________________
द्वितीयो भाग: [ परि० ७ - का० ७९ ]
प्रमाणं मृग्यम् ।
न हि प्रमाणाभावे तज्जन्मताद्रूप्यतदध्यवसायान् प्रत्येकं वेद्यवेदकलक्षणं चक्षुषा समानार्थसमनन्तरवेदनेन शुक्तिकायां रजताध्यवसायेन च व्यभिचारयितुमीशः, सह वा समानार्थसमनन्तरज्ञानेन कमलाद्युपहतचक्षुषः शुक्ले शङ्खे पीताकारज्ञानसमनन्तरज्ञानेन वा सौत्रान्तिकान्प्रति व्यभिचारि प्रतिदर्शयेत् । कथं वा कार्यनिमित्तकारणत्वं तल्लक्षणं यौगान्प्रत्यनैकान्तिकं व्यवस्थापयेत् ? कथं च कार्यकारणभावाख्यं प्रभवं कांश्चन प्रति योग्यतां वा तल्लक्षणतया व्यभिचारयेत् ? कथं च संवित्तिरेव खण्डशः प्रतिभासमाना वेद्यवेदकादिव्यवहाराय प्रकल्पते इत्यभिनिवेशं वा विदधीत ? यतो न प्रमाणं मृगयते । किञ्चास्य विज्ञानवादिनः संविदां
५७९
( भा० ) क्षणिकत्वमनन्यवेद्यत्वं नानासन्तानत्वमिति स्वतस्तावन्न सिद्ध्यति, भ्रान्तेः,
स्वप्नवत् । स्वसंवेदनात्स्वतः सिद्ध्यतीति चेत्, न, क्षणिकत्वेनानन्यवेद्यत्वेन नानासन्तानत्वेन च नित्यत्वेन सर्ववेद्यत्वेनैकत्वेनेव परब्रह्मणः स्वसंवेदनाभावात् । भा० ) तथात्मसंवेदनेऽपि व्यवसायवैकल्ये प्रमाणान्तरापेक्षयानुपलम्भकल्पत्वात् ।
तस्य प्रमाणान्तरानपेक्षस्यैव व्यवसायात्मनः संवेदनस्योपलम्भत्वव्यवस्थितेः, अष्टसहस्त्रीतात्पर्यविवरणम्
तज्जन्यं तद्ग्राहकमर्थज्ञानं वेदकं, ताद्रूप्यपक्षे ज्ञानगतो नीलाद्याकारो वेद्यः, नीलाकारं ज्ञानं वेदकं, तदध्यवसायपक्षे दृश्यविकल्पैकीकरणादध्यवसेयं वेद्यम्, अध्यवसायो वेदकः । चक्षुषेत्यादिना तज्जन्मादेरेकैकस्य क्रमशो व्यभिचारस्थानत्रयप्रदर्शनम्, प्रमाणाभावाच्च तदनीशत्वापादनं कृतं विज्ञानवादिनः, सह वेत्यनेन च समुदितत्रयस्य व्यभिचारप्रदर्शनपूर्वमुक्तहेतोरेव तदनीशत्वं बोध्यते इति विवेकः । कांश्चन प्रति योग्यतामिति जैनापेक्षया । क्षणिकत्वेनेत्यादि स्वरूपमात्रसंवेदने स्वसंवेदनसामर्थ्येऽपि क्षणिकत्वादिधर्मप्रकारकप्रतिपत्तावसामर्थ्यादित्यर्थः । नन्वक्षणिकादिव्यावृत्तिरेव क्षणिकत्वादिकं तच्च धर्मिरूपं स्वत एव भोत्स्यते बाधकाभावादित्याशङ्कायामाह-तथात्मसंवेदनेऽपीत्यादिना । प्रमाणान्तरापेक्षयेति यत्रैव जनयेदेनामित्याद्युक्तेरिति भावः । तस्य = उपजीव्यस्य, सविकल्पक