________________
द्वितीयो भागः [ परि० ७-का० ८०]
५८३ तदविनाभाविनि विचारस्य प्रवृत्तेः, सर्वविप्रतिपत्तौ तु क्वचिद्विचारणानवतरणाद् इति विचारात्पूर्वमपि विचारान्तरेण निर्णीते एव साध्यसाधनव्यवहारस्तद्गुणदोषस्वभावश्च निश्चीयते । न चैवमनवस्था, संसारस्यानादित्वात् क्वचित्कस्यचित्कदाचिदाकाङ्क्षानिवृत्तेर्विचारान्तरानपेक्षणात् । ततो युक्तमेव स्याद्वादिनः प्रतिज्ञादोषोद्भावनं हेतुदोषोद्भावनं च । तथा हि- अयं
(भा० ) पृथगनुपलम्भाद्भेदाभावमात्रं साधयेत् नीलतद्धियोः । (भा० ) तच्चासिद्धं, सम्बन्धासिद्धेरभावयोः खरशृङ्गवत् ।
सिद्धे हि धूमपावकयोः कार्यकारणभावे सम्बन्धे कारणाभावात्कार्यस्याभावः सिद्ध्यति । सति च शिंशपात्ववृक्षत्वयोप्प्यव्यापकभावे व्यापकाभावाद् व्याप्याभावो, नान्यथा । न चैवं भेदपृथगुपलम्भयोः सम्बन्धः क्वचित्सिद्धो, विरोधाद्विज्ञप्तिमात्रवादिनो यतः पृथगुलम्भाभावो भेदाभावं साधयेत् इति न निश्चितो हेतुः ।
(भा०) एतेनासहानुपलम्भादभेदसाधनं प्रत्युक्तं , भावाभावयोः सम्बन्धासिद्धेः,
अविशेषात् । ( भा० ) तादात्म्यतदुत्पत्त्योरर्थस्वभावनियमात् ।
अष्टसहस्रीतात्पर्यविवरणम्
वस्थायाश्चानादित्वेन निरासान्नानुपपत्तिरिति वाच्यम्, असत्ख्यातेरनिर्वचनीयख्यातेश्च निरासेनाविद्याजनितविचारेण व्यवहारव्यवस्थायाः कर्तुमशक्यत्वात् । न च नानाविधविप्रतिषिद्धव्यवहाराणामन्यतरविधिनिषेधयोरविद्या प्रगल्भते, न च सर्वेषामेव तेषां तत्त्वदिक्प्रदर्शकत्वेनादुष्टत्वम् असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहत [वाक्यपदीय २.२३८] इति वचनादिति वाच्यम्, सर्वपक्षपरिग्रहापत्त्या तत्त्वसङ्करापत्तेः, पिटकत्रयप्रदशिता एव विचारा अदुष्टा न वेदान्तादिप्रदर्शिता इत्यत्र च न किञ्चिन्मानमस्तीति विचारितं बहुशः । एतेन= भेदाभावसिद्धिनिराकरणेन । अभेदसाधनं विधिरूपाभेदसाधनं । सञ्चितालम्बना इति