________________
५९०
अष्टसहस्त्रीतात्पर्यविवरणम्
स्याद्वादन्यायविद्विषामेव ।
अष्टसहस्रीतात्पर्यविवरणम् स्थितत्वं चान्यथाख्यातिभयाद्रजतेऽपीति न किञ्चिदेतत् । किञ्च, प्रवृत्तिरिच्छाद्वारा, सा न समानविषयज्ञानसाध्येति कथं नेच्छावन्मिथ्या ? । एतेन प्रकृतरजतज्ञानं स्मरणम्, अनाकलितरजतस्य प्रतिपत्तुरनुत्पद्यमानत्वादित्याद्यनुमानम् अपास्तम्, रजतगोचरेण समीहितसाधनतानुमानेन संस्कारेण रजतशब्दोल्लेखिप्रत्यक्षेण चानैकान्तिकत्वात्, प्रकृतरजतज्ञानं स्मरणं न भवति विशदावभासित्वात्, यदित्थं तदित्थं, यथा संप्रतिपन्नज्ञानमिति प्रत्यनुमानसद्भावाच्च । किञ्च, भवतापि संवित्तिः स्वप्रकाशा स्वीक्रियत एव, तत्रेयं रजतसंवित्तिस्तपस्विनी केन स्वभावेन प्रकाशतामिति विचारणीयं, यदि स्मृतिरूपेणेत्युच्यते, हन्त तर्हि कः प्रमोषशब्दस्यार्थः ? अथानुभवरूपेण प्रथते, तर्हि विपरीतख्यातिरेवेयं, स्मृतेरनुभवत्वेन प्रथनात्, अथ संविन्मात्रतयैव रजतसंवित्तिः प्रतिभाति, तदपि न निरवा, रजतमिति विषयोल्लेखस्यानुभूयमानत्वात्, स्मरणानुभवलक्षणविशेषशून्यायाश्चात्र प्रघट्टके विषयसंवित्तेरनुपपद्यमानत्वात् । यदप्युक्तं बाधकप्रत्ययश्चेदमन्यद्रजतमन्यदिति विवेकमेव प्रकाशयतीत्यादि, तदपि मिथ्या, बाधकप्रत्ययेन प्रसक्तरजतत्वाभावस्यैवावगाहनात्, अप्रसक्ताविविक्तत्वप्रतिषेधेन विविक्तत्वानवगाहनात् । यदप्युक्तं स्वप्ने चेदं रजतमित्यादौ स्मरणत्वाग्रह एव विवेकाग्रह इत्यादि, तदपि तुच्छम्, रजतादिस्वप्ने स्मरणत्वेनाग्रहे रूपान्तरेण ग्रहे विपरीतख्यात्यापत्तेः, सर्वात्मनाऽग्रहणस्य च ग्रहणविरुद्धत्वात् । यदप्युक्तमेवं चन्द्रद्वयवेदने दोषाद् द्विधाकृतया नयनवृत्त्या चन्द्रकत्वाग्रह एवेति, तदप्यविचारितरमणीयं, द्विधाकृता हि तिमिरेण नायनी वृत्तिर्यदि नाम कुमुदबन्धोरेकत्वं नावबुध्यते, मावबूबुधत्, विपरीतस्तु द्वित्वानुभवः कथमिति विचार्यतां, नयनसमाश्रिताद्वित्वासंसर्गाग्रह एव चन्द्रे द्वित्वग्रह इत्यस्यापि परोक्षस्य तस्योपस्थित्यभावेनैवानाश्रयणीयत्वात् । एतेन तिक्ता शर्करेत्यादिव्यवहारस्य पित्तद्रव्यगततिक्तत्वशर्कराग्रहभेदाग्रहनिबन्धनत्वमुक्तं प्रत्युक्तम्, अगृह्यमाणतिक्तत्वस्यैव पित्तस्य शरीरगतस्य ज्वरोत्पादकत्ववद्रसनगतस्य विपरीतप्रत्ययोत्पादकत्वात् सर्वानुभूयमानसामानाधिकरण्यानुपपत्तेश्च । अपि चेदं रजतमिति यदि संवेदनद्वयमभ्युपगम्यते, तदा तस्य किं यौगपद्येन पर्यायेण वा प्रादुर्भाव: स्यादिति वक्तव्यम्, आद्ये स्वकृतान्तकोपः, द्वितीयेऽपि किं प्रत्यक्षात् पूर्वमुतोत्तरं रजतस्मरणं भवेत् । नाद्यः, इदमिति प्रत्यक्षात्पूर्वं संस्कारनुबोधेन रजतस्मृत्यनुत्पत्तेः, न द्वितीयो, निमीलितनयनस्यापि तत्प्रसक्तेरिति सकललोकसिद्धं सकृदेव रजतात्मना पुरोवतिभानं दुरपह्नवमिति मन्तव्यम् । एतेन इदं रजतमिति प्रत्यये न रजतसत्ताऽऽलम्बनम्, अभ्रान्तत्वप्रसक्तेः, नापि तदभावो,