपेक्षा वेत्यनेन समुच्चिनोति स्म वृत्तिकारः । विषयप्रतिभासात्मपरिणामवत्तत्त्वसंवेदनानां यथोत्तरशुद्धत्वात्तृतीयस्य च विरतिक्रोडीकृत्वात् स्मृत्यजनकज्ञानरूपोपेक्षायास्तु न कथमपि मत्यादिप्रमाणफलत्वम्, अवग्रहादिधारणापर्यन्तत्वान्मत्युपयोगस्येति विभावनीयं सुधीभिः । अभेद एव प्रमाणफलभाव इति बौद्धैकान्तं निरस्यति-सर्वथा तादात्म्ये त्विति । न हीति, अस्य दर्शनस्य, सारूप्यं =स्वलक्षणविषयत्वेन सादृश्यं, प्रमाणं =प्रामाण्यभागः, Page #266 -------------------------------------------------------------------------- ________________ ६६८ अष्टसहस्त्रीतात्पर्यविवरणम् व्यामोहविच्छेदाभावे (भा०) विसंवादानिराकरणे तदज्ञस्येव विषयदृष्टिः प्रमाणत्वं न प्रतिपत्तुमर्हति । तावतैव प्रमाणत्वे क्षणिकत्वाद्यनुमानमधिगतार्थाधिगमलक्षणत्वान्न वै प्रमाणम् । इति निरूपितप्रायम् ॥१०२॥ ननु च स्याद्वादनयसंस्कृतं तत्त्वज्ञानमित्युक्तं तद्वत् फलमपीति स एव तावत् स्याच्छब्दोऽभिधीयतामित्याहुः वाक्येष्वनेकान्तद्योती गम्यं प्रति विशेषणम् । स्यान्निपातोऽर्थयोगित्वात्तव केवलिनामपि ॥ १०३ ॥ [ अपरैः कल्पितं दशधा वाक्यस्य लक्षणं निराकृत्य निर्दोषवाक्यलक्षणं ब्रुवन्ति जैनाचार्याः ।] किं पुनर्वाक्यं नामेत्युच्यतां तत्र विप्रतिपत्तेः । तदुक्तम् आख्यातशब्दः सङ्घातो, जातिः सङ्घातवर्तिनी । एकोऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहृती ॥ पदमाद्यं पदं चान्त्यं पदं सापेक्षमित्यपि । वाक्यं प्रति मतिर्भिन्ना बहुधा न्यायवेदिनाम् ॥ इति [ वाक्यपदीय ] अत्रोच्यते (भा०) पदानां परस्परापेक्षाणां निरपेक्षः समुदायो वाक्यं । अष्टसहस्त्रीतात्पर्यविवरणम् अधिगतिः फलं फलभाग इति योजना, प्रमाणफलव्यवस्थायामपीति ग्राह्यसंविदाकारयोः प्रमाणफलव्यवस्था पूर्वं न हि सारूप्यमित्यादिना निराकृतैव, इदानीं तामङ्गीकृत्यापि दूषणान्तरं समुच्चीयत इत्यपिः सूचयति । तदज्ञस्येव = नीलाद्यविषयज्ञानस्येव, विषयदृष्टिः = विषयघटितप्रामाण्यदर्शी लौकिकपरीक्षकः ॥१०२॥ ॥ वाक्यवादः ॥ पदानामिति, अत्र निरपेक्ष इति विशेषणं चैत्र: स्थाल्यां पचतीत्यादौ कर्मादि Page #267 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि० १०-का. १०३] ६६९ अष्टसहस्त्रीतात्पर्यविवरणम् पदन्यूनेऽतिव्याप्तिवारणाय, एवं सति स्फटिकाकृतिनिर्मलः प्रकाममित्यादावाकृत्यादिपदे नाधिकेऽप्यतिव्याप्तिवारणार्थं विशेषणान्तरदानध्रौव्ये तत्तदोषाभावकूटविशिष्टपदसमुदायत्वं वाक्यलक्षणं स्यात्तच्चाननुगमदोषादनिष्टम् । यदि च न्यूनाधिकादाववस्थितवाक्यार्थबोध: प्राथमकल्पिको निराबाध एव, न्यूनत्वादिदोषस्फूर्तिश्चौत्तरकालिकी वक्तृवैगुण्यमेवावेदयति, रसभङ्ग वा जनयतीति विभाव्य( ते) तदाकाङ्क्षायोग्यताऽऽसत्तिमतां पदानां समूहो वाक्यमित्येतावदेव लक्षणं सम्यगिति न्यायविदः । अथ का नामाकाङ्क्षा ? न तावदविनाभावः, घटमानयेत्यादावभावात्, घटः कर्मत्वमित्यादावपि व्यक्त्योस्तत्सत्त्वाच्च । नापि समभिव्याहृतपदस्मारितपदार्थजिज्ञासा, घटमित्युक्ते आनय नय वेति जिज्ञासोदयात् घटः कर्मत्वमित्यादौ तदभावादिति वाच्यम्, अजिज्ञासोरप्यन्वयबोधात्, जिज्ञासायाः स्वरूपसत्या एव हेतुत्वादाकाङ्क्षाभ्रमाच्छाब्दबोधानुपपत्तेश्च, उच्यते, अभिधानापर्यवसानमाकाङ्क्षा, अभिधानं पदं तस्यापर्यवसान मन्वयाननुभावकत्वं, तथा च यस्य पदस्य समभिव्याहृतयत्पदव्यतिरेकप्रयुक्तं यादृशान्वयाननुभावकत्वं तादृशान्वयाननुभवे समभिव्याहृततत्पदस्य तेन तादृशान्वयाननुभावकत्वं तयोराकाङ्क्षति फलितम् । अस्ति च द्वितीयादिपदस्य घटादिविशिष्टकर्मत्वाद्यन्वयाननुभावकत्वं घटादिपदव्यतिरेकप्रयुक्तं, न तु कर्मत्वादिपदस्य, घटादिपदसत्त्वेऽपि स्वत एव तस्याननुभावकत्वादिति घटमित्यादावाकाङ्क्षा, न तु घटः कर्मत्वमित्यादौ । यदि च मौनिश्लोके पदाभावान्नेदं युक्तमिति विभाव्यते, तदा यादृशपदज्ञानस्य यादृशपदसमभिव्याहारज्ञानाभावप्रयुक्तं यादृशान्वयाननुभावकत्वमित्यादि वाच्यम्, इयमाकाङ्क्षा घटमित्यादावुभयपदज्ञाननिष्ठा, लाक्षणिकस्याननुभावकत्वे गङ्गायामित्यादौ (लाक्षणिकस्याननुभावकत्वे ?) त्वेकपदज्ञाननिष्ठैव, वक्ष्यमाणप्रयुक्तत्वस्य लाक्षणिकेऽपि सम्भवे तूभयत्र तथैव । तत्प्रयुक्तत्वं च यद्यपि न तज्जन्यत्वम्, असम्भवात्, नापि तद्व्यापकत्वं, पदज्ञाननिष्ठाननुभावकत्वस्य पदान्तरसमभिव्याहारज्ञानाभावाव्यापकत्वात्, नापि तद्व्याप्यत्वं, योग्यताज्ञानाद्यभावेन तादृशान्वयानुपधायके घटमित्यादिवाक्ये व्यभिचारात्, तथापि यादृशपदसमभिव्याहारज्ञानातिरिक्तयादृशान्वयबोधकसकलसहकारिसमवहितयादृशपदज्ञाननिष्ठयादृशान्वयानुभवानुपधायकत्वं यादृशपदसमभिव्याहारज्ञानाभावव्याप्यं तादृशपदस्य तादृशपदसमभिव्याहारविशिष्टं तादृशपदज्ञानस्य तादृशान्वयानुभवाभाववैशिष्ट्यमाकाङ्क्षा । भवति च तादृशसहकारिसमवहितकर्मत्वोपस्थापकविभक्तिज्ञाननिष्ठं कर्मत्वोद्देश्यकघटान्वय Page #268 -------------------------------------------------------------------------- ________________ ६७० अष्टसहस्त्रीतात्पर्यविवरणम् अष्टसहस्त्रीतात्पर्यविवरणम् बोधाभाववैशिष्ट्यं घटोपस्थापकपदसमभिव्याहारज्ञानाभावव्याप्यं न त कर्मत्वोपस्थापक नामपदज्ञाननिष्ठं सत्यपि घटोपस्थापकपदसमभिव्याहारज्ञाने तादृशसकलसहकारिसमवहिते घट: कर्मत्वमित्यादिवाक्यगते कर्मत्वपदे तादृशान्वयबोधाभाववैशिष्ट्यसत्त्वेन व्यभिचारात । न च कर्मत्वोपस्थापकविभक्तिज्ञाननिष्ठतादृशबोधाभाववैशिष्ट्यमपि न तदभावव्याप्यं, सत्यपि योग्यतादिज्ञाने घटमित्यादितोऽपि विपरीतव्युत्पन्नीयबोधाभावादिति वाच्यम् । व्याकरणसंस्कृतपुरुषीयत्वेन निरुक्तान्वयबोधविशेषणात्, विपरीतव्युत्पन्नस्य तु निरुक्ताकाङ्क्षाभ्रमादेव शाब्दबोधः । अत एव निरुक्तव्याप्यत्वरूपप्रयुक्तत्वघटिताकाङ्क्षाया ज्ञानमेव कारणम्, इत्थं च सद्व्युत्पन्नस्य घटमित्यादित एव, विपरीतव्युत्पन्नस्य तु घटः कर्मत्वमित्यादित एव बोधः । यत्तु यत्पदं यत्पदेन सह यादृशान्वयानुभवजनकं तत्पदस्य तत्पदसमभिव्याहार आकाङ्क्षा, तज्ज्ञानं कारणं, प्रकृतान्वयबोधसमानाकारस्वजन्यान्वयबोधविरहरूपा तु सा स्वरूपसती कारणं, सद्व्युत्पन्नीयशाब्दबोधे घटादिनामबोधे घटादिनामपदसमभिव्याहृतविभक्तिज्ञानं, विपरीतव्युत्पन्नीयबोधे च तत्समभिव्याहृतकर्मत्वादिपदज्ञानं कारणमिति नातिप्रसङ्ग इति मञ्जरीकारादिमतं, तन्न, द्वयोरपि द्विविधज्ञानाच्छाब्दबोधापत्तेः। अथ व्युत्पत्तिरपि तत्तज्ज्ञानसहकारिणी, तथा च तत्तदानुपूर्वीज्ञानं तत्तदानुपूर्वीज्ञाने व्याकरणसंस्कृतपुरुषीयशाब्दबोधजनकत्वज्ञानं च तत्तदानुपूर्वीज्ञानजन्यशाब्दबोधहेतुरिति फलितमिति चेत्, न, निरुक्तप्रयुक्तत्वघटिताकाङ्क्षाज्ञानत्वेन कारणत्वे लाघवात्, अनन्यथासिद्धत्वादिघटितजनकत्वज्ञानत्वस्य गुरुत्वात्, कारणाभावप्रयुक्तः कार्याभाव इति धीसाक्षिकः स्वरूपसम्बन्धविशेषः प्रयुक्तत्वमिति मते सुतरां लाघवम् । अत्र 'घ'त्वाद्यवच्छिन्नप्रकारतानिरूपित'ट'त्वाद्यवच्छिन्नप्रकारतानिरूपिता'ऽम्'त्वाद्यवच्छिन्नप्रकारताकज्ञानत्वेन घटमित्याद्यानुपूर्वीज्ञानस्य घटादिपदव्यतिरेकप्रयुक्तान्वयाननुभावकममादिपदमितिज्ञानसहितस्य तादृशानुपूर्वीज्ञानविशिष्टघटादिविधेयककर्मत्वादिबोधे हेतुत्वं, लक्षणे च यादृशेति घविशिष्ट'ट' त्वाद्यवच्छिन्नपरं । सामान्यतो वृत्त्या घटोपस्थापकनामपदसमभिव्याहृतकर्मत्वोपस्थापकविभक्तिज्ञानं तादृशाननुभावकत्वज्ञानसहितं तथेति तु न युक्तं, वृत्त्या घटोपस्थापकत्वस्याव्यावर्तकत्वात्, तत्तत्काले तत्तत्पुरुषस्येत्युक्तौ च तत्तद्व्यक्तित्वे पर्यवसानादिति मन्तव्यम् । अथ अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ राज्ञ इत्यस्य पुरुषान्वयाननुभावकत्वं पुरुषपदसमभिव्याहारेऽप्यस्तीति राज्ञ इत्यादिवाक्येऽपि पुरुषा Page #269 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि १०-का. १०३] ६७१ अष्टसहस्त्रीतात्पर्यविवरणम् न्वयानुभावकत्वं न स्यादिति चेत्, न, अत्र पूर्वोत्तरभावरूपसमभिव्याहारसत्त्वेऽप्येकवाक्यताभिप्रायविषयत्वरूपसमभिव्याहाराभावात् सविभक्तिकपदयोस्तात्पर्यस्यापि तस्यैव वा समभिव्याहारत्वाद्राजपदनिष्ठाकाङ्क्षायाः ससम्बन्धिकपुत्रादिपदेन