________________
द्वितीयो भागः [ परि. ७-का० ८०]
५८१ वेद्यस्य विज्ञानवादिना तज्जन्मादेरनैकान्तिकत्वदोषवचनात् । संवित्क्षणिकत्वादावनुमानवेदनस्य
(भा०) तत्सम्भवे नान्यत्र । बहिरर्थे (भा०) तदसम्भवोऽभिधेयः सर्वथा विशेषाभावात् ।
( भा०) तत्स्वपरपक्षयोः सिद्धयसिद्ध्यर्थं किञ्चित्कथञ्चित्कुतश्चिदवितथज्ञानमादरणीयमन्यथाशेषविभ्रमासिद्धेः ।
ननु किञ्चित्संविदद्वैतं कथञ्चित्संविदात्मना कुतश्चित्स्वतः सत्यप्रतिभासनमाद्रियत एव, स्वरूपस्य स्वतो गतिरिति वचनाद् इति चेत्, न, स्वरूपेऽपि वेद्यवेदकलक्षणाभावे तदघटनात् पुरुषाद्वैतवत् ।
(भा०) एतेन यद् ग्राह्यग्राहकाकारं तत्सर्वं विभ्रान्तं, यथा स्वप्नेन्द्रजालादिज्ञानं तथा च प्रत्यक्षादिकमिति प्रतिविहितं वेदितव्यं ।
भ्रान्तत्वप्रकृतानुमानज्ञानयोर्लाह्यग्राहकाकारयोरभ्रान्तत्वे ताभ्यामेव हेतोळभिचारात्, तद्भ्रान्तत्वे ततः सर्वस्य भ्रान्तत्वप्रसिद्धः, सर्वभ्रान्तौ साध्यसाधनविज्ञप्तेरसम्भवात्तद्व्याप्तिविज्ञप्तिवत्, सम्भवे सर्वविभ्रमासिद्धेः ॥७९॥
साध्यसाधनविज्ञप्तेर्यदि विज्ञप्तिमात्रता । न साध्यं न च हेतुश्च प्रतिज्ञाहेतुदोषतः ॥८०॥
[यदि विज्ञानमात्रं तत्त्वं भवेत्तहि साध्यहेतू उभौ न सम्भवतः ।] प्रतिज्ञादोषस्तावत्स्ववचनविरोधः साध्यसाधनविज्ञानस्य विज्ञप्तिमात्रमभिलपतः प्रसज्यते । तथाहि
- अष्टसहस्त्रीतात्पर्यविवरणम् - इत्यर्थः । नान्यत्रेति सर्व भ्रान्तं ग्राह्यग्राहकाकारक्रोडीकृतत्वादित्यस्य संवित्क्षणिकत्वानुमानेनैवानैकान्तिकत्वादित्यर्थः ॥७९॥