________________
॥ सप्तमः परिच्छेदः ॥ अन्तरङ्गार्थतैकान्ते बुद्धिवाक्यं मृषाखिलम् । प्रमाणाभासमेवातस्तत् प्रमाणाहते कथम् ॥७९॥
निर्दिष्टो यः शास्त्रे हेत्वागमनिर्णयः प्रपञ्चेन । गमयत्यष्टसहस्त्री सक्षेपात्तमिह सामर्थ्यात् ॥१॥
[विज्ञानाद्वैतवादी बौद्धः विज्ञानमात्रं तत्त्वं मन्यते तस्य निराकरणम् ।]
अन्तरङ्गस्यैव स्वसंविदितज्ञानस्यार्थता वस्तुता, न बहिरङ्गस्य जडस्य प्रतिभासानहस्येत्येकान्तोऽन्तरङ्गार्थतैकान्तः । तस्मिन्नभ्युपगम्यमानेऽखिलं बुद्धिवाक्यं हेतुवादाहेतुवादनिबन्धनमुपायतत्त्वं मृषैव स्यात्, यतश्च मृषा स्यादत एव प्रमाणाभासमेव, प्रमाणस्य सत्यत्वेन व्याप्तत्वात्, मृषात्वेन प्रमाणाभासस्य व्याप्तेः । तच्च प्रमाणाभासं प्रमाणाहते कथं सम्भवेत् ? तदसम्भवे तद्व्यवहारमवास्तवमेवायं स्वप्नव्यवहारमिव संवृत्यापि कथं प्रतिपद्यते ? ।
(भा० ) तज्जन्मकार्यप्रभावादि वेद्यवेदकलक्षणमनैकान्तिकमादर्श्य संवित्तिरेव खण्डशः प्रतिभासमाना व्यवहाराय कल्प्यते इत्यभिनिवेशेऽपि
-
अष्टसहस्त्रीतात्पर्यविवरणम्
सारङ्गा रङ्गभाजो हरिषु करियुता भोगिनस्तार्क्ष्यमध्ये नाखुर्मार्जारमुग्रं गणयति न च गौर्व्याघ्रबालं करालम् । देवा हेवाकभाजोऽसुरततिमिलने यत्प्रभावात्सभायां
स श्रीपार्श्वः प्रसन्नो भवतु मयि कृपाकौमलैग्विलासैः ॥ (स्रग्धरा) सप्तमेऽन्तरङ्गबहिरङ्गाथै कान्तनिरासाय प्रक्रमः । तज्जन्मेति तज्जन्मपक्षेऽर्थो वेद्यः,