________________
द्वितीयो भाग: [ परि० ७ - का० ८१ ]
साध्यदृष्टान्तौ पूर्ववद् ।
विवादापन्नं विज्ञानं साक्षात्परम्परया वा बहिरर्थप्रतिबद्धं, विषयाकारनिर्भासात् । यथाग्निप्रत्यक्षेतरवेदनम् । तथा स्वप्नदर्शनमपि विषयाकारनिर्भासम् । तत्तथा इति बहिरङ्गार्थतैकान्तः सर्ववेदनानां बहिर्विषयत्वाभिनिवेशात् ।
५८७
( भा० ) अत्रापि लोकसमयप्रतिबद्धानां परस्परविरुद्धशब्दबुद्धीनां स्वार्थसम्बन्धः परमार्थतः प्रसज्येत ।
न चैवं, तृणाग्रे करिणां शतमित्यादिवचनानां स्वप्नादिबुद्धीनां च स्वार्थे सम्बन्धाभावात् तथा संवादासिद्धेः । स्यान्मतं- 'द्विविधोऽर्थो, लौकिकोऽलौकिकश्च । यत्र लोकस्य परितोषः स लौकिकः सत्यत्वाभिमतज्ञानविषयः । यत्र न लोकस्य परितोषः शास्त्रविदां तु सन्तोषः सोऽलौकिकोऽर्थः स्वप्नादिबुद्धिविषयः, सर्वथाप्य - विद्यमानस्य प्रतिभासवचनासम्भवात् खरविषाणानुत्पन्नप्रध्वस्तविषयशब्दज्ञानानामपि लोकागोचरालौकिकार्थविषयत्वाद्' इति तदेतदलौकिकमेव, जाग्रत्प्रत्यया निरालम्बना एव प्रत्ययत्वात् स्वप्नप्रत्ययवदिति परार्थानुमानप्रत्ययस्यास्वार्थप्रतिबद्धत्वे तेनैव चेतस्त्वस्य विषयाकारनिर्भासस्य च हेतोर्व्यभिचारात् स्वार्थप्रतिबद्धत्वे च सर्ववेदनानां सालम्बनत्वविरोधात् । अस्यालौकिकार्थालम्बनत्वान्न लौकिकार्थालम्बनत्वे साध्ये हेतोर्व्यभिचारो विरोधो वेति चेत्, न, लौकिकालौकिकार्थालम्बनशून्यत्वानुमानेन हेतोर्व्यभिचारविरोधयोस्तदवस्थत्वात् । न चैवंविधार्थानां परस्परविरुद्धानां सकृत्सम्भव इति न बहिरङ्गार्थतैकान्तः श्रेयोऽनन्तरङ्गार्थतैकान्तवत् ॥८१॥
अष्टसहस्त्रीतात्पर्यविवरणम्
प्रमाणाभासस्य=तदभाववद्विशेष्यकतत्प्रकारकज्ञानस्य निह्नवात् सर्वेषां विरुद्धार्थवादिनां प्रकृतीश्वराद्यभ्युपगन्तॄणामुपचरितवादिनां स्वप्नादिद्रष्टृणां च वाङ्मात्रेण कार्यसिद्धिः स्यात् तद्वचनज्ञानयोरर्थाव्यभिचारित्वादिति भावः । स्यान्मतमित्यादिना मीमांसकः शङ्कते । खरविषाणानुत्पन्नेत्यादि खरविषाणादीनां दृश्यानामसत्त्वेऽपि विकल्पानां सतां विकल्पबुद्धौ मानादलौकिकत्वमिति भावः । एतन्मतं दूषयति - तदेतदलौकिकमेवेत्यादिना ।
T॥ अष्टविधख्यातिवादः ॥
न चैवंविधार्थानामिति अलौकिकलौकिकार्थालम्बनशून्यत्वसिद्धावुभयार्था