सह झटिति तेन तात्पर्यग्रहसमवहितत्वमुत्थितत्वं विपर्ययात्तदितरपदेनोत्थाप्यत्वमिति विशेषः । ननु राज्ञ इत्यस्य तात्पर्यभ्रमेण पुरुषेणान्वयबोधे पुत्रेण तात्पर्यग्रहेऽपि तेनान्वयबोधो न स्यादिति चेत्, न, तादृशान्वयाननुभावकत्वस्य सत्त्वाद्राज्ञः पुत्र इति बोधे जननीये तादृशबोधाभावस्यैव तत्त्वात् । न च एवं पुत्रेणान्वयबोधे पुरुषेणाप्याकाङ्क्षा स्यात्, तात्पर्यस्याकाङ्क्षाघटकत्वे तस्याभावात्, तदघटकत्वे इष्टत्वात्, तात्पर्यज्ञानाभावाच्च न तथाबोध इति । न च एवं तात्पर्येण गतार्थत्वं, घटः कर्मत्वमित्यादौ तद्ग्रहेऽपि शाब्दबोधाभावात्, राजपदमपरपदार्थान्वितराजप्रतीतिपरमित्यर्थतात्पर्यग्रहसत्त्वेऽप्येकवाक्यताभिप्रायविषयत्वज्ञानानुसरणमावश्यकं, राजपदं पुरुषपदेन पुत्रपदेन वा सहान्वयबोधकमिति संशये शाब्दबोधाभावात, तथा च यत्पदोपस्थितेरेकवाक्यताभिप्राययत्पदोपस्थितिव्यतिरेकेण यादृशान्वयानन्भावकत्वमित्यादि वाच्यम् । इत्थं च सैन्धवमानयेत्यादावेकवाक्यताभिप्रायज्ञानेऽपि सैन्धवपदमितरपदार्थान्वितलवणपरं तथाविधाश्वपरं वेति संशये शाब्दबोधानुदयादर्थतात्पर्यनिश्चयोऽपि कारणम्, एकवाक्यताभिप्रायस्याकाङ्क्षाघटकत्वमयमेति पुत्रो राज्ञ इत्यादौ तादृशाभिप्रायशालिपुत्रादिपदेनैव साकाङ्क्षत्वव्यवहारायेति मिश्राद्यनुसारी पन्थाः । अत्रान्वयाननुभावकत्वं तात्पर्यविषयतावच्छेदकावच्छिन्नान्वयानुभवाभावमाश्रित्य, तेनान्वयबोधद्वयं जायतामित्यादीच्छायामन्वयबोधद्वयादिकमपि युज्यते, अत एव च घटमानयेत्यादाववान्तरवाक्यार्थबोधोत्तरं महावाक्यार्थबोधो नानुपपन्नः, तत्पदार्थोद्देश्यकतत्पदार्थविधेयकबोधे तत्पदयोराकाङ्क्षादिज्ञानं हेतुः, महावाक्यार्थबोधे च नावान्तरवाक्यार्थांशे उद्देश्यविधेयभावः । इत्थं च घटविशिष्टकर्मत्वादिविधेयकानयनादिबोधे घटमित्यादिपदानामानयनादिपदेनैवाकाङ्क्षाज्ञानस्य हेतुत्वे तु नात्रानुपपत्तिलेशोऽपि, तादृशबोधानुपधायकत्वरूपाकाङ्क्षासत्त्वात् । न च अर्थतात्पर्यस्याप्याकाङ्क्षाघटकत्वे तात्पर्यज्ञानस्य पृथक्सहकारित्ववैफल्यम्, एतद्वाक्याद् बोधद्वयं जायतामित्यादितात्पर्यसाधारणेन विषयाविशेषितरूपेणेह तात्पर्यनिवेशात् विषयविशेषितरूपेण तु तज्ज्ञानहेतुताया आवश्यकत्वात् । न च एवमेतद्वाक्याद् बोधसहस्रं जायतामितीच्छया बोधसहस्रापत्तिः, आद्यवाक्यार्थबोधाद् द्वितीयवद् द्वितीयादेस्तृतीयादिबोधस्यापि सम्भवादिति वाच्यम्, एता Page #270 -------------------------------------------------------------------------- ________________ ६७२ अष्टसहस्त्रीतात्पर्यविवरणम् अष्टसहस्त्रीतात्पर्यविवरणम् दृशेच्छाया अनिवेश्यत्वात्, सैन्धवपदं लवणं बोधयित्वाऽश्वं बोधयत्विति तात्पर्यज्ञानजन्याश्वबोधे तद्वाक्यजन्यलवणबोधस्य हेतुत्वात् क्रमनिर्वाहः । आकाङ्क्षाया अंशत्रयमेक वाक्यताभिप्रायः, समभिव्याहारोऽननुभावकत्वं च तत्राद्ययोर्ज्ञानं हेतुरन्त्यस्य तु प्रतिबन्ध - काभावतया स्वरूपसत उपयोगः, अत्र शाब्दद्वयं जायतामितीच्छोत्तेजिका, तत्तदानुपूर्वीज्ञाने सदसद्व्युत्पन्नपुरुषीयशाब्दबोधाजनकत्वज्ञानस्य प्रतिबन्धकत्वान्न सद्व्युत्पन्नविपरीतव्युत्पन्नयोर्घटः कर्मत्वं घटमित्याभ्यामन्वयबोधः, इत्थं च प्रयुक्तत्वादिबोधविधुराणामपि न शाब्दबोधवैधुर्यमिति तु नव्याः । राजपदं पुत्रपदार्थान्वितराजबोधं जनयत्वित्याकारकार्थतात्पर्यग्रहहेतुत्वेनानतिप्रसङ्गेऽलं पदतात्पर्यग्रहहेतुत्वेनेति तु चिन्त्यम् । न च एवं विशेषणान्तरविशिष्टविशेष्येण पुनरन्वयबोधसम्भवात्प्राथमिक बोधस्यैव द्वितीयबोधजनकत्वेनावृत्तिदोषस्याप्यभावात् समाप्तपुनरात्तदोषोच्छेदापत्तिः, तत्रानपेक्षितविशेषणेन शाब्दबोधसम्भवेऽपि तच्छाब्दबोधेन रसोद्बोधविलम्बस्यैव दोषप्रयोजकताया अलङ्कारशास्त्रे व्यवस्थितत्वात् । नामविभक्तिधात्वाख्यातक्रियाकारकपदानां परस्परं विना परस्पराननुभावकत्वात्तेषां मिथः साकाङ्क्षत्वं घटो नील इत्यादौ तु विशेषणविभक्तिरभेदार्थिका, नामार्थप्रकारकान्वयबोधमात्रं प्रति विशेष्यतया प्रत्ययजन्योपस्थितेर्हेतुत्वात् । यद्वा वह्निना सिञ्चति घटः पचतीत्यादेरपि सेककरणत्वकृत्योः कालिकसम्बन्धेन वह्निघटनिष्ठत्वात् योग्यत्वापत्तिवारणाय तत्तन्नामतत्तद्धातुसमभिव्याहृततत्तद्विभक्तेस्तत्तत्सम्बन्धेन तत्तन्नामार्थतत्तद्विभक्त्यर्थप्रकारकबोधहेतुत्वस्याननुगतस्य वाच्यत्वात् घटो नील इत्यादावभेदेनान्वयबोधो नानुपपन्नः । (शङ्का) कथमत्र कस्यचिदभेदसम्बन्धेन कस्यचिदभेदप्रकारेण बोध ? इति चेत्, आद्यः सद्व्युत्पन्नस्य अन्त्यस्त्वन्यस्येति निश्चीयते, विशेषणविभक्तेरभेदार्थकत्वकल्पने गौरवादिति । मीमांसकास्तु घटो नील इत्यादौ नीलं घटमानयेत्यादौ च नीलोऽस्ति घटोऽस्ति नीलमानय घटमानयेत्यन्वयबोधो, न तु नामार्थानां कारकाणां च परस्परमन्वयः, विशेषणान्वितविभक्त्यर्थानयनानुभवादिति न विशिष्टवैशिष्ट्येनान्वयः । न च एवं नीलत्वेन घटत्वेन च घटयोरपि बोधः स्यादिति वाच्यम्, व्यक्तिवचनानां सन्निहितविशेषपरत्वनियमेन नीलत्वेन घटत्वेन चैकस्यैव बोधात्, 'अरुणयैकहायन्या पिङ्गाक्ष्या गवा सोमं क्रीणाती'त्यादावरुणया क्रीणाति एकहायन्या क्रीणातीत्यादिबोधेऽपि यथारुण्येन गुणेन क्रयासाधनेन १. तुलना - जैमिनीयन्यायमालाविस्तर अ- ३, पाद १, सू० १२. Page #271 -------------------------------------------------------------------------- ________________ द्वितीयो भाग: [ परि० १० - का० १०३ ] अष्टसहस्त्रीतात्पर्यविवरणम् ६७३ प्राप्तक्रयसाधनताकगोरूपद्रव्यपरिच्छेदकतयैव क्रयसाधनत्वं प्रतीयत इत्याहुः, तदसत्, विशिष्टवैशिष्ट्यबोधान्वयस्यैवात्र युक्तत्वात्, अन्यथा वाक्यभेदापत्तेः, नीलघटमानयति न वेति संशयापत्तेः, नीलं घटं नानयतीत्यभावविशेषबोधान्यथानुपपत्तेश्च । यत्तु आकाङ्क्षायाः संशये शाब्दबोधानुदयात्तन्निश्चयत्वेन हेतुत्वं वाच्यम्, तथा च लाघवादनाकाङ्क्षत्वज्ञानमेव प्रतिबन्धकमस्तु। न च ज्ञानत्वेन प्रतिबन्धकत्वेऽप्रामाण्यनिश्चयाऽनास्कन्दितत्वप्रवेशे गौरवं, तवाप्याकाङ्क्षानिश्चयविशेषणाभावप्रतियोग्यप्रामाण्यज्ञाने तदप्रामाण्यनिश्चयानास्कन्दितत्वप्रवेशे गौरवात् । अनाकाङ्क्षत्वज्ञानवत्यपि घटाद्यवच्छेदेन समवायेन तदभावसत्त्वादवच्छेदकतासम्बन्धेन प्रतिबन्धकत्वस्य च भूतावेशस्थले एकशरीरावच्छेदेनात्मद्वये ज्ञानस्वीकारादसम्भवात्, एकावच्छेदेनैकात्मवृत्तित्वप्रत्यासत्त्युक्तौ गौरवं त्वाकाङ्क्षानिश्चयहेतुत्वेऽपि तुल्यम्, अन्यथा कायव्यूहादिस्थलेऽसम्भवादिति, तदसत्, निराकाङ्क्षत्वतद्व्याप्यादिमत्ताग्रहप्रतिबन्धकत्वकल्पने गौरवात् । यदपि साकाङ्क्षपदज्ञानजन्यपदार्थोपस्थितिरेव तत्त्वेन हेतु:, न त्वाकाङ्क्षाज्ञानं तत्त्वेन, घटमित्याद्यानुपूर्वीज्ञानस्य कुम्भमित्याद्यानुपूर्वीज्ञानस्य घटः कर्मत्वमित्यादिज्ञानजन्योपस्थितिसहकारेण बोधकत्ववारणायोक्तरूपेण हेतुत्वस्यावश्यकत्वादिति, तदपि न, घटमित्याद्यानुपूर्वीज्ञानस्य स्वघटकादेशादिस्मारितान्यतरपदज्ञानजन्यघटकर्मत्वाद्युपस्थितिसम्बन्धेन घटीयं कर्मत्वमित्यादिशाब्दबोधहेतुत्वेनोक्तदोषाभावात् । घटमित्यादिवाक्यजन्यावान्तरवाक्यार्थबोधादिरूपपदार्थोपस्थितिकालेऽमादिपदे, घटादिपदोत्तरत्वसन्देहे शाब्दबोधानुत्पादात् साक्षादप्यानुपूर्वीज्ञानं हेतुरित्यपरे । "का नाम योग्यता ? न तावत् सजातीयेऽन्वयदर्शनं, यथाकथञ्चित् साजात्यस्याऽव्यावर्त्तकत्वात्, पदार्थतावच्छेदकेन तस्यायं पयः पिबतीत्यादावसम्भवात्, वाक्यार्थस्यापूर्वत्वाच्च, नापि समभिव्याहृतपदार्थसंसर्गव्याप्यधर्मवत्त्वं, वाक्यार्थस्यानुमेयतापत्तेः, नापि बाधकप्रमाविरहः, स्वपरसाधारणबाधकप्रमाविरहस्य दुर्ज्ञेयत्वात्, स्वरूपसतोऽस्य हेतुत्वेऽयोग्ये योग्यताभ्रमाच्छाब्दभ्रमानुपपत्तेः । स्वीयबाधकप्रमाविरहस्य हेतुत्वे त्वयोग्यताभ्रमदशायां शाब्दबोधापत्तेः । न च तदा विशिष्टज्ञानसामान्यहेतोर्बाधबुद्ध्यभावस्य विरहान्न तदापत्तिः, तर्हि तद्धेतुत्वेनैव निर्वाहे योग्यताधीहेतुत्वे मानाभावात् । (शङ्का) अस्त्वेवं लौकिकसन्निकर्षाजन्यदोषविशेषाजन्यतज्ज्ञानमात्रे तदभावनिश्चयस्य प्रतिबन्धकत्वाच्छाब्दप्रतिबन्धकत्वस्यापि तत एव सिद्धेः, योग्यताज्ञानविलम्बाच्च शाब्दबोधविलम्बस्यासिद्धत्वेन