________________
५९३
द्वितीयो भागः [ परि. ७-का० ८३]
भावप्रमेयापेक्षायां प्रमाणाभासनिह्नवः । बहिःप्रमेयापेक्षायां प्रमाणं तन्निभं च ते ॥८३॥
- अष्टसहस्त्रीतात्पर्यविवरणम्
व्याहतत्वात् । रजतप्रकारिताकत्वस्य च तत्र विशेषणज्ञानमात्रनियम्यत्वात्, अस्तु वा तत् तादात्विकशुक्तिपरिणामनिमित्तमेव, समूहालम्बनव्यावृत्तस्य तस्यान्यथानुपपत्तेः, अर्थेनैव धियां विशेष इति न्यायादिति यौक्तिकाः । शुक्तौ विलक्षणरजतोत्पादस्तु कारणाभावादेवायुक्तः, न हि परिणामिकारणादिसामग्री विना कार्योत्पादो दृष्टः । अथ शुक्तेरज्ञानमेव तत्र प्रतीयमानस्य कलधौतस्य कारणमिति मतिः, दुर्मतिरेवेयम, अज्ञानस्य केवलपरिणामिकारणत्वायोगात् । अज्ञानं हि सम्यग्ज्ञानस्य प्रागभावो, मिथ्याज्ञानं वा, द्वयमपि केवलं न परिणामिकारणं. द्रव्यस्यैव तत्तत्पर्यायपरिकरितस्य परिणामिकारणत्वप्रसिद्धः । (शङ्का) तात्मद्रव्यमेव सम्यग्ज्ञानप्रागभावलक्षणपर्यायाविष्टं मिथ्याज्ञानस्वरूपपर्यायाक्रान्तं वा शुक्तिशकलकलधौतस्य कारणं भविष्यतीत्यपि नाशङ्कनीयम्, चेतनस्याचेतनं प्रति जातुचिदपि परिणामिकारणत्वानुपपत्तेः । स्यादाकूतं भवतो, नाज्ञानं सम्यग्ज्ञानप्रागभावो, नापि मिथ्याज्ञानं, किन्तु ताभ्यामर्थान्तरमेव मायाऽविद्यादिशब्दवाच्यं तदनिर्वचनीयरजतहेतुरिति चेत्, न तादृशाज्ञाने मानाभावात् । न च मूलाज्ञानं तद्धेतुर्युक्तं, तस्य व्यवस्थितजगद्वैचित्र्यहेतुत्वेन त्वयोपगमात्, किन्तु भ्रान्तिव्यवहारनिर्वाहायानन्तानि मूलाज्ञानानि त्वया वाच्यानीति महागौरवम् । किञ्च शुक्त्यज्ञानस्य पाषाणादावपि सत्त्वेन देशनियमाभावान्न रजतहेतुत्वम्, न च इदमंशावच्छेदेन शुक्त्यज्ञानस्येदमंशावच्छेदेन रजतोत्पादकत्वाद् अदोषो, दोषाभावकालेऽपि ततस्तत्प्रसङ्गात्, दोषस्याप्यपेक्षणे चेदमंशावच्छेदेनाज्ञानान्तरस्योदासीनस्य च हेतुत्वं दुर्निवारमिति यत्किञ्चिदेतत् । दोषसहितं शुक्त्यज्ञानं रजतहेतुरिति त्वद्वचनस्य वह्निसहितमाकाशं दाहकमिति वचनतुल्यत्वात् । यत्तु विशेषादर्शनस्य परेषां रजतभ्रमत्वं कार्यतावच्छेदकं मम तु रजतत्वमिति लाघवादनिर्वचनीयरजतसिद्धिरित्यनन्तदेवेनोक्तं, तदसत्, त्वयापि सत्यरजतव्यावृत्तये वैज्ञानिकरजतत्वस्यैव कार्यतावच्छेदकस्य वाच्यत्वात् । अपि च किमिदमनिर्वचनीत्वं, निरुक्तिविरहो वा निरुक्तिनिमित्तविरहो वा । नाद्यः, इदं रजतं नेदं रजतमिति निरुक्तेरनुभूयमानत्वात्, नापि द्वितीयो, यतो निरुक्तिनिमित्तं विषयः किं भावरूपो नास्त्यभावरूपो वा, प्रथमकल्पनायामसत्ख्यात्यभ्युपगमप्रसङ्गः, द्वितीयकल्पनायां तु सत्ख्यातिरेव । (शङ्का) उभावपि न स्त इति चेत्, लोकसिद्धयोरुभयोः प्रतिषेधो विलक्षणयोर्वा, नाद्यः, एकत्रोभयविरुद्धविधेरिव तत्प्रतिषेधस्याप्ययोगात्, विरुद्धयोरेकतरविधिनिषेधयोरन्यतरनिषेधविधिनान्तरीयकत्वात्,