________________
द्वितीयो भाग: [ परि०७-का० ८३]
५९७ वावश्यं कार्यवत्त्वानुपपत्तेः ।।
(भा०) ततः प्रत्यक्षेतरबुद्ध्यवभासस्य स्वसंवेदनात्प्रत्यक्षविरुद्धं । ज्ञानस्याप्रत्यक्षत्वमनुमानविरुद्धं च । तथा हि
(भा०) सुखदुःखादिबुद्धेरप्रत्यक्षत्वे हर्षविषादादयोऽपि न स्युरात्मान्तरवत् ।
[अनुभवमनुसृत्य ज्ञानं प्रत्यक्षमेव न च परोक्षं ] (भा०) एतेन प्रतिक्षणं निरंशं संवेदनं प्रत्यक्षं प्रत्युक्तं, यथाप्रतिज्ञमनुभवाभावात्, यथानुभवमनभ्युपगमात् ।
स्थिरस्यात्मनः सुखदुःखादिबुद्ध्यात्मकस्य प्रत्यक्षमनुभूयमानस्य हर्षविषादादेरनुभवात् । भ्रान्तोऽयमनुभव इति चेत्, न बाधकाभावात् ।
(भा०) सर्वत्र सर्वदा भ्रान्तेरप्रत्यक्षत्वाविशेषात् । परोक्षज्ञानवादानुषङ्गः सौगतस्य । (भा०) कथञ्चिद् भ्रान्तावेकान्तहानेः
स्याद्वादानुप्रवेशः । न केवलं निर्विकल्पकेऽर्थदर्शने परोक्षज्ञानादविशेषः । किं तर्हि ? तदव्यवस्थाहेतौ ___ (भा०) विकल्पस्वसंवेदनेऽपि, विकल्पानतिवृत्तेः ।
- अष्टसहस्त्रीतात्पर्यविवरणम् साध्याविशेषो, लिङ्गज्ञानत्वेनैवानुमितिहेतुत्वात्, तद्ज्ञानज्ञानत्वेनातत्त्वादित्यपि वक्तुं साम्प्रतम्, साध्याप्रसिद्ध्योक्तोत्तरत्वात्, अतीतानागतेष्वर्थेषु ज्ञानेन ज्ञातताया जनयितुमशक्यत्वात्, ज्ञानजन्यज्ञाततायां मानाभावाच्च, अन्यथेष्टताकृततादेरपीच्छाकृत्यादिजन्यस्य सिद्ध्यापत्तेरिति दिग् । आत्मान्तरवदिति न च स्वीयसुखदुःखसाक्षात्कारत्वे हर्षविषादादिहेतुत्वाद् अदोषः, अविदिततत्साक्षात्कारस्य निर्विकल्पकतुल्यत्वेनातथात्वात्, सुखदुःखज्ञानसंवेदनत्वेन हेतुत्वौचित्यात्, सर्वदा स्वप्नावस्थावज्जाग्रद्दशायामपि, आवरणविगत
१. विगम इति अष्टसहस्रीसम्मतः पाठः ।