________________
द्वितीयो भागः [ परि० ७-का० ८४]
६०१
तद्विशेषपरीक्षास्तु
(भा०) विशेषाभावात् । वक्तुः
(भा०) अभिसन्धिवैचित्र्यादभिधानव्यभिचारोपलम्भे तदितराध्यक्षानुमानकारणसामग्रीशक्तिवैचित्र्यं पश्यतां कथमाश्वासः स्यात् ? तस्मादयमक्षलिङ्गसञ्जादोषाविशेषेऽपि क्वचित् -
प्रत्यक्षेऽनुमाने च (भा०) परितुष्यन्नन्यतमप्रद्वेषेणेश्वरायते, परीक्षाक्लेशलेशासहनात् ।
ननु चाभावोपादानत्वात्तदन्यतमायां सञ्ज्ञायां प्रद्वेषेण परीक्षक एव, न पुनरीश्वरायते, तस्य परीक्षाक्षमत्वादिति चेत्, न, तस्याः सर्वथा भावोपादानत्वाभावेऽभावोपादानत्वासिद्धेः । सर्वत्र
(भा०) भावोपादानसम्भवे हि समाख्यानामितरोपादानप्रक्लृप्तिः । एतेनैतदपि प्रत्युक्तं यदुक्तं सौगतेन
अनादिवासनोद्भूतविकल्पपरिनिष्ठितः ।
शब्दार्थस्त्रिविधो धर्मो भावाभावोभयाश्रितः ॥ [ ] इति,
तत्त्वतो भावाश्रयत्वाभावे वासनोद्भूतभावाश्रयत्वानुपपत्तेः सर्वत्रानुभवपूर्वकत्वाद्वासनायाः परम्परया वस्तुप्रतिबन्धात् । पूर्वपूर्ववासनात एवोत्तरोत्तरवासनायाः समुद्भवादनादित्वादवस्त्वाश्रयत्वमेवेति चेत्, न, शब्दवासनाया अप्यनादित्वे परार्थानुमानशब्दवासनायाः साधनस्वलक्षणदर्शननिमित्तकत्वविरोधात् । त्रिरूपहेतुवचनस्य परम्परया धूमादिवद्वस्त्वाश्रयत्वे हेतुशब्दवज्जीवशब्दस्य भावा
- अष्टसहस्रीतात्पर्यविवरणम् परिच्छिद्य प्रवर्त्तमानानामर्थक्रियानियमो दृश्यते तथा सञ्ज्ञाया अपीति तद्वत् सञ्जाप्रमाणमिति भावः । भाष्ये तदितरेति अभिधानकारणसामग्रीतरेत्यर्थः । सर्वथेति शून्योपादानत्वैकान्तनिराकरणादित्यर्थः । सञ्ज्ञाया भाषावर्गणारूपं यद्भावलक्षणमुपादानं तदेव पररूपेणाभावरूपमित्येवमभावोपादानत्वं तु नास्मत्पक्षक्षतिकरमित्याह-सर्वत्रेत्यादि परिनिष्ठित:=प्रतिबिम्बितः । भावाभावोभयाश्रित इति घटादिसञ्ज्ञार्थस्य घटादेः खर