________________
द्वितीयो भागः [ परि०७-का० ८७]
६०९ पक्षः, सर्वथा क्वचिद्विरोधासिद्धेः शीतोष्णस्पर्शयोरपि सत्त्वाद्यात्मनाऽविरोधात्, स्वेष्टेऽपि तत्त्वे
(भा०) कथञ्चिद्विरोधपरिहारस्य पुनरायासतामप्यशक्तेर्न द्वितीयः पक्षः सम्भवति ।
(भा०) तत्साक्षात्परंपरया वा, विमत्यधिकरणभावापन्नं ज्ञानं, स्वरूपव्यतिरिक्तार्थालम्बनं, ग्राह्यग्राहकाकारत्वात् सन्तानान्तरसिद्धिवत् ।
विप्लवज्ञानग्राह्यग्राहकाकारत्वेन व्यभिचार इति चेत्, न, सन्तानान्तरसाधनस्यापि व्यभिचारप्रसङ्गात् ।
(भा० ) न हि व्यापारव्याहारनिर्भासोऽपि विप्लुतो नास्ति
येनाव्यभिचारी हेतुः स्यात् । [ज्ञाने ग्राह्यग्राहकाकारत्वं वासनाभेदादेव, न तु बहिरर्थसद्भावादित्युक्ते आहुराचार्याः ।] (भा० ) तदन्यत्रापि वासनाभेदो गम्येत, न सन्तानान्तरम् ।
यथैव हि जाग्रदशायां बहिरर्थवासनाया दृढतमत्वात्तदाकारस्य ज्ञानस्य सत्यत्वाभिमानः, स्वप्नादिदशायां तु तद्वासनाया दृढत्वाभावात् तद्वेदनस्यासत्यत्वाभिमानो लोकस्य न परमार्थतो बहिरर्थः सिद्ध्यतीति वासनाभेदोऽभ्युपगम्यते, तथानुपप्लवदशायां सन्तानान्तरज्ञानस्य वासनाया दृढतमत्वात्सत्यताभिमानोऽन्यत्र तददाढादसत्यताव्यवहार इति वासनाभेदो गम्यतां, न तु सन्तानान्तरम् । तदनभ्युपगमे स्वसन्तानक्षणक्षयादिसिद्धिः कथमभ्युपगम्यते ? ततः सुदूरमपि गत्वा किञ्चिद्वेदनं स्वेष्टतत्त्वावलम्बनमेषितव्यम् । तदेव वेद्यवेदकाकारं बहिरर्थवेदनस्य स्वरूपव्यतिरिक्तालम्बनत्वं साधयति ।
ततो बहिरर्थस्य सिद्धेः सिद्धं वक्त्रादित्रयं, तस्य च बोधादित्रयम् इति न जीवशब्दस्य सबाह्यार्थत्वसाधने सञ्ज्ञात्वस्य साधनस्यासिद्धतानैकान्तिकता वा, दृष्टान्तस्य वा साधनधर्मादिवैधुर्य, यतो न जीवसिद्धिः स्यात् । तत्सिद्धौ च तस्यार्थं
अष्टसहस्रीतात्पर्यविवरणम् - कारमिति वेद्यवेदकाकारवत्त्वं साधनमित्यर्थः । स्यात् सर्वमभ्रान्तमेव ज्ञानमित्यत्र