________________
५८४
अष्टसहस्त्रीतात्पर्यविवरणम् तदन्यव्यावृत्तेरास्वभावत्वादेकत्वेन भावस्वभावेन सह तदयोगात् ।
(भा०) सिद्धेऽपि प्रतिषेधैकान्ते विज्ञप्तिमात्रं न सिद्धयेत्, तदसाधनात् । तत्सिद्धो तदाश्रयं दूषणमनुषज्येत
ग्राह्यग्राहकभावसिद्धिलक्षणं तद्वद् बहिरर्थसिद्धिप्रसञ्जनं चाविशेषात् । (भा०) तदेकोपलम्भनियमोऽप्यसिद्धः, साध्यसाधनयोरविशेषात् ।
साध्यं हि नीलतद्धियोरेकत्वम् । तदेकोपलम्भोऽपि तदेव, ज्ञानस्यैकस्योपलम्भादिति हेत्वर्थव्याख्यानात्, सहशब्दस्यैकपर्यायत्वात् सहोदरो भ्रातेत्यादिवत् ।
(भा०) तथैकज्ञानग्राह्यत्वं द्रव्यपर्यायपरमाणुभिरनैकान्तिकम् ।
द्रव्यपर्यायौ हि जैनानामेकमतिज्ञानग्राह्यौ, न च सर्वथैकत्वं प्रतिपद्यते । सौत्रान्तिकस्य च सञ्चिता रूपादिपरमाणवश्चक्षुरादिज्ञानेनैकेन ग्राह्याः, सञ्चिता लम्बनाः पञ्च विज्ञानकायाः इति वचनात् [ ] । न चैक्यं प्रतिपद्यन्ते । तथा योगाचारस्यापि सकलविज्ञानपरमाणवः सगतज्ञानेनैकेन ग्राह्याः, न चैकत्वभावः इति तैरनैकान्तिकं साधनमनुषज्यते । नीलतद्धियोरैक्यमनन्यवेद्यत्वात् स्वसंवेदनवदित्यत्रापि परेषाम्
(भा० ) अनन्यवेद्यत्वमसिद्धं,
नीलज्ञानादन्यस्य नीलस्य वेद्यत्वात् । एतेनैकलोलीभावेनोपलम्भः सहोपलम्भश्चित्रज्ञानाकारवदशक्यविवेचनत्वं साधनमसिद्धमुक्तं, नीलतद्वेदनयोरशक्यविवेचनत्वासिद्धेरन्तर्बहिर्देशतया विवेकेन प्रतीतेः । यदि पुनरेकदोपलम्भः सहोपलम्भ इति व्याख्यायते तदा ।
(भा० ) एकक्षणवर्तिसंवित्तीनां साकल्येन सहोपलम्भनियमाव्यभिचारी हेतुः ।
तासां
अष्टसहस्रीतात्पर्यविवरणम् सञ्चितमालम्बनं विषयो येषां ते तथा पञ्चविज्ञानकायाः पञ्चेन्द्रियविज्ञानस्कन्धाः । परेषां= बाह्यार्थवादिनाम् । ननु एकक्षणवतिसंवित्तीनामेकदैवोत्पत्तावपि कथमेक