________________
६०२
अष्टसहस्त्रीतात्पर्यविवरणम् श्रयत्वं युक्तम् ।
(भा०) भावश्चात्र हर्षविषादाद्यनेकाकारविवर्तः, प्रत्यात्मवेदनीयः प्रतिशरीरं भेदात्मकोऽप्रत्याख्यानार्हः प्रतिक्षिपन्तमात्मानं प्रतिबोधयतीति कृतं प्रयासेन ।
तदनेन हेतोः कालात्ययापदिष्टत्वं प्रतिक्षिप्तं, पक्षस्य प्रत्यक्षादिभिरबाधितत्वात् । तत्र निरतिशयस्यास्वसंविदितस्य सर्वशरीरेष्वभिन्नस्यैकस्य प्रतिक्षणं भिन्नस्य चात्मनः प्रतिभासाभावात्तस्य प्रत्याख्यानार्हत्वसाधनान्न तेन जीवशब्दः सबाह्यार्थः । [मायादिभ्रान्तशब्दैः सत्योऽर्थो न कथ्यते अतः जीवशब्दोऽपि बाह्यार्थो न भवतीति
बौद्धेनोच्यमाने जैनाचार्याः समादधते ।] ननु च मायादिभ्रान्तिसज्ञाभिरबाह्यार्थाभिरनैकान्तिकं सज्ञात्वमिति चेत्, न तासामपि मायाद्यैः स्वैरथैः सबाह्यार्थत्वात् प्रमाणवचनवत् ।
(भा०) न हि मायादिसमाख्याः स्वार्थरहिता विशिष्टप्रतिपत्तिहेतुत्वात् प्रमाणसमाख्यावत् । भ्रान्तिसमाख्यानामबाह्यार्थत्वे ततो भ्रान्तिप्रतिपत्तेरयोगात् प्रमाणत्वप्रतिपत्ति
- अष्टसहस्त्रीतात्पर्यविवरणम् - विषाणाद्यभावव्यावृत्त्या भावरूपत्वाद्भावान्तरव्यावृत्त्या चाभावरूपत्वादुभयव्यावृत्त्या चोभयरूपत्वादिति भावः । तदनेनेति अनेन सझाया भावाश्रयत्वव्यवस्थापनेन, ननु जीवशब्दः सबाह्यार्थः सञ्ज्ञात्वादित्यत्र शरीरेन्द्रियकलापाद्यर्थबाधेऽपि निरतिशयत्वादिस्वभावेन साङ्ख्यादिकल्पितेन प्रतिक्षणभिन्नस्वभावेन च सौगतपरिकल्पितेनात्मना चरितार्थत्वान्न स्याद्वादिन इष्टसिद्धिः स्यादित्याशङ्कायामाह-तत्रेत्यादि ननु एवमितरबाधितमहिम्ना व्यापकतानवच्छेदकरूपेण साध्यानुमित्यभ्युपगमे पर्वतो द्रव्यवान् धूमादित्यतोऽपि वह्नित्वेन वल्यनुमितिः स्यादिति चेत्, नेयं बिभीषिकोपयोगप्रामाण्यवादिनां नः, तथोपयोगे तथानुमितेरिष्टत्वात्, अत एव परेऽपि मङ्गलं सफलं शिष्टाचारविषयत्वादित्यादेर्मङ्गलस्य समाप्तिफलकत्वानुमितिमिच्छन्ति । इयांस्तु विशेषो यत्परेषां तथानुमितावितरबाधादेः परामर्शसहकारित्वमस्माकं त्वन्तर्व्याप्तिग्राहकतर्को पक्षीणत्वमिति दिग् । विशिष्टप्रतिपत्तिहेतुत्वाद्=असाधारणधर्मप्रकारकधीहेतुत्वात्, भ्रान्तिप्रतिपत्तेरयोगादिति भ्रान्ते