________________
५९६
अष्टसहस्त्रीतात्पर्यविवरणम् स्वात्मैवेति चेत्, स एवार्थपरिच्छित्तावपि करणमस्तु, कर्तृरनन्यस्यापि कथञ्चिदविभक्तकर्तृकस्य करणस्य सिद्धेविभक्तकर्तृकवत् । एतेनार्थपरिच्छेदस्यार्थधर्मस्य स्वसंवित्तौ स्वात्मनः करणत्वे करणान्तरमकिञ्चित्करमुक्तम् । ततः पुरुषार्थपरिच्छेदयोरन्यतरेण स्वात्मनैव करणेनार्थपरिसमाप्तेः किं द्वितीयेन करणेन परोक्षज्ञानेन ?
(भा०) यच्चेदमर्थज्ञानं तच्चेदर्थस्वलक्षणं स्याद्व्यभिचारादहेतुः ।
अप्रत्यक्षे ज्ञाने साध्ये तस्यार्थस्वरूपस्य तदभावेऽपि भावादन्यथार्थाभावप्रसङ्गात् । न च ज्ञानस्याभावेऽर्थस्याभावः । परिच्छद्यमानत्वधर्मेण धर्मिणो विशिष्टस्यार्थस्याभाव एवेति चेत्, न, तस्य ज्ञानासिद्धौ प्रतिपत्तिविरोधात्, विशेषणाप्रतीतौ तद्विशिष्टत्वस्य क्वचिदप्रतीतेरसिद्धत्वेन हेतुत्वायोगस्याभिधानात् । एतेनार्थमहं जानामीति प्रतीतेरात्मनोऽर्थज्ञानं स्वसंविदितमर्थप्राकट्यं ज्ञानधर्मोऽप्रत्यक्षायां लिङ्गबुद्धौ लिङ्गमित्येतदपास्तं, तस्य बुद्धेरप्रत्यक्षत्वे तथाप्रतीतेरयोगाद् इत्यविशिष्ट एव ज्ञानानपेक्षस्वभावोऽर्थस्तद्धेतुः स्यात् । स च व्यभिचार्येव ।
(भा०) एतेनेन्द्रियादिप्रत्यक्षं प्रत्युक्तं ।
तस्याप्यतीन्द्रियत्वेनाप्रत्यक्षज्ञानादविशेषेणासिद्धेः । विशेषेण वा तयोरन्यतरेण भावेन्द्रियादिना स्वसंविदितेनार्थपरिसमाप्तेः किं द्वितीयेनाप्रत्यक्षज्ञानेन ? तस्यैव ज्ञानत्वात् । व्यभिचारी चेन्द्रियादिहेतुर्ज्ञानाभावेऽपि भावात् कारणस्येन्द्रियस्य मनसो
- अष्टसहस्त्रीतात्पर्यविवरणम् प्राकट्ययोर्मध्ये वाऽन्यतरेण, अर्थपरिसमाप्तेः=अर्थव्यवहारसिद्धेः किं द्वितीयेन परोक्षज्ञानेनेत्यर्थः । अविभक्तकर्तृकस्येति उपधेयैक्येऽपि कर्तृत्वकरणत्वाद्युपाधिभेदेन व्यवहारभेदसम्भवादित्यर्थः । विभक्तकर्तृकवदिति क्रियायां हि सकरणकत्वं तन्त्रं, न तु कर्तृभिन्नकरणवत्त्वं तदभिन्नकरणवत्त्वं वेत्यत्राप्याग्रहः श्रेयानिति भावः । अर्थपरिच्छेदस्य=प्राकट्यस्य, तथाप्रतीतेरयोगादिति, 'इदं ज्ञानं घटविषयं घटज्ञाततावत्त्वादित्यनुमानस्य हेतोरज्ञानासिद्ध्या कर्तुमशक्यत्वादित्यर्थः । पक्षाज्ञानादाश्रयासिद्धिरप्यत्र द्रष्टव्या । एतेन अहं घटज्ञानवान् घटज्ञाततावत्त्वादित्यात्मपक्षकमनुमानमपि अपास्तम्, साध्याप्रसिद्धेश्चेति बोध्यम् । न च ज्ञानजन्यस्य समवायेनार्थनिष्ठस्य ज्ञातताख्यधर्मस्य सम्बन्धविशेषेणात्मनिष्ठत्वात्तल्लिङ्गकमात्मपक्षकमर्थपरिच्छेदवत्त्वानुमानमदुष्टं । न च हेतोरज्ञानासिद्धिरपि । संयुक्तसमवायादियोग्यसन्निकर्षेण तत्प्रत्यक्षात् । न च तस्याप्यनुमानापेक्षत्वेन