________________
५८८
अष्टसहस्त्रीतात्पर्यविवरणम्
विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥८२॥
अष्टसहस्त्रीतात्पर्यविवरणम्
लम्बनत्वपर्यवसानेन विरोधग्रासान्न कस्यापि सिद्धिरित्यर्थः । अपि चैवं शुक्तावलौकिकरजतप्रतिभासे रजतार्थिनां प्रवृत्तिर्न स्यात् । न चालौकिके लौकिकत्वज्ञानेन प्रवृत्त्युपपत्तिः, तस्यान्यथाख्यातित्वेन घट्टकुटीप्रभातापत्तेः । किञ्चालौकिकस्यापि रजतस्यासत्त्वेऽसत्ख्यात्यापत्तिः, सत्त्वे च नेदं रजतमिति बाधानुत्पत्तिः, न चालौकिके लौकिकत्वनिषेध एव बाधार्थः, नेदं रजतमित्यादौ रजतलौकिकत्वस्य निषेधप्रतियोगित्वेनाभानात्, सर्वत्र विधौ निषेधे च रजतपदस्य लौकिकरजतरपरत्वे गौरवात् । किञ्च लौकिकरजतस्य प्रसक्तस्यैव प्रतिषेधाद्विपरीतख्यात्यापत्तिरिति न किञ्चिदेतत् । एतेन मीमांसकवृद्धाभिमताऽलौकिकख्यातिः खण्डिता एवं ख्यात्यन्तरखण्डनमपि द्रष्टव्यम्, भ्रान्तावन्यथाख्यातिपक्षस्यैव विचारक्षमत्वात् । तत्र प्राभाकरा विवेकाख्यातिं कल्पयन्ति । तदाहुस्ते इदं रजतमित्यादिविपरीतप्रत्ययोत्पत्तौ न किमपि कारणं पश्यामः, इन्द्रियस्य शुक्तिशकल एव सन्निकृष्टत्वेन रजतज्ञानाजनकत्वात् न च दोषवशादसन्निकृष्टस्यापीन्द्रियस्य रजतज्ञानजनकत्वं युक्तं, दुष्टकारणात् स्वकार्यानुत्पत्तावपि विपरीतकार्यानुत्पत्तेः, न हि कमलबीजं तैलकलुषितमपि गोधूमाङ्करजननसमर्थं, तस्मादिदं रजतमिति ग्रहणस्मरणरूपं बोधद्वयं सत्यमेव, इदमंशे इन्द्रियसन्निकर्षस्य ग्रहणकारणस्य रजतांशे च साधारणरूपदर्शनोबुद्धसंस्कारस्य स्मरणकारणस्य सत्त्वात् । न च तदंशानुल्लेखान्नेदं स्मरणमिति शङ्कनीयं, प्रमुष्टतत्ताकानामपि बहूनां पदपदार्थस्मरणानामुपलम्भात्, अत एव रजतस्य नातीतत्वावभासः । बाधकप्रत्ययश्चेदमन्यद् रजतमन्यदिति विवेकमेव प्रकाशयति, न तु रजतज्ञानस्यासत्यत्वं, स्वप्ने चेदं रजतमित्यादौ स्मरणत्वाग्रह एव विवेकाग्रहः, न त्वनुभवस्मरणयोस्तत्त्वाग्रहः, तदुभयाभावात्, सदृशदर्शनं विनापि तदा स्मृतिः कारणान्तरात्, आरोपे सतीत्यादिन्यायात् । एवं चन्द्रद्वयवेदने दोषाद् द्विधाकृतया नयनवृत्त्या चन्द्रैकत्वाग्रह एव, तिक्ता शर्करेत्यादौ च पित्तद्रव्यगततिक्तग्रहशर्कराग्रहयोर्भेदाग्रहाद्विवेकाख्यातिर्व्याख्येया, सर्वत्र सम्यगग्रहणस्यैव तदर्थत्वात्, ये तु विवेकाख्यातिद्विषः शुक्तौ रजतप्रतीतिं स्थापयन्ति तेषां ज्ञानान्तरेऽपि मिथ्यात्वसम्भावनया सर्वत्रानाश्वासात् प्रवृत्त्यादिव्यवहारोच्छेदप्रसङ्ग इति । अत्र ब्रूमः- यत्तावदुक्तम् इदं रजतमिति विपरीतप्रत्ययोत्पत्तौ न किञ्चित्कारणं पश्याम इति, तत्र न ह्ययं स्थाणोरपराधो, यदेनमन्धो न पश्यति इति न्यायावतारो, दुष्टेन्द्रियादेरेव तद्धेतुत्वात्, स्वाकारसंवरणरजतरूपापत्तिपरिणामविशेषवत्याः शुक्तेरेव चालम्बनत्वात्, न च कार्यसिद्धौ