________________
द्वितीयो भागः [ परि० ७-का० ८७]
६०७ स्यात् । तदनभ्युपगमे न केनचिद्रूषणेन दूषितं स्यात्, तथा स्वसन्तानक्षणक्षयादिकं च न केनचित् साधितं स्यात् । तदनभ्युपगमेऽपि न केनचिदूषितम् इति न क्वचिद् व्यवतिष्ठते ।
(भा०) तैमिरिकद्वयद्विचन्द्रदर्शनवद् भ्रान्तः सर्वो व्यवहार इत्यत्रापि तत्त्वज्ञानं शरणं,
तत एव सर्वविभ्रमव्यवस्थितेः, इति व्याहतमेतत् तत्त्वज्ञानात् सर्वस्य भ्रान्तत्वसाधनम्,
(भा०) अन्यथा बहिरर्थवदभिसंहितस्यापि । सर्वविभ्रमस्य, (भा०) निराकरणापत्तेः, भ्रान्तादेव ज्ञानात् तस्याप्यसिद्धेः । (भा०) तथा परमाण्वादिदूषणेऽपि प्रतिपत्तव्यं ।
तत्त्वज्ञानं शरणमतत्त्वज्ञानादभिसंहितस्यापि परमाण्वाद्यसत्त्वस्य निराकरणापत्तेः ।
(भा० ) अन्यथा तत्कृतमकृतं स्यादिति सर्वत्र योज्यं ।
सर्वस्य स्वेष्टस्य स्वयमनिष्टस्य च तत्त्वज्ञानादेव साधनदूषणोपपत्तेः । एतेन साधनदूषणप्रयोगादिति साधनमसिद्धमितीच्छन् प्रतिक्षिप्तस्तदसिद्धत्वस्य स्वयमिष्टस्य तत्सिद्धत्वस्य चानिष्टस्य साधनदूषणप्रयोगादेव व्यवस्थापनादन्यथा तदव्यवस्थितेयत्किञ्चनवादित्वप्रसङ्गात् ।।
(भा०) तदिमे विज्ञानसन्तानाः सन्ति न सन्तीति तत्त्वाप्रतिपत्तेदृष्टापह्नुतिरनिबन्धनैव, दृश्येनात्मना कथञ्चित् स्कन्धाकारेण -
– अष्टसहस्त्रीतात्पर्यविवरणम् व्याहतमेतदिति बाह्यग्राह्याभावेन भ्रान्तिभ्रान्तिज्ञसाङ्कर्यापत्तेरिति भावः । अदृश्या एव हीति