________________
द्वितीयो भाग: [ परि० ७ - का० ८२]
(भा०) अन्तर्बहिर्ज्ञेयैकान्तयोः सहाभ्युपगमो विरुद्धः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
कारणाभावाशङ्का युक्तिमती, तथा च प्रामाणिका:
कार्यं चेदवगम्येत, किं कारणपरीक्षया ।
कार्यं चेन्नावगम्येत, किं कारणपरीक्षया ॥ इति [
५८९
]
यदप्युक्तं दुष्टकारणस्य स्वकार्यानुत्पादकत्वं न तु विपरीतकार्योत्पादकत्वमिति, तत्रापि नियमं न पश्यामो, दवदहनदग्घवेत्रबीजात् कदलीप्रकाण्डोत्पत्तिदर्शनात् । (शङ्का) दवदहनस्य वेत्राङ्कुरोत्पादने दोषता कदलीप्रकाण्डे त्वनुगुणभाव एवेति चेत्, अत्रापि काचकामलादेः सत्यज्ञानोत्पादने दोषता मिथ्याज्ञानोत्पादने त्वनुगुणभाव एवेति तुल्यम् । यदप्युक्तं इदं रजतमिति ग्रहणस्मरणरूपं ज्ञानद्वयं न त्वेकं विशिष्टज्ञानमिति, तदपि तुच्छं, रजतार्थिप्रवृत्तिमात्रे रजतत्वप्रकारकज्ञानस्यैव समानविशेष्यत्वप्रत्यासत्त्या संवादिप्रवृत्तिस्थले हेतुत्वकल्पनाद्विसंवादिप्रवृत्तिहेतोरपि मिथ्याज्ञानस्यैकस्य सिद्धेः, संवादिप्रवृत्तौ विशिष्टज्ञानं हेतुर्विसंवादिप्रवृत्तौ चोपस्थितेष्टभेदाग्रह इति कल्पने गौरवात् । भेदाग्रह इत्यत्र च भेद एव कोऽभिप्रेत आयुष्मतः ? किं वस्तुस्वरूपमात्रम्, उत परस्पराभावः, आहोस्विद् व्यावर्त्तकधर्मयोगः, आद्ये ग्रहणस्मरणाभ्यां पुरोवर्त्तिपूर्वानुभूतवस्तुस्वरूपग्राहिभ्यां भेदो गृहीत एवेत्यप्रवृत्तिप्रसङ्गः, द्वितीयपक्षस्तु प्राभाकरैरभावानभ्युपगमादेव निरस्तः, तदभ्युपगमेऽपि स्मृतरजतस्य कथं नाभावज्ञानम् ? । (शङ्का) दोषवशान्नियतदेशतयाऽवगतस्यानियतदेशतया स्मरणान्न तदिति चेत्, आयाताऽन्यथाख्यातिः (शङ्का) देशविनिर्मुक्ततत्स्मरणान्न तदिति न तव मते पूर्वावगते रजते स्मृते केवलाधिकरणोपलब्धेरेव तदभावोपलम्भत्वात्, दोषस्य शुक्तौ रजतभेदग्रहप्रतिबन्धकत्वकल्पने च तत्तादात्म्यग्रहहेतुत्वकल्पनमेव ज्यायः । नापि तृतीय:, स्मर्यमाणे रजते रजतत्वस्य व्यावर्त्तकधर्मस्य भानाद् गृह्यमाणेऽप्यन्तत इदंत्वस्यैव तादृशस्य भानात् । न च रजतत्वात्यन्ताभावरजतभेदगृहीतव्यावर्त्तकताकतत्तद्धर्मग्रहाणामन्यतरत्वावच्छिन्नप्रतियोगिताकोऽखण्डाभावो रजतार्थिप्रवृत्तिहेतुरित्यपि वक्तुं शक्यम्, उदासीनप्रवेशाप्रवेशाभ्यां विनिगमनाविरहात्, रजतं स्मरतो रजतार्थिनः पाषाणत्वानुपलम्भे पाषाणेऽपि प्रवृत्तिप्रसङ्गाच्च । शुक्तिविषयकप्रवृत्तौ शुक्तिविषयकज्ञानत्वेनापि हेतुत्वाच्च, तत्र समानप्रकारकत्वनिवेशस्यैवौचित्यात्, अन्यथा महागौरवात् । किञ्च, रजत एव नेदं रजतमिति ग्रहे प्रवृत्त्यापत्तिः, तत्रान्यथाख्यातिभिया रजतभेदग्रहस्य परेण वक्तुमशक्यत्वात् । न च अभावप्रतियोगित्वेनानुपस्थितं यदुपस्थितं रजतं तद्भेदाग्रहस्य प्रवर्त्तकत्वाददोष इत्यपि शक्यं वक्तुं, घटभिन्नं रजतं नेदमिति ज्ञानादपि प्रवृत्त्यापत्तेः तद्वृत्त्यभावप्रतियोगित्वेनानुप