________________
द्वितीयो भाग: [ परि० ७ - का० ८५ ]
प्रसङ्गान्न विशिष्टप्रतिपत्तिहेतुत्वमसिद्धम् । प्रमाणशब्दस्य स्वार्थविशेषरहितत्वे भ्रान्तिप्रतिपत्त्यनुषङ्गाच्च न तदसिद्धं, यतो निदर्शनं साधनधर्मविकलं स्यात् । एतेन खरविषाणादिशब्दानामपि स्वार्थरहितत्वमपास्तं, विशिष्टप्रतिपत्तिहेतुत्वाविशेषादन्यथा भावशब्दत्वप्रसङ्गात् । ततो न तैरपि व्यभिचारः ।
किञ्च
बुद्धिशब्दार्थसञ्ज्ञास्तास्तिस्रो बुद्ध्यादिवाचिकाः । तुल्या बुद्ध्यादिबोधाश्च त्रयस्तत्प्रतिबिम्बकाः ॥८५॥
६०३
[मीमांसकः ‘सञ्ज्ञात्वात् हेतुं व्यभिचरति, किन्तु जैनाचार्या इमं हेतुं निर्दोषं साधयन्ति ।] येऽप्याहुः अर्थाभिधानप्रत्ययास्तुल्यनामानः [ ] इति जीवार्थस्य जीव इति सञ्ज्ञा, जीव इति शब्दस्य च, जीव इति बुद्धेश्चेति । तत्रार्थपदार्थक एव जीवशब्दः सबाह्यार्थः सिद्धो न बुद्धिशब्दपदार्थकः । ततोऽनेन हेतोर्व्यभिचारःसञ्ज्ञात्वस्य सामान्येन हेतुवचनात् इति, तेऽपि न सम्यगुक्तयः, सर्वत्र बुद्धिशब्दार्थसञ्ज्ञानां तिसृणामपि स्वव्यतिरिक्तबुद्ध्यादिपदार्थवाचकत्वात् । यस्माद्धि शब्दादुच्चारितादव्यभिचारेण यत्र बोधः प्रजायते स एव तस्यार्थः स्यात्, अन्यथा शब्दव्यवहारविलोपात् । यथा च जीवशब्दार्थपदार्थकाज्जीवो न हन्तव्य इत्यत्र जीवार्थस्य प्रतिबिम्बको बोधः प्रादुर्भवति तथा बुद्धिपदार्थकाज्जीव इति बुद्ध्यत इत्यादेर्बुद्ध्यर्थस्य प्रतिबिम्बको, जीव इत्याहेति शब्दपदार्थकाच्छब्दस्य प्रतिबिम्बकः स्यात् । ततस्त्रयोऽर्थास्तिसृणां सञ्ज्ञानामवगम्यन्ते तत्प्रतिबिम्बकबोधानां त्रयाणामेव भावात् । तदनेनाचार्यो
(भा० ) हेतुव्यभिचारशङ्का प्रत्यस्तमयति ।
अष्टसहस्त्रीतात्पर्यविवरणम्
रसत्ख्यातित्वनिरासादित्यर्थः । प्रमाणत्वप्रतिपत्तिप्रसङ्गादिति भ्रान्त्यन्यज्ञानस्य प्रमात्वनियमादित्यर्थः ॥८४॥
कारिकायां बुद्ध्यादिबोधा बुद्ध्यादेर्विषयस्य सञ्ज्ञाजनिता बोधा, तत्प्रतिबिम्बकास्त्रिविधविषयाकाराः ॥८५॥