नव्यमतसाम्राज्यादिति चेत्, न, लौकिकसन्निकर्षदोषविशेषादेरुत्तेजकत्वपक्षे बाधबुद्धय Page #272 -------------------------------------------------------------------------- ________________ ६७४ अष्टसहस्त्रीतात्पर्यविवरणम् अष्टसहस्त्रीतात्पर्यविवरणम् भावस्य प्रत्यक्षत्वादेरेव कार्यतावच्छेदकत्वाच्छाब्दत्वावच्छिन्ने योग्यताधीहेतुत्वौचित्येनोक्तमतासाम्राज्यात् । (शङ्का) न च तत्पक्षेऽप्यस्तु शुद्धबाधबुद्ध्यभावस्य परोक्षत्वावच्छिन्नहेतुत्वं, परोक्षत्वस्य प्रत्यक्षान्यज्ञानरूपत्वे विशेष्यविशेषणभावभेदेन गौरवात् । न च जातिरूपं तत्, इच्छाघटितस्मृत्यादिसामग्रीप्रतिबध्यतावच्छदेकताघटकजात्या सकरात्, सम्बन्धगौरवेण स्वाश्रयान्यत्वसम्बन्धेन स्मृतित्वस्यातत्त्वात् । किञ्च मुखं न चन्द्र इत्ययोग्यतानिश्चयेऽप्याहार्ययोग्यताज्ञानेन शाब्दबोधात्तदेव शाब्दधीहेतुः । न च एवं वह्निना सिञ्चतीत्यादावपि तथापत्तिः, आहार्ययोग्यताज्ञाने इष्टत्वात्, तदसत्त्वे शाब्दबोधाभावेन तद्धेतुत्वकल्पनात् । अत एव गालिप्रदानादितोऽपि शाब्दबोधसम्भवः । न च एवं लोकिकान्यबाधधीसत्त्वेऽपि लौकिकयोग्यताज्ञानात् शाब्दापत्तिः, इष्टत्वात्, विरोधिनिश्चयस्यैव चाहार्यत्वप्रयोजकत्वेन तच्छाब्दस्याहार्यत्वानापत्तेः, बाधबुद्धौ भ्रमत्वज्ञानाङ्गीकाराद्वा । किञ्च यत्र स्थलविशेषे बाधधीकाले योग्यताज्ञानं तत्र तस्य हेतुत्वध्रौव्ये विशेष्यतावच्छेदकतया तत्पुरुषीयशाब्दत्वावच्छिन्ने तया तत्पुरुषीययोग्यताज्ञानत्वेन हेतुत्वसिद्धिः, यत्र चालौकिकयोग्यताधीकाले लौकिकबाधधीस्तत्र तस्याः प्रतिबन्धकत्वस्वीकारान्न दोषः । किञ्च स्थूलजलपरस्य पयसा सिञ्चतीत्यादेरयोग्यत्वाय विशेष्यतया योग्यताज्ञानहेतुत्वसिद्धिः, बाधबुद्ध्यभावस्य धर्मितावच्छेदकान्तर्भावेनैव नव्यनये हेतुत्वादित्यन्यत्र विस्तरः । (शङ्का) तस्माच्छाब्दज्ञानहेतुर्योग्यता निर्वक्तव्येति चेत्, अत्रोच्यते, एकपदार्थेऽपरपदार्थसंसर्गवत्त्वं तेन संसर्गेणापरपदार्थवत्वं वा योग्यता । न च वाक्यार्थस्यापूर्वत्वात्तद् दुर्जेयता, प्रत्यक्षादिना संशयसाधारणतज्ज्ञानहेतुत्वस्वीकारेणादोषात्, गन्धप्रागभावकालावच्छिन्नो घटो गन्धवानित्यादौ तद्गन्धप्रागभावकालाद्यवच्छिन्नगन्धसमवायस्य तद्घटेऽभावादयोग्यत्वं । न च एवमेकविध्यर्थयोः कृतीष्टसाधनत्वयोः परस्परमन्वयो न स्यादुक्तयोग्यताविरहादिति वाच्यम्, एकपदार्थ इत्यादेरेकवृत्तिविषयेऽपरवृत्तिविषयसंसर्गवत्त्वमित्यर्थात, एवमेवकारादिस्थलेऽपि विचारणीयम् । आसत्तिरव्यवधानेनान्वयप्रतियोग्युपस्थितिः, एकपदार्थोपस्थित्यव्यवधानेनापरपदार्थोपस्थितिरिति यावत्, अव्यवधानं व्यवधानाभावः, तेन युगपन्नानापदार्थोपस्थितावपि न क्षतिः । तच्चार्थसिद्धं तत्तत्पदार्थशाब्दबुद्धौ तत्तत्पदार्थोपस्थितेर्हेतुतया विनाऽव्यवहितोपस्थिति शाब्दबोधासम्भवात्, (शङ्का) अस्याः स्वरूपसत्या एव हेतुत्वादासत्ति Page #273 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि० १०-का० १०३] ६७५ अष्टसहस्त्रीतात्पर्यविवरणम् निश्चयहेतुत्वं कुत इति चेत्, न कुतश्चित्, वृत्त्या पदजन्यपदार्थोपस्थितेः स्वरूपसत्या एव हेतुत्वात् । न च अनुपदोक्तानुपूर्वीज्ञानस्य निरुक्तोपस्थितिसम्बन्धेन हेतुत्वात्किमनयेति वाच्यम्, व्याप्तिज्ञानदण्डादेः स्वजन्यपरामर्शचक्रभ्रम्यादिसम्बन्धेन हेतुत्वेऽपि परामर्शचक्र भ्रम्यादिहेतुत्ववदासत्तेरपि तत्त्वात्, व्यापारस्य व्यापारिणाऽन्यथासिद्ध्यभावात्, आसत्तिनिश्चयहेतुत्वोक्तिस्तु प्राचां मतेनेति नव्याः । 'मिश्रास्तु ननु एकपदार्थोपस्थित्यव्यवधानविशिष्टापरपदार्थोपस्थिति सत्तिः, गिरि(क्तमग्निमान् देवदत्तेनेत्यात्राग्निमत्पदार्थोपस्थितौ सत्यां तदव्यवहितोत्तरक्षणे तस्यां गिर्युपस्थित्यव्यवधानभ्रमस्वीकारे भ्रमस्यैव निरुक्ताव्यवधानविशिष्टोपस्थितिरूपासत्तितया तभ्रमहेतुत्वे सिद्धान्तभङ्गप्रसङ्गात् । नाप्युपस्थापकपदाव्यवहितपदोपस्थितिः सा, व्यवहिते पदेऽपरपदाव्यवहितोत्तरत्वभ्रमस्यैवासत्तितया तद्दोषतादवस्थ्यात् । न च उपस्थापकपदाव्यवधानं सा, इत्थं च व्यवहितोक्तपदेऽव्यवहितत्वभ्रमसम्भवान्नानुपपत्तिरिति वाच्यम्, मौनिश्लोकादौ पदाभावेनासत्त्यभावापत्तेः, अत एवोच्चारणाव्यवधानं सेति परास्तं । न च उपस्थापकस्य पदस्य तदर्थस्य वाऽव्यवहितोपस्थित्यनुकूलव्यापारः सा, स च क्वचिदव्यवहितोच्चारणं क्वचिल्लिप्यादिकं च, इत्थं च व्यवहितोच्चरितादावप्यव्यवहितोच्चरितत्वादिभ्रमः सम्भवतीति वाच्यम्, तर्हि योजनादिनापि श्लोकादावन्वयबोधाभावापत्तेः । वक्त्रा व्यवहितोच्चरितमिति विशेषदर्शनेऽव्यवहितोच्चरितमिति भ्रमासम्भवात्, एकपदार्थोपस्थित्यव्यवधानेनापरपदार्थोपस्थित्यनुकूलव्यापारस्येति वाच्यतयैकपदार्थयोः परस्परमनन्वयापत्तेश्चेति चेत्, सत्यम्, एकत्वापरत्वयोर्न पदविशेषणत्वं, किन्त्वर्थविशेषणत्वमेवेत्यनुपदोक्तदोषाभावात् । वस्तुत एकपदार्थत्वमेकवृत्तिविषयत्वम्, अपरपदार्थत्वमपरवृत्तिविषयत्वं, तेन घटभेदो न घट इत्यादौ पदार्थाभेदेऽपि न क्षतिः । मेयाभिधेयादिबोधकतदादिपदार्थयोरेकवृत्तिविषयत्वे त्वेकापरवृत्तिविषयतावच्छेदकावच्छिन्नत्वमेकापरपदार्थत्वं वाच्यम् । व्यहितोच्चरिते च पदतात्पर्यमेव तथाव्यापारः, तदेव योजनया ज्ञाप्यते, शुकादिवाक्ये तु शिक्षयितुरेव तथाव्यापारः, ईश्वरस्यैव वा। न च यत्र तात्पर्यं व्यवधानेनोच्चारणमव्यवधानेन तत्र का गतिरिति वाच्यम् । तत्रोच्चारस्य सतोऽप्यकिञ्चित्करत्वात्, अन्वयबोधानुकूलोपस्थितेविवक्षितत्वात्, स्वविरोधिव्यवधानाभिप्रायापूर्वकोच्चारणाव्यवधानप्रयोज्योपस्थितेरेव शाब्दबोधोपधायकत्वस्वीकारात्, तथा च व्यवधानाभिप्रायापूर्वकाव्यवहितोपस्थित्यनुकूलव्यापार १. मिश्रास्तु इत्यस्य इत्याहुरित्यनेनान्वयः पत्र ६७६-पं. ३ । Page #274 -------------------------------------------------------------------------- ________________ ६७६ अष्टसहस्त्रीतात्पर्यविवरणम् अष्टसहस्त्रीतात्पर्यविवरणम् आसत्तिरिति फलितं । वस्तुत एतत्पदानन्तरं तत्पदं प्रतिसन्दधात्विति तात्पर्यमेवासत्तिः, इदं शुकस्यापि सम्भवि, ईश्वरीयं वा तत् सुलभं । न चैवमासत्तिभ्रमस्थलासम्भवो, वक्त्रन्तर्भावेन तत्सम्भवादित्याहुः, तच्चिन्त्यम, एकवाक्यताया अर्थतात्पर्यस्य निश्चये यथोक्तासत्तिनिश्चयं विना शाब्दबोधविलम्बाभावात्, न चैकवाक्यतैवानेनोपालक्षि, सम्भूयोच्चारणस्य चिन्तामणौ पृथगुपन्यासात्, तस्माद् व्यवधानेन वृत्त्या पदजन्यपदार्थोपस्थितिरासत्तिरिति प्रागुक्तमेव युक्तम् । तदेवं परस्परापेक्षाणामित्यस्याकाङ्क्षादिमतामित्यर्थात् आकाङ्क्षादिमतां पदानां समूहो वाक्यमिति न्यायनये स्थितं, निरपेक्षपदं त्वनतिप्रयोजनं, यदि च तस्य सप्रयोजनत्वे निर्बन्धः, तदा प्रकृतवाक्यस्य लक्ष्यस्य वाक्यान्तरैकवाक्यस्य महावाक्याव्यावर्त्तनेन प्रकृतान्वये प्रकृतवाक्यस्य महावाक्यस्थपदान्तरनिरपेक्षत्वात् । इदं तु ध्येयम्-साकाङ्क्षत्वमनाकाङ्क्षत्वं च स्याद्वादेनैव व्यवस्थापनीयम् । तत्पदव्यतिरेकप्रयुक्तान्वयाननुभावत्वरूपाकाङ्क्षापक्षे व्याकरणसंस्कृतपुरुषीयत्वेन निरुक्तान्वयबोधविशेषणे समभिव्याहाररूपाकाङ्क्षापक्षे च तत्तदानुपूर्वीज्ञाने व्याकरणसंस्कृतपुरुषीयशाब्दबोधजनकत्वज्ञानहेतुत्वोक्त्या घट: कर्मत्वमित्यादेः सव्युत्पन्न प्रति साकाङ्क्षत्ववारणेऽपि देवदत्तः पचतीत्यतो नैयायिकस्य नामार्थविशेष्यक एव बोधः, शाब्दिकस्य तु धात्वर्थविशेष्यक इति तत्तदन्वयबोधे तद्वाक्यस्यान्यतरं प्रति निराकाङ्क्षत्वावारणात् । न च तत्तन्नयव्युत्पन्नीयतद्वाक्यजतादृशबोधे तादृशव्युत्पत्तेर्हेतुत्वात् नयाकाङ्क्षकान्ताविरोधः, व्यभिचारेण भिन्नभिन्नव्युत्पत्तेरेवासिद्धेः तत्तद्व्युत्पत्तिवैशिष्ट्यस्य विपरीतव्युत्पन्नीयबोधसाधारण्येनातिप्रसञ्जकत्वादुभयव्युत्पन्नयोरुभयोरुक्तवाक्यान्नियमत उभयबोधापत्तेश्च । न च एकनयाभिमतव्युत्पत्तौ तदितरनयाभिमतशाब्दबोधजनकत्वाभावज्ञानस्य प्रतिबन्धकत्वाद् अदोषः, उभयव्युत्पत्तिसमाजे परस्परप्रतिबन्धेन कस्यापि बोधस्यानापत्तेः । कथं चैवं नैयायिकः शिष्येषु व्याकरणव्युत्पत्तिमादधानो देवदत्तः पचति एकदेवदत्ताभिन्नाश्रयपाकानुकूला भावनेति विवृणुयात् ? (शङ्का) आहार्याकाङ्क्षाज्ञानेन तथा बुद्ध्वा परं तथा बोधयितुं नानौचितीति चेत, सत्यम, आहार्यत्वस्यापि परस्परमविनिगमेन तथा तथा साकाङ्क्षनिराकाङ्क्षत्वाव्यवस्थितेः । एतेन एकनययुक्त्याऽपरनयाप्रामाण्यग्रहोऽपि व्याख्यातः अनेनैवाभिप्रायेण गणिययवयणिज्जसच्चा इत्यादिना सम्मतौ (१.