________________
६०६
अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) स्वपरप्रतिपत्त्यर्थं साधनं बुद्धिशब्दात्मकं स्वसंवित्त्यैव परप्रतिपादनायोगात्,
तस्याः पराप्रत्यक्षत्वात् ।
(भा० ) तस्य च सति बहिरर्थे प्रमाणत्वमर्थप्राप्तितः सिद्धयेत्, असति प्रमाणाभासत्वमर्थानाप्तितः ।
इति सत्यानृतव्यवस्था बुद्धिशब्दयोयुज्यते, स्वपरपक्षसाधनदूषणात्मनोस्तथा प्रतीतेः ।
(भा०) तदेवं परमार्थतः सम्बहिरर्थः, साधनदूषणप्रयोगात्,
इत्येकलक्षणो हेतुः प्रवर्तते । न चात्रैकलक्षणमसिद्धं, सत्येव बहिरर्थे परमार्थतो हेतोरुपपत्तेस्तथोपपन्नत्वस्य प्रधानलक्षणस्य सद्भावात् ।
(भा० ) अन्यथा स्वप्नेतराविशेषात्कि केन साधितं दूषितं च ? इति कुतः सन्तानान्तरमन्यद्वा ।
स्वसन्तानक्षणक्षयवेद्याद्याकारशून्यत्वं साधयेत् ? बहिरर्थस्य वास्तवस्य ग्राह्यलक्षणस्याभावे हि साधनदूषणप्रयोगस्य हेतोः सम्भवे स्वप्नजाग्रदवस्थाभाविनो तत्प्रयोगयोविशेषासिद्धिः । ततः किञ्चिज्ज्ञप्तिमात्रं केन सहोपलम्भनियमादिनानुमानेन स्वार्थेन साधितं स्यात् ? परार्थेन वा वचनात्मना परं प्रति ? किं वा स्वसंविदद्वैतं स्वतः प्रत्यक्षत एव साधितं स्यात ? तत्साधनस्य स्वप्नवन्निविषयत्वात् । किं वा बहिरर्थजातं केन, जडस्य प्रतिभासायोगात् इत्यादिना स्वार्थेन परार्थेन वा दूषणेन दूषितं स्यात् ? इति सन्तानान्तरमपि न केनचित्साधनेन साधितं
- अष्टसहस्त्रीतात्पर्यविवरणम् वीप्सापरत्वादवभासन्त इति क्रियाध्याहाराच्च पृथक्पृथगवभासन्त इत्यर्थः । प्रमाभ्रान्तौ= तासां प्रमाणां ज्ञानातिरिक्तविषयत्वेन भ्रान्तित्वे चाङ्गीक्रियमाणे, तादृशेतरौ=तथ्यातथ्यौ, बाह्यार्थौ भ्रान्तावेव स्याताम् । तथा च व्यवहारमात्रोच्छेद इति भावः । असञ्चाराद्= अविशेषेण स्वरूपसञ्चरणाभावात् ।।८६।।
परशब्दकृत्यमाह-स्वसंवित्त्यैवेति तस्य चेति उक्तस्वरूपस्य साधनस्य चेत्यर्थः । एकलक्षणः= अन्यथानुपपत्त्येकलक्षणः, तेन परेष्टत्रिलक्षणपञ्चलक्षणादिनिरासः ।