________________
६१०
अष्टसहस्त्रीतात्पर्यविवरणम् परिच्छिद्य प्रवर्तमानस्य संवादविसंवादसिद्धिः सिद्धयत्येव । स्यात् सर्वमभ्रान्तमेव ज्ञानं भावप्रमेये संवादापेक्षणात् । स्याद् भ्रान्तं बहिरर्थे विसंवादापेक्षणात् । स्यादुभयं क्रमार्पिततद्वयात् । स्यादवक्तव्यं सहार्पिततद्वयात् । स्यादुभयाव्यक्तव्यमेव क्रमाक्रमार्पिततद्वयात् । इति पूर्ववत् सप्तभङ्गीप्रक्रिया योजयितव्या, तथैवातिदेशसामर्थ्यात् तद्विचारस्य सिद्धेः, प्रमाणनयादेशादपि प्रतिपत्तव्या ।
ज्ञानैकान्तादिपक्षे गगनफलमिव ज्ञापकोपायत्त्वं, सम्भाव्यं नैव मानात् कथमपि निपुणं भावयद्भिर्महद्भिः । स्याद्वादे तत्प्रसिद्धं विविधनयबलात्तत्त्वतः शुद्धबुद्धे रित्याज्ञातं प्रपञ्चाद्विचरतु सुचिरं स्वामिनः सद्वचःसु ॥१॥ [स्रग्धरा]
। इत्याप्तमीमांसालङ्कृतौ सप्तमः परिच्छेदः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
सर्वपदमहिम्ना ज्ञानत्वावच्छेदेनाभ्रान्तत्वसाधनात् न अंशतः सिद्धसाधनादिदोषः, द्वितीयभन्ने सर्वपदानुपादानात् ज्ञानत्वसामानाधिकरण्येन भ्रान्तत्वस्य विधेयत्वात् न अंशतो बाधः, प्रयोजनं तु प्राभाकरमतभङ्गः । एवमग्रेतना अपि भङ्गाः स्वपरसमयाविरोधेन भावनीयाः ॥८७॥
अन्तर्बहिर्विषयताघटितप्रमात्वभ्रान्तत्वकोटिकृतविप्रतिपत्तिभेदी । स श्रेयसी प्रणयितां प्रथयन् मुनीनां, रत्नत्रयस्य जयताज्जिनवाक्यराशिः ॥१॥ [वसंततिलका]
इति श्रीमदकब्बरसुरत्राणप्रदत्तजगद्गुरुबिरुदधारकभट्टारकश्रीहीरविजयसूरीश्वरशिष्य मुख्यमहोपाध्यायश्रीकल्याणविजयगणिशिष्यावतंसपण्डितश्रीलाभविजयगणि
शिष्याग्रेसरपण्डितश्रीजितविजयगणिसतीर्थ्यालङ्कार पण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकेण
पण्डितश्रीपद्मविजयगणिसहोदरेण महोपाध्यायश्रीयशोविजयगणिना विरचितेऽष्टसहस्त्रीतात्पर्यविवरणे
॥ सप्तमः परिच्छेदः ॥