________________
६००
अष्टसहस्त्रीतात्पर्यविवरणम् तदाभासवत् । न च तदयोगः सञ्ज्ञायाः. तयार्थं परिच्छिद्य प्रवर्तमानस्यार्थक्रियानियमस्य दर्शनात्करणप्रतिपत्तिवत् ।
(भा०) करणप्रतिपत्तीनां तदभावेऽनादरणीयत्वात् ।
ततः सञ्ज्ञात्वं जीवशब्दस्य सबाह्यार्थत्वं साधयति हेतुशब्दवत् । सर्वेण हि हेतुवादिना हेतुशब्दः सबाह्यार्थोऽभ्युपगम्यते ।
(भा०) साधनतदाभासयोरन्यथा विशेषासम्भवात् । वक्त्रभिप्रायमात्रसूचकत्वादबाह्यार्थत्वाविशेषात् । तद्विशेषमिच्छता
(भा० ) परम्परयापि परमार्थंकतानत्वं वाचः प्रतिपत्तव्यम् । क्वचिद् व्यभिचारदर्शनादानाश्वासे चक्षुरादिबुद्धेरपि ।
कथमाश्वासः ? । (भा०) तदाभासोपलब्धेः । तत्राप्यनाश्वासे
(भा०) कुतो धूमादेरग्न्यादिप्रतिपत्तिः ? कार्यकारणभावस्य व्यभिचारदर्शनात् ।
न चेदमसिद्धं, (भा०) काष्ठादिजन्मनोऽग्नेरिव मणिप्रभृतेरपि भावात् । सुविवेचितं कार्यं कारणं न व्यभिचरतीति । (भा०) तद्विशेषपरीक्षायां सुविवेचितः शब्दोऽर्थः न व्यभिचरतीति प्रसिद्धेः । (भा०) इतरत्रापि
- अष्टसहस्त्रीतात्पर्यविवरणम् शून्यमभिप्रेतमित्यर्थः, तद्वत्त्वाङ्गीकारे त्वर्थोपस्थितिद्वारा शब्दप्रमाजनकताया एव न्याय्यत्वाव्याप्तिस्मृत्यादिविलम्बेन ततोऽनुमितिरूपसूचाया अयोगादिति बोध्यम् । तदाभासवत्=मरीचिकायां जलसञ्ज्ञावत, करणप्रतिपत्तिवद् इन्द्रियव्यापारवत् । यथा ततोऽर्थं