________________
द्वितीयो भागः [ परि० ७-का० ८४]
५९९ व्यवहारात् । किं तर्हि ? भोक्तर्येवात्मनि जीव इति रूढिः । शरीरादिकार्यस्य चैतन्यस्य भोक्तृत्वमयुक्तं भोगक्रियावत् । [चार्वाको शरीरमेव भोक्तारमात्मानं मन्यते, किन्तु जैनाचार्यास्तस्य निराकरणं कुर्वन्ति ।]
ननु सुखदुःखाद्यनुभवनं भोगक्रिया । सा ह्यत्रान्वयिनि गर्भादिमरणपर्यन्ते चैतन्ये सर्वचेतनाविशेषव्यापिनि भोक्तृत्वं, शरीरादिविलक्षणत्वात्तस्येति चेत्, तदेवात्मद्रव्यमस्तु, जन्मनः पूर्वं मरणादूर्ध्वमपि तस्य सद्भावोपपत्तेरन्यथा पृथिव्यादिसमुदयशरीरेन्द्रियविषयेभ्यो वैलक्षण्यासम्भवात् । न तत्कार्यं ततोऽत्यन्तविलक्षणमस्ति, रूपादिसमन्वयात् चैतन्यस्यापि सत्त्वादिसमन्वयान्नात्यन्तविलक्षणत्वमिति चेत्, न, तत्त्वभेदेऽपि तस्य भावात् । पृथिव्यादितत्त्वभेदानामेकविकारित्वसमन्वयाभावाद्भेद एव, केषाञ्चित् प्रागभावादिभेदवदिति चेत्, किमिदानी चैतन्यभूतयोरेकविकारिसमन्वयोऽस्ति ? येन तत्त्वान्तरत्वेन भेदो न स्यात् । तस्मादेकविकारिसमन्वयासत्त्वं वैलक्षण्यम् । तदेव च तत्त्वान्तरत्वमित्यनाद्यनन्ततां चैतन्यस्य साधयति । तादृशचैतन्यविशिष्टे काये जीवव्यवहारश्चैतन्यकाययोरभेदोपचारादेव । क्षणिके चित्तसन्ताने जीवव्यवहार इत्यसारं तस्य निराकृतत्वात् । ततः कर्तृत्वभोक्तृत्वलक्षणेनोपयोगस्वभावेन जीवेन जीवशब्दः सबाह्यार्थ इति साध्यनिर्देशे सिद्धसाधनाभावः ।
[कश्चिद् ब्रूते 'सञ्ज्ञात्वात्' हेतुविरुद्धस्तस्य समाधानं कुर्वन्ति जैनाचार्याः ।] ___ सज्ञात्वादिति हेतुविरुद्धः सबाह्यार्थत्वविरुद्धाभिप्रेतमात्रसूचकत्वेन तस्य व्याप्तत्वादिति चेत्, न, सझाया वक्त्रभिप्रायमात्रसूचकत्वस्य प्रमाणबाधितत्वात् । तथा हि
(भा०) नात्र सज्ञाभिप्रेतमात्रं सूचयति, ततोऽर्थक्रियायां नियमायोगात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
जन्मन इति तथा चानन्तभावव्यापिन एकभवव्यापित्वं न दुर्वचमित्यर्थः । सिद्धसाधनाभाव इति उपचरितचैतन्येन शरीरादिनेति शेषः । साध्यदोषं निराकृत्य हेतुदोषमाशङ्कतेसञ्ज्ञात्वादितीत्यादिना । परिहरति-नेत्यादिना । अभिप्रेतमात्रमिति पारमार्थिकसम्बन्ध