________________
५८६
अष्टसहस्त्रीतात्पर्यविवरणम् नियमस्यासिद्धेः । किञ्च
(भा०) सहोपलम्भनियमश्च स्याद् भेदश्च स्यात् किं विप्रतिषिध्येत ? स्वहेतुप्रतिनियमसम्भवात्,
इति सन्दिग्धव्यतिरेको हेतुर्न विज्ञप्तिमात्रतां साधयेत् । (भा०) तस्मादयं विज्ञानवादी
(भा०) मिथ्यादृष्टिः परप्रत्यायनाय शास्त्रं विदधानः परमार्थतः संविदानो वा वचनं तत्त्वज्ञानं च प्रतिरुणद्धीति न किञ्चिदेतत्, असाधनाङ्गवचनाददोषोद्भावनाच्च निग्रहार्हत्वात् ।
न ह्यस्य वचनं किञ्चित्साधयति दूषयति वा, यतस्तद्वचनं साधनाङ्गं दोषोद्भावनं वा स्यात् । नाऽपि किञ्चित्संवेदनमस्य सम्यगस्ति, येन मिथ्यादृष्टिर्न भवेत् । संविदद्वैतमस्तीति चेत्, न तस्य स्वतः परतो वा ब्रह्मवदप्रतिपत्तेर्यथासंवेदनं मिथ्यात्वसिद्धेः । तदेवं नान्तरङ्गार्थतैकान्ते बुद्धिर्वाक्यं वा सम्यगुपायतत्त्वं सम्भवतीति स्थितम् ॥८०॥
बहिरङ्गार्थतैकान्ते प्रमाणाभासनिह्नवात् ।। सर्वेषां कार्यसिद्धिः स्याद्विरुद्धार्थाभिधायिनाम् ॥८१॥
[बहिरङ्गार्थतैकान्तमान्यतायां दोषानाहुः जैनाचार्याः ।] (भा०) यत्किञ्चिच्चेतस्तत्सर्वं साक्षात्परम्परया वा बहिरर्थप्रतिबद्धम् । यथाग्निप्रत्यक्षतरवेदनम् । स्वप्नदर्शनमपि चेतः, तथा विषयाकारनिर्भासात् ।
अष्टसहस्त्रीतात्पर्यविवरणम् इत्याह-किञ्चेत्यादिना । संविदानो वा इत्यत्र वयःशक्तिशील० [सिद्धिहेम० ५.२.२४] इति सूत्रविहितः शानप्रत्ययो द्रष्टव्यः, तेन न सकर्मकस्य संपूर्वकविद्धातोरात्मनेपदप्रत्ययस्यानुपपत्तिदोष उद्भावनीयः ॥८०॥
बहिरङ्गाथैकान्ता इति यत्र यो यथा प्रतीयते तत्र स तथाऽस्त्येवेत्येकान्ताभ्युपगमे,