________________
अष्टसहस्त्रीतात्पर्यविवरणम्
( भा० ) अदृश्यानामपि परमाणूनां बहिरपि समवस्थाने विप्रतिषेधाभावादन्तर्ज्ञेयवत् ।
६०८
अदृश्या एव हि ज्ञानपरमाणवः संविन्मात्रादृश्यादवस्थाप्यन्ते नान्यथेति युक्तमुदाहरणं बहिः परमाणूनां व्यवस्थापने ।
( भा० ) तत्र पूर्वादिदिग्भागभेदेन
जडरूपाणां
(भा० ) षडंशादिकल्पनया वृत्तिविकल्पेन वा परपक्षोपालम्भे स्वपक्षाक्षेपात्,
तस्योपालम्भाभासत्वसिद्धेः । समानं हि दूषणं बहिः परमाणुषु संवित्परमाणुषु च । देशतः सम्बन्धे षडंशत्वं दिग्भागभेदात्, सर्वात्मना प्रचयस्यैकपरमाणुमात्रत्वम् । प्रचयस्य परमाणुभ्यो भेदे प्रत्येकं परिसमाप्त्यैकदशेन वा वृत्तौ प्रचयबहुत्वं सांशत्वापादनमनवस्था च । न च परमाणुभिः संसृष्टैर्व्यवहितैर्वा प्रचयस्योपकारे संसर्गासम्भवो व्यवधानेन व्यवधीयमानाभ्यां व्यवधायकस्य सजातीयस्य, विजातीयस्य वा व्यवधाने प्रकृतपर्यनुयोगोऽनवस्थाप्रसञ्जनं चेति स्वपक्षघातिः स्यात् सूक्ष्मस्थूलात्मनि बहिर्जात्यन्तरे तस्यानवकाशाच्च हर्षविषादाद्यनेकाकारात्मवत् । तत्रापि विरोधो दूषणमिति चेत्, सर्वथा कथञ्चिद्वा ? न तावदाद्यः अष्टसहस्त्रीतात्पर्यविवरणम्
सन्तानान्तरवर्त्तिनो भवान्तरवर्त्तिनश्चेत्यर्थः । पूर्वादीति पूर्वादिदिशां भिन्नभिन्नावच्छेदेनैव परमाणौ संयोगसम्भवादित्यर्थः । वृत्तिविकल्पेन वेति परमाणौ स्कन्धः कार्त्स्न्येन वर्त्तेत तदेकदेशेन वा, आद्ये परमाणुमात्रः स्कन्धः स्यात्, अन्त्ये च परमाणोः सांशत्वापत्तिरिति सम्बन्धविकल्पेनेत्यर्थः । तस्योपालम्भा सत्वसिद्धेरिति यत्रोभयोः समो दोष इत्याद्युक्ते - रिति भावः । स्वपक्षाक्षेपमेव विवृणोति समानं हि दूषणमित्यादिना । संसर्गासम्भव इति वृत्तिविकल्पग्रासादित्यर्थः । प्रकृतपर्यनुयोग इति क्षणभङ्गुरव्यवधीयमानसम्बन्धः कथमिति प्रश्नस्तदवस्थः स्यादित्यर्थः । अनवस्थाप्रसञ्जनं चेति व्यवहितपरमाणूनामवस्थानाभावादित्यर्थः । तस्य-परोक्तोपालम्भस्य, तत्रापि = अन्तर्बहिर्वा जात्यन्तरेऽपि । वेद्यवेदका -
१. उपालम्भाभासत्त्व इति अष्टसहस्रीसम्मतः पाठः ।