________________
५८२
अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) सहोपलम्भनियमादभेदो नीलतद्धियोर्द्विचन्द्रदर्शनवदित्यत्रार्थसंविदोः सहदर्शनमुपेत्यैकत्वैकान्तं साधयन् कथमवधेयाभिलापः ? ।
स्वोक्तधर्मर्मिभेदवचनस्य हेतुदृष्टान्तभेदवचनस्य चाद्वैतवचनेन विरोधात्, संविदद्वैतवचनस्य च तद्भेदवचनेन व्याघातात्, तद्वचनज्ञानयोश्च भेदे तदेकत्वसाधनाभिलापविरोधात्, तदभिलापे वा तद्भेदविरोधाद् इति स्ववचनयोर्विरोधाद् बिभ्यत्
(भा०) स्वाभिलापाभावं वा स्ववाचा प्रदर्शयन्कथं स्वस्थः ? ।
सदा मौनव्रतीकोऽहमित्यभिलापवत् स्ववचनविरोधस्यैव स्वीकरणात् । तथा विज्ञानवादिनोऽप्रसिद्धविशेष्यत्वमप्रसिद्धविशेषणत्वं च प्रतिज्ञादोषः स्यात्, नीलतद्धियोविशेष्ययोस्तदभेदस्य च विशेषणस्य स्वयमनिष्टेः । पराभ्युपगमेन प्रसङ्गसाधनस्योपन्यासाददोष इति चेत्, न, तस्य परासिद्धेस्तदभ्युपगमाप्रसिद्धेश्च प्रसङ्गसाधनासम्भवात् । साधनसाध्यधर्मयोर्व्याप्यव्यापकभावसिद्धौ हि सत्यां परस्य व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयको यत्र प्रदर्श्यते तत्प्रसङ्गसाधनम् । न चैतद्विज्ञप्तिमात्रवादिनः सम्भवति, विरोधात् । ननु स्याद्वादिनोऽपि तद्दोषोद्भावनमयुक्तं विज्ञप्तिमात्रवादिनं प्रति, तस्य तदसिद्धेः, विज्ञप्तिमात्रव्यतिरेकेण दोषस्याप्यभावाद्, गुणवत् । स्वाभ्युपगममात्रादेव तत्सम्भवः, परस्य विज्ञप्तिमात्रसाधनात्पूर्वं यथाप्रतीति वस्तुनो व्यवस्थानादिति समाधाने तत एव सौगतस्यापि तदेव समाधानमस्तु, विचारात्पूर्वं सर्वस्याविचारितरमणीयेन रूपेण यथाप्रतीति साध्यसाधनव्यवहारप्रवृत्तेरन्यथा विचाराप्रवृत्तेः । सिद्धे तु विज्ञप्तिमात्रे न कश्चित्साध्यसाधनव्यवहारं प्रतनोति सौगतो, नापि परेषां तद्दोषोद्भावनेऽवकाशोऽस्ति, इति केचित्, तेऽपि न विचारचतुरचेतसः, किञ्चिन्निर्णीतमाश्रित्यान्यत्रानिर्णीतरूपे
अष्टसहस्त्रीतात्पर्यविवरणम् स्वाभिलाप्य भावं स्वेन ज्ञानेनैवाभिलाप्यभावम्, स्ववचनविरोधस्यैवेति अभिलापेऽभिलाप्यत्वस्यानभिलापे ज्ञानेऽभिलापात्मत्वस्य चोक्तौ विरोधस्य स्पष्टत्वादित्यर्थः । स्वयमनिष्टेरिति अन्यथा साकारत्वप्रसङ्गादित्यर्थः । विचारात्पूर्वमपीति न च विज्ञप्तिवादिनस्तत्त्वज्ञानात्पूर्वमविद्याविलासजनितेन विचारान्तरेण साध्यसाधनभावव्यवस्थितेरन
१. स्वाभिलाप्याभावमिति अष्टसहस्रीसम्मतः पाठः ।