________________
५८०
अष्टसहस्त्रीतात्पर्यविवरणम् व्यवसायाभावे तु बुद्धीनामभ्यासादपि तथानुपलम्भात् ।
(भा०) न हि तथा बुद्धयः संविद्रते? [विदन्ते ] यथा व्यावर्ण्यन्ते । क्षणिकत्वाद्यात्मनान्यथैव तासां प्रतिभासनाभ्याससिद्धेः । (भा०) नापि परतः क्षणिकत्वादि सिद्धयति (भा०) सम्बन्धप्रतिपत्तेरयोगात् ।
न हि सत्वादेलिङ्गस्य क्षणिकत्वादिना व्याप्त्या सम्बन्धप्रतिपत्तिः प्रत्यक्षतो युज्यते, तस्य सन्निहितविषयबलोत्पत्तेरविचारकत्वाच्च । नाप्यनुमानादनवस्थानादिति प्रागेव प्ररूपणात् ।
(भा०) स्वांशमात्रावलम्बिना मिथ्याविकल्पेन प्रकृततत्त्वव्यवस्थापने बहिरर्थेष्वष्यविरोधात् ।
क्षणिकत्वादिव्यवस्थापनमस्तु सौत्रान्तिकादीनाम्, अविशेषात् । तथाहि(भा०) कथञ्चिदत्र वेद्यलक्षणं यदि व्यवतिष्ठेत तदा (भा०) तत्प्रकृतं । संविदां क्षणिकत्वादिसाधनं लैङ्गिकज्ञानेन (भा०) कृतं स्यान्नान्यथा । न चानुक्तदोषं लक्षणमस्ति ।
- अष्टसहस्रीतात्पर्यविवरणम् ज्ञानरूपप्रमाणान्तरस्य स्वतोऽव्यवसायस्यापि दर्शनस्याभ्यासादेनिश्चायकता भविष्यतीत्याशङ्कायामाह-व्यवसायाभावे त्विति तथा च सविकल्पकज्ञानरूपाभ्याससहकृतदर्शनस्य निश्चायकत्वं सहकृतेत्यादेर्व्यर्थत्वात्, अन्यथा तादृशाकाशादेरपि तथात्वप्रसङ्गादिति भावः । तर्हि मासिधत् क्षणिकत्वादिसंविदां स्वतः, परत एव सेत्स्यतीत्याशङ्कायामाह-नापि परत इत्यादि । भाष्ये स्वांशेति स्वांशो दृश्यविकल्पैकत्वाभिप्रायेण प्रातीतिकसम्बन्धेन प्रकृततत्त्वघटक: सामान्याकारः, नान्यथेति दृष्टान्ताभावादिति भावः । तत्सम्भव इति वेद्यसम्भव