२८) नयवाक्यानां कात्स्येन साकाङ्क्षत्वानाकाङ्क्षत्वभजना समथिता । एवं योग्यत्वमयोग्यत्वमासन्नत्वमनासन्नत्वं च Page #275 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि १०-का. १०३] ६७७ अष्टसहस्त्रीतात्पर्यविवरणम् - देशकालादिभेदेन तात्पर्यादिभेदेन च भजनीयं । वस्तुतः समभिव्याहाररूपाकाङ्क्षा वाक्यशक्त्यवच्छेदकतयैवोपयुज्यते न पृथक्, घत्वावच्छिन्नप्रकारतानिरूपितटत्वावच्छिन्नप्रकारतानिरूपिताऽम्त्वावच्छिन्नविशेष्यताकघटविधेयककर्मत्वविशेष्यकशाब्दबोधजनकत्वप्रकारताकज्ञानत्वादिना तादृशशाब्दबोधहेतुत्वाकल्पनादाद्यवृद्धव्यवहारेण वाक्य एव शक्तिसिद्धरनन्तरमावापोद्वापक्रमेण पदशक्तिग्रहस्य च तत्रैवोपकाराच्छक्तेश्च जनकताविशेषरूपत्वाद्विशेषपदेनैव शक्तिलक्षणाभेदानुच्छेदात्, अन्यथेश्वरेच्छारूपशक्तिवादेऽप्यगतेः, केवलपदस्याननुभावकतापक्ष एव हि पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते [ ] इत्युक्तं युज्यत इत्युक्तं प्राक् । न च एवं द्रव्यनिक्षेपप्रयुक्तघटपदघटितवाक्याद्भावनिक्षेपविषयशाब्दबोधापत्तिः, स्वप्रयोज(क)निक्षेपप्रयुक्तवाक्यशक्तिग्रहद्वारैव पदशक्तिग्रहस्य हेतुत्वाद्, द्वारद्वारिभावेन चान्यथासिद्धरयोगात्, पदार्थोपस्थितिद्वारा पदज्ञानहेतुत्वे तु तद् [द्वारा] वारणाय शाब्दसामग्रयाः क्वचित्पदार्थस्मृतिघटितायाः क्वचिच्च शाब्दतदुपस्थितिघटितायाः स्मृतिप्रतिबन्धकत्वकल्पने महागौरवम्, एकवाक्यताभिप्रायश्चार्थतात्पर्यविधयैवोपयुज्यत इत्यननुभावकत्वांशोऽवशिष्यते, तत्र च स्वरूपसति प्रतिबन्धके परेषां शाब्दबोधद्वयेच्छादिवदस्माकं वाक्यार्थबोधेच्छादेरुत्तेजकत्वं, वाक्यार्थबोधादयश्चाभिप्रायिकपदसंवलने श्रुतरूपास्तदसंवलने मतिरूपा वा, प्रथमादिबोधद्वारा द्वितीयादिबोधे श्रुतहेतुत्वाच्च श्रुताभ्यन्तरीभूतत्वं क्रमनिर्वाहश्चेति, प्राणिनो न हन्तव्या इत्यादे'राज्ञाप्रामाण्यात् प्रमादमूलं प्राणिहननमनर्थसाधनम् इति तात्पर्यार्थपर्यन्तः सम्पूर्णो बोध इत्युपदेशपदाद्यनुसारी पन्थाः । क्वचिच्च प्राथमिकाद्वाक्यार्थविषयश्रुतज्ञानोत्तरं संशयं विनैव महावाक्यार्थजानुपपत्तिज्ञानरूपचिन्ताज्ञानादैदंपर्यविषयं भावनाज्ञानं जायत इति त्रिविधमेव शाब्दं ज्ञानमिष्यते, सामानाधिकरण्येनावच्छेदकावच्छेदेन च शाब्दद्वयेच्छायां द्विविधमपि तद् युज्यते, अर्थावच्छिन्नपदज्ञानोत्तरं तात्पर्यगर्भाकाङ्क्षाज्ञानाद् व्युत्पत्तिविशेषाद्वा पटिष्ठक्षयोपशमवत: प्रागेव तात्पर्यार्थज्ञानं सम्भवतीत्येकविधमेव तदिति तु नव्याः । मुखं चन्द्र इत्यादिरूपकस्थले आहार्ययोग्यताज्ञानस्य हेतुत्वानुरोधेन शाब्दमात्रे योग्यताज्ञानहेतुत्वमपि न युक्तिमत्, बाधज्ञाने सति तादृशस्थले आहार्यशाब्दस्यैव स्वीकारात्, इष्टव्यङ्ग्यप्रतीतिसाधनत्वज्ञानेन मुखे चन्द्राभेदशाब्द एव तत्रेच्छोदयौचित्यात्, अत एवाहार्यारोपो रूपकमिति प्राचामुक्तिः तादृशभाषायाश्च द्रव्यतोऽसत्यत्वेऽपि भावतः सत्यत्वात्, उपमापदस्यालङ्कारान्तरोपलक्षकत्वादुपमासत्यायां परिगणनं । न च एवं मृषान्तरस्यापि क्वचिद्भावतः सत्यत्वाद् द्रव्यभावभाषायां सत्याभेदत्वप्रसक्तिरिति वाच्यम् । क्वाचित्कत्वसार्वत्रिक Page #276 -------------------------------------------------------------------------- ________________ ६७८ अष्टसहस्त्रीतात्पर्यविवरणम् (१) न पुनराख्यातशब्दः, तस्य पदान्तरसापेक्षस्यापि क्वचिन्निरपेक्षत्वाभावे वाक्यत्वविरोधात्, प्रकृतार्थापरिसमाप्तेः निराकाङ्क्षस्य तु वाक्यलक्षणयोगादुपपन्नं वाक्यत्वम् । (२) सङ्घातो वाक्यमित्यत्रापि परस्परापेक्षाणां पदानामनपेक्षाणां वा ? प्रथमपक्षे निराकाङ्क्षत्वेऽस्मत्पक्षसिद्धिः, साकाङ्क्षत्वे वाक्यत्वविरोधः । द्वितीयविकल्पेऽतिप्रसङ्गः । (३) जातिः सङ्घातवर्तिनी वाक्यमित्यप्यनेन विचारितं निराकाङ्क्षपरस्परापेक्षपदसङ्घातवर्तिन्याः सदृशपरिणामलक्षणाया जातेर्वाक्यत्वघटनादन्यथा तद्विरोधात् । ___ (४) एकोऽनवयवः शब्दो वाक्यमित्यप्ययुक्तं तस्याप्रमाणकत्वात्, श्रोत्रबुद्धौ तदप्रतिभासनात् तत्प्रतिबद्धलिङ्गाभावात् । अर्थप्रतिपत्तिलिङ्गमिति चेत्, न, अन्यथापि तद्भावात्, वाक्यस्फोटस्य क्रियास्फोटवत् तत्त्वार्थालङ्कारे निरस्तत्वात् । (५) क्रमो वाक्यमित्यपि न विचारक्षम, वर्णमात्रक्रमस्य वाक्यत्वप्रसङ्गात् । पदरूपतामापन्नानां वर्णविशेषाणां क्रमो वाक्यमिति चेत्, स यदि - अष्टसहस्त्रीतात्पर्यविवरणम् त्वाभ्यामेव विशेषात्, भावविशेषजन्यजनकतानवच्छेदकतया जातिभेदस्वीकाराच्च, क्वचिच्च शशशृङ्ग नास्तीत्यादौ वाक्यशक्त्या शशीयत्वेन शृङ्गाभावशाब्दबोधे पदार्थयोः संसर्गाभावनिश्चयोऽगुण एव, अन्यथा विशिष्टनिषेधप्रतीतावंशतो भ्रमत्वापत्तेः । गालिप्रदानादितोऽपि शाब्दबोधश्चेत, आहार्य एव, नो चेद, दुष्टवक्त्रभिप्रायसूचकत्वेनैव तस्य क्रोधजनकत्वम् । सत्यादित्वं वाचां जनपदसत्याद्यन्यतरत्वेनैव, द्रव्यभावभाषात्वं च तासां चतुर्विधद्रव्यपरिणतिमाश्रित्य, श्रुतभावभाषात्वं च तिसृणां फलीभूतश्रुतोपयोगापेक्षया मिश्रोपयोगाभावेन तृतीयस्या अत्रानधिकारात्, चारित्रभावभाषात्वं च प्रथमान्तिमयोरेव यत्याचारविहितत्वेन चारित्रोत्कर्षकत्वादित्यादिविस्तरो भाषारहस्ये इति कृतं प्रसङ्गेन । प्रकृतं प्रस्तुम:-न पुनराख्यातशब्द इत्यादि, शेषपक्षनिराकरणं प्रायः सुगमम् । क्रियास्फोटवदिति पूर्वापरीभूतावयवास्वाश्रितक्रमासु क्रियास्वेकः क्रियास्फोटो यथा नास्ति Page #277 -------------------------------------------------------------------------- ________________ ६७९ द्वितीयो भागः [परि. १०-का० १०३] परस्परापेक्षाणां निरकाङ्क्षस्तदा समुदाय एव, क्रमभुवां कालप्रत्यासत्तेरेव समुदायत्वात् सहभुवामेव देशप्रत्यासत्तेः समुदायत्वव्यवस्थितेः । अथ साकाङ्क्षस्तदा न वाक्यमर्धवाक्यवत् परस्परनिरपेक्षाणां तु क्रमस्य वाक्यत्वेऽतिप्रसङ्ग एव । (६) बुद्धिर्वाक्यमित्यत्रापि भाववाक्यं द्रव्यवाक्यं वा ? प्रथमकल्पनायामिष्टमेव । द्वितीयकल्पनायां प्रतीतिविरोधः । (७) अनुसंहृतिर्वाक्यमित्यपि नानिष्टं, भाववाक्यस्य यथोक्तपदानुसंहृतिरूपस्य चेतसि परिस्फुरतोऽभीष्टत्वात् । (८-९-१०) आद्यं पदमन्त्यं वान्यद्वा पदान्तरापेक्षं वाक्यमित्यपि नाकलङ्कोक्तवाक्याद्भिद्यते, तथा परस्परापेक्षपदसमुदायस्य निराकाङ्क्षस्य वाक्यत्वसिद्धेः, तदभावे पदसिद्धेरप्यभावप्रसङ्गात् । ननु यदि निराकाङ्क्षः परस्परापेक्षपदसमुदायो वाक्यं (भा०) न तर्हि तदानीमिदं भवति, यथा यत्सत्तत्सर्वं परिणामि, यथा घटः, सन् च शब्द इति साधनवाक्यं । (भा० ) तस्मात्परिणामीत्याकाङ्क्षणात् । साकाङ्क्षस्य वाक्यत्वानिष्टिरिति न शङ्कनीयं, कस्यचित्प्रतिपत्तुस्तदनाकाङ्क्षत्वोपपत्तेः । निराकाङ्क्षत्वं हि नाम (भा०) प्रतिपत्तुर्धर्मोऽयं वाक्येष्वध्यारोप्यते, न पुनः शब्दस्य धर्मस्तस्याचेतनत्वात् । (भा०) स चेत् प्रतिपत्ता तावतार्थं प्रत्येति, किमिति शेषमाकाङ्क्षति ? । - अष्टसहस्त्रीतात्पर्यविवरणम् तथा क्रमवत्पदसमुदाये वाक्यस्फोटोऽपि, एकत्वप्रतीतेर्द्रव्यप्रत्यासत्त्यैवोपपत्तेरिति । यथोक्तपदानुसंहतिरूपस्येति परस्परापेक्षनिरपेक्षपदानुस्मरणरूपस्येत्यर्थः । बुद्धिर्मानस्युत्प्रेक्षानुसंहतिः स्मरणमित्यनयोः पक्षयोर्भेदः । तावता= उदाहरणोपनयमात्रेण, अर्थं Page #278 -------------------------------------------------------------------------- ________________ ६८० अष्टसहस्त्रीतात्पर्यविवरणम् पक्षधर्मोपसंहारपर्यन्तसाधनवाक्यादर्थप्रतिपत्तावपि निगमनवचनापेक्षायां निगमनान्तपञ्चावयववाक्यादप्यर्थप्रतिपत्तौ साधनावयवान्तरवचनापेक्षाप्रसङ्गात् इति न क्वचिन्निराकाङ्क्षत्वसिद्धिः । तथा च वाक्याभावान्न वाक्यार्थप्रतिपत्तिः कस्यचित्स्यात् । ततो यस्य प्रतिपत्तुर्यावत्सु परस्परापेक्षपदेषु समुदितेषु निराकाङ्क्षत्वं तावत्सु वाक्यत्वसिद्धिरिति सर्वं सुस्थम् । __ (भा०) प्रकरणादिना