________________
६१३
द्वितीयो भागः [परि०८-का. ९०-९१] बोधनिबन्धनस्यापि पौरुषस्य व्यभिचारदर्शनात् कस्यचिदुपेयाप्राप्तेरदृष्टकारणकलापसम्यगवबोधस्य तु साक्षादसकलविदामसम्भवात् तन्निबन्धनपौरुषाभावात् । प्रमाणान्तरात्तदवबोधस्य सम्भवेऽपि किमसावदृश्यः कारणकलापः कारणशक्तिविशेषः, पुण्यपापविशेषो वा ? प्रथमपक्षे तत्सम्यगवगमनिमित्तकस्यापि पौरुषस्य व्यभिचारदर्शनान्नामोघत्वसिद्धिः । द्वितीयपक्षे तु दैवसहायादेव पौरुषात् फलसिद्धिः, दैवसदवगमनिबन्धनादेव पौरुषादुपेयप्राप्तिव्यवस्थितेः । तदपरिज्ञानपूर्वकादपि कदाचित्फलोपलब्धेश्च न सम्यगवबोधनिबन्धनः पौरुषैकान्तः इत्यसौ परित्याज्य एव दैवैकान्तवत् ॥८९॥
विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥१०॥
(भा०) दैवेतरयोः सहैकान्ताभ्युपगमे व्याघातादवाच्यतायां च स्ववचनविरोधात् स्याद्वादनीतिः
श्रेयसी तद्विषां प्रमाणविरुद्धाभिधायित्वात् ॥९०।। कीदृशी स्याद्वादनीतिरत्रेत्याहु:
अबुद्धिपूर्वापेक्षायामिष्टानिष्टं स्वदैवतः । बुद्धिपूर्वव्यपेक्षायामिष्टानिष्टं स्वपौरुषात् ॥११॥
- अष्टसहस्त्रीतात्पर्यविवरणम्
आरुह्येन्द्रं रथं द्राग् धृतशरधनुषा मातलिख्याततत्तद्वीर्योत्कर्षेण कष्टं प्रतिहरिकटके नेमिना नीयमाने । श्रस्तेऽपि हस्तन्यस्ते धनुषि घनजराजर्जरे कृष्णसैन्ये,
यद्गात्रस्नात्रनीरादजनि शुभमसौ पातु शङ्केश्वरो माम् ॥१॥ [ स्रग्धरा]
अष्टमे 'दैवपुरुषकारैकान्तनिरासः । स च ग्रन्थः सुगमप्रायः, इदं तु चिन्त्यम्अबुद्धिपूर्वापेक्षायामित्यादिव्यवस्थापनेऽपि पाक्षिकदैवपुरुषकारैकान्तप्रसङ्गादनेकान्तव्याप्तिभङ्गः, बुद्धिपूर्वके कृष्यादौ दैवजन्यत्वस्याबुद्धिपूर्वके वाऽभ्रविकारादौ यत्नजन्यत्वस्य व्यभिचारात् । (शङ्का) पूर्वं गौणप्रधानभावेन सर्वत्रोभयजन्यत्वं साधयित्वा पश्चादयमेक