________________
५८५
द्वितीयो भागः [ परि०७-का० ८०]
(भा०) तथोत्पत्तेरेव संवेदनत्वात् । संविदितानामेवोत्पत्तेः द्विचन्द्रदर्शनवदिति
(भा०) दृष्टान्तोऽपि साध्यसाधनविकलः, तथोपलम्भाभेदयोरर्थे प्रतिनियमाद् भ्रान्तौ तदसम्भवात्, ।
सम्भवे तद्भ्रान्तित्वविरोधात् । (भा०) ननु चासहानुपलम्भमात्रादभेदमात्रं ।
साधनात्साध्यरूपं भ्रान्तादपि सम्भवति, अभावेऽभावयोः सम्भवाविरोधात् । ततो न साध्यसाधनविकलो दृष्टान्त इति न शक्यप्रतिष्ठं ।
(भा०) कथञ्चिदर्थस्वभावानवबोधप्रसङ्गात् सर्वविज्ञानस्वलक्षणक्षयविविक्तसन्ततिविभ्रमस्वभावानुमितेः साकल्येनैकत्वप्रसङ्गात् ।
तदन्यापोहमात्राद्धेतोरन्यापोहमात्रस्यैव सिद्धेरर्थस्वभावानवबोधात् । किञ्च सकृदुपलम्भनियमे हेत्वर्थे सति
__(भा०) एकार्थसङ्गतदृष्टयः परचित्तविदो वा नावश्यं तद्बुद्धि तदर्थं वा संविदन्तीति हेतोरसिद्धिः,
अष्टसहस्त्रीतात्पर्यविवरणम्
दैवोपलम्भ इति आशङ्कायाम् आह-तासामिति तासाम्=एकक्षणवृत्तिसंवित्तीनाम्, तथोत्पत्तेरेव सहोत्पत्तेरेव, संवेदनत्वात् संवेदनस्वरूपत्वात्, तथा च सहोत्पत्तिनियम एव स्वरूपतः सहोपलम्भनियमो न च तासु स्वलक्षणैकत्वमिति व्यभिचारः स्पष्ट इत्यर्थः । सम्भव इति एकत्वोपलम्भस्य द्वित्वभ्रमप्रतिबन्धकत्वादिति भावः । अर्थस्वभावानवबोधादिति अन्यापोहमात्रैकत्वसिद्धावपि संविदोऽर्थाकारत्वासिद्धः, तथा चार्थसंशयस्ततो न निवर्तेतेत्यायातमान्ध्यं जगत इति भावः । संवृत्याऽर्थबोध: स्यादित्याशङ्क्याहकिञ्चेत्यादिना । एकार्थसङ्गतदृष्टय इत्यनेनार्थोपलम्भे तद्विषयपरज्ञानोपलम्भस्य, परचित्तविदो वा इत्यनेन च ज्ञानोपलम्भेऽर्थोपलम्भस्य व्यभिचारप्रदर्शनान्नियमखण्डनं कृतं, दृश्यते ह्ययं व्यवहार एनमर्थं जानामि न त्वेतद्विषयां परबुद्धि, राज्ञश्चित्तं सन्तुष्टं जानामि न तु तद्विषयं सन्तोषकारणमिति सूक्तमेतत् । अप्रयोजकतयाऽपि त्वदुक्तो हेतुः साध्यासाधक