________________
५९२
अष्टसहस्त्रीतात्पर्यविवरणम्
स्याद्वादाश्रयणे तु न कश्चिद्दोष इत्याहुः ॥८२॥
- अष्टसहस्रीतात्पर्यविवरणम् तस्य स्वीकारे मतान्तरप्रवेशापत्तिरिति यत्किञ्चिदेतत् ।
परे तु शुक्तिशकले यत्कलधौतं चकास्ति तस्य बाह्यतया प्रतिभानं नोपपत्तिमत्, नेदं रजतमिति बाधकेन तद्बाह्यताया बाध्यमानत्वात्, ततो ज्ञानात्मन एवायमाकारोऽनादिवासनामाहात्म्यात् बहिरिव परिस्फुरतीति आत्मख्याति: एवेयमित्याहुः, तेऽपि न प्रेक्षावन्तो, नेदं रजतमिति बाधकेन तद्बाह्यताया अबाधनात्, हट्टादौ बाह्यस्थस्य तस्य परं शुक्तिदेशस्थताया एव बाधनात् । यदपि न्यगादि ज्ञानात्मन एवायमाकारोऽनादिवासनामाहात्म्याद् बहिरिव परिस्फुरतीति, तदप्यसत्यं, वासनाया बहुशो निरस्तत्वात् । किञ्च ज्ञानाकारस्यैव रजतस्य संवेदनेऽहं रजतमित्यन्तर्मुखतया प्रतीतिः स्यात्, न त्विदं रजतमिति बहिर्मुखतया, ज्ञाननिष्ठोऽपि रजताकारोऽनादिवासनामाहात्म्याच्छुक्तिनिष्ठतया भासत इत्युक्तौ चान्यथाख्यातिरेवाङ्गीकृता स्यात् । अपि च स्वाकारः एव रजतादिद्घन्तिभिर्बहीरूपतया प्रकाश्यत इत्यत्र न प्रमाणमस्ति, अनुभवस्य कलधौतज्ञानाकारासाक्षित्वात्, बाधकप्रत्ययस्यापि शुक्तौ रजतनिषेधकत्वेन रजते ज्ञानाकारताया अविधायकत्वात् । न च रजते पुरोवर्तिशुक्त्याकारत्वप्रतिषेधेऽर्थाद् बोधाकारत्वसिद्धिरित्यपि साम्प्रतं, शुक्त्याकारत्वप्रतिषेधेऽर्थाद्देशान्तरसत्त्वस्यैव सिद्धेः, दृष्टातिक्रमेणादृष्टज्ञानाकारकत्वकल्पने मानाभावात् । यत्प्रकाशते तद्विज्ञप्तिमात्रं यथा सुखादिकमिति तु प्रत्युक्तं विज्ञानवादनिरासे बहुशः । अपि चैवमान्तरं कलधौतं मया बहीरूपतया ज्ञातमिति प्रत्यभिज्ञानं स्यात्, न त्वियं शुक्ती रजतत्वेन ज्ञातेति, एवमप्रसक्तकलधौतनिषेधोऽपि न स्यात् । यदि च ज्ञानस्य बाह्यार्थविषयत्वं नेष्यते, तर्हि यथा रजताकारोल्लेखेन तत्प्रवर्तते, तथा कि न नीलाद्याकारोल्लेखेन, नियामकाभावात्, अनादिवासनाया एव तन्नियामकत्वे देशादिनियमे हेतु[ग्यः । अथ अस्या इदमेव स्वरूपं यदसदपि देशादिनियमेन ज्ञाने प्रदर्शयतीत्यभिधीयते, तदयुक्तम्, असत्ख्यातिप्रसक्तेः, कथं चात्मख्यातिवादिनश्छेदादिप्रतीतिः स्यात् ? स्वरूपमात्रसंविदस्तदसम्भवात्, न हि विज्ञानरूपस्य सुखादेः संवित्तौ तत्प्रतीतिर्दृष्टेति बाह्यार्थस्य प्रामाणिकत्वे नात्मख्यातिः ख्यातिमती ।
ग्वेदान्तिनस्तु शुक्तौ रजतं न सत् प्रतिभासते, भ्रान्त्युच्छेदापत्तेः, नाप्यसत्, शशशृङ्गादिवत् प्रतिभासप्रवृत्त्योरविषयत्वप्रसङ्गात्, नाप्युभयरूपम्, उभयपक्षनिक्षिप्तदोषानुषङ्गादित्यनिर्वचनीयमेवेदं, तस्माद् भ्रान्तिः अनिर्वचनीयख्याति: एवेत्याहुः, तदपि तुच्छतरं, शुक्तौ रजतभ्रमे शुक्तिखण्डस्य विषयस्य स्वरूपपररूपाभ्यां सदसद्रूपस्या