वाक्यकल्पनेनाप्यर्थप्रतिपत्तौ न वा प्राथमकल्पिवाक्यलक्षणपरिहारः । प्रकरणादिगम्यपदान्तरसापेक्षश्रूयमाणपदसमुदायस्य निराकाङ्क्षस्य (भा०) सत्यभामादिपदवद् वाक्यत्वसिद्धेः । तदेवं लक्षणेषु वाक्येषु स्यादिति शब्दोऽनेकान्तद्योती प्रतिपत्तव्यो, न पुनर्विधिविचारप्रश्नादिद्योती, तथाविवाक्षापायात् । कः पुनरनेकान्त इति चेद्, इमे ब्रूमहे । (भा०) सदसन्नित्यानित्यादिसर्वथैकान्तप्रतिक्षेपलक्षणोऽनेकान्तः । स च दृष्टेष्टाविरुद्ध इत्युक्तं प्राक् । तत्र अष्टसहस्त्रीतात्पर्यविवरणम् प्रत्येति=प्रकृतसाध्यं निश्चिनोति । किमितीति शेषं निगमनं, किमित्याकाङ्क्षति साधनमात्रेणार्थसिद्धौ तत्रेष्टसाधनताज्ञानाभावेनाकाङ्क्षाभावात् यस्य च फलीभूतशाब्दबोधेच्छया निगमनशब्द एवाकाङ्क्षा तस्य तच्छब्दाध्याहारेणैव शाब्दबोध इति भावः । सत्यभामादिपदवदिति यथा भामापदेन सत्यभामापदं स्मर्यते तथा प्रकरणादिना पदान्तरमिति तत्सापेक्षश्रूयमाणपदसमुदायस्य न निराकाङ्क्षत्वव्याघात इति भावः । यत्र च प्रकरणादिनाऽखिल एव वाक्यार्थो ज्ञायते चेष्टादिना वा, तत्र तादृशवाक्यकल्पनयैव शाब्दव्यवहारः सङ्गतिमङ्गति, अत एव न चेष्टादेः प्रमाणान्तरत्वम्, अवश्यकल्प्यशब्दमुखनिरीक्षकत्वादिति दिग् । इत्युक्तः१ प्रागिति त्वन्मतामृतबाह्यानाम् इत्यादिकारिकाव्याख्यानावसरे न हि किञ्चिद्रपान्तरविकलमित्यादिना । तत्र क्वचित्प्रयुज्यमान इत्यादि क्वचिच्च जीवादिपदसमीपे १. उक्तं इति अष्टसहस्रीसम्मतः पाठः । Page #279 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि. १०-का० १०३] ६८१ (भा०) क्वचित्प्रयुज्यमानः स्याच्छब्दस्तद्विशेषणतया प्रकृतार्थतत्त्वमवयवेन सूचयति, प्रायशो निपातानां तत्स्वभावत्वादेवकारादिवत् । द्योतकाश्च भवन्ति निपाता इति वचनात् [ ] स्याच्छब्दस्यानेकान्तद्योतकत्वेऽपि न कश्चिद्दोष, 'सामान्योपक्रमे विशेषाभिधानमिति न्याया - अष्टसहस्त्रीतात्पर्यविवरणम् प्रयुज्यमानः स्याच्छब्दस्तद्विशेषणतया जीवादिपदसमभिव्याहृततया, प्रकृतार्थतत्त्वं= सर्वथैकान्तप्रतिपक्षजीवादिपदार्थम्, अवयवेन जीवादिपदद्वारेण, सूचयति लक्षयति, तथा च जीवादिसामान्यविशेषशक्तस्य जीवादिपदस्य नित्यानित्याद्यनेकान्तात्मकजीवादिविशेषे लक्षणा तात्पर्यग्राहकत्वमेव स्याच्छब्दस्य द्योतकत्वमिति भावः । एवकारादिवदिति शङ्खः पाण्डुर एवेत्यादौ पाण्डुरादिपदस्य पाण्डुराद्यन्यत्वव्यवच्छिन्ने लाक्षणिकताया एवकारस्य च तत्र तात्पर्यग्राहकतायाः सम्प्रदायसिद्धत्वादिति भावः । न कश्चिद्दोष इति सम्भूयोच्चारेण स्यात्पदजीवादिपदाभ्यां मिलित्वाऽनेकान्तात्मकजीवादितत्त्वबोधनोपपत्तेरिति भावः । तथा च गम्यं प्रति विशेषणमित्यस्य समुदायशक्तिजन्यबोधे जीवादिपदस्य तुल्यकक्षतया सहकारीत्यर्थः । विशेषणमित्यनन्तरं च वाकारोऽध्याहृत्य योजनीयः, तेन पक्षद्वयाभिव्यक्तिर्भवति । यद्वाऽनेकान्तद्योतीत्यस्यानेकान्तं पदसामान्यशक्तिविषयं द्योतयत्यनुभावयतीत्येकोऽर्थः । स चापरेषां घटादिपदस्य सामान्यव्युत्पत्त्यनुरोधेन कार्यत्वान्वितघटादौ शक्तिग्रहेऽपि ततः कार्यत्वान्वितघटाद्यनुभवे कार्यतावाचकपदसमभिव्याहारापेक्षा, आनुभाविकायाः शक्तेस्तदपेक्षत्वात्, स्मारिका च जाताविति तदभावे घटत्वादिमात्रस्मरणमेवेति कुब्जशक्तिवादः । तथाऽस्माकं नित्यानित्याद्यनेकान्तकोडीकरणं विना व्यवहारमात्रस्यायोगाच्छब्दत्वावच्छेदेन नित्यानित्याद्यनेकान्तात्मक एव शक्तिग्रहादाद्यव्युत्पत्त्यनुरोधेन जीवादिपदस्यापि नित्यानित्याद्यनेकान्तात्मकजीवाद्यर्थ एव शक्तिर्गृह्यत इत्यानुभाविका शक्तिः, तथाऽनुभवजननेऽनेकान्तवाचकपदमपेक्षते स्मारिका तु नेति केवलजीवादिपदाज्जीवाद्यर्थोपस्थितिमात्रम्, अनेकान्तात्मकजीवाद्यर्थानुभवस्तु स्यात्पदसंयोगादित्येतत्पक्षपरिष्कारः । न चैवं मीमांसकमतानुप्रवेशः, सर्वनयात्मके भगवत्प्रवचने क्वचिन्मीमांसकमतोपग्रहस्याप्यदुष्टत्वात्, सिद्धार्थप्रामाण्यस्वीकारेणैव [स्याच्छब्दो लिङाद्यर्थव्यतिरिक्तार्थप्रतिपादकजीवादिपदसमभिव्याहृतस्यात्पदम]नेकान्तं द्योतयति । औपसन्दानिक्या शक्त्या बोधयति यः स तथेति द्वितीयोऽर्थः, तथा च स्याच्छब्दोत्तरजी[वादिपद १. इत: ह. प्रतौ पाठः त्रुटितो वर्तते । पूर्वसंपादकेन पूरितः स अत्र कोष्ठके न्यस्तः । Page #280 -------------------------------------------------------------------------- ________________ ६८२ अष्टसहस्त्रीतात्पर्यविवरणम् ज्जीवादिपदोपादानस्याप्यविरोधात् स्याच्छब्दमात्रयोगादनेकान्तसामान्यप्रतिपत्तेरेव सम्भवात् । सूचकत्वपक्षे तु गम्यमर्थरूपं प्रति विशेषणं स्याच्छब्दस्तस्य विशेषकत्वात् । (भा० ) न हि केवलज्ञानवदखिलमक्रममवगाहते किञ्चिद्वाक्यं, येन तदभिधेयविशेषरूपसूचक: स्यादिति न प्रयुज्यते । (भा० ) वाचः क्रमवृत्तित्वात् तद्बुद्धेरपि तथाभावात् । ततस्तव भगवतः केवलिनामपि स्यान्निपातोऽभिमत एवार्थयोगित्वादन्यथानेकान्तार्थप्रतिपत्तेरयोगात् ॥१०३॥ ननु न कथञ्चिदित्यादिशब्दादपि भवत्येवानेकान्तार्थप्रतिपत्तिः ? सत्यं भवति, तस्य स्याद्वचनपर्यायत्वात् । तथा हि स्याद्वादः सर्वथैकान्तत्यागात् किंवृत्तचिद्विधिः । सप्तभङ्गनयापेक्षो हेयादेयविशेषकः ॥१०४॥ किमो वृत्तः किंवृत्तः । स चासौ चिद्विधिश्चेति । (भा०) कथञ्चिदित्यादिः किंवृत्तचिद्विधिः स्याद्वादपर्यायः । सोऽयमनेकान्तमभिप्रेत्य सप्तभङ्गनयापेक्षः स्वभावपरभावाभ्यां सदसदादिव्यवस्था प्रतिपादयति । के पुनः सप्तभङ्गाः के वा नयाः ? । अष्टसहस्रीतात्पर्यविवरणम् प्रतिपाद्या] नेकान्तात्मकजीवाद्यर्थे विशिष्य शक्तिस्वीकारादौपसन्दानिकी शक्तिरेवात्र द्योतनमिति भावः । उभयत्रापि गम्यं प्रति विशेषणमित्यस्य पदान्तरबोध्यबोधने सहकारीत्यर्थः । तदाह-सूचकत्वपक्षेऽपीति, अपिर्वाचकत्वपक्षं समुच्चिनोति । तद्बुद्धेरपि तथाभावादिति तेन तदादिवत् स्याच्छब्दस्य स्वातन्त्र्येण बुद्धिविषयतावच्छेदकावच्छिन्नेऽपि शक्तिः, तद्बोधकताया वैचित्र्यादिति स्यादस्तीत्यादावस्तित्वाद्यवच्छेदकस्वद्रव्यक्षेत्रकालभावादीनामपि ततो नासाङ्कर्येणानुपस्थितिरिति ध्येयम् । धर्मिवाचकपदसमभिव्याहृतं Page #281 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि १०-का. १०४] ६८३ (भा०) सप्तभङ्गी प्रोक्ता पूर्वमेव । __ [द्रव्यार्थिकपर्यायाथिकनययोः भेदप्रभेदान् वर्णयन्त्याचार्या:] (भा०) द्रव्यार्थिकपर्यायार्थिकप्रविभागवशान्नैगमादयः शब्दार्थनया बहुविकल्पा मूलनयद्वयशुद्धयशुद्धिभ्यां । शास्त्रान्तरे प्रोक्ता इति सम्बन्धः । द्रव्यार्थिकप्रविभागाद्धि नैगमसङ्ग्रहव्यवहाराः पर्यायार्थिकप्रविभागादृजुसूत्रादयः । तत्र ऋजुसूत्रपर्यन्ताश्चत्वारोऽर्थनयाः, तेषामर्थप्रधानत्वात् । शेषास्त्रयः शब्दनयाः शब्दप्रधानत्वात् । तत्र मूलनयस्य द्रव्याथिकस्य शुद्ध्या सङ्ग्रहः, सकलोपाधिरहितत्वेन शुद्धस्य सन्मात्रस्य विषयीकरणात् सम्यगेकत्वेन सर्वस्य सङ्ग्रहणात् । तस्यैवाशुद्ध्या व्यवहारः, सङ्ग्रहगृहीतानामर्थानां विधिपूर्वकत्वव्यवहरणात्, द्रव्यत्वादिविशेषणतया स्वतोऽशुद्धस्य स्वीकरणात्, यत्सत्तद् द्रव्यं गुणो वेत्यादिवत् । एवं नैगमोऽप्यशुद्ध्या प्रवर्तते, सोपाधिवस्तुविषयत्वात् । स हि त्रेधा प्रवर्तते, द्रव्ययोः पर्याययोर्द्रव्यपर्याययोर्वा गुणप्रधानभावेन विवक्षायां नैगमत्वात्, नैकं गमो नैगम इति निर्वचनात् । तत्र द्रव्यनैगमो द्वेधा-शुद्धद्रव्यनैगमोऽशुद्धद्रव्यनैगमश्चेति । पर्यायनैगमस्त्रेधा-अर्थपर्याययोर्व्यञ्जनपर्याययोरर्थव्यञ्जनपर्याययोश्च नैगम इति । अर्थ - अष्टसहस्त्रीतात्पर्यविवरणम् स्यात्पदमनेकान्तात्मकत्वद्योतकं धर्मवाचकपदसमभिव्याहृतं तु तत्तत्स्वद्रव्यक्षेत्रकालाद्यवच्छेदस्फोरकं सकलादेशमहिम्ना तु प्रकृतधर्मे स्वेतरानन्तधर्माभिन्नत्वस्य प्रकारतया प्रकृतधर्मस्य स्वस्वेतरानन्तधर्मात्मकत्वसम्बन्धेन धर्मिण्यन्वयाभ्युपगमाद्वा न काचिदनुपपत्तिरिति श्रद्धेयं स्वसमयव्युत्पत्तिशालिभिः ॥१०३।। अर्थप्रधानत्वात् शब्दतद्धर्मभेदेनार्थभेदास्वीकर्तृत्वात्, शब्दप्रधानत्वात् शब्दतद्धर्मभेदेनार्थभेदस्वीकर्तृत्वात्, एवं नैगमोऽप्यशुद्ध्या प्रवर्त्तत इति अशुद्धिरत्र भेदपरता, द्रव्याथिकेऽभेदभेदयोरेव शुद्धयशुद्धिपदार्थत्वादिति यथास्थानं भावनीयम् । द्रव्ययोरित्यादि अभिलापश्चात्रात्मा पुद्गली, मनुष्यपर्यायो देवपर्यायोत्तरः, द्रव्यमनन्तपर्यायवदित्यादिः । शुद्धद्रव्यनैगमो यथाऽऽकाशद्रव्यं धर्मद्रव्यसंयुक्तमिति । अशुद्धद्रव्यनैगमो यथा घटद्रव्यं Page #282 -------------------------------------------------------------------------- ________________ ६८४ अष्टसहस्त्रीतात्पर्यविवरणम् पर्यायनैगमस्त्रेधा ज्ञानार्थपर्याययोर्जेयार्थपर्याययोर्ज्ञानज्ञेयार्थपर्याययोश्चेति । व्यञ्जनपर्यायनैगमः षोढा—शब्दव्यञ्जनपर्याययोः समभिरूढव्यञ्जनपर्याययोरेवंभूतव्यञ्जनपर्याययोः शब्दसमभिरूढव्यञ्जनपर्याययोः शब्दैवंभूतव्यञ्जनपर्याययोः समभिरूद्वैवंभूतव्यञ्जनपर्याययोश्चेति । अर्थव्यञ्जनपर्यायनैगमस्त्रेधा ऋजुसूत्रशब्दयोः, ऋजुसूत्रसमभिरूढयोः ऋजुसूत्रैवंभूतयोश्चेति । द्रव्यपर्यायनैगमोऽष्टधा-शुद्धद्रव्यर्जुसूत्रयोः शुद्धद्रव्यशब्दयोः शुद्धद्रव्यसमभिरूढयोः शुद्धद्रव्यैवंभूतयोश्च, एवमशुद्धद्रव्यर्जुसूत्रयोरशुद्धद्रव्यशब्दयोरशुद्धद्रव्यसमभिरूढयोरशुद्धद्रव्यैवंभूतयोश्चेति लोकसमयाविरोधेनोदाहार्यम् । तथा पर्यायार्थिकस्य मूलनयस्याशुद्ध्या तावदृजुसूत्रः, तस्य कालकारकलिङ्गभेदेनाप्यभेदात् । शुद्ध्या शब्दस्तस्य कालादिभेदेन भेदात् । शुद्धितरया समभिरूढस्तस्य पर्यायभेदेनापि भेदात् । शुद्धितमयैवंभूतस्तस्य क्रियाभेदेनापि भेदात्, इति मूलनयद्वयशुद्ध्यशुद्धिभ्यां बहुविकल्पा नया नयचक्रतः प्रतिपत्तव्याः पूर्वपूर्वा महाविषया उत्तरोत्तरा अल्पविषयाः शब्दविकल्पपरिणामाश्च । तदेवं व्याख्यातः अष्टसहस्त्रीतात्पर्यविवरणम् पटद्रव्यसंयुक्तमिति । अर्थपर्याययो गमस्त्रिविधो यथा मतिज्ञानं श्रुतज्ञानसहचरितमिति 'ज्ञानरूपार्थपर्याययोः, मतिविषयपर्यायः श्रुतविषयपर्यायसदृश इति ज्ञेयार्थपर्यायो-, ग्राहकाकारो ग्राह्याकारानुगत इति ज्ञानज्ञेयपर्याययोः, । व्यञ्जनपर्याययोः षोढा नैगमो यथा(१) तट इति शब्दवाच्यस्तटीतिशब्दवाच्यसदृश इति शब्दव्यञ्जनपर्याययोः (२) घटशब्दवाच्यः पर्याय: कुम्भशब्दवाच्यसदृश इति, समभिरूढव्यञ्जनपर्याययोः (३) राजपदव्युत्पत्तिनिमित्तक्रिया सुप्पदव्युत्पत्तिनिमित्तक्रियासदृशीति एवम्भूतव्यञ्जनपर्याययोः (४) भिन्नलिङ्गतटादिशब्दवाच्यपर्यायो भिन्नशब्दवाच्यसदृश इति शब्दसमभिरूढव्यञ्जनपर्याययोः (५) संभिन्नक्रिया शब्दवाच्यसदृश इति शब्दै [ 'वंभूतव्यञ्जनपर्याययोः] (६) संभिन्नवर्तमानक्रिया शब्दवाच्यसदृश इति समभिरूढैवंभूतव्यञ्जनपर्याययोः १. ज्ञानार्थ इति अष्टसहस्रीसम्मतः पाठः । २. इतोऽग्रेतनं विवरणं त्रुटितं लक्ष्यतेऽतः असंपूर्णोऽयं ग्रन्थः । हस्तप्रतेः अन्तिमे पृष्ठे केनचित् नवमपरिच्छेदान्त्यभागवर्तिपद्यद्वयम् (तदप्यपूर्णम्) लिखितं दृश्यते । तच्च न उपाध्यायप्रवरेणालेखि इति । अत्र च पूर्वसंपादकेन मुद्रितः पूरितश्च पाठ यथादृष्टस्तथा न्यस्तः ।। Page #283 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि १०-का० १०५] ६८५ सप्तभङ्गनयापेक्षः स्याद्वादो हेयादेयविशेषकः प्रसिद्धस्तमन्तरेण हेयस्योपादेयस्य च विशेषेण व्यवस्थानुपपत्तेः । सर्वतत्त्वप्रकाशकश्च केवलज्ञानवत् । एतदेव दर्शयति स्याद्वादकेवलज्ञाने सर्वतत्त्वप्रकाशने । भेदः साक्षादसाक्षाच्च ह्यवस्त्वन्यतमं भवेत् ॥१०५॥ [स्याद्वादकेवलज्ञानयोः किमन्तरमिति स्पष्टयन्ति जैनाचार्याः ।] साक्षादसाक्षात् प्रतिभासिज्ञानाभ्यामन्यस्याप्रतीतेरवस्तुत्वप्रसिद्धः इत्यर्थः । (भा०) स्याद्वादकेवलज्ञाने इति निर्देशात् तयोरभ्यर्हितत्वानियम दर्शयति, परस्परहेतुकत्वात् । न चैवमन्योन्याश्रयः, पूर्वसर्वज्ञद्योतितादागमादुत्तरसर्वज्ञस्य केवलोत्पत्तेः ततोऽप्युत्तरकालमागमद्योतनात् सर्वज्ञागमसन्तानस्यानादित्वात् । केवलज्ञानस्य (भा० ) अभ्यर्हितत्वे वा पूर्वनिपाते व्यभिचारं सूचयति, शिष्योपाध्यायादिवत् । ततोऽनवद्यो निर्देशः स्याद्वादकेवलज्ञाने सर्वतत्त्वप्रकाशने इति । (भा०) कथं पुनः स्याद्वाद्वः सर्वतत्त्वप्रकाशनः ? यावता मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु इति [तत्त्वा० १.२६] श्रुतस्यासर्वपर्यायविषयत्वव्यवस्थानमिष्यते, तच्चैवं विरुद्ध्यते, इति सूत्रविरोधं मन्यते तदयुक्तं, पर्यायापेक्षया तदनभिधानात् । एवं हि भगवतामभिप्रायोऽत्र । (भा०) जीवादयः सप्त पदार्थास्तत्त्वं । जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् इति वचनात् [तत्त्वा० १.४] । - अष्टसहस्त्रीतात्पर्यविवरणम् व्युत्पत्तिनिमित्तक्रिया वर्तमानक्रियासदृश इति । एवं ऋजुसूत्रशब्दयोः ऋजुसूत्रसमभिरूढयोः Page #284 -------------------------------------------------------------------------- ________________ ६८६ अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) तत्प्रतिपादनाविशेषात् । स्याद्वादकेवलज्ञानयोः सर्वतत्त्वप्रकाशनत्वम् इति न विरोधः । यथैव ह्यागमः परस्मै जीवादितत्त्वमशेष प्रतिपादयति तथा केवल्यपीति न विशेषः । साक्षादसाक्षाच्च तत्त्वपरिच्छित्तिनिबन्धनत्वात् तद्भेदस्य । (भा०) तदाह भेदः साक्षादसाक्षाच्चेति । साक्षात्कृतेरेव सर्वद्रव्यपर्यायान् परिच्छिनत्ति नान्यत इति यावत् । न हि वचनात्तान्प्रकाशयति, समुत्पन्नकेवलोऽपि भगवान्, तेषां वचनागोचरत्वात् । तदेवं स्याद्वादनयसंस्कृतं तत्त्वज्ञानं प्रमाणनयसंस्कृतमिति व्याख्याने, स्याद्वादः प्रमाणं सप्तभङ्गीवचनविधि:गमादयो बहुविकल्पा नया इति सङ्खपत: प्रतिपादितं, विस्तरतोऽन्यत्र तत्प्ररूपणात् ॥१०५।। सम्प्रत्यहेतुवादागमः स्याद्वादो हेतुवादो नयस्ताभ्यां संस्कृतमलङ्कृतं तत्त्वज्ञानं प्रमाणं युक्तिशास्त्रविरुद्धं सुनिश्चितासम्भवद्बाधकमिति व्याख्यानान्तरमभिप्रायवन्तो भगवन्तो हि हेतुलक्षणमेव प्रकाशयन्ति, स्याद्वादस्य प्रकाशितत्वात् । सधर्मणैव साध्यस्य साधादविरोधतः । स्याद्वादप्रविभक्तार्थविशेषव्यञ्जको नयः ॥१०६॥ [नयस्य लक्षणं कृत्वा स हेतुरिति समर्थयन्ति ।] नीयते साध्यते गम्यार्थोऽनेनेति नयो हेतुः स च हेतुः सधर्मणैव दृष्टान्तधर्मिणा साधर्म्यात्साध्यस्य साध्यधर्माधिकरणस्य धर्मिणः परमागमप्रविभक्तस्यार्थविशेषस्य शक्यस्याभिप्रेतस्याप्रसिद्धस्य विवादगोचरत्वेन व्यञ्जको, न पुनर्विपक्षेण साधर्म्यात्, तेन वैधादेवाविरोधेन हेतोः साध्यप्रकाशनत्वोपपत्तेः । अत्र - अष्टसहस्त्रीतात्पर्यविवरणम् ऋजुसूत्रैवंभूतयोरिति त्रिविधोऽप्यर्थव्यञ्जनपर्यायनैगमः, अष्टधा च द्रव्यपर्यायनैगमः इत्यादि स्वधिया विभाव्योदाहार्यम्] ॥१०४|| Page #285 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि. १०-का० १०६] ६८७ (भा०) सपक्षेणैव साध्यस्य साधादित्यनेन हेतोस्टेलक्षण्यमविरोधादित्यन्यथानुपपत्तिं च दर्शयता, केवलस्य त्रिलक्षणस्यासाधनत्वमुक्तं, तत्पुत्रत्वादिवत् । एकलक्षणस्य तु गमकत्वं, नित्यत्वैकान्तपक्षेऽपि विक्रिया नोपपद्यते इति बहुलमन्यथानुपपत्तेरेव समाश्रयणात् । नन्वत्र सङ्क्षपात् तथाभिधानेऽपि त्रैलक्षण्यं शक्यमपुदर्शयितुं पञ्चावयववत् । सत्यमेतत्, केवलं (भा०) यत्रार्थक्रिया न सम्भवति तन्न वस्तुतत्त्वं, यथा विनाशैकान्तः । तथा च नित्यत्वेऽपि क्रमयोगपद्याभ्यामर्थक्रिया न सम्भवति, नापरं प्रकारान्तरमिति, त्रिलक्षणयोगेऽपि प्रधानमेकलक्षणं, तत्रैव साधनसामर्थ्यपरिनिष्ठितेः । तदेव च प्रतिबन्धः पूर्ववद्वीतसंयोग्यादिसकलहेतुप्रतिष्ठापकम् । न पुनस्तादात्म्यतदुत्पत्ती प्रतिबन्धः संयोगादिवत्, तदभावेऽपि हेतोः साध्याभावासम्भवनियमनिर्णयलक्षणस्य भावे गमकत्वसिद्धेः, शीताचले विद्युत्पातः, केदारे कलकलायितत्वादित्यादिवत्, सत्यपि च तदुत्पत्त्यादिप्रतिबन्धेऽन्यथानुपपन्नत्वाभावे गमकत्वासम्भवात्, स श्यामस्तत्पुत्रत्वादितरतत्पुत्रवदित्यादिवत्, अस्त्यत्र धूमोऽग्नेमहानसवदित्यादिवच्च । सकलविपक्षव्यावृत्तिनिश्चयाभावादस्यागमकत्वेऽन्यथानुपपन्नत्वनिश्चयाभावादेवागमकत्वमुक्तं स्याद् इति तस्यैव लक्षणत्वमस्तु, सकलसम्यग्घेतुभेदेषु कार्यस्वभावानुपलम्भेष्विव पूर्ववत्-शेषवत्-सामान्यतोदृष्टेषु वीतावीतदुभयेषु संयोगितसमवायैकार्थसमवायिविरोधिषु भूतादिषु प्रवतमानस्य पक्षव्यापिनः सर्वस्माच्च विपक्षादसिद्धादिहेत्वाभासप्रपञ्चाद् व्यावर्तमानस्यान्यथानुपपन्नत्वस्य हेतुलक्षणत्वोपपत्तेः तथाविधस्यापि तदलक्षणत्वे हि न किञ्चित्कस्यचिल्लक्षणं स्यादिति लक्ष्यलक्षणभाव एवोच्छिद्येत । सति चान्यथानुपपन्नत्वे प्रतिपाद्याशयवशात् प्रयोगपरिपाटी पञ्चावयवादिरपि न निवार्यते इति तत्त्वार्थालङ्कारे विद्यानन्दमहोदये च प्रपञ्चतः प्ररूपितम् । [प्रमाणनयदुर्नयानां लक्षणं कुर्वन्ति जैनाचार्याः ।] (भा०) ततः स्याद्वादेत्यादिनानुमितमनेकान्तात्मकमर्थतत्त्वमादर्शयतितदेव हि स्याद्वादप्रविभक्तोऽर्थः, प्राधान्यात्, सर्वाङ्गव्यापित्वात् । Page #286 -------------------------------------------------------------------------- ________________ ६८८ अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) तस्य विशेषो नित्यत्वादिः पृथक् पृथक् । तस्य प्रतिपादको नयः । इति नयसामान्यलक्षणमप्यनेन दर्शितमिति व्याख्यायते । (भा०) तथा चोक्तम्, अर्थस्यानेकरूपस्य धीः प्रमाणं, तदंशधीः । नयो धर्मान्तरापेक्षी दुर्नयस्तन्निराकृतिः ॥ [ (भा०) इति तदनेकान्तप्रतिपत्तिः प्रमाणमेकधर्मप्रतिपत्तिर्नयस्तत्प्रत्यनीकप्रतिक्षेपो दुर्नयः, केवलविपक्षविरोधदर्शनेन स्वपक्षाभिनिवेशात् । किं पुनर्वस्तु स्यादित्याहु: नयोपनयैकान्तानां त्रिकालानां समुच्चयः । अविभ्राड्भावसम्बन्धो द्रव्यमेकमनेकधा ॥१०७॥ [वस्तुनो लक्षणं किमिति प्रश्ने आचार्याः उत्तरयन्ति ।] (भा०) उक्तलक्षणो द्रव्यपर्यायस्थानः सङ्ग्रहादिर्नयः तच्छाखाप्रशाखात्मोपनयः । तदेकान्तानां विपक्षोपेक्षालक्षणानां त्रिकालविषयाणां समितिर्द्रव्यं । वस्तु गुणपर्ययवद् द्रव्यम् इति वचनात् [ तत्त्वा० ५.३८] । क: पुनस्तेषां समुच्चयो नामेति चेत्, कथञ्चिदविभ्राड्भावसम्बन्ध इत्याचक्षते, ततोऽन्यस्य समुच्चयस्य संयोगादेरसम्भवात् द्रव्यपर्यायविशेषाणाम् । न चैवमेकमेव द्रव्यं नयोपनयैकान्तपर्यायाणां तत्तादात्म्यादित्यारेकितव्यं, ततस्तेषां कथञ्चिद्भेदादनेकत्वम् इति वचनात् [ ] । तीनेकमेवास्तु तादात्म्यविरोधादनेकस्थस्येत्यपि न शङ्कितव्यं, कथञ्चित्तादात्म्यस्याशक्यविवेचनत्वलक्षणस्याविरोधात्तथाप्रतीतेः । केवलं (भा०) ततस्तेषामपोद्धाराद् गुणगुण्यादिवत् तदनेकधा । ततः सूक्तं-त्रिकालवर्तिनयोपनयविषयपर्यायविशेषसमूहो द्रव्य Page #287 -------------------------------------------------------------------------- ________________ ६८९ द्वितीयो भागः [परि० १०-का. १०८-१०९] मेकानेकात्मकं जात्यन्तरं वस्तुइति । अत्र परारेकामुपदर्श्य परिहरन्तः सूरयः प्राहु: मिथ्यासमूहो मिथ्या चेत्, न मिथ्यैकान्ततास्ति नः । निरपेक्षा नया मिथ्या सापेक्षा वस्तु तेऽर्थकृत् ॥१०८॥ [सुनयकुनययोर्लक्षणम्] (भा०) सुनयदुर्नययोर्यथास्माभिर्लक्षणं व्याख्यातं तथा न चोद्यं न परिहारः । निरपेक्षाणामेव नयानां मिथ्यात्वात् तद्विषयसमूहस्य मिथ्यात्वोपगमात्, सापेक्षाणां तु सुनयत्वात्तद्विषयाणामर्थक्रियाकारित्वात्, तत्समूहस्य वस्तुत्वोपपत्तेः । (भा० ) तथा हि-निरपेक्षत्वं प्रत्यनीकधर्मस्य निराकृतिः । सापेक्षत्वमुपेक्षा, अन्यथा प्रमाणनयाऽविशेषप्रसङ्गात्, धर्मान्तरादानोपेक्षाहानिलक्षणत्वात प्रमाणनयदर्नयानां प्रकारान्तरासम्भवाच्च. प्रमाणात्तदतत्स्वभावप्रतिपत्तेर्नयात्तत्प्रतिपत्तेदुर्नयादन्यनिराकृतेश्च, इति विश्वोपसंहृतिः । व्यतिरिक्तप्रतिपत्तिप्रकाराणामसम्भवात् ॥१०८।। नन्वेवमनेकान्तात्मार्थः कथं वाक्येन नियम्यते यतः प्रतिनियते विषये प्रवृत्तिर्लोकस्य स्यादित्यारेकायामिदमभिदधते नियम्यतेऽर्थो वाक्येन विधिना वारणेन वा । तथान्यथा च सोऽवश्यमविशेष्यत्वमन्यथा ॥१०९॥ [अनेकान्तात्मकोऽर्थः विधिना वाक्येन प्रतिषेधवाक्येन वा निश्चीयते अन्यथा न ।] (भा० ) यत्सत्तत्सर्वमनेकान्तात्मकमर्थक्रियाकारित्वात् स्वविषयाकारसंवित्तिवत् । यद्विवादाध्यासितं वस्तु तत्सर्वं धर्मि प्रत्येयम्, अप्रसिद्ध साध्यम् इति वचनात् [ ] तस्यानेकान्तात्मकत्वेन विवादाध्यासितत्वात् साध्यत्वोपपत्तेः । अर्थक्रियाकारित्वादिति हेतुरसिद्धत्वादिदोषानाश्रयत्वात् प्रधानैकलक्षणयोगाच्च । स्वविषयाकारसंवित्तिवदित्युदाहरणं, तथा वादिप्रतिवादिसिद्धत्वात् । सौगतस्य Page #288 -------------------------------------------------------------------------- ________________ अष्टसहस्त्रीतात्पर्यविवरणम् चित्राकारैकसंवेदनोपगमात्, यौगानामीश्वरज्ञानस्य स्वार्थसंवेदिनो मेचकज्ञानत्वोपगमात्, कापिलानामपि स्वरूपबुद्ध्यध्यवसतितार्थसंवेदिनः स्वसंवेदनस्येष्टेः, श्रोत्रियाणामपि फलज्ञानस्य स्वसंवेदिनोऽर्थपरिच्छित्तिरूपस्य प्रसिद्धेः, चार्वाकस्यापि प्रत्यक्षस्य वेदनस्य स्वार्थपरिच्छेदिनोऽभ्युपगमनीयत्वात् सम्यगिदं साधनवाक्यम् । तथा ६९० ( भा० ) न किञ्चिदेकान्तं वस्तुतत्त्वं सर्वथा तदर्थक्रियासम्भवाद् गगनकुसुमादिवद् इति । अत्रापि विवादापन्नं वस्तुतत्त्वं धर्मि पराध्यारोपितैकान्तत्वेन प्रतिषेध्यं, क्वचित् सत इवारोपितस्यापि प्रतिषेध्यत्वसिद्धेरन्यथा कस्यचित्परमतप्रतिषेधायोगात्, सत एव सञ्ज्ञिनः प्रतिषेधो नासतः इत्यस्याप्यविरोधात् सम्यगेकान्ते प्रसिद्धस्य रूपस्य सापेक्षस्य निरपेक्षत्वेनारोपितस्य क्वचित्प्रतिषेधात्, सर्वथा तदर्थक्रियाभावात् इति हेतुर्व्यापकानुपलब्धिरूपत्वात् गगनकुसुमादिवदित्युदाहरणं साध्यसाधनावैकल्याद् गगनकुसुमादेरत्यन्ताभावस्य परैरेकान्तवस्तुरूपत्वसर्वथार्थक्रियाकारित्वयोरनिष्टेः इतीदमपि श्रेयः साधनवाक्यम् । विशेषेण पुनः ( भा०) नास्ति सदेकान्तः, सर्वव्यापारविरोधप्रसङ्गादसदेकान्तवत् । एतेन विशेषतोऽनेकान्तात्मकः परिणाम्यात्मार्थक्रियाकारित्वात् प्रधानवदित्याद्युपदर्शितम् । ( भा० ) इति विधिना प्रतिषेधेन वा वस्तुतत्त्वं नियम् । तथान्यथा च तस्यावश्यंभावसमर्थनात् । ( भा० ) अन्यथा तद्विशिष्टमर्थतत्त्वं विशेष्यमेव न स्याद्विधेः प्रतिषेधरहितस्य प्रतिषेधस्य च विधिरहितस्य विशेषणत्वनिराकरणात् तदुभयरहितस्य च विशेष्यत्वविरोधात् खपुष्पवत् । (भा० ) इत्यनेन विधिप्रतिषेधयोर्गुणप्रधानभावेन सदसदादिवाक्येषु वृत्तिरिति लक्षयति । ततो न तेषां पौनरुक्त्यं, येन सप्तभङ्गीविधिरनवद्यो न स्यात् ॥ १०९॥ विधिनैव वस्तुतत्त्वं वाक्यं नियमयति सर्वथेत्येकान्ते दूषणमुपदर्शयन्ति - Page #289 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [ परि० १०-का० ११०-१११] ६९१ तदतद्वस्तुवागेषा तदेवेत्यनुशासती । न सत्या स्यान्मृषावाक्यैः कथं तत्त्वार्थदेशना ॥११०॥ [वाक्यं विधिमुखेनैव वस्तुतत्त्वं वक्तुं न शक्नोति ।] (भा० ) प्रत्यक्षादिप्रमाणविषयभूतं विरुद्धधर्माध्यासलक्षणमविरुद्धं वस्तु समायातं, स्वशिरस्ताडं पूत्कुर्वतोऽपि तदतद्रूपतयैव प्रतीतेः । तदुक्तं विरुद्धमपि संसिद्धं तदतद्रूपवेदनम् । यदीदं स्वयमर्थेभ्यो रोचते तत्र के वयम् ? ॥१॥ [ ] इति । तच्च (भा०) तदेवेत्येकान्तेन प्रतिपादयन्ती मिथ्यैव भारती । विध्येकान्ते प्रतिषेधैकान्ताभावस्येष्टस्यानभिधानात्, तदभिधाने वा विध्येकान्तप्रतिपादनविरोधात् । न च मृषावाक्यैस्तत्त्वार्थदेशना युक्तिमती । इति (भा०) कथमनयार्थदेशनम्, इत्येकान्ते वाक्यार्थानुपपत्तिरालक्ष्यते । प्रतिषेधमुखेनैवार्थं वाक्यं नियमयतीत्येकान्तोऽपि न श्रेयानिति प्रतिपादयन्ति वाक्यस्वभावोऽन्यवागर्थप्रतिषेधनिरङ्कशः । आह च स्वार्थसामान्यं तादृग् वाच्यं खपुष्पवत् ॥१११॥ [वाक्यं प्रतिषेधमुखेनैव वस्तुतत्त्वं वक्तुं न शक्नोति ।] (भा०) वाचः स्वभावोऽयं येन स्वार्थसामान्यं प्रतिपादयन्ती तदपरं निराकरोति । न पुनस्तदप्रतिपादयन्ती, स्वार्थसामान्यप्रतिपादनतदन्यनिराकरणयोः (भा०) अन्यतरापायेऽनुक्तानतिशायनात् । इदन्तया नेदन्तया वा न प्रतीयते तदर्थः कूर्मरोमादिवत् । न खलु सामान्यं विशेषपरिहारेण विशेषो वा सामान्यपरिहारेण Page #290 -------------------------------------------------------------------------- ________________ ६९२ अष्टसहस्त्रीतात्पर्यविवरणम् __ (भा०) क्वचिदुपलभामहे । अनुपलभमानाश्च कथं स्वं परं वा तथाभिनिवेशेन विप्रलभामहे ।। विध्येकान्तवदन्यापोहैकान्तस्य प्रागेव व्यासेन निरस्तत्वात् ॥१११॥ भूयोऽप्यन्यापोहवादिनमाशङ्क्य निराकुर्वतेसामान्यवाग् विशेषे चेत्, न शब्दार्थो मृषा हि सा । अभिप्रेतविशेषाप्तेः स्यात्कारः सत्यलाञ्छनः ॥११२॥ [स्यात्कार एव सत्यलाञ्छनः सिद्ध्यति ।] (भा०) अस्तीति सत्सामान्यवान् । (भा० ) केवलमभावविच्छेदाद् विशेषम् ( भा०) अपोहमाहेति चेत्, कः पुनरपोहः ? किमन्यव्यावृत्तिरुत तथा विकल्प: ? (भा०) परतो व्यावृत्तिरभावो । अन्यापोह इष्यते इति चेत् (भा०) कथमेवं सत्यभावं प्रतिपादयति ? भावं न प्रतिपादयतीत्यनुक्तसमं न स्यात् । तद्विकल्पो अन्यापोहोऽस्तु (भा०) मिथ्याभिनिवेशादिति चेत्, न चैतत्तस्य प्रतिपादकं मिथ्याविकल्पहेतुत्वाद्वयलीकवचनवत् । ततो नान्यापोह: शब्दार्थः सिद्ध्यति, येन तत्र प्रवर्तमानास्तीत्यादिसामान्यवाग् मृषैव न स्यात् । ततः स्यात्कारः सत्यलाञ्छनो मन्तव्यः स्वाभिप्रेतार्थविशषप्राप्तः । सवो हि प्रवर्तमानः कुतश्चिद्वचनात् क्वचित्स्वरूपादिना सन्तमभि Page #291 -------------------------------------------------------------------------- ________________ द्वितीयो भागः [परि. १०-का० ११३] ६९३ प्रेतमर्थं प्राप्नोति, न पररूपादिनानभिप्रेतं, प्रवृत्तिवैयर्थ्यात्, स्वरूपेणेव पररूपेणापि सत्त्वे सर्वस्याभिप्रेतत्वप्रसङ्गात्, परात्मनेव स्वात्मनाप्यसत्त्वे सर्वस्याभिप्रेतत्वाभावात् स्वयमभिप्रेतस्याप्यनभिप्रेतत्वप्रसक्तेश्च ॥११२॥ (भा० ) ततः स्याद्वाद एव सत्यलाञ्छनो न वादान्तरमित्यतिशाययति भगवान् समन्तभद्रस्वामीविधेयमीप्सितार्थाकं प्रतिषेध्याविरोधि यत् । तथैवादेयहेयत्वमिति स्याद्वादसंस्थितिः ॥११३॥ [स्याद्वादस्य सम्यक् व्यवस्थां स्पष्टयन्ति जैनाचार्याः ।] ( भा०) अस्तीत्यादि विधेयमभिप्रेत्य विधानात् । सर्वत्रैतावन्मात्रलक्षणत्वात् विधेयत्वस्य । न हि परिवृढभयादेरनभिप्रेतस्यापि विधाने विधेयत्वं युक्तं, वीतरागस्यापि तत्कृतबन्धप्रसङ्गाज्जनापवादानुषङ्गाच्च । नाप्यभिप्रेतस्याप्यविधानेऽविधेयत्वं, तद्योग्यतामात्रसिद्धरन्यथा विधानानर्थक्यात् । तत एवाभिप्रायशून्यानां किञ्चिदप्यकुर्वतां न किञ्चिद्विधेयं नापि हेयमभिप्रेत्यहानाभावादुपेक्षामात्रसिद्धेः । तद्विपरीतानां तु किञ्चिद्विधेयं, तच्च (भा०) नास्तित्वादिभिरविरुद्धं, प्रतिषेध्यैरीप्सितार्थाङ्गत्वात्, तस्य तद्विरोधे स्वयमीप्सितार्थहेतुत्वासम्भवात् । (भा०) विधिप्रतिषेधयोरन्योन्याविनाभावलक्षणत्वात् स्वार्थज्ञानवत् । न हि स्वार्थज्ञानयोरन्योन्याविनाभावोऽसिद्धः, स्वज्ञानमन्तरेणार्थज्ञानानुपपत्तेः कुटवत् स्वज्ञाने एवार्थज्ञानघटनात् सर्वज्ञज्ञानवत् । न हीश्वरस्यापि स्वज्ञानाभावः, सर्वज्ञत्वविरोधात् स्वसंविदितज्ञानाभ्युपगमस्यावश्यंभावात् । नापि विषयाकारज्ञानमन्तरेण स्वज्ञानं, स्वाकारस्यार्थस्य परिच्छेद्यत्वविरोधात् स्वज्ञानाभावप्रसङ्गात् । तदनवद्यमुदाहरणं प्रकृतं साधयति । यथैव च विधेयं प्रतिषेध्याविरोधि सिद्धमीप्सितार्थाङ्गं तथैवादेयहेयत्वं वस्तुनो, नान्यथा विधेयैकान्ते कस्यचिद्धेयत्वविरोधात् प्रतिषेध्यैकान्ते कस्यचिदादेयत्वविरोधात् । न हि सर्वथा विधेयमेव सर्वथा प्रतिषेध्यं Page #292 -------------------------------------------------------------------------- ________________ ६९४ अष्टसहस्त्रीतात्पर्यविवरणम् स्याद्वादिनोऽभिप्रेतं, येनोभयात्मकत्वे एवादेयहेयत्वं न स्यात्, कथञ्चिद्विधिप्रतिषेधयोस्तादात्म्योपगमात् । (भा०) तद्विधेयप्रतिषेध्यात्मविशेषात् स्याद्वादः प्रक्रियते सप्तभङ्गीसमाश्रयात् । यथैव हि विधेयोऽस्तित्वादिविशेषः, स्वात्मना विधेयो न प्रतिषेध्यात्मनेति स्याद्विधेयः सिद्धः । प्रतिषेध्यात्मविशेषश्च विधेयात्मना प्रतिषेध्यो न प्रतिषेध्यात्मना इति स्यात्प्रतिषेध्य स्यादप्रतिषेध्योऽन्यथा व्याघातात् । तथैव जीवाद्यर्थः स्याद्विधेयः स्यात्प्रतिषेध्यः इति सप्तभङ्गीसमाश्रयात् स्याद्वादस्य प्रक्रियमाणस्य सम्यक् स्थितिः, सर्वत्र युक्तिशास्त्राविरोधात्, भावैकान्तादिष्वेव तद्विरोधसमर्थनात् । ततो भगवन्ननवद्यमध्यवसितमस्माभिः, स त्वमेवासि निर्दोषो युक्तिशास्त्रविरोधिवाक्त्वादिति ॥११३॥ तदेवं प्रारब्धनिर्वहणमात्मनस्तत्फलं च सूरयः प्रकाशयन्ति इतीयमाप्तमीमांसा विहिता हितमिच्छताम् । सम्यमिथ्योपदेशार्थविशेषप्रतिपत्तये ॥११४॥ [जैनाचार्याः अस्य ग्रन्थस्य फलं प्रकाशयन्ति ।] (भा०) इति देवागमाख्ये (भा०) स्वोक्तपरिच्छेदे । शास्त्रे (स्वेनोक्ताः परिच्छेदा दश यस्मिंस्तत् स्वोक्तपरिच्छेदमिति ग्राह्यं, तत्र) (भा०) विहितेयमाप्तमीमांसा सर्वज्ञविशेषपरीक्षा । हितमिच्छतां (भा०) निःश्रेयसकामिनां । मुख्यतो निःश्रेयसस्यैव हितत्वात् तत्कारणत्वेन रत्नत्रयस्य च हितत्वघटनात्, तदिच्छतामेव न पुनस्तदनिच्छतां Page #293 -------------------------------------------------------------------------- ________________ ६९५ द्वितीयो भागः [ परि. १०-का. ११४] (भा०) अभव्यानां तदनुपयोगात् । तत्त्वेतरपरीक्षां प्रति भव्यानामेव नियताधिकृतिः । तथा मोक्षकारणानुष्ठानात् मोक्षप्राप्त्युपपत्तेः । सम्यमिथ्योपदेशार्थविशेषप्रतिपत्तये युक्तात्ममीमांसा भगवतामाचार्याणां परहितसम्पादनप्रवणहृदयत्वात्, दर्शनविशुद्धिप्रवचनवात्सल्यमार्गप्रभावनापरत्वाच्च । ततः परमार्हन्त्यलक्ष्मीपरिसमाप्तेः स्वार्थसम्पत्तिसिद्धिः । सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः इति [तत्त्वा० १.१ ] सम्यगुपदेशः, तदन्यतमापाये मोक्षस्यानुपपत्तेः समर्थनात् । 'ज्ञानेन चापवर्गः' इत्यादिमिथ्योपदेशस्तस्य दृष्टेष्टविरुद्धत्वसाधनात् । तयोरर्थविशेषः सत्येतरविषयभेदः सम्यग्दर्शनादिमिथ्यादर्शनादिप्रयोजनभेदो वा तद्भावनाविशेषो वा मोक्षबन्धप्रसिद्धिभेदो वा । तस्य प्रतिपत्तिरुपादेयत्वेन हेयत्वेन च श्रद्धानमध्यवसायः समाचरणं चोच्यते । तस्मै सम्यमिथ्योपदेशार्थविशेषप्रतिपत्तये । शास्त्रारम्भेऽभिष्टतस्याप्तस्य मोक्षमार्गप्रणेतृतया कर्मभूभृद्भेत्तृतया विश्वतत्त्वानां ज्ञातृतया च भगवदहत्सर्वज्ञस्यैवान्ययोगव्यवच्छेदेन सव्यवस्थापनपरा परीक्षेयं विहिता, इति स्वाभिप्रेतार्थनिवेदनमाचार्याणामाचार्यैर्विचार्य प्रतिपत्तव्यम् ॥११४।। अत्र शास्त्रपरिसमाप्तौ केचिदिदं मङ्गलवचनमनुमन्यन्ते जयति जगति क्लेशावेशप्रपञ्चहिमांशुमान्, विहतविषमैकान्तध्वान्तप्रमाणनयांशुमान् । यतिपतिरजो यस्याधृष्यान्मताम्बुनिधेर्लवान्, स्वमतमतयस्ती• नाना परे समुपासते ॥१॥ [हरिणी] श्रीमदकलङ्कदेवाः पुनरिदं वदन्ति-(स्वभाष्यपरिसमाप्तिमङ्गलम्) श्रीवर्धमानमकलङ्कमनिन्द्यवन्द्यपादारविन्दयुगलं प्रणिपत्य मूर्ना । भव्यैकलोकनयनं परिपालयन्तं, स्याद्वादवर्त्म परिणौमि समन्तभद्रम् ॥१॥ इति [वसन्ततिलका] परापरगुरुप्रवाहगुणगणसंस्तवस्य मङ्गलस्य प्रसिद्धर्वयं तु स्वभक्तिवशादेवं निवेदयामः येनाशेषकुनीतिवृत्तिसरितः प्रेक्षावतां शोषिता, यद्वाचोऽप्यकलङ्कनीतिरुचिरास्तत्त्वार्थसार्थद्युतः । Page #294 -------------------------------------------------------------------------- ________________ 696 अष्टसहस्त्रीतात्पर्यविवरणम् स श्रीस्वामिसमन्तभद्रयतिभृद् भूयाद्विभुर्भानुमान्, विद्यानन्दघनप्रदोऽनघधियां स्याद्वादमार्गाग्रणीः // 1 // [शार्दूलविक्रीडितम् / ] श्रीमदकलङ्कशशधरकुलविद्यानन्दसम्भवा भूयात् / गुरुमीमांसालङ्कृतिरष्टसहस्त्री सतामृद्ध्यै // 2 // वीरसेनाख्यमोक्षगे चारुगुणानर्घ्यरत्नसिन्धुगिरिसततम् / सारतरात्मध्यानगे मारमदाम्भोदपवनगिरिगह्वरायि तु // 3 // कष्टसहस्त्री सिद्धा साष्टसहस्त्रीयमत्र मे पुष्यात् / शश्वदभीष्टसहस्त्री कुमारसेनोक्तिवर्धमानार्था (नर्धा) // / इत्याप्तमीमांसालङ्कृतौ दशमः परिच्छेदः / // इति श्रीमदकलङ्कदेवप्रणीत-भाष्योपबृंहिता श्रीविद्यानन्दसूरिसन्हब्धेयमष्टसहस्त्रीवृत्तिः // अष्टसहस्त्रीतात्पर्यविवरणम् इति श्रीमदकब्बरसुरत्राणप्रदत्तजगद्गुरुबिरुदधारकभट्टारकश्रीहीरविजयसूरीश्वरशिष्य मुख्यमहोपाध्यायश्रीकल्याणविजयगणिशिष्यावतंसपण्डितश्रीलाभविजयगणि शिष्याग्रेसरपण्डितश्रीजितविजयगणिसतीर्थ्यालङ्कार पण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकेण पण्डितश्रीपद्मविजयगणिसहोदरेण महोपाध्यायश्रीयशोविजयगणिना विरचितेऽष्टसहस्त्रीतात्पर्यविवरणे // दशमः परिच्छेदः //