________________
६१४
अष्टसहस्त्रीतात्पर्यविवरणम्
[भाग्यपुरुषार्थयोरनेकान्तं साधयन्ति जैनाचार्याः ।] (भा० ) ततोऽतर्कितोपस्थितमनुकूलं प्रतिकूलं वा दैवकृतं, बुद्धिपूर्वापेक्षापायात् तत्र पुरुषकारस्याप्रधानत्वात् दैवस्य प्राधान्यात् । (भा०) तद्विपरीतं पौरुषापादितं,
बुद्धिपूर्वव्यपेक्षानपायात्, तत्र दैवस्य गुणभावात् पौरुषस्य प्रधानभावात्, न पुनरन्यतरस्याभावात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
तरहेतुप्राधान्यापेक्षया पाक्षिको विभाग इति चेत्, तर्हि स्यात् सर्वं दैवकृतमित्यादौ सर्वपदोपादानानुपपत्तिः । (शङ्का) सामान्यहेतुत्वापेक्षया ते भङ्गा इति चेत्, तहि तेषु बुद्धिपूर्वापेक्षादिहेत्वभिधानानुपपत्तिः, अव्यापकत्वात्, सर्वत्र यथा कथञ्चिद् दैवपुरुषकारोभयकतत्वस्य प्रामाणिकत्वे च घटे दण्डचक्रोभयजन्यत्ववदेक एव भङ्गः स्यात्, युगपदुभयजन्यत्वादेरेकवाक्यतया वक्तुं शक्यत्वात्, न्यूनाधिकव्यापारवत्त्वस्यापि साधारण्येनोभयत्राविशेषात्, विविक्तस्य च तस्य पाक्षिकभङ्गसाक्षित्वात् । तस्मात्
पुव्वकयं कम्मं चिय, चित्तविवागमिह भन्नइ दिव्वं ।
कालाइएहि तप्पायणं तु तह पुरिसगारु त्ति ॥ इति [ श्रीहरिभद्रचार्योक्तरीत्या कालादिकृतकर्मविपाकपरिणामरूपस्य पुरुषकारस्य तत्त्वतो दैवव्यापारत्वसिद्धेापारेण व्यापारिणोऽन्यथासिद्धत्वानन्यथासिद्धत्वयोर्व्यवहारनिश्चयाधीनत्वात्तद्विवक्षाकृताः स्यात् सर्वं दैवकृतमित्यादयः सप्तभङ्गा द्रष्टव्याः । मोक्षे ज्ञानजन्यत्वक्रियाजन्यत्वसप्तभङ्गीकरणेऽस्या एवोपायत्वात् । अत एव परमार्थतः सर्वत्र नियतानियतेऽपि वस्तुन्याजीविकसमयप्रसिद्धं नियतिजन्यत्वमुपमृद्य पुरुषकारजन्यत्वं भगवद्वचोऽनुसारिभिर्व्यवस्थाप्यते, मतान्तरहेतोर्नयस्य नयान्तरेण खण्डनस्यापि शास्त्रार्थत्वात्, नियतानियतसप्तभङ्गीप्रवृत्तौ तु नियतिजन्यताग्राहकोऽपि नय आश्रीयते एव, दाहकोऽपि वह्निरिव पाकादाविति तत्र तत्र व्यवस्थितम् । अथवा दैवशब्देन कालादिचतुष्टयं गृह्यते, पौरुषशब्देन चात्मप्रयत्नः, तत्कृतत्वं च तदव्यवहितोत्तरक्षणोत्पत्तिकत्वं तच्छब्दार्थश्च
१. छाया - पूर्वकृतं कर्म चैव चित्रविपाकमिह भण्यते दैवम् ।
कालादिभिः तत्प्रायणं तु तथा पुरुषकार इति ।।