________________
॥ अष्टमः परिच्छेदः ॥ दैवादेवार्थसिद्धिश्चेदैवं पौरुषतः कथम् । दैवतश्चेदनिर्मोक्षः पौरुषं निष्फलं भवेत् ॥८८॥ ज्ञापकमुपायतत्त्वं समन्तभद्राकलङ्कनिर्णीतम् । सकलैकान्तासम्भवमष्टसहस्त्री निवेदयति ॥१॥
कारकलक्षणमुपायतत्त्वमिदानीं परीक्ष्यते । तद्धि केचिदैवमेव दृष्टादृष्टकार्यस्य साधनमित्याचक्षते, पौरुषमेवेत्यपरे, किञ्चिदैवादेव किञ्चित्पौरुषादेवेत्यन्ये, तदुभयसाधनत्वेनावक्तव्यमेवेति चेतरे ।
[भाग्येनैव सर्वाणि कार्याणि सिद्ध्यन्ति इति एकान्तमान्यतायाः परिहारः ।]
तत्र दैवादेव यदि सर्वस्यार्थस्य सिद्धिरुच्यते तदा दैवमपि कथं पुरुषव्यापारात् कुशलाकुशलसमाचरणलक्षणादुपपद्येत ? प्रतिज्ञाहानेः । दैवान्तरादेव दैवं, न पौरुषादित्यभ्युपगमेऽनिर्मोक्षो मोक्षाभावः, पूर्वपूर्वदैवादुत्तरोत्तरदैवप्रवृत्तेरनुपरमात्, ततः पौरुषं निष्फलं भवेत् । पौरुषादैवस्य परिक्षयान्मोक्षप्रसिद्धेर्न तन्निष्फलमिति चेत्, सैव प्रतिज्ञाहानिः । मोक्षकारणपौरुषस्यापि दैवकृतत्वात् परंपरया मोक्षस्यापि दैवकृतत्वोपपत्तेर्न प्रतिज्ञाहानिरिति चेत्, तर्हि पौरुषादेव तादृशं दैवमिति न दैवैकान्तः । एतेन धर्मादेवाभ्युदयनिःश्रेयससिद्धिरित्येकान्त: प्रतिक्षिप्तो, महेश्वरसिसृक्षानर्थक्यप्रसङ्गाच्च ।
कुतस्तर्हि समीहितार्थसिद्धिरित्युच्यते । ___ (भा०) योग्यता कर्म पूर्वं वा दैवमुभयमदृष्टं, पौरुषं पुनरिहचेष्टितं दृष्टम् । ताभ्यामर्थसिद्धिः, तदन्यतरापायेऽघटनात् पौरुषमात्रेऽर्थादर्शनाद्,