________________
५९८
अष्टसहस्त्रीतात्पर्यविवरणम् सर्वथा विकल्पस्य भ्रान्तत्वे बहिरिव स्वरूपेऽपि भ्रान्तेरप्रत्यक्षत्वाविशेषाद् अभ्रान्तं प्रत्यक्षम् इति वचनात् [ ] कथञ्चिद् भ्रान्तत्वेनेकान्तसिद्धेरनिवारणात् ।
(भा०) तस्मात्स्वसंवेदनापेक्षया न किञ्चिज्ज्ञानं सर्वथा प्रमाणम् । बहिरर्थापेक्षया तु प्रमाणतदाभासव्यवस्था, तत्संवादकविसंवादकत्वात् क्वचित्स्वरूपे केशमशकादिज्ञानवत् ।
नभसि केशादिज्ञानं हि बहिविसंवादकत्वात्प्रमाणाभासं स्वरूपे संवादकत्वात्प्रमाणम् । न चैवं विरोधः प्रसज्यते, जीवस्यैकस्यावरणविगमविशेषात् सत्येतराभाससंवेदनपरिणामसिद्धेः कालिकादिविगमविशेषात्कनकादिजात्येतरपरिणामवत् ॥८३॥
न च जीवो नास्त्येवेति शक्यं वक्तुं तद्ग्राहकप्रमाणस्य भावात् । तथा हि
जीवशब्दः सबाह्यार्थः सज्ञात्वाद्धेतुशब्दवत् । मायादिभ्रान्तिसञ्ज्ञाश्च मायाद्यैः स्वैः प्रमोक्तिवत् ॥८४॥
(भा०) स्वरूपव्यतिरिक्तेन शरीरेन्द्रियादिकलापेन जीवशब्दोऽर्थवान् । अतो न कृतः प्रकृतः स्यादिति विक्लवोल्लापमानं, लोकरूढः समाश्रयणात् ।
का पुनरियं लोकरूढि: ? (भा०) यत्रायं व्यवहारो जीवो गतस्तिष्ठतीति वा ।
न हि शरीरेऽयं व्यवहारो रूढस्तस्याचेतनत्वाद्भोगाधिष्ठानत्वेन रूढेः नापीन्द्रियेषु, तेषामुपभोगसाधनत्वेन प्रसिद्धः । न शब्दादिविषये, तस्य भोग्यत्वेन
अष्टसहस्त्रीतात्पर्यविवरणम्
विशेषादिति विगतमिति भावे क्तः आवरणविगमविशेषादित्यर्थः । सर्वत्र ज्ञाने स्वरूपे प्रामाण्यमनावृतमेव बहिरर्थे त्वनियतस्तत्क्षयोपशम इति स्वभावकल्पनान्न विरोध इत्यर्थः ॥८३॥
तेन शरीरेन्द्रियादिकलापेन, कृतः=उत्पादितः, प्रकृतो जीवशब्दार्थः स्यात् ।