________________
५९१
द्वितीयो भागः [ परि०७-का० ८२] (भा० ) तदवाच्यतायामुक्तिविरोधः पूर्ववत् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
रजतविधिपरस्य प्रत्ययस्य तदभावानालम्बनत्वात्, नापि शुक्तिखण्डम्, अतदाकारत्वात्, नापि रजताकारेण शक्तिखण्डम, अन्यस्यान्याकारेण दर्ग्रहत्वादित्यख्यातिरेवेयमित्यख्यातिवादोऽपि केषाञ्चित् निरस्तः, एवं भ्रान्तेर्निरालम्बनत्वे भ्रान्तिसुप्तावस्थयोरविशेषप्रसङ्गात्, न हि भ्रान्तौ प्रतिभासमानार्थव्यतिरेकेण सुप्तावस्थातोऽन्योऽस्ति विशेषः । स्वातिरिक्तबाह्यार्थानुपपत्तौ च तदंशेऽसत्ख्यातिरेव ज्ञानवाद्याश्रिता स्यान्नाख्यातिरिति यत्किञ्चिदेतत् ।
बौद्धास्तु असत्ख्यातिमाचक्षते, तथा हीदं रजतमिति भासमानं वस्तु ज्ञानमर्थो वा भवेत् । न तावज्ज्ञानम्, अहं रजतमित्यहंकारसामानाधिकरण्येनाप्रतिभासनात्, नाप्यर्थः, तत्साध्यार्थक्रियाभावात् इत्यसदेव तत्तत्र प्रतिभातमिति । तेऽपि न सूक्ष्मेक्षिणः । तथाहिअसत्ख्यातिरिति कोऽर्थः ? किमेकान्तासतोऽर्थस्य प्रथनम्, उत देशान्तरे विद्यमानस्य, द्वितीयपक्षे विपरीतख्यातिरेवेयं, देशान्तरे विद्यमानस्य शुक्तिदेशे प्रतीतिस्वीकारात्, आद्यपक्षे त्वेकान्तासतोऽर्थस्य प्रथने शशविषाणस्यापि प्रतीतिः स्यात् । एतेन रजतं सदेव तत्संसर्गस्त्वलीको भ्रान्तौ सदुपरागेण भासत इति न्यायटीकाकृन्मतमपि अपास्तम्, विषयतायाः सवृत्तित्वव्याप्यत्वात्, अन्यथा गवि शशशृङ्गीयत्वविशिष्टसम्बन्धेन शृङ्गभानापत्तेः, अपि चासत् सत्त्वेन प्रतिभातीति विपरीतख्यातिमर्यादाया नातिक्रमः । यदपीदं रजतमिति भासमानं वस्तु ज्ञानमर्थो वा भवेदिति विकल्पद्वयमकारि, तत्राद्योऽनभ्युपगमान्निरस्तो, द्वितीयस्त्विष्यत एव, अर्थविशेषनिबन्धनचरणाभरणाद्यर्थक्रियाभावेऽप्यर्थसामान्यनिबन्धनाभिलापप्रवृत्त्याद्यर्थक्रियायास्तत्राव्याहतत्वात्, बाधकप्रत्ययेन च मिथ्याज्ञानस्य मिथ्यात्वमुपदर्शाते, न तु तद्विषयस्यार्थत्वं बाध्यत इति नासत्ख्यातिमनोरथस्ताथागतानां श्रेयान् ।
केचित्तु प्रसिद्धार्थख्यातिं आहुः, विपर्ययेऽपि प्रतीतिप्रसिद्धस्यैवार्थस्य भानात् । न च विचारासहत्वात्तद्विषयस्याविद्यमानत्वं, प्रतीतेरेव विचारत्वात् करस्थस्थूलमुक्ताफलेऽपि तयैव विचारसहत्वसिद्धेः। न चोत्तरकाले प्रतिभासाभावाद् भ्रान्तिविषयस्य असत्त्वं, तत्समयप्रतिभासेनापि तोयबदबदादेरिव सत्त्वाव्याघातादिति, तेऽपि न ख्यातिभाजः प्रमाण सिद्धि विनाऽर्थस्य प्रसिद्धत्वायोगात्, अन्यथा भ्रान्ताभ्रान्तव्यवस्थानुपपत्तेः । यच्च प्रतिभाससमये सत्त्वाद् भ्रान्तिविषयस्य रजतस्य प्रसिद्धत्वमुच्यते, तद् यद्यन्यदेशस्थस्य तस्य दोषमाहात्म्येन शुक्तौ भानात्, तदा प्रसिद्धार्थख्यातिरित्यन्यथाख्यातेर्नामान्तरमायातं, यदि च शुक्तिदेशस्थस्य, तदा तस्य स्थिरत्वादुत्तरकालेऽपि भानापत्तिः, अज्ञानजस्य ज्ञाननाश्यस्य च