________________
द्वितीयो भागः [ परि. ७-का० ८३]
५९५ तल्लिङ्गमिष्यते स हि बहिर्देशसम्बद्धः प्रत्यक्षमनुभूयते, ज्ञाते त्वनुमानादवगच्छति बुद्धिम् इति वचनात् [ ] तच्चार्थप्राकट्यमर्थधर्मो ज्ञानधर्मो वा ? प्रथमपक्षेऽर्थपरिच्छेदकज्ञानादविशेषेणेतरस्यासिद्धेर्न तल्लिङ्गम् । तदविशेषस्तु, तस्यास्वसंविदितत्वादनुमानापेक्षत्वप्रसङ्गात् । न हि ज्ञाने परिच्छेदकेऽप्रत्यक्षे तत्कृतोऽर्थपरिच्छेदः प्रत्यक्षः स्यात्, सन्तानान्तरज्ञानकृतार्थपरिच्छेदवत् । बहिरर्थस्य प्रत्यक्षत्वात्तद्धर्मस्य प्रत्यक्षत्वमिति चेत्, न, अर्थस्यापि स्वतः प्रत्यक्षत्वासिद्धेः । स्वज्ञाने प्रतिभासमानस्य प्रत्यक्षत्वे सन्तानान्तरज्ञानेऽपि साक्षात् प्रतिभासमाने प्रत्यक्षत्वप्रसङ्गः, तस्यानुमेयत्वाविशेषात् । बहिरर्थप्राकट्यस्य प्रमातुः स्वसंविदितत्वात्तल्लिङ्गमेव ज्ञाने प्रसिद्धमिति चेत. कथमर्थधर्मः स्वसंविदितो नाम ? अर्थवत । सोऽयं ज्ञानमस्वसंविदितं प्राकट्यमर्थस्वरूपं स्वसंविदितमित्याचक्षाणो विपरीतप्रज्ञः । परिच्छिद्यमानत्वस्य ज्ञानजस्यार्थधर्मस्यार्थज्ञानस्य कुतस्ततो विशेषो येन तल्लिङ्गं सिद्धयेत् ? पुंसः स्वसंविदितत्वेन ततो
(भा०) विशेषे वा तदन्यतरेणार्थपरिसमाप्तेः किं द्वितीयेन ? ।
स्वसंविदितार्थपरिच्छेदादेव स्वार्थपरिच्छत्तिसिद्धेरप्रत्यक्षज्ञानस्याकिञ्चित्करत्वात् । पुंसो वा स्वसंविदितार्थत्वेनार्थपरिच्छेदसिद्धेः किमनेन ? तस्य करणत्वान्नाकिञ्चित्करत्वमात्मनः कर्तृत्वादर्थस्य च कर्मत्वात्करणत्वविरोधात्, करणमन्तरेण क्रियायाः सम्भवाभावादिति चेत्, तर्हि पुंसः स्वसंवित्तौ किं करणम् ?
अष्टसहस्त्रीतात्पर्यविवरणम्
प्यात्मादौ विषयताद्वयाभ्युपगमादिति दिग् । ज्ञाते त्विति ज्ञाते तु प्राकट्ये, अनुमानात्तल्लिङ्गकाद् अवगच्छति=निश्चिनोति बुद्धिमित्यर्थः । इतरस्य प्राकट्यस्य, अनुमानापेक्षत्वप्रसङ्गादिति, अनुमानापेक्षत्वमर्थप्राकट्यस्यार्थपरिच्छेदाविशेषे हेतुः, तत्र चास्वसंविदितित्वमिति बोध्यम् । तस्यानुमेयत्वाविशेषादिति यथा सन्तानान्तरज्ञानप्रतिभातेऽर्थे ज्ञानावच्छेदकत्वेनानुमेयत्वं तथा स्वज्ञानप्रतिभातेऽपीत्यविशेषो भावनीयः । अर्थज्ञानस्येत्यत्र ज्ञानपदे करणव्युत्पत्तिः । तेन न तस्य प्राकट्यविशेषणत्वानुपपत्तिः । कुत इति ततः परोक्षार्थज्ञानात् कुत:=प्राकट्यस्य विशेषो न कुतश्चिदनुमानापेक्षत्वतौल्यादित्यर्थः । पुंस इति पंस=आत्मनः, स्वसंविदितत्वेन अर्थावच्छिन्नप्राकट्यस्य च तत्राध्यस्ततया तथात्वेनेत्यर्थः । भाष्ये तदन्यतरेण परोक्षज्ञानस्वसंविदितपुरुषयोर्मध्ये परोक्षज्ञानस्वसंविदितार्थ