________________
द्वितीयो भागः [परि०८-का. ९०-९१]
६१५ (भा०) अपेक्षाकृतत्वात्तद्व्यवस्थायाः ।
तथापेक्षानपाये परस्परं सहायत्वेनैव दैवपौरुषाभ्यामर्थसिद्धिः इति स्यात्सर्वं दैवकृतमबुद्धिपूर्वापेक्षातः । स्यात् पौरुषकृतं बुद्धिपूर्वापेक्षातः । स्यादुभयकृतं क्रमापिततद्वयात् । स्यादवक्तव्यं सहार्पिततद्वयात् । स्यादैवकृतावक्तव्यमबुद्धिपूर्वापेक्षया सहार्पिततद्वयात् । स्यात्पौरुषकृतावक्तव्यं बुद्धिपूर्वापेक्षया सहार्पिततद्वयात् । स्यात्तदुभयावक्तव्यमेव क्रमेतरार्पिततद्वयात् । इति सप्तभङ्गीप्रक्रिया पूर्ववत् ।
दैवैकान्तादिपांशुप्रसरनिरसनोद्भूतसामर्थ्यवृत्तिः, सन्मार्गव्यापिनीयं पवनततिरिवाज्ञानखेदं हरन्ती । बन्धं प्रध्वंसमद्धा सकलमपि बलादानयन्ती नितान्तं, नीतिः स्याद्वादिनीद्धा दृगवगमभृतां निर्वृतिं वः प्रदेयात् ॥१॥ [स्रग्धरा]
। इत्याप्तमीमांसालङ्कृतावष्टमः परिच्छेदः ।
अष्टसहस्रीतात्पर्यविवरणम् सामग्रीप्रविष्टो वाच्य इति, तत्त्वाविनिर्गमात् स्यादैवकृतं सर्वमित्यादिसप्तभङ्गीप्रवृत्तिरविरुद्धा, ईदृशविवक्षामहिम्ना स्याद्दण्डजन्यो घट: स्याच्चक्रजन्य इत्यादि सप्तभङ्गीप्रवृत्तेरपि सम्भवादेकस्वभावेनोभयजन्यत्वविवक्षायामवक्तव्यत्वतद्घटितभङ्गानामपि सावकाशत्वादिति युक्तमुत्पश्यामः । यच्च नियतिद्वात्रिंशिकायां
ज्ञानमव्यभिचारं चेज्जिनानां मा श्रमं कृथाः । अथ तत्राप्यनेकान्तो, जिता: स्मः किन्नु को भवान् ॥१॥ इति [श्लो० १६]
भगवद्ज्ज्ञानरूपनियत्येकान्तदृढीकरणम्, तद्ज्ज्ञानज्ञेयपरिणामयोः समनियमप्रतिपादके 'जं जहा भगवया दिळू, तं तं तहा विपरिणमड़ इति पारमर्षवाक्ये कार्यकारणभावग्राहकत्वाध्यारोपेण नयवचने आहार्यारोपस्यापि निमित्तत्वादित्याधुपदेशामृततरङ्गिण्यां प्रपञ्चितमस्माभिः ॥९१॥
दैवं बलीय इति केचन पौरुषं च, केचिद् वदन्ति न तु तुल्यवदाद्रियन्ते । तत्पक्षपातविषमाचलपक्षपातवज्राभिघातसमतामियमेति युक्तिः ॥१॥ [वसन्ततिलका]
१. यद् यद् यथा भगवता दृष्टं, तत् तत्तथा विपरिणमति ।