________________
६०५
द्वितीयो भागः [ परि० ७-का० ८७]
हेतुदृष्टान्तलक्षणस्य
(भा०) इति तन्न, रूपादेाहकस्य तद्व्यतिरिक्तविज्ञानसन्तानकलापस्य च स्वांशमात्रावलम्बिनः प्रमाणस्य विभ्रमकल्पनायां साकल्येनासिद्धेरन्तयाभ्युपगमविरोधात् ।
न हि रूपादेरभिधेयस्य ग्राहकस्य वक्तुः श्रोतुश्च विभ्रमकल्पनायां व्यतिरिक्तविज्ञानसन्तानकलापः स्वांशमात्रावलम्बी सिद्धयति परस्परमसञ्चारात. येनाभिधानाभिधेयज्ञानभेद: स्यात् । तस्यापि विभ्रमकल्पनायां न प्रमाणसिद्धिरभ्रान्तस्य ज्ञानस्य प्रमाणत्वव्यवस्थितेः । प्रमाणस्यापि विभ्रमकल्पनायां कथमन्त यमेव तत्त्वमित्यभ्युपगमो न विरुद्ध्यते ? प्रमाणमन्तरेण तदभ्युपगमे सर्वस्य स्वेष्टाभ्युपगमप्रसङ्गात् । प्रमाणभ्रान्तौ बाह्यार्थयोस्तादृशान्यादृशयोः प्रमेययोरन्त ययोरिष्टानिष्टयोविवेचनस्यापि भ्रान्तत्वप्रसङ्गात् ।
( भा० ) तौ हि ग्राहकापेक्षया बाह्यार्थौ भ्रान्तावेव । ग्राहकप्रमाणभ्रान्तेः । इति ( भा०) कुतस्तत्र हेयोपादेयविवेकः ।
स्यादन्तर्जेयैकान्ते ? यतस्तदभ्युपगमो न विरुद्धो भवेत् ? । यदि पुनः प्रमाणमभ्रान्तमिष्यते तदा बाह्यार्थोऽभ्युपगन्तव्यः, तदभावे प्रमाणतदाभासव्यवस्थित्ययोगात् ॥८६॥
तथा हि
बुद्धिशब्दप्रमाणत्वं बाह्यार्थे सति नासति । सत्यानृतव्यवस्थैवं युज्यतेऽर्थाप्त्यनाप्तिषु ॥८७॥
[विज्ञानाद्वैतवादिनं प्रति बाह्यपदार्थसिद्धिं कुर्वन्ति जैनाचार्याः ।] बुद्धेः स्वप्रतिपत्त्यर्थत्वाच्छब्दस्य परप्रतिपादनार्थत्वात् ।
- अष्टसहस्त्रीतात्पर्यविवरणम् - बोधः श्रोतरि च वक्तृवाक्यपाठजनितं यद्वाक्यं प्रमातरि च या तदुभयप्रमा ताः पृथगिति