SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ५९४ अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) सर्वसंवित्तेः स्वसंवेदनस्य कथञ्चित् प्रमाणत्वोपपत्तेस्तदपेक्षायां सर्वं प्रत्यक्षं, न कश्चित्प्रमाणाभासः । सौगतानामप्यत्राविवादात्, सर्वचित्तचैत्तानामात्मसंवेदनं प्रत्यक्षं इति वचनात् [ ] । तन्निर्विकल्पकमित्ययुक्तं स्वार्थव्यवसायत्मत्वमन्तरेण प्रत्यक्षत्वानुपपत्तेः समर्थनात् । (भा०) तथानभ्युपगमेऽन्यत एव बुद्धेरनुमानं स्यात् । तच्चायुक्तं लिङ्गाभावात् । (भा०) तत्रार्थज्ञानमलिङ्गं, तदविशेषेणासिद्धेः । [मीमांसकाभिमताप्रत्यक्षज्ञानस्य निराकरणम् । ] स्वयं प्रत्यक्षं ज्ञानं ह्यर्थपरिच्छेदादनुमीयते इत्यर्थज्ञानं कर्मरूपमर्थस्य प्राकट्यं अष्टसहस्त्रीतात्पर्यविवरणम् द्वितीयपक्षे तु न काऽपि क्षतिः, न ह्यलौकिकविषयसहस्रनिवृत्तावपि लौकिकविषयनिवृत्तिस्तन्निरुक्तिनिवृत्तिर्वा सम्भवतीत्यलं प्रसङ्गेन ॥८१।। यशोविजयनामेत्थं, साधुायविशारदः । स्पष्टं निष्टङ्कयामास, ख्यातीष्ट गरिष्ठधीः ॥१॥ अन्यथाख्यातिरख्यातिविवेकाख्यातिरेव च । असत्ख्यातिः प्रसिद्धार्थाख्यातिरेव च पञ्चमी ॥२॥ आत्मख्यातिस्तथा षष्ठी, ख्यातिः सप्तम्यलौकिकी । अष्टम्यवाच्यताख्यातिरित्यष्टौ नामतः स्मृताः ॥३॥ साम्राज्यादन्यथाख्यातेरेतास्वन्यनिरासतः । बहिरङ्गार्थतैकान्तं, निरस्यन्ति धियां बुधाः ॥४॥ सर्वं प्रत्यक्षमिति सर्वं प्रत्यक्षप्रमाणमित्यर्थः, न च एवमनुमितित्वादिना प्रत्यक्षस्य सायं, क्वचित्सङ्कीर्णजातेरप्यदुष्टत्वाभ्युपगमात्, अस्तु वा यद्विषयत्वावच्छेदेन ज्ञानाजन्यत्वं तद्विषयत्वावच्छेदेनौपाधिकमेव प्रत्यक्षत्वम्, अनुमित्यादावात्माज्ञानात् सुखादित्यादाव
SR No.009090
Book TitleAshtasahastritatparya Vivaranam Part 2
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages294
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy