________________
६०४
अष्टसहस्त्रीतात्पर्यविवरणम् बुद्ध्यादिसञ्ज्ञानां (भा०) तिसृणामपि स्वव्यतिरिक्तवस्तुसम्बन्धदर्शनात् तबुद्धीनां च तिसृणां (भा०) तन्निर्भासनात्तद्विषयतोपपत्तेः ।
सामान्यतो जीवशब्दस्य धर्मित्वात् स्वव्यतिरिक्तार्थस्य च सबाह्यार्थत्वस्य साध्यत्वाद् व्यभिचारविषयस्यासत्त्वादव्यभिचारी हेतुः ॥८५॥
ननु च विज्ञानवादिनं प्रति सज्ञात्वादित्यसिद्धो हेतुः, सञ्ज्ञाया विज्ञानव्यतिरेकेणासत्त्वात् । दृष्टान्तश्च साधनविकलो, हेतुशब्दस्य तदाभासवेदनादन्यस्याविद्यमानत्वात् । सञ्जाभासज्ञानस्य हेतुत्वे शब्दाभासस्वप्नज्ञानेन व्यभिचारी हेतुः, इति कश्चित् तं प्रत्यभिधीयते
वक्तृश्रोतृप्रमातृणां बोधवाक्यप्रमाः पृथक् । भ्रान्तावेव प्रमाभ्रान्तौ बाह्यार्थी तादृशेतरौ ॥८६॥
[विज्ञानाद्वैतवादस्य निराकरणम् ।] वक्तुरभिधेयबोधाभावे कुतो वाक्यं प्रवर्तेत ? तस्याभिधेयबोधनिबन्धनत्वात् । वाक्याभावे च श्रोतुरभिधेयज्ञानासम्भवस्तस्य तन्निमित्तकत्वात् । प्रमातुः प्रमित्यभावे च शब्दार्थयोः प्रमेययोरव्यवस्थानादिष्टतत्त्वानुपपत्तेर्वक्त्रादित्रयस्य बोधादित्रयं पृथग्भूतमुपेयम् । तथा सति न हेतोरसिद्धतादिदोषो, दृष्टान्तस्य वा साध्यादिवैकल्यं प्रसज्यते । स्यान्मतम्
(भा०) बहिरर्थाभावाद्वक्त्रादित्रयं न बुद्धेः पृथग्भूतं,
वक्त्राद्याभासाया बुद्धेरेव वक्त्रादित्वव्यवहारात्, वाक्यस्यापि बोधव्यतिरेकेणासत्त्वात्, प्रमाया बोधात्मकत्वात् । (भा०) ततोऽसिद्धतादिदोषः साधनस्य ।
- अष्टसहस्त्रीतात्पर्यविवरणम् तदाऽऽभासवेदनादिति तदाकारज्ञानादित्यर्थः । वक्रिति वक्तरि वाक्यजनको यो