________________
६१२
दैवमात्रे वा समीहानर्थक्यप्रसङ्गात् ।
स्वयमप्रयतमानस्य सर्वमिष्टानिष्टमदृष्टमात्रादेव, प्रयतमानस्य तु प्रयत्नाख्यात् पौरुषाद् दृष्टादिति वदन्नपि न प्रेक्षावान्, कृष्यादिषु समं प्रयतमानानां कस्यचिदेवार्थप्राप्त्यनर्थोपरमदर्शनादपरस्यानर्थप्राप्त्यर्थोपरमप्रतीतेः, धर्माधर्मयोरपि तन्निमित्तत्वसिद्धेः । स्वयमप्रयतमानानामर्थप्राप्त्यनर्थोपरमयोरनर्थप्राप्त्यर्थोपरमयोश्च सद्भावेऽपि प्रयत्नाभावेऽनुपभोग्यत्वप्रसङ्गात् पौरुषस्यापि तदनुभवकारणत्वनिश्चयात् सर्वत्र दृष्टादृष्टयोर्निमित्तत्वसिद्धिस्तयोरन्यतरस्याप्यपाये तस्यानुपपद्यमानत्वात्, मोक्षस्यापि परमपुण्यातिशयचारित्रविशेषात्मकपौरुषाभ्यामेव सम्भवात् । ततो न पाक्षिकोऽपि दैवैकान्तः श्रेयान् ॥८८
पौरुषादेव सिद्धिश्चेत् पौरुषं दैवतः कथम् ? । पौरुषाच्चेदमोघं स्यात्, सर्वप्राणिषु पौरुषम् ॥८९॥
अष्टसहस्त्रीतात्पर्यविवरणम्
[पुरुषार्थादेव यदि कार्यसिद्धिः स्यात्तर्हि स सर्वप्राणिषु वर्तते एव सर्वेषां कार्यसिद्धिः कथं न भवति ?]
पौरुषादेवार्थस्य सिद्धिरिति वदतोऽपि कथं पौरुषं दैवतः स्यात् ?
प्रतिज्ञाहानिप्रसङ्गात् ।
( भा० ) तद्धि पौरुषं विना दैवसंपदा न स्यात् ।
तादृशी जायते बुद्धिर्व्यवसायश्च तादृशः ।
सहायास्तादृशाः सन्ति यादृशी भवितव्यता ॥ [
इति प्रसिद्धेः तत्सर्वं बुद्धिव्यवसायादिकं पौरुषं ।
( भा० ) पौरुषापादितमिति
चेत्, तर्ह्यमोघमेव सर्वप्राणिषु पौरुषं भवेत् । तथैवेति चेत्, (भा० ) तद्व्यभिचारदर्शिनो न वै श्रद्दधीरन् ।
]
स्यान्मतमेतत्—पौरुषं द्विविधं सम्यग्ज्ञानपूर्वकं मिथ्याज्ञानपूर्वकं च । तत्र मिथ्याज्ञानपूर्वकस्य पौरुषस्य व्यभिचारदर्शनेऽपि सम्यगवबोधनिबन्धनस्य न व्यभिचार:, ततः सफलमेव पौरुषमिति, तदसत् दृष्टकारणसामग्रीसम